००१

ॐ श्रीविष्णवे नमः

विश्वास-प्रस्तुतिः

ॐ श्रीवेदव्यासाय नमः
ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥

मूलम्

ॐ श्रीवेदव्यासाय नमः
ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥

विश्वास-प्रस्तुतिः

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २ ॥

मूलम्

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २ ॥

विश्वास-प्रस्तुतिः

ऋषय ऊचुः -
श्रुतं पातालखण्डं च त्वयाख्यातं विदांवर
नानाख्यानसमायुक्तं परमानन्ददायकम् ॥ ३ ॥

मूलम्

ऋषय ऊचुः -
श्रुतं पातालखण्डं च त्वयाख्यातं विदांवर
नानाख्यानसमायुक्तं परमानन्ददायकम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

अधुना श्रोतुमिच्छामो भगवद्भक्तिवर्द्धनम्
पाद्मे यच्छेषमस्तीह तद्ब्रूहि कृपया गुरो ॥ ४ ॥

मूलम्

अधुना श्रोतुमिच्छामो भगवद्भक्तिवर्द्धनम्
पाद्मे यच्छेषमस्तीह तद्ब्रूहि कृपया गुरो ॥ ४ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
शृणुध्वं मुनयः सर्वे यदुक्तं शङ्करेण हि
पृच्छते नारदायैव विज्ञानं पापनाशनम् ॥ ५ ॥

मूलम्

सूत उवाच-
शृणुध्वं मुनयः सर्वे यदुक्तं शङ्करेण हि
पृच्छते नारदायैव विज्ञानं पापनाशनम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

एकादा नारदो लोकान्पर्यटन्भगवत्प्रियः
गतोऽद्रि मन्दरं शम्भुं प्रष्टुं किञ्चिन्मनोगतम् ॥ ६ ॥

मूलम्

एकादा नारदो लोकान्पर्यटन्भगवत्प्रियः
गतोऽद्रि मन्दरं शम्भुं प्रष्टुं किञ्चिन्मनोगतम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तत्रासीनमुमानाथं प्रणिपत्य शिवाज्ञया
उपविष्टः समादिष्ट आसनेऽभिमुखो विभोः ॥ ७ ॥

मूलम्

तत्रासीनमुमानाथं प्रणिपत्य शिवाज्ञया
उपविष्टः समादिष्ट आसनेऽभिमुखो विभोः ॥ ७ ॥

विश्वास-प्रस्तुतिः

नारद उवाच
पप्रच्छ इदमेवेशं यन्मां पृच्छथ सत्तमाः
भगवन्देवदेवेश पार्वतीश जगद्गुरो ॥ ८ ॥

मूलम्

नारद उवाच
पप्रच्छ इदमेवेशं यन्मां पृच्छथ सत्तमाः
भगवन्देवदेवेश पार्वतीश जगद्गुरो ॥ ८ ॥

विश्वास-प्रस्तुतिः

भगवत्तत्वविज्ञानं येन स्यात्तन्ममादिश
शिव उवाच
शृणु नारद वक्ष्यामि पुराणं वेदसम्मितम् ॥ ९ ॥

मूलम्

भगवत्तत्वविज्ञानं येन स्यात्तन्ममादिश
शिव उवाच
शृणु नारद वक्ष्यामि पुराणं वेदसम्मितम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
प्रथमोत्तरकीर्तिः स्यात्पर्वताख्यानमेव च ॥ १० ॥

मूलम्

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
प्रथमोत्तरकीर्तिः स्यात्पर्वताख्यानमेव च ॥ १० ॥

विश्वास-प्रस्तुतिः

जालन्धरं तथाख्यानं श्रीशैलाख्यं ततः परम्
हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा ॥ ११ ॥

मूलम्

जालन्धरं तथाख्यानं श्रीशैलाख्यं ततः परम्
हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा ॥ ११ ॥

विश्वास-प्रस्तुतिः

प्रयागतीर्थं ते वक्ष्ये दशाश्वमेधिकं च तत्
तुलसीमहिमाचैव शङ्खचक्रगदादिकम् ॥ १२ ॥

मूलम्

प्रयागतीर्थं ते वक्ष्ये दशाश्वमेधिकं च तत्
तुलसीमहिमाचैव शङ्खचक्रगदादिकम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

द्वारकायास्तथाख्यानं महोत्सवविधिस्ततः
तडाकजं तथा पुण्यं वापीकूपप्रपादिकम् ॥ १३ ॥

मूलम्

द्वारकायास्तथाख्यानं महोत्सवविधिस्ततः
तडाकजं तथा पुण्यं वापीकूपप्रपादिकम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

गाणपत्यं ततो वक्ष्ये वैष्णवागममेव च
जीर्णोद्धारस्य माहात्म्यं मन्दाकिनी समागमम् ॥ १४ ॥

मूलम्

गाणपत्यं ततो वक्ष्ये वैष्णवागममेव च
जीर्णोद्धारस्य माहात्म्यं मन्दाकिनी समागमम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

साभ्रमत्यास्तु माहात्म्यं माहात्म्यं तीरजं तथा
स्त्रीशूद्राणां तथा धर्मं तथा त्याज्यैश्च धारणम् ॥ १५ ॥

मूलम्

साभ्रमत्यास्तु माहात्म्यं माहात्म्यं तीरजं तथा
स्त्रीशूद्राणां तथा धर्मं तथा त्याज्यैश्च धारणम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

उमामहेशसंवादे प्रोक्तं नामसहस्रकम्
कैलासात्तत्समानीतं नारदेनाग्रजन्मना ॥ १६ ॥

मूलम्

उमामहेशसंवादे प्रोक्तं नामसहस्रकम्
कैलासात्तत्समानीतं नारदेनाग्रजन्मना ॥ १६ ॥

विश्वास-प्रस्तुतिः

लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः
स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितैः ॥ १७ ॥

मूलम्

लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः
स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितैः ॥ १७ ॥

विश्वास-प्रस्तुतिः

इदं पवित्रं परमं पुण्यमायुष्यवर्धनम्
पठितव्यं विशेषेण विष्णोः सायुज्यमाप्नुयात् ॥ १८ ॥

मूलम्

इदं पवित्रं परमं पुण्यमायुष्यवर्धनम्
पठितव्यं विशेषेण विष्णोः सायुज्यमाप्नुयात् ॥ १८ ॥

विश्वास-प्रस्तुतिः

विष्णोर्नामसहस्रं तत्पावनं भुवि विश्रुतम्
चतुर्विंशतिमूर्तीनां स्थानकानीह संवदेत् ॥ १९ ॥

मूलम्

विष्णोर्नामसहस्रं तत्पावनं भुवि विश्रुतम्
चतुर्विंशतिमूर्तीनां स्थानकानीह संवदेत् ॥ १९ ॥

विश्वास-प्रस्तुतिः

तेषां च मातापितरावन्तरं च ब्रवीम्यहम्
गोत्रं वेदांश्चतेषां वै कर्माणीह तथैव च ॥ २० ॥

मूलम्

तेषां च मातापितरावन्तरं च ब्रवीम्यहम्
गोत्रं वेदांश्चतेषां वै कर्माणीह तथैव च ॥ २० ॥

विश्वास-प्रस्तुतिः

स्त्रियस्तेषां प्रवक्ष्यामि यथाविज्ञानदर्शनात्
चतुर्विंशत्येकादशीनां द्वादशीनां प्रभावताम् ॥ २१ ॥

मूलम्

स्त्रियस्तेषां प्रवक्ष्यामि यथाविज्ञानदर्शनात्
चतुर्विंशत्येकादशीनां द्वादशीनां प्रभावताम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

गोदावर्याश्च माहात्म्यं शङ्खचक्रादिधारणम्
ब्राह्मणानां विशेषेण धारणं विधिपूर्वकम् ॥ २२ ॥

मूलम्

गोदावर्याश्च माहात्म्यं शङ्खचक्रादिधारणम्
ब्राह्मणानां विशेषेण धारणं विधिपूर्वकम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

यमुनायाश्च माहात्म्यं गण्डिकायास्तथा मुने
वेत्रवत्यास्तु माहात्म्यं वच्म्यहं ते न संशयः ॥ २३ ॥

मूलम्

यमुनायाश्च माहात्म्यं गण्डिकायास्तथा मुने
वेत्रवत्यास्तु माहात्म्यं वच्म्यहं ते न संशयः ॥ २३ ॥

विश्वास-प्रस्तुतिः

गिल्लितीर्थोद्भवं पुण्यं शिलाक्षेत्रं महच्च यत्
तत्सर्वं सम्प्रवक्ष्यामि खण्डे उत्तरसञ्ज्ञके ॥ २४ ॥

मूलम्

गिल्लितीर्थोद्भवं पुण्यं शिलाक्षेत्रं महच्च यत्
तत्सर्वं सम्प्रवक्ष्यामि खण्डे उत्तरसञ्ज्ञके ॥ २४ ॥

विश्वास-प्रस्तुतिः

अर्बुदेश्वरमाहात्म्यं तत्र तीर्थादिकं च यत्
सरस्वत्याश्च माहात्म्यं सिद्धक्षेत्रादिकं च यत् ॥ २५ ॥

मूलम्

अर्बुदेश्वरमाहात्म्यं तत्र तीर्थादिकं च यत्
सरस्वत्याश्च माहात्म्यं सिद्धक्षेत्रादिकं च यत् ॥ २५ ॥

विश्वास-प्रस्तुतिः

पद्मनाभसमुत्पत्तिं तुलस्याश्चैव धारणम्
गोपीचन्दनमाहात्म्यं पट्टपूजां तथैव च ॥ २६ ॥

मूलम्

पद्मनाभसमुत्पत्तिं तुलस्याश्चैव धारणम्
गोपीचन्दनमाहात्म्यं पट्टपूजां तथैव च ॥ २६ ॥

विश्वास-प्रस्तुतिः

निरञ्जनस्य माहात्म्यं तथा विज्ञानदर्शनम्
तत्र दीपप्रदानं च धूपदानं विशेषतः ॥ २७ ॥

मूलम्

निरञ्जनस्य माहात्म्यं तथा विज्ञानदर्शनम्
तत्र दीपप्रदानं च धूपदानं विशेषतः ॥ २७ ॥

विश्वास-प्रस्तुतिः

कार्तिकस्याथ माहात्म्यं माहात्म्यं माघजं तथा
सर्वेषां च व्रतानां च माहात्म्यं विधिपूर्वकम् ॥ २८ ॥

मूलम्

कार्तिकस्याथ माहात्म्यं माहात्म्यं माघजं तथा
सर्वेषां च व्रतानां च माहात्म्यं विधिपूर्वकम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

शृणु नारद वक्ष्यामि जगन्नाथाख्यमुत्तमम्
यं दृष्ट्वा मुच्यते लोको ब्रह्महत्यादिपातकात् ॥ २९ ॥

मूलम्

शृणु नारद वक्ष्यामि जगन्नाथाख्यमुत्तमम्
यं दृष्ट्वा मुच्यते लोको ब्रह्महत्यादिपातकात् ॥ २९ ॥

विश्वास-प्रस्तुतिः

यत्र सिद्धं तथा भुक्तं पारलौकिकदायकम्
ब्राह्मणा यत्र भुञ्जन्ति वेदशास्त्र विशारदः ॥ ३० ॥

मूलम्

यत्र सिद्धं तथा भुक्तं पारलौकिकदायकम्
ब्राह्मणा यत्र भुञ्जन्ति वेदशास्त्र विशारदः ॥ ३० ॥

विश्वास-प्रस्तुतिः

अन्येषां चैव लोकानां का कथा चैव सुव्रत
पञ्चविंशत्यत्र नागा नर्तक्यो विविधास्तथा ॥ ३१ ॥

मूलम्

अन्येषां चैव लोकानां का कथा चैव सुव्रत
पञ्चविंशत्यत्र नागा नर्तक्यो विविधास्तथा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ब्रह्महत्या बालहत्या गवांहत्या तथैव च
ताः सर्वा विलयं यान्ति जगन्नाथस्य दर्शनात् ॥ ३२ ॥

मूलम्

ब्रह्महत्या बालहत्या गवांहत्या तथैव च
ताः सर्वा विलयं यान्ति जगन्नाथस्य दर्शनात् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

जगन्नाथेत्युच्चरञ्जन्तुर्महापापैः प्रमुच्यते
विष्णोः पूजनकं पुष्पैस्तन्माहात्म्यमपि ब्रुवे ॥ ३३ ॥

मूलम्

जगन्नाथेत्युच्चरञ्जन्तुर्महापापैः प्रमुच्यते
विष्णोः पूजनकं पुष्पैस्तन्माहात्म्यमपि ब्रुवे ॥ ३३ ॥

विश्वास-प्रस्तुतिः

पर्वतानां वर्णनं च देशानां वर्णनं तथा
गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनम् ॥ ३४ ॥

मूलम्

पर्वतानां वर्णनं च देशानां वर्णनं तथा
गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

सिक्थे दत्ते तु यत्पुण्यं तत्सर्वं प्रवदाम्यहम्
कदलीगर्भदानं च वृक्षदानं ततः परम् ॥ ३५ ॥

मूलम्

सिक्थे दत्ते तु यत्पुण्यं तत्सर्वं प्रवदाम्यहम्
कदलीगर्भदानं च वृक्षदानं ततः परम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमम्
मन्त्रदीक्षागमं चैव गुरोर्लक्षणमेव च ॥ ३६ ॥

मूलम्

अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमम्
मन्त्रदीक्षागमं चैव गुरोर्लक्षणमेव च ॥ ३६ ॥

विश्वास-प्रस्तुतिः

शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिका विदुः
चरणोदकमाहात्म्यं पितृश्राद्धादिकं च यत् ॥ ३७ ॥

मूलम्

शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिका विदुः
चरणोदकमाहात्म्यं पितृश्राद्धादिकं च यत् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

पितृक्षयाहदानं च नीलोत्सर्गविधिस्ततः
ग्रहणं चन्द्रसूर्यस्य तत्र दानं च यद्भवेत् ॥ ३८ ॥

मूलम्

पितृक्षयाहदानं च नीलोत्सर्गविधिस्ततः
ग्रहणं चन्द्रसूर्यस्य तत्र दानं च यद्भवेत् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

शालग्रामस्य दानस्य माहात्म्यं माल्यगन्धयोः
दशम्यैकादशीवेधं द्वादशी हरिवासरम् ॥ ३९ ॥

मूलम्

शालग्रामस्य दानस्य माहात्म्यं माल्यगन्धयोः
दशम्यैकादशीवेधं द्वादशी हरिवासरम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

तेषां चैव तुमाहात्म्यं रुद्रनामादिकं च यत्
मथुरायाश्च माहात्म्यं कुरुक्षेत्रादिकं तथा ॥ ४० ॥

मूलम्

तेषां चैव तुमाहात्म्यं रुद्रनामादिकं च यत्
मथुरायाश्च माहात्म्यं कुरुक्षेत्रादिकं तथा ॥ ४० ॥

विश्वास-प्रस्तुतिः

सेतुबन्धस्य चाख्यानं श्रीरामेश्वरजं तथा
त्र्यम्बकस्य च माहात्म्यं पञ्चवट्याश्च यत्फलम् ॥ ४१ ॥

मूलम्

सेतुबन्धस्य चाख्यानं श्रीरामेश्वरजं तथा
त्र्यम्बकस्य च माहात्म्यं पञ्चवट्याश्च यत्फलम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

दण्डकारण्यमाहात्म्यं शृणु वाडवसत्तम
दण्डकारण्यमाहात्म्यं नृसिंहोत्पत्तिकारणम् ॥ ४२ ॥

मूलम्

दण्डकारण्यमाहात्म्यं शृणु वाडवसत्तम
दण्डकारण्यमाहात्म्यं नृसिंहोत्पत्तिकारणम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

गीतायाश्चैव माहात्म्यं तथा भागवतस्य च
कालिन्द्याश्चैव माहात्म्यमिन्द्रप्रस्थस्य वर्णनम् ॥ ४३ ॥

मूलम्

गीतायाश्चैव माहात्म्यं तथा भागवतस्य च
कालिन्द्याश्चैव माहात्म्यमिन्द्रप्रस्थस्य वर्णनम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

रुक्माङ्गदचरित्रं तु महिमा वैष्णवस्य च
वैष्णवे ह्येकभुक्ते तु शृणु वाडवसत्तम ॥ ४४ ॥

मूलम्

रुक्माङ्गदचरित्रं तु महिमा वैष्णवस्य च
वैष्णवे ह्येकभुक्ते तु शृणु वाडवसत्तम ॥ ४४ ॥

विश्वास-प्रस्तुतिः

ससागरां च पृथिवीं दत्त्वा चैव तु यत्फलम्
तत्फलं समवाप्नोति भुक्ते ह्येके तु वैष्णवे ॥ ४५ ॥

मूलम्

ससागरां च पृथिवीं दत्त्वा चैव तु यत्फलम्
तत्फलं समवाप्नोति भुक्ते ह्येके तु वैष्णवे ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सात्विकाः सत्त्वसम्पन्ना राजसाः कामुकाः स्मृताः
तामसा अधमाः प्रोक्ता वैष्णवानां तु लक्षणम् ॥ ४६ ॥

मूलम्

सात्विकाः सत्त्वसम्पन्ना राजसाः कामुकाः स्मृताः
तामसा अधमाः प्रोक्ता वैष्णवानां तु लक्षणम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणा वैष्णवा ये तु वेदधर्मपरायणाः
तेषां माहात्म्यं वक्ष्यामि यथोक्तं चैव नारद ॥ ४७ ॥

मूलम्

ब्राह्मणा वैष्णवा ये तु वेदधर्मपरायणाः
तेषां माहात्म्यं वक्ष्यामि यथोक्तं चैव नारद ॥ ४७ ॥

विश्वास-प्रस्तुतिः

विष्णुनिन्दारता ये वै द्रव्यलोभेन सत्तम
तेषां पापं तु वक्ष्यामि साम्प्रतं ऋषिसत्तम ॥ ४८ ॥

मूलम्

विष्णुनिन्दारता ये वै द्रव्यलोभेन सत्तम
तेषां पापं तु वक्ष्यामि साम्प्रतं ऋषिसत्तम ॥ ४८ ॥

विश्वास-प्रस्तुतिः

ज्वालामुख्यास्तथाख्यानं हिमशैलेक्षणं तथा
ब्रह्मोत्पत्तिस्तु वै यत्र तं प्रदेशं वदाम्यहम् ॥ ४९ ॥

मूलम्

ज्वालामुख्यास्तथाख्यानं हिमशैलेक्षणं तथा
ब्रह्मोत्पत्तिस्तु वै यत्र तं प्रदेशं वदाम्यहम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

कायस्थानां समुत्पतिर्गयाव्याख्यानमेव च
गदाधरस्वरूपं च फल्गुवर्णनमेव च 6.1.॥ ५० ॥

मूलम्

कायस्थानां समुत्पतिर्गयाव्याख्यानमेव च
गदाधरस्वरूपं च फल्गुवर्णनमेव च 6.1.॥ ५० ॥

विश्वास-प्रस्तुतिः

एतेषां चैव माहात्म्यं पाद्मे दृष्टं तथा श्रुतम्
महाबोधस्वरूपं च सकल्केर्यश एव च ॥ ५१ ॥

मूलम्

एतेषां चैव माहात्म्यं पाद्मे दृष्टं तथा श्रुतम्
महाबोधस्वरूपं च सकल्केर्यश एव च ॥ ५१ ॥

विश्वास-प्रस्तुतिः

रामगयाया माहात्म्यं तथा प्रेतशिलाभवम्
ब्रह्मणश्च तथाख्यानं शिलाख्यानं वदाम्यहम् ॥ ५२ ॥

मूलम्

रामगयाया माहात्म्यं तथा प्रेतशिलाभवम्
ब्रह्मणश्च तथाख्यानं शिलाख्यानं वदाम्यहम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

ब्रह्मयोनेस्तथाख्यानमक्षयाख्य वटस्य च
श्राद्धे तत्र महत्पुण्यं यत्तत्सर्वं वदाम्यहम् ॥ ५३ ॥

मूलम्

ब्रह्मयोनेस्तथाख्यानमक्षयाख्य वटस्य च
श्राद्धे तत्र महत्पुण्यं यत्तत्सर्वं वदाम्यहम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

महेश्वरकृतां भक्तिं विष्णुना च महात्मना
अद्यापि काश्यां जपति महारुद्रो ह्यनामयम् ॥ ५४ ॥

मूलम्

महेश्वरकृतां भक्तिं विष्णुना च महात्मना
अद्यापि काश्यां जपति महारुद्रो ह्यनामयम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

माहात्म्यं च ततो वक्ष्ये सागरस्य हि नारद
तिलतर्पणजं पुण्यं यवजं पुण्यमेव च ॥ ५५ ॥

मूलम्

माहात्म्यं च ततो वक्ष्ये सागरस्य हि नारद
तिलतर्पणजं पुण्यं यवजं पुण्यमेव च ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तुलसीदलसंयुक्तं तर्पणं देवजं तथा
तन्माहात्म्यं प्रवक्ष्यामि यथोक्तं ब्रह्मणा मम ॥ ५६ ॥

मूलम्

तुलसीदलसंयुक्तं तर्पणं देवजं तथा
तन्माहात्म्यं प्रवक्ष्यामि यथोक्तं ब्रह्मणा मम ॥ ५६ ॥

विश्वास-प्रस्तुतिः

शङ्खनादस्य माहात्म्यं पुण्यं चासङ्ख्यसञ्ज्ञकम् ॥ ५७ ॥

मूलम्

शङ्खनादस्य माहात्म्यं पुण्यं चासङ्ख्यसञ्ज्ञकम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

रवेर्वारस्य माहात्म्यं योगस्य विष्णुसञ्ज्ञिनः
वैधृतस्य च माहात्म्यं व्यतीपातस्य वै तथा ॥ ५८ ॥

मूलम्

रवेर्वारस्य माहात्म्यं योगस्य विष्णुसञ्ज्ञिनः
वैधृतस्य च माहात्म्यं व्यतीपातस्य वै तथा ॥ ५८ ॥

विश्वास-प्रस्तुतिः

एतत्सर्वं प्रवक्ष्यामि यथोक्तं चैव नारद
अन्नदानं वस्त्रदानं भूमिदानं तथैव च ॥ ५९ ॥

मूलम्

एतत्सर्वं प्रवक्ष्यामि यथोक्तं चैव नारद
अन्नदानं वस्त्रदानं भूमिदानं तथैव च ॥ ५९ ॥

विश्वास-प्रस्तुतिः

शय्यादानं च गोदानं तथा वृषभमेव च
जन्माष्टम्याश्च माहात्म्यं मत्स्यमाहात्म्यमेव च ॥ ६० ॥

मूलम्

शय्यादानं च गोदानं तथा वृषभमेव च
जन्माष्टम्याश्च माहात्म्यं मत्स्यमाहात्म्यमेव च ॥ ६० ॥

विश्वास-प्रस्तुतिः

कूर्ममाहात्म्यं तत्प्रोक्तं वाराहस्य तथैव च
माहात्म्यं च गवादीनां दानानां प्रवदाम्यहम् ॥ ६१ ॥

मूलम्

कूर्ममाहात्म्यं तत्प्रोक्तं वाराहस्य तथैव च
माहात्म्यं च गवादीनां दानानां प्रवदाम्यहम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

प्रह्लादमुखभक्ता ये ये केचिद्भुवि विश्रुताः
तन्माहात्म्यं ततो वक्ष्ये शृणु देवर्षिसत्तम ॥ ६२ ॥

मूलम्

प्रह्लादमुखभक्ता ये ये केचिद्भुवि विश्रुताः
तन्माहात्म्यं ततो वक्ष्ये शृणु देवर्षिसत्तम ॥ ६२ ॥

विश्वास-प्रस्तुतिः

जागरे महिमा चैव दीपदाने कृते च यत्
प्रहरेषु पृथक्पूजाफलं देवर्षिसत्तम ॥ ६३ ॥

मूलम्

जागरे महिमा चैव दीपदाने कृते च यत्
प्रहरेषु पृथक्पूजाफलं देवर्षिसत्तम ॥ ६३ ॥

विश्वास-प्रस्तुतिः

पर्शुरामस्य चाख्यानं रेणुकाया वधस्तथा
ब्राह्मणानां भूमिदानं रामेणैव च यत्कृतम् ॥ ६४ ॥

मूलम्

पर्शुरामस्य चाख्यानं रेणुकाया वधस्तथा
ब्राह्मणानां भूमिदानं रामेणैव च यत्कृतम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

रामस्याश्रमजं पुण्यं वदाम्यहमशेषतः
नर्मदायास्तथाख्यानं पुण्यपूजनयोस्तथा ॥ ६५ ॥

मूलम्

रामस्याश्रमजं पुण्यं वदाम्यहमशेषतः
नर्मदायास्तथाख्यानं पुण्यपूजनयोस्तथा ॥ ६५ ॥

विश्वास-प्रस्तुतिः

दानं वेदपुराणानामाश्रमाणां निरूपणम्
हिरण्यदानपुण्यं च ब्रह्माण्डदानमेव च ॥ ६६ ॥

मूलम्

दानं वेदपुराणानामाश्रमाणां निरूपणम्
हिरण्यदानपुण्यं च ब्रह्माण्डदानमेव च ॥ ६६ ॥

विश्वास-प्रस्तुतिः

पद्मपुराणदानं च खण्डानां व्यक्तयस्तथा
प्रथमं सृष्टिखण्डं च द्वितीयं भूमिखण्डकम् ॥ ६७ ॥

मूलम्

पद्मपुराणदानं च खण्डानां व्यक्तयस्तथा
प्रथमं सृष्टिखण्डं च द्वितीयं भूमिखण्डकम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

स्वर्गखण्डं तृतीयं च तुर्यं पातालसञ्ज्ञकम्
उत्तरं पञ्चमं प्रोक्तं खण्डान्यनुक्रमेण वै ॥ ६८ ॥

मूलम्

स्वर्गखण्डं तृतीयं च तुर्यं पातालसञ्ज्ञकम्
उत्तरं पञ्चमं प्रोक्तं खण्डान्यनुक्रमेण वै ॥ ६८ ॥

विश्वास-प्रस्तुतिः

एतत्पद्मपुराणं तु व्यासेन तु महात्मना
कृतं लोकहितार्थाय ब्राह्मणश्रेयसे तथा ॥ ६९ ॥

मूलम्

एतत्पद्मपुराणं तु व्यासेन तु महात्मना
कृतं लोकहितार्थाय ब्राह्मणश्रेयसे तथा ॥ ६९ ॥

विश्वास-प्रस्तुतिः

शूद्राणां पुण्यजननं तीव्रदारिद्र्यनाशनम्
मोक्षदं सुखदं चाशु कल्याणप्रदमव्ययम्
श्रुत्वा दानं तथा कुर्याद्विधिना तत्र नारद ॥ ७० ॥

मूलम्

शूद्राणां पुण्यजननं तीव्रदारिद्र्यनाशनम्
मोक्षदं सुखदं चाशु कल्याणप्रदमव्ययम्
श्रुत्वा दानं तथा कुर्याद्विधिना तत्र नारद ॥ ७० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे महेशनारदसंवादे बीजसमुच्चयोनाम प्रथमोऽध्यायः १