सूत उवाच-
विश्वास-प्रस्तुतिः
भारद्वाजगृहे भुक्त्वा रामचन्द्रः प्रसन्नधीः
मुनीन्द्र विष्णुसहितो वानरर्क्षसमन्वितः ॥ १ ॥
मूलम्

मेघच्छन्ने तथाकाशे मन्दं चरति मारुते
तद्वनाभ्यन्तरे क्वापि सुदेवगृहमुत्तमम् ॥ २ ॥

अष्टापदस्तम्भयुतं हेमपट्टिककल्पितम्
मणिमौक्तिकसंयुक्तं राजतैः कलशैर्युतम् ॥ ३ ॥

पाटीरचन्द्रकस्तूरीकुङ्कुमैः सुरभीकृतम्
कर्द्दमैर्जालकयुतं शकलोपरि संवृति ॥ ४ ॥
मूलम्
पाटीरचन्द्रकस्तूरीकुङ्कुमैः सुरभीकृतम्
कर्द्दमैर्जालकयुतं शकलोपरि संवृति ॥ ४ ॥
विश्वास-प्रस्तुतिः
चन्द्रजोत्स्नागमं सूर्य्या निरीक्ष्य मध्यभित्तिकम्
गृहान्तर्भूतलं कृत्स्नं चन्द्रपुष्परसोक्षितम् ॥ ५ ॥

दिगुदीची तथा कृत्स्नाभित्तिकल्पनवर्जिता
स्तम्भेस्तम्भे चित्रकारी स्वपादी परिकल्पितम् ॥ ६ ॥

शतहस्ताङ्गणं तस्य स्फटिकोपरिकल्पितम्
गृहाङ्गणाधिकच्छायः पारिजातमहीरुहः ॥ ७ ॥
मूलम्
शतहस्ताङ्गणं तस्य स्फटिकोपरिकल्पितम्
गृहाङ्गणाधिकच्छायः पारिजातमहीरुहः ॥ ७ ॥
विश्वास-प्रस्तुतिः
कृत्स्नप्रावृतिकं तत्र निबिडं कदलीवनम्
कदलीवनसंयुक्तं केतकीवनसंवृतम् ॥ ८ ॥
मूलम्
कृत्स्नप्रावृतिकं तत्र निबिडं कदलीवनम्
कदलीवनसंयुक्तं केतकीवनसंवृतम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
मयूरनादबहुलं मञ्जुकूजन्मधुव्रतम्
पारावतगणध्वानं नानोपवनशोभितम् ॥ ९ ॥
मूलम्
मयूरनादबहुलं मञ्जुकूजन्मधुव्रतम्
पारावतगणध्वानं नानोपवनशोभितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
प्रासादशतसम्बाधं मत्तकोकिलनादितम्
शाखालम्बिमहारत्नशोभितानेकपादपम् ॥ १० ॥
मूलम्
प्रासादशतसम्बाधं मत्तकोकिलनादितम्
शाखालम्बिमहारत्नशोभितानेकपादपम् ॥ १० ॥
विश्वास-प्रस्तुतिः
किन्नरीवनितागीतनादपूरितदिङ्मुखम्
अनेकारामसुभगं गौतमीतटमुत्तमम् ॥ ११ ॥
मूलम्
किन्नरीवनितागीतनादपूरितदिङ्मुखम्
अनेकारामसुभगं गौतमीतटमुत्तमम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
भारद्वाजगृहं पुण्यमनन्तगुणसेवितम्
रतिकन्दर्पसङ्काश दासीदासशतान्वितम् ॥ १२ ॥

नानोपकरणोपेतं भारद्वाजगृहं शुभम्
तस्य चान्तर्गतः सौधस्तत्रान्तर्गृहवाटिकाः ॥ १३ ॥

अष्टौ तन्मध्यतो ह्येकं गृहं परमशोभनम्
चतुर्दिक्षु महादेव गृहप्रासादशोभितम् ॥ १४ ॥

प्रतिदेवगृहं श्यामा तौर्य्यत्रिकसुशोभितम्
स्वर्गस्थितवरस्त्रीणां विश्रामायैव कल्पितम् ॥ १५ ॥

भारद्वाजगृहाद्रामो निर्गत्याशेषसंयुतः
तस्यैव च महागेहं वनमध्यगतं त्वगात् ॥ १६ ॥

तदन्तराच्छादितकम्बलं तदा पृथक्स्थवस्त्रासनसंयुतं च
सिंहासनं मध्यगतं तथैकं मुन्यासनानेकगतं विवेश ॥ १७ ॥

पौराणिकस्यानुपमासनान्तरं भूपालहर्यृक्षवरासनं च
पौराणिकं पूर्वमथोपवेश्य ततो वसिष्ठं मुनिपुङ्गवांश्च ॥ १८ ॥

नारायणं भूमिपतीन्कपींश्च नीचासनं च स्वयमाससाद
मेघावृतं व्योमदिशः प्रसन्नाः सुपुष्पमुर्वीतलमुप्तबीजम् ॥ १९ ॥

तदङ्गणं नोष्णमहो न शीतलं सन्तानपुष्पं दमपुष्पगन्धि
शम्भुं विलोक्याथ वचो बभाषे रामः कथां कीर्तय शङ्करस्य ॥ २० ॥

तृप्तिर्न जाता मुनिवर्य्य शृण्वतो माहेशमाख्यानमघौघनाशनम्
चकार किं वा ननु गौतमाश्रमे महेश्वरो देवगणाधिसंवृतः ॥ २१ ॥

शिव उवाच-
महाविपञ्चीमवलम्ब्य निष्ठितः स वायुसूनुः शिवमन्वपृच्छत्
न्यायार्जितैरेव हि पूजने विभोः कीदृग्भवेच्चानयजैः फलं वद ॥ २२ ॥

चौर्य्यैरथो किं फलमर्पितार्पणे उपाहृतद्रव्यसमर्पणेषु
एकैकशो मे भगवन्वदेश प्रश्नोत्तरं किं कथयाशु शम्भो ॥ २३ ॥

अथेश्वरो वानरमाबभाषे वदामि सर्वं तव ध्यानतः शृणु
न्यायार्जितैः पूज्य सदाशिवं त्वजं सम्प्राप चैश्वर्यमिदं हि गौतमः ॥ २४ ॥

पुरा द्विजो मङ्कणसूनुराकथः सुशोभनामाप सतीं द्विजन्मा
द्ररिद्र एकः करुणासमन्वितः षष्ठाहभोजी पितृवर्जितश्च ॥ २५ ॥

उपोष्य पञ्चाहमथापि भोक्तुं प्रवृत्त एवाथ समापतद्यतिः
यतिर्बभाषे मधुरं तदा कथं मासोपवासी तव भोक्तुमागतः ॥ २६ ॥

तिष्ठामि भुञ्जे यदि चास्ति ते मुने न मे बुभुक्षान्यगृहाद्विभोक्तुम्
आकथ उवाच-
न मे भुजिः पञ्चदिनं द्विजेन्द्र षष्ठे दिने मे भुजिरागतश्च ॥ २७ ॥

तदा मया कार्यमचिन्तनीयं प्रक्षालयाम्येहि तवाद्य पादौ
ओमित्यथ क्षालितपादयुग्मः स भोजनं कर्तुमियेष योगी ॥ २८ ॥

रम्भादलांसे बुभुजे तदन्नं विपाच्य सम्पादितमाज्ययुक्तम्
वन्यैः सुसंयुक्तमथादरेण न किञ्चिदुच्छेषितमन्नमस्य ॥ २९ ॥

अथाकथो वीक्ष्य मुनिं सुतुष्टं तुतोष भार्य्यासहितस्तपस्वी
गतोऽथ भुक्त्वापि यतिः स चाकथः सन्तुष्टचित्तोऽथ जपं चकार ॥ ३० ॥

कपोतवृत्तिं स चकार पत्न्या तपोवितानायस सज्जनो मुनिः
पीठेऽथ कृत्वा तमुमापतिं शिवं लिङ्गे समाराध्य समन्वितं गणैः ॥ ३१ ॥

लिङ्गं निधायाथ निरीक्षमाणो ददर्श चाज्ञातकृशाकृतिं द्विजम्
दिगम्बरं पादविहीनमेतं काणं कुणिं कर्णविहीनकं प्रभुम् ॥ ३२ ॥

सामोद्गिरं तं बहुशास्त्रपारगं गृहं समायान्तमथो ददर्श ॥ ३३ ॥

अथाकथो भार्यां सुशोभनामिदमुवाच ॥ ३४ ॥
मूलम्
अथाकथो भार्यां सुशोभनामिदमुवाच ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अयं हि विकृतवेषो ब्राह्मणः समायाति ॥ ३५ ॥

अर्द्धं देयमेतस्मै भोजनं रक्षार्द्धमन्नं चास्मिन्नपि दिने गते षष्ठेह्नि भोजनाभावात्तव जीवितं न तिष्ठतीति मम प्रतीयते किं तु त्वं मन्यसे वद ॥ ३६ ॥

सा शोभनोवाच-
आयुर्ललाटे लिखितं नान्तरा नश्यति ॥ ३७ ॥
मूलम्
सा शोभनोवाच-
आयुर्ललाटे लिखितं नान्तरा नश्यति ॥ ३७ ॥
विश्वास-प्रस्तुतिः
आकथ आह
यथा बद्धायुषोऽपि यज्ञस्य वीरभद्रेणच्छिन्नं शिर अजस्रात्मनः किमुत नु याणां पापात्मनामिति तदेनं परिहृत्य त्वया भुज्यते यदि त्वेतस्मै मयान्नं दीयते
तवेच्छानुसारतो मम कर्तव्यम् ॥ ३८ ॥

भार्य्या प्राह कथमहं भोक्ष्ये त्वय्यभुक्ते मया किं पूर्वं भुक्तमिदमपरं शृणु ॥ ३९ ॥

अन्नं हि प्राणिनां प्राणाः प्रत्यक्षं सर्वदेहिनाम्
तस्मादन्नप्रदो यस्तु प्राणदः स निगद्यते ॥ ४० ॥

अन्नाद्भूतानि जायन्ते वर्द्धन्ते तानि वै यतः
तस्मादन्नाधिकं किञ्चिन्नास्य दानं महाफलम् ॥ ४१ ॥

अश्वत्थचलपत्राग्र लीनतोयद्रवास्तिके
जीवितेन हि यो दद्यात्तस्य जन्म निरर्थकम् ॥ ४२ ॥

परलोकसहायो हि धर्मो भार्या न बान्धवाः
भार्य्या वा पितरौ पुत्रा यावदायुर्न बान्धवाः ॥ ४३ ॥

सम्पद्वयः सुहृदिह इहामुत्र हि तं स्थितम्
धर्मं धर्मभृतां श्रेष्ठं भुङ्क्ते चान्ये किमावयोः ॥ ४४ ॥

इति भार्य्यावचः श्रुत्वा आकथः करुणानिधिः
अविशङ्कितमेवास्मै दत्तवानन्नमूर्ज्जितम्
अयं स शङ्करो देवो नानाकरणमागतः ॥ ४५ ॥

इति निश्चित्य मनसा तस्याङ्गं पापनाशनम् ॥ ४६ ॥

आजानुपादं प्रक्षाल्य परा जङ्घमतः परम्
गुल्फं च तदधस्तस्य प्रक्षाल्याचामय द्द्विजम् ॥ ४७ ॥

अथाकथोऽपि पत्सन्धिं गृहाङ्गणमुपानयत्
उन्मुच्य पादसन्धिं स निषसादार्पितासने ॥ ४८ ॥

समभ्यर्च्याकथः सम्यग्भोजयामास तं मुनिम्
एतस्मिन्नन्तरे कश्चिदुन्मत्तो गृहमागतः ॥ ४९ ॥

पादसन्धिमथादाय गृहबाह्यमुपानयत्
अथादहच्च तद्गेहं दम्पती चाप्यताडयत् 5.117.॥ ५० ॥

आकथस्ताडितो विप्रो दह्यमानं गृहं तदा
विवेश देवमीशानमादातुं तूर्णमेव वा ॥ ५१ ॥

अथादाय महेशानं दग्धपूजं द्विजोत्तमः
निर्गत्य च ततो दृष्ट्वा मुखसन्तापमेव च ॥ ५२ ॥

दग्धपूजां तिरस्कृत्य वीक्ष्य दग्धाङ्गमप्युत
भार्यामुवाच धर्मात्मा यथापूजा महेशितुः ॥ ५३ ॥

तथा मम समस्ताङ्गं कर्त्तव्यमविशङ्कितम्
व्यङ्ग उवाच-
पश्चादपि कृता पूजा सफला ते भविष्यति ॥ ५४ ॥

यथान्यद्रव्यदहने तादृशं दीयते जनैः
पूजाया दहने तद्वत्पूजास्य क्रियतामिति ॥ ५५ ॥

चौर्येणाप्यर्जितैर्द्रव्यैः पूजया न हितं भवेत्
न चान्यायार्ज्जितैर्विप्र शम्भोः पूजा शुभप्रदा ॥ ५६ ॥

इत्युक्त्वा चाकथस्तूर्णं स्वाङ्गं दग्धुमुपाक्रमत्
दग्धं लिङ्गं तदोन्मत्तो गृहीत्वान्तर्दधे क्षणात् ॥ ५७ ॥

अथ व्यङ्गो हरो भूत्वा वारयामास चाकथम्
किमर्थं खिद्यते विप्र वरदोऽहं वरं वृणु ॥ ५८ ॥

आकथोऽपि विभोः पादे भक्तिं वव्रे सुनिश्चलाम्
सूत उवाच-
एतां श्रुत्वा कथां रामः प्रहृष्टो मुनिभिर्वृतः ॥ ५९ ॥

भारद्वाजं नमस्कृत्य प्रयाणाज्ञामयाचत ॥ ६० ॥

अथो भरद्वाजमुनिः प्रसन्नः शम्भुं वसिष्ठं मुनिपुङ्गवं च
नारायणं चर्षिगणांश्च नत्वा व्यसर्जयत्तेऽपि ययुः प्रणम्य ॥ ६१ ॥

नैमिषीया ऊचुः -
गत्वायोध्यां महातेजाः समस्तमुनिसंयुतः
किं चकार ततो रामः स च शम्भुर्महायशाः ॥ ६२ ॥

कौसल्या मासिकश्राद्धमपरेऽहनि राघवः
चिकीर्षुर्द्विजप्रवरानृषिकल्पान्न्यमन्त्रयत् ॥ ६३ ॥

शम्भुं समस्तत्त्वज्ञं नारदं रोमशं भृगुम्
विश्वामित्रमथो राम एकभक्तव्रती ततः ॥ ६४ ॥

भूमौ सुखास्तृतायां च सुष्वापा व्याकुलेन्द्रियः
परेद्युरथ सम्प्राप्ते प्रातःस्नात्वा विधानवित् ॥ ६५ ॥

अन्नं शाकादिकं शुद्धं जनैरेवान्वकारयत्
नानान्नानि विचित्राणि चोष्याद्यानि तथैव च ॥ ६६ ॥

वटकादींस्तथा भक्ष्यानष्टत्रिंशदकल्पयत्
पायसं षड्विधं चैव पक्वशाकशतद्वयम् ॥ ६७ ॥

अपक्वमिश्रकाणां च शतत्रयमकल्पयत्
कालशाकादिकं शाकं फलानि विविधानि च ॥ ६८ ॥

मूलानि चैककन्दानि वल्कलानि च राघवः
कारयित्वा नदीं गत्वा सहभ्रातृपुरोहितः ॥ ६९ ॥

सरयूसलिले स्नात्वा हुत्वाग्निं स्वागतान्द्विजान्
उक्त्वा तु स्वागतं तांस्तु कृतदेवार्चनो नृपः ॥ ७० ॥

प्राणानायम्य सङ्कल्प्य क्षणं चैव प्रदत्तवान्
रोमशं नारदं रामो वैश्वदेवे न्यमन्त्रयत् ॥ ७१ ॥

शम्भुं भृगुं कौशिकं च मातृस्थाने न्यमन्त्रयत्
गोमयेन ततः कृत्वा मण्डलं पूज्य चार्हतः ॥ ७२ ॥

पादप्रक्षालनं चक्रे सीतादत्तोदकेन च
आचामयित्वा तान्विप्रान्गृहं गन्तुमथोद्यतः ॥ ७३ ॥

अभ्यागतः समायातः स्थविरो विकृताकृतिः
कृशः सम्प्रचलद्गात्रो वेपिताङ्घ्रिशिरास्तथा ॥ ७४ ॥

लम्बमानत्वगुत्कर्षच्छ्वासकासादिपीडितः
दूषिकाक्लिन्नगण्डश्च लालासम्पृक्तकूर्चकः ॥ ७५ ॥

उवाच रामं राजानमहमेको द्विजः स्थितः
ममापि भोजनं देयं स्थविरस्य कृशस्य च ॥ ७६ ॥

रामोऽपि तद्वचः श्रुत्वा लक्ष्मणं वाक्यमब्रवीत्
पादौ प्रक्षालयास्य त्वमहमभ्यर्चये द्विजम् ॥ ७७ ॥

अभ्यागतोऽपि वचनमाह राममथाकुलम्
त्वया प्रक्षालिते पादे मम भोजनमिष्यते ॥ ७८ ॥

मत्तोऽधिका द्विजाः किं ते येन मामवमन्यसे
श्राद्धधर्मं न जानीषे महर्षिगणसेवितम् ॥ ७९ ॥

ममावमानतः सर्वविप्राणामवमाननम्
श्राद्धं विहन्यते चापि नरकं च गमिष्यसि ॥ ८० ॥

अथ रामः स्वयं विप्रपादौ प्राक्षालयत्तदा
आचामयित्वा तं विप्रं गृहं प्रावेशयत्ततः ॥ ८१ ॥

आचान्तश्च स्वयं रामो विष्टरं दत्तवानथ
आसीनेषु च विप्रेषु प्राणवायुं निरुध्य च ॥ ८२ ॥

स्वकर्मकरणानुज्ञां लब्ध्वाऽथ सतिलं जलम्
अपहतेति मन्त्रेण द्वारदेशे विचिक्षिपेत् ॥ ८३ ॥

उदीरतामिति तथा पितृपात्रस्थले क्षिपेत्
गायत्र्या चाक्षतजलं देवपात्रस्थले क्षिपेत्
पाकजातं तथाऽभ्युक्ष्यम न्त्रमेतदुदीरयेत् ॥ ८४ ॥

श्राद्धभूमिं गयां ध्यात्वा ध्यात्वा देवं जनार्दनम्
वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तयेत् ॥ ८५ ॥

विश्वेदेवार्चनं कुर्याद्यवैर्वा तण्डुलैरथ
मूलाग्रयोजितौ दर्भौ गृहीत्वा साक्षतावथ ॥ ८६ ॥

भूस्पृष्टदक्षजानुस्तु द्विजहस्ते जलार्पणम्
पुरूरवार्द्रवाणां वै देवानामिदमासनम् ॥ ८७ ॥

इति दत्त्वाऽसनं तेषां श्राद्धदः प्रार्थयेत्क्षणम् ॥ ८८ ॥

अर्घं कृत्वा ततः पश्चादुत्तराग्रकुशेष्वथ
न्युब्जं पात्रं ततः कृत्वा कुशग्रन्थिमथोपरि ॥ ८९ ॥

उत्तानं तु ततः कृत्वा जलैरभ्युक्ष्यरौक्मकैः
पवित्रान्तर्हिते पात्रे शं नो देव्या जलं क्षिपेत् ॥ ९० ॥

वैश्वदेव्याऽखिलं कर्म यावत्तद्विधिचोदितम्
यवोऽसि धान्यराजो वा इति पात्रे क्षिपेद्यवान् ॥ ९१ ॥

मधुमिश्रांस्तु करकान्गन्धपुष्पैस्ततो ददेत्
द्विज तेऽस्त्वर्घ इत्युक्त्वा त्वस्त्वर्घोत्तरतस्ततः ॥ ९२ ॥

आवाहयिष्ये तान्देवानिति पृष्ट्वा तदुत्तरम्
विश्वेदेवास इत्युक्त्वा विप्रमूर्ध्नि कुशान्क्षिपेत् ॥ ९३ ॥

विश्वेदेवाः शृणुतेममागच्छन्त्विति सञ्जपेत्
समागतो निषण्णोऽथ सदर्भं पात्रमाहरेत् ॥ ९४ ॥

दक्षिणे चरणे क्षिप्त्वा मुख्यपात्रोदकं ततः
विप्रस्य दक्षिणे हस्ते प्रागग्रेऽथ पवित्रके ॥ ९५ ॥

या दिव्या इति मन्त्रेण निक्षिपेत्पात्रवारितत्
इदं भो अर्घमित्युक्त्वा ह्यस्त्वर्घोत्तरतस्ततः ॥ ९६ ॥

पात्रे धृत्वाऽर्घतोयं च तत्पात्रं स्थापयेत्क्वचित्
अथ दत्त्वा करे तोयं यवैरेतानथार्चयेत् ॥ ९७ ॥

अर्चत प्रार्चत इति पृष्ट्वा चोत्तरतस्ततः
पादादिमूर्धपर्यन्तमभ्यर्च्य जलदस्ततः ॥ ९८ ॥

गन्धद्वारेति मन्त्रेण तथेत्युक्त्वोत्तरस्ततः
पितॄणामर्चनं कुर्यादेवमेवापसव्यकम् ॥ ९९ ॥

उपवीतं द्विजं कृत्वा कुशान्भग्नांस्तिलान्वितान्
वामजानुं भूमिगतं कृत्वा दद्यात्तदासनम् 5.117.१००
दक्षिणाभिमुखो भूत्वा क्षणप्रश्नमथो वदेत्
दक्षिणाग्रेषु दर्भेषु न्युब्जं पात्रत्रयं न्यसेत् १०१
त्रिकुशग्रन्थिसंयुक्तमुत्तानमथ कल्पयेत्
ततः सम्प्रोक्ष्य पात्रेषु सपवित्रतिलेषु च १०२
शं नो देव्या जलं क्षिप्त्वा तिलोऽसीति तिलान्क्षिपेत्
गन्धपुष्पमथो दत्त्वा स्वधार्घ इति पृच्छति १०३
दत्तोत्तरोऽस्त्वर्घ इति पितॄनावाहयेत्ततः
तिलपुष्पकुशैस्तिष्ठन्कल्पितार्घं करे दधत् १०४
उशन्तस्त्वेति मन्त्रेण त्रिरर्घोदकमर्पयेत्
अर्चनं तु तदा तेषामपसव्यं तु पूवर्वत् १०५
प्रक्षाल्य भाजनं स्वर्णं देवानां परिकल्पयेत्
पितॄणां राजतं कुर्याद्यथासम्भवमेव वा १०६
तदभावे तु कांस्यं स्यादनन्याशितमुत्तमम्
पात्राणि तदभावे स्युः पालाशानि न मध्यमम् १०७
रम्भाणि चूतपत्राणि जम्बूपुन्नागकानि च
पराकान्यथ चाम्पानि मधूककुटजान्यपि १०८
मातुलुङ्गस्य पत्राणि श्राद्धे देयानि वै नृभिः
दर्व्यामन्नमथाऽदाय कराभ्यामाज्यमेव च १०९
प्रवेषणं ततः पृच्छेत्प्राचीनावीतवान्द्विजम्
करिष्येऽग्नौकरणमिति कुरुष्वेति तदुत्तरम् ११०
परिविष्योपवीती स्यादभिघार्य समाहरेत्
हुनेत्सोमाय पितृमते स्वधा नम इतीरयन् १११
यमायाङ्गिरसे पितृमते स्वधा नम इति
द्वितीयामाहुतिं हुत्वा चाभिघार्याक्षतं ततः ११२
अग्नये कव्यवाहनाय स्वधा नमस्ततः परम्
हुत्वाऽपसव्यं कृत्वा तु परिविष्य द्विजान्व्रजेत् ११३
मेक्षणेन ततोऽभीक्ष्णं पातयेत्पितृपात्रके
पिण्डपात्रमतः शेषं दर्वीप्रक्षालनं ततः ११४
मेक्षणस्याग्निनिक्षेपं ततः पात्राण्युपस्तरेत्
पात्रदक्षिणभागे तु दद्यादन्नमनन्तरम् ११५
भक्ष्याणि भोज्यशाकानि सर्वाण्येव स दत्तवान्
अथातिथिर्महावृद्धो वीक्षमाणस्ततस्ततः ११६
उवाच राघवं शान्तं शीघ्रमेव नमस्कुरु
बुभुक्षा वर्ततेऽस्माकं भोक्ष्येऽहं वा तवाऽज्ञया ११७
रामो बभाषे वचनं विलम्बय क्षणं मुने
देवताः पितरो मङ्क्षु नमस्यन्तेऽधुना मया ११८
इत्युक्त्वा राघवः प्रादादन्नं पात्रगतं तदा
प्राक्सौम्याग्रान्कुशान्दैवे प्रतीचीदक्षिणाग्रकान् ११९
पित्र्ये पवित्रे ये दर्भा यवानथ तिलानपि
अन्नप्रदानं कुर्वन्ति पृथिवी इति मन्त्रतः १२०
इदं विष्णुरिति स्पृष्टमङ्गुष्ठेन द्विजस्य तु
देवेभ्यः प्रथमं दद्याद्ये देवा इति वै पठन् १२१
पितॄणां च ततो दद्याद्दद्यादतिथये ततः
देवताभ्य इति मुखानुच्चार्याऽपोशनं ददेत् १२२
त्रिर्जपित्वा तु गायत्रीमुपवीती पुरोमुखः
प्राचीनावीतवान्ब्रूयान्मधुत्रयमतः परम् १२३
भुञ्जध्वमिति तानुक्त्वा भुञ्जानेषु द्विजातिषु
रक्षोघ्नमन्त्रपठनं भक्ष्यभोज्यादि दापयन् १२४
एतस्मिन्नन्तरे विप्रो योऽतिथिस्तदिदं तथा
कृतवान्महदाश्चर्यं तद्वदामि समासतः १२५
पात्रस्थितमशेषं च ग्रासेनैकेन चाग्रसत्
प्राणाहुतीनां पर्याप्तं दीयतामिति चाब्रवीत् १२६
एतावद्दातुमशक्तः कथं श्राद्धक्रियोद्यतः
ममैकस्य प्रदाने त्वमशक्तो राम किं वृथा १२७
बहूनां भोजनं दातुमुद्युक्तो राम किं वृथा
सहसा कृतकर्माणि न समाप्तिं प्रयान्ति च १२८
त्वया कृतमशेषाणां नालं प्राणाहुतिर्मम
कथं मे दीयते भुक्तिः कथमेषां तथा वद १२९
रामस्तमब्रवीद्वीरो भुङ्क्ष्व त्वं हि यथासुखम्
इत्युदीर्य निरीक्ष्यास्य कर्म तत्परमाद्भुतम् १३०
अथ शम्भुं समाहूय प्राह त्वं परिवेषय
त्वं पिता पार्वती माता शिवा देवीति मे मतिः १३१
अन्नपूर्णेश्वरी देवी भवान्येवेति मे मतिः
सा शाम्भवी वचः प्राह तत्पर्याप्तं ददाम्यहम् १३२
अथोमा कांस्यमादाय भिस्सापूर्णमलङ्कृतम्
स्वर्णदर्व्या समादाय पायसं गन्धकान्तिमत् १३३
अस्याक्षयमिदं भूयादिति प्रादात्तु पायसम्
द्विजस्य दक्षिणे हस्ते साऽददात्सत्कृतं मुदा १३४
सशिरः कम्पमानस्तु ऊर्ध्वदृष्टिरथाभवत्
प्रसारितकरश्चाऽसीद्गृहीत्वा पायसं करे १३५
दीयतां पायसं स्वादु सुष्ठु पक्वमिदं तु किम्
शम्भुपत्नी बभाषे तं करे भुङ्क्ष्व ततो ददे १३६
अभक्षयत्ततो विप्रः पुनः करतले स्थितम्
तदक्षयमथ ज्ञात्वा प्रासारयदथेतरम् १३७
तस्मिन्करतले देवी पायसं दत्तवत्युत
अन्येषामपि विप्राणां पक्वाक्षय्यमदात्सती १३८
अथ पाणिद्वयगतं विज्ञायाक्षय्यपायसम्
दृष्ट्वा करान्तरमथो प्रासारयत स द्विजः १३९
उवाचान्नं प्रदातव्यं ससूपघृतमुत्तमम्
शिवादेवी तथा प्रादादक्षय्यं शम्भुवल्लभा १४०
यद्यत्प्रादात्तदा साध्वी सर्वमेव तदक्षयम्
करान्तरमथोसृष्टं परिपूर्णं पुनःपुनः १४१
एवं करसहस्रं तु कृत्वा स विरराम ह
उवाच वचनं विप्रो देहि गण्डूषवारि मे
तर्पितोऽस्मि त्वया भद्रे न रामेण न सीतया १४२
शम्भुरुवाच-
रामेण सीतया दत्तं मया दत्तं हि यत्र च
इतः परं हि किं देयं पूर्णं वा त्वं वदस्व मे १४३
द्विज उवाच-
तृप्तोऽस्मि न च मे देयमधिकं च करस्थितम्
विद्वन्नतः करगतं न पपात कथञ्चन १४४
निषण्णो हि चिरं दध्यौ कथं मे केवलः करः
भुक्त्यै कृतमिदं सर्वं नान्यस्मै कर्मणे मम १४५
तस्मादन्यकृतेरेतत्सर्वं रिक्तं भविष्यति
इति निश्चित्य मनसा लिप्ताङ्गोऽतिथिराभवत् १४६
पश्यत्सु सर्वदेवेषु तदद्भुतमिवाभवत्
तृप्तानथ द्विजाञ्ज्ञात्वा राघवः परमार्थवित् १४७
दर्वीकरोऽथ तृप्ताः स्थ इति पृष्ट्वा यथाविधि
तृप्ताः स्म इति विप्रेन्द्रा विकीर्यान्नं समन्त्रकम् १४८
पात्रस्य याम्याभिमुखः सन्निधौ पिण्डमर्पयेत्
गण्डूषमपि विप्राणां तत्रैव परिकल्पयेत् १४९
उच्छिष्टपर्णपात्रेषु ते गण्डूषमकुर्वत
गृहान्तरे च ते विप्रा विविशुस्त्वतिथिं विना 5.117.१५०
आहातिथिर्बहिः कार्यं मयाऽचमनं विट्पते
उत्थातुं नैव शक्नोमि करं मे देहि राघव १५१
अथ रामः करं प्रादान्नोत्थितस्तु द्विजोत्तमः
हनूमानथ चाप्यस्य दत्तवान्बलवत्करम् १५२
इतरेण गृहीत्वा तु करेण द्विजपुङ्गवम्
आचकर्ष कपीन्द्रस्तु द्विजः साक्रोशमुक्तवान् १५३
द्विज उवाच-
छिद्यते मे करो व्यक्तमुत्थापय ततोऽन्यतः
लाङ्गूलेन सपीठं तमावृत्याऽमस्तकं बलात् १५४
अथाधावत्ततः पृथ्वीं द्विजस्तु न चचाल ह
अथ वानरवीरस्तु पद्भ्यां च कृन्ततां महीम् १५५
पादौ विन्यस्य सुदृढौ द्विजमूर्धानमाक्षिपत्
विशीर्णमभवद्वेश्म द्विजाः सर्वे बहिस्तथा १५६
सह वृद्धद्विजः सोऽथ हनूमान्बहिरभ्यगात्
पीठे च स्थापयामास ब्राह्मणं स्थविरं कृशम् १५७
द्विजाय जलमादाय जाम्बवान्मृण्मये घटे
आह स्वच्छं जलं विप्र त्वयाऽदेयं सभाजनम् १५८
सीता प्रक्षालयेदङ्गं लक्ष्मणो जलदो भवेत्
जाम्बवानाह तं रामं ब्राह्मणोक्तमशेषतः १५९
द्विजप्रक्षालने रामो व्यादिदेशानुजं प्रियाम्
सौमित्रिर्जलमादाय द्विजाङ्गक्षालने तथा १६०
प्राक्षालयदशेषाङ्गं प्रतिमामिव भूभुजः
अथ रामोपदेशेन चक्रतुस्तौ तथैव च १६१
अथातिथिः स्वगण्डूषं सीतावक्त्रे व्यमुञ्चत
सालङ्काराऽम्बुभिर्व्याप्ता प्राक्षालयदथो सती १६२
श्लेष्मलालासुप्रचुरं मुखं विप्रस्य सा सती
प्रममार्ज पुनः क्षाल्य नासा श्लेष्माणमत्यजत् १६३
आचामयित्वा सौमित्रिरुत्तिष्ठेत्यब्रवीद्द्विजम्
द्विजो न शक्यमित्याह हनूमानप्यथाऽगतः १६४
अतिथिः प्राह तं विप्रः पीडितोऽहं हनूमता
गृहीत्वोद्धरता पूर्वं पातितो वानरेण च १६५
जाम्बवानथ तं प्राह लोमाङ्गं मम वै मृदु
मयाथ ध्रियसे विप्र न च पीडा भविष्यति १६६
इत्युक्त्वा जाम्बवान्विप्रं दोर्भ्यामालम्ब्य चोद्धरत्
द्विजप्रान्तमथादाय स्थापयामास तं मुनिम् १६७
अथ रामो द्विजेन्द्राणां प्रदक्षिणमवर्तत
दत्ताशीरपि विपेन्द्रैर्दत्वा ताम्बूलमग्रतः १६८
पादावलम्बकृद्रामो भ्रातृभिः सह चाब्रवीत्
अयि सीतेऽतिथेरस्य त्वया न क्षालितं वपुः १६९
जङ्घायुगेऽतिथेरस्य मलं चास्यं मलान्वितम्
सम्यक्प्रक्षालय मुखं द्विजो न सहते मलम् १७०
सीतोवाच-
अथ प्रक्षालितं सम्यगिदानीं निर्गतं पुनः
राम उवाच-
पुनः प्रक्षालय मलं दोषः स्यादन्यथा मम १७१
अथ सीता तथा कृत्वा तूष्णीमेव बभूव ह
आह रामं च सीतां च द्विजः परमकोपवान् १७२
पादौ यौ मम राजेन्द्र तौ सीता लम्बयेदिति
भवान्करौ च भरतो मम वीजं प्रयच्छतु १७३
लक्ष्मणः केशनिचय प्रसाधनकरो भवेत्
शत्रुघ्नः श्लेष्मनिर्मुक्तिं स्ववस्त्रेण करोतु मे १७४
सूत उवाच-
अथ ते चक्रुरतिथेरशेषमुदितं तथा
तथापुर्विस्मयं विप्रा नरवानरराक्षसाः १७५
शिवा देवी च शम्भुश्च सभ्रूभङ्गमुदैक्षताम्
मनसा चाप्यभाषेतामतिथिःशम्भुरेव च १७६
अतिथिश्च प्रसन्नोऽभू च्छङ्खचक्रगदाधरः
पीताम्बरः समस्ताङ्गभूषितोऽतीव दीप्तिमान् १७७
यः पुराराधितः शम्भुः प्रसन्नोऽभूत्त्रिलोचनः
शुद्धस्फटिकसङ्काशः सर्वाभरणभूषितः १७८
कोटिसूर्य्यप्रतीकाशः किरीटीकरुणानिधिः
आलम्ब्य चक्रिणः पाणिमातिष्ठत सदाशिवः १७९
रामः परमधर्मात्मा पुलकाञ्चितविग्रहः
दण्डवन्निपपातोर्व्यामानन्दप्लाविते क्षणः १८०
अनमन्भ्रातरस्तस्य दण्डवद्भूतले स्थिताः
शिव उत्थाप्य काकुत्स्थमालिङ्ग्याघ्राय मस्तकम् १८१
उवाच मधुरं वाक्यं रामं राजीवलोचनम्
शिव उवाच-
वरं वृणु प्रसन्नोऽस्मि ब्रह्मादेरपि दुर्लभम् १८२
तवादेयं न मे किञ्चिद्वृणु त्वं न चिराय वै
श्रीराम उवाच-
न याच्यं मे जगन्नाथ भूराज्यं मम साम्प्रतम् १८३
स्वर्गश्च कर्मभिः प्राप्तो भक्तिस्त्वत्पाददर्शनात्
आरोग्यं पश्य भुञ्जेऽहं सा सीता योषितां वरा १८४
वशीकृताः सर्वनृपाः प्रजाधर्मसमन्विताः
हर्ष एव ममापन्नस्त्वदागमनतोऽच्युत १८५
तथापि वरये किञ्चिद्भक्तिरस्तु स्थिरा त्वयि
तथा मम गृहे देव त्रिवर्षं तिष्ठ हे प्रभो १८६
ब्रुवन्समस्तधर्मांश्च रूपेणानेन शङ्कर
शिव उवाच-
एवमस्तु तथा राम सर्वं ते सम्भविष्यति १८७
अथाह चक्री राजानं रामं राजीवलोचनम्
वरं वृणु महाभाग प्रसन्नोऽहं यमिच्छसि १८८
श्रीराम आह वचनं मम प्रार्थ्यं न चास्ति हि
यत्प्राप्यं शम्भुतः प्राप्तमन्यत्सर्वमुदीरितम् १८९
किं चैकं वरये विष्णो प्रसन्नः सर्वदा भव
अथसी तां हरिः प्राह प्रसन्नोऽहं तवाधुना १९०
वरं वृणु प्रयच्छामि ततः सीताब्रवीदिदम्
वरो वृतः पुरा भर्त्रा न चान्यो मे वरोवरः १९१
यदि कामं प्रयच्छेथा मनश्च परपूरुषात्
सन्निवृत्तं च भवतान्नमस्तेऽस्तु द्विज प्रभो १९२
अथ ते मुनयः सर्वे प्रणेमुर्देवतोत्तमौ
अथासौ राघवं प्राह भुङ्क्ष्व त्वं बन्धुभिः सह १९३
एकान्तमन्दिरे रम्ये देव्यासहवसामिते
विष्णुः समस्तकरणः समुद्र तनयान्वितः १९४
एकस्मिन्मन्दिरे राम तिष्ठतां लोलुपो हि सः
अथ शुद्धमहागारे पीठाढ्ये बहुभाजने १९५
अग्रे वसिष्ठो भगवानुपविष्टस्तयोर्मुनिः
अपरे ऋषयः सर्वे यथावृद्धं नृपास्तथा १९६
तेषामभिमुखो रामो भ्रातृभिः सहितो नृपः
तरुणे समभागे च आसने तानवेशयत् १९७
हनूमत्प्रमुखान्भृत्यानाहरामोऽनुसान्त्वयन्
भवन्तः परितिष्ठन्तु पश्चाद्भुञ्जे न चान्यथा १९८
ततस्ते प्रददुः सर्वे पादार्घाननुपूर्वशः
बुभुजुश्चापि ते सर्वे ये रामस्योपसेविनः १९९
तेषां दत्वाथ ताम्बूलं कपीन्द्रादीनभोजयत्
भुक्तवत्सु समस्तेषु रामो राजीवलोचनः 5.117.२००
दीनान्धकृपणादीनां पशुपक्षिमृगस्य च
दत्वाहि भोजनं सन्ध्यां वन्दितुं हि समारभत् २०१
सन्ध्याजपादिकं कृत्वा नत्वा तेषां नृपस्ततः
सिंहासनगतो रामः पौरजानपदादिभिः २०२
सेव्यमानः सभास्थानगतो रेजे स राघवः
सर्वदेवपरीवारो यथा देवः शचीपतिः २०३
राजकार्यमशेषं च कृतवान्भ्रातृभिः सह
नाम्ना चैकैकशः सर्वान्विससर्ज स राघवः २०४
भ्रातॄन्विसर्जयामास वानरादींस्तथापरान्
अथ रामं महातेजा वसिष्ठो वाक्यमुक्तवान् २०५
तव प्रातर्हि यत्कार्यं न च विस्मर राघव
आस्ते शम्भुर्जगन्नाथो भगवानम्बिकापतिः २०६
स्मर्तव्यो वन्दनीयश्च भगवानथ यत्नतः
तथेत्युक्त्वा गुरुं राजा नत्वा तं च व्यसर्जयत् २०७
स्वयं च भार्यामभजद्देवदेवं विचिन्तयन्
ऋषय ऊचुः -
प्रातः समुत्थाय गुरो रामो मतिमतां वरः
किं चकार तदाख्याहि श्रोतुं कौतूहलं हि नः २०८
सूत उवाच-
शम्भुं विलोक्याथ ततो बभाषे रामः कथां कीर्त्तय शङ्करस्य
तृप्तिर्न जाता मुनिवर्य शृण्वतो महेशमाहात्म्यमघौघनाशनम् २०९
शम्भुरुवाच-
अथप्रश्नशेषस्योत्तरमीशभाषितं ते कीर्तयिष्यामि
अन्यायोपार्जितद्रव्यैरीश्वरं य उपासते ते व्यङ्गा जायन्ते २१०
तद्यथाकश्चिद्रूपको नाम राक्षसोऽन्यायार्जितेनद्रव्येण शङ्करमाराध्य तेनैव द्रव्येण घण्टामीश्वरप्रीतये कृतवान् २११
तस्य पुत्रः सम्पातिरिति ख्यातः चौर्य्यार्जितैः शङ्करं पूजयामास २१२
तावुभावेकस्मिन्दिवसे मम्रतुः गतौ शिवलोकं वीरभद्रेण भाषितौ च २१३
भो रूपक अन्यायार्जितेन द्रव्येण भवता पूजाकृता घण्टादिकं च तेन भावेन व्यङ्गो भूत्वा चौरगणो भविष्यसि २१४
शिवपदवचनाद्व्यक्तं नामाश्रवणात्
श्रोत्रं तस्य स्वनेन ध्वस्तं भवति नो दर्शनमेतावतादेव त्वयेश्वरपूजा सम्यक्कृता २१५
अतो भक्तिश्च भविष्यति वीरभद्रस्त्वनशनं नामगणं क्वचिद्विचरन्तमित्यादिदेश २१६
तौ च तथाभूतौ शिवलोकेऽतिष्ठताम् २१७
शम्भुरुवाच-
अथोपहतद्रव्यपूजाकथां हनूमते महेशभाषितां कथयिष्यामि २१८
शृणु राघव प्रमथानां चरित्रमेकैकस्य कर्मविपाकं कथयिष्यामि २१९
उपहताङ्गगणव्याख्याक्रियतामिति हनूमत्पृष्टः ॥
शिव उवाच २२०
तदुपहतद्रव्यं ज्ञानतो य ईश्वरेऽपयिष्यति एतदुक्तं ज्ञानिनोऽत शृणुः २२१
एष सर्वाङ्गस्वेदिलः सर्वकालं सर्वाङ्गस्वेदिलः स्वेदार्द्र वसनः स्वेदसम्पादिताल्पप्रवाहशरीरो नासाग्रनिपतितस्वेदबिन्दुः स्पर्शायोग्यो दृश्यते २२२
स पुरा स्वेदकरणेश्वरार्चनं कृतवान्
अत्रेतिहासं कीर्तयिष्यामि २२३
चेकितानिरिति ख्यातो ब्राह्मणः कर्षकोभवत्
स नित्यं कृषिमुत्पाद्य प्रातः स्नात्वा च नित्यशः २२४
मध्याह्नकाले सम्प्राप्ते सञ्जपन्ब्राह्मणस्त्वसौ
अन्नमानय मे क्षिप्रमिति भार्यामभाषत २२५
तयानीतेन चान्नेन वेगेन शिवपूजनम्
कृतवानर्कसन्तप्तः स्वेदिलः सर्वदैव तु २२६
गन्धपुष्पाक्षताद्यैश्च स्वेदबिन्दुसमन्वितैः
अथ सायन्दिने प्राप्ते क्षालिताङ्गः सुशोभनः २२७
पूजयामास देवेशं कालसम्भवसाधनैः
ममाराथ महाबुद्धिः शिवलोकं गतश्च सः २२८
वीरभद्रेण चाप्युक्तो भव त्वं स्वेदिलो गणः
स्वेदस्पृष्टपदार्थैश्च पुरा शम्भुः प्रपूजितः २२९
नित्यं स्वेदसमायुक्तस्तेन स्वेदगणो भव
शम्भुरुवाच-
वीरेणाथ समादिष्टः प्राप्तो रामगणस्त्वयम् २३०
अमुं घण्टामुखं पश्यायं पुरा वैश्यो विभावसोनाम धार्मिको महादानकर्त्ता नित्यं ब्राह्मणभोजनं कारयित्वा कृतानुष्ठानः प्रातःकाले शिवं नमस्कृत्य कुसुमैः सम्पूज्य किञ्चित्प्रदेशं गोमयेनोपलिप्य पद्मादिकमर्जयित्वा देवाय समर्प्य उपहत घण्टानादं कृतवान् २३१
राम उवाच-
कथमुपहतघण्टा २३२
शम्भुरुवाच-
आसीत्पुरा बलः कश्चित्सोम इत्यभिविश्रुतः
तस्य पुत्रश्च मन्दाख्यो दशवर्षवया अभूत् २३३
स चाग्निपक्वकुल्माषान्घण्टायां प्राक्षिपन्नृप
तानभक्षयदप्येष तेन चोपहताभवत् २३४
गृहीतुमथ तं वैश्यं यतमानोऽब्रवीदिदम्
अथ वैश्यः स्वयं तत्र निश्चित्य द्रव्यशोधनम् २३५
लौकिके कृतवाँल्लोके व्यवहारपदश्च ताम्
एतेन पापयोगेन गणो घण्टामुखोऽभवत् २३६
राम उवाच-
द्रव्यशुद्धेर्विशुद्धा सा कथं पापस्य कारणम्
सम्यगुक्तं द्रव्यशुद्ध्यै कथं न द्रव्यशोधिनी २३७
शम्भुरुवाच-
न लौकिकव्यवहृतौ तवाभक्तो भविष्यति
स याति च शिवस्थानं वक्ता चापि तथा भवेत् २३८
सूत उवाच-
यश्च वक्ति कथामेतां स तेन सदृशो भुवि
गुह्याद्गुह्यतमं विप्राः शिवज्ञानप्रदं भवेत् २३९
एतद्वः कथितं विप्राः पुण्यायुष्यतमं महत्
य इदं शृणुयाद्भक्त्या शिवलोके महीयते २४०
पुराणवक्त्रे दातव्यं वस्त्रं गोहेमभूषणम्
भूमिः सस्यफलोपेता देया शक्त्यनुसारतः २४१
शिवराघवसंवादं सर्वाघौघनिकृन्तनम्
यः पठेच्छृणुयाद्वापि स याति परमं पदम् २४२
इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे उपरिभागे राममोक्षोनाम सप्तदशाधिकशततमोऽध्यायः ११७
समाप्तं पञ्चमं पातालखण्डम् ॥ ५ ॥

इति श्रीपद्मपुराणे पञ्चमं पातालखण्डं समाप्तम्