श्रीराम उवाच-
विश्वास-प्रस्तुतिः
कथं पातकसङ्घात सङ्क्रमे ब्राह्मणाधमे
पुराणज्ञः कथं व्याख्यां चकार द्विजसत्तम ॥ १ ॥
मूलम्

शम्भुरुवाच-
अध्यापने चाध्ययने जायते चाथ सङ्गमः
सङ्गतौ वत्सरं राम याति पातकि पातकम् ॥ २ ॥

पुराणज्ञे तु काकुत्स्थ सर्वतत्वार्थवेदिनि
अपिपातकसन्दोह चीर्णपापं प्रणश्यति ॥ ३ ॥

प्रभूतवह्निनाशे हि धूमराशिर्यथैव हि
शलभो दीपनाशाय वह्निनाशाय न प्रभुः ॥ ४ ॥
मूलम्
प्रभूतवह्निनाशे हि धूमराशिर्यथैव हि
शलभो दीपनाशाय वह्निनाशाय न प्रभुः ॥ ४ ॥
विश्वास-प्रस्तुतिः
कृतं पापं तथान्येषां नाशनाय पुराणिकः
भूतादिग्रस्तमर्त्यानां भूतादि भयमोचकः ॥ ५ ॥

समन्त्रवानपनयेद्यथा न स्वयमातुरः
पौराणिकस्तथा पापं न किञ्चित्प्राप्तुमर्हति ॥ ६ ॥

आत्मना च कृतं पापमन्यैरपि च यत्कृतम्
पुराणज्ञो नाशयति त्वतिदुष्टं स्वकर्म वा ॥ ७ ॥

भवानीशे हृषीकेशे समवृत्तिर्विवेकवान्
लोकवेदक्रियावेत्ता रुद्रजाप्यतिनिःस्पृहः ॥ ८ ॥

तुष्टः शान्तः क्रियादक्षः प्रभूतो योगकृद्वशी
यथैव ते पुराणज्ञो वसिष्ठो भगवानृषिः ॥ ९ ॥

नियोगात्तव भूपाल अयोध्यायामतिष्ठत
अपालयद्भुवं कृत्स्नां त्वां च रक्षः समापतत् ॥ १० ॥

स च शुक्रोपदेशेन राक्षसस्त्वामथाभ्यगात्
निद्रासक्तं हनिष्यामि नान्यथावसरस्त्विति ॥ ११ ॥

अथ विप्रो विदित्वैतद्वसिष्ठस्त्वद्धितप्रियः
सुप्तं प्रमत्तं काकुत्स्थं रक्षो हन्ति न संशयः ॥ १२ ॥

ब्रह्मावाप्तवरं तद्धि मया कार्यं निवारणम्
इति सञ्चिन्त्य विप्रर्षिः सेनामादाय निर्गतः ॥ १३ ॥

रक्षो हन्तुमशक्तस्तु मृत्युहीनं ततो मुनिः
स्वयं च राक्षसो भूत्वा वाक्यमाह महामुनिः ॥ १४ ॥

किमर्थमागतोसीह वनं मुनिनिषेवितम्
स आह राजा रक्षोघ्नस्तमहं हन्तुमागतः ॥ १५ ॥

मुनिरप्याह किं तेन जीवितेन मृतेन वा
भुक्त्वामिषं मदीयं तु युद्धं कृत्वा जयं व्रज ॥ १६ ॥

राक्षस उवाच-
कथं त्वं राक्षसो मह्यं भक्षणाय भविष्यसि
वसिष्ठोऽप्यथ मानुष्यमास्थाय वियति स्थितः ॥ १७ ॥

निष्ठीव्य मस्तके तस्य मुष्टिना तमताडयत्
ताडितो राक्षसस्तेन व्यद्रावयदृषिश्च तम् ॥ १८ ॥

पलायमानावन्योन्यं जलधिं तु गतावुभौ
तत्रस्थेन ग्रहेणासौ गृहीतो राक्षसस्तदा ॥ १९ ॥

मुनिः पुनरयोध्यायां पूर्ववत्समतिष्ठत
शम्भुरुवाच-
तस्मात्स्वाभिमतं कुर्यात्पुराणज्ञो विमत्सरः ॥ २० ॥

श्रवणस्य विधानं च कथयामि शुभं शृणु
शुक्लपक्षे दिने शुद्धे वारनक्षत्रयोगतः ॥ २१ ॥

करणे चापि लग्ने च ग्रहताराबलान्विते
अमूढेन ग्रहे बाले न च वृद्धौ गुरौस्थिते ॥ २२ ॥

न कृष्णपक्षे ग्रहणे न च नास्तिकसन्निधौ
पूर्वोक्तलक्षणोपेतं पुराणं शृणुयादिति ॥ २३ ॥

शुद्धगेहेऽथवा शुद्धवेदिकायां मठेथ वा
नदीतीरे देवगेहे सभामण्डप एव च ॥ २४ ॥
मूलम्
शुद्धगेहेऽथवा शुद्धवेदिकायां मठेथ वा
नदीतीरे देवगेहे सभामण्डप एव च ॥ २४ ॥
विश्वास-प्रस्तुतिः
रथ्या मठेथ वा रम्ये पुण्यशालासु राघव
स्वयं नमस्य विप्रेन्द्रान्पुराणज्ञं विशेषतः ॥ २५ ॥

आसनं कल्पितं कुर्य्यादूर्ध्वं सर्वविशेषितम्
एहि धर्मासनमिति वक्तव्यं स्यादनिष्ठुरम् ॥ २६ ॥

पुराणप्रक्रमदिने यत्कार्यं तदुदीरयेत्
व्याख्यातारं पुराणस्य वस्त्राद्यैः परिपूजयेत् ॥ २७ ॥

शुभानि दत्वा वस्त्राणि सूक्ष्माणि च नवानि च
करकण्ठविभूषादि पात्रमासनमेव च ॥ २८ ॥

गन्धपुष्पाक्षतैः पूज्य ताम्बूलं विनिवेद्य च
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ॥ २९ ॥

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये
सभासदश्च सम्पूज्य गणेशं प्रार्थयेत्ततः ॥ ३० ॥

ॐनमेत्यादि मन्त्रेण पूजनं भारती नुतिः
प्रातःकाले पुराणस्य प्रक्रमं प्रारभेदिति ॥ ३१ ॥

उपक्रमदिने राम त्रिपञ्चदश वा शुभाः
श्लोका द्वितीये दिवसे ततो द्विगुणिताः शुभाः ॥ ३२ ॥

तृतीये दिवसे राम ततश्चाधिकमिष्यते
दिनानामव्यवच्छेदाद्व्याख्यानं श्रवणं तथा ॥ ३३ ॥

व्यवस्थितिर्यदा जाता तदा पौराणिकं गुरुम्
ताम्बूलादिप्रदायाथ परेद्युः शृणुयादपि ॥ ३४ ॥

पुराणमेवं श्रोतव्यं दैनन्दिनमिति श्रुतिः
व्रतरूपेण यः कश्चित्पुराणं शृणुयान्नरः ॥ ३५ ॥

यदैवं तत्पुराणं तु तत्र याति न संशयः
पुराणं श्रोतुकामेन श्लोकश्चैकोपि चेच्छ्रुतः ॥ ३६ ॥

तद्दिने तु कृतं पापं नाशयेत्तु न संशयः ॥ ३७ ॥

एवं पुराणं शृणुयाच्च यस्तु स ब्रह्महत्याकृतपापबन्धात्
सुरापीतिः स्वर्णहरश्च राम गुर्वङ्गनागश्च विमुक्तिमेति ॥ ३८ ॥

पापानि चान्यानि कृतानि पुम्भिः सर्वाणि नश्यन्ति पुराकृतानि
इहापि यान्यब्दशतार्जितानि श्रोतुर्विनश्यन्ति तथा च वक्तुः ॥ ३९ ॥

कलौ समस्तविप्राणां सर्वज्ञत्वं न विद्यते
विगुणापि ततो व्याख्या फलदा दानकर्मवत् ॥ ४० ॥

पुराणानामभिप्रायं व्यासो वेद न चापरः
अहं वेद्मि विशेषेण व्यासादपि विधेरपि ॥ ४१ ॥

न स्वाध्यायस्तपो वापि न मन्त्रो न जुहोतयः
फलन्ति न तथा तिष्ये पुराणश्रवणं यथा ॥ ४२ ॥

एकैकश्रवणादेव पातकं महदेव तु
नाशमाप्नोत्यसन्देहः श्रीशैले वर्तनादिव ॥ ४३ ॥

अतो गुरुः पुराणज्ञः श्रोतृवन्द्योऽघनाशनः
न तस्मादधिकः कश्चिद्गुरुरस्ति गतिप्रदः ॥ ४४ ॥

मन्त्रेषु गुरवो ये च वेदशास्त्रेषु ये मताः
नेशते सर्वविज्ञानं दातुं तस्मान्न बोधकाः ॥ ४५ ॥

पिशाचाः प्रायशो राम ब्रह्मराक्षसनामिनः
वेदमन्त्रस्य वेत्तारो दृश्यन्ते न पुराणवित् ॥ ४६ ॥

पुराणविमुखो नैव सर्वः सर्वं हि पश्यति
पुराणज्ञो हि तस्तस्मात्पापनाशकरः प्रभुः ॥ ४७ ॥

तत्पूजा सर्वपूजा स्यात्सर्वद्रोहोऽस्य पीडनम्
यथा समस्तदानानां विद्यादानं प्रशस्यते ॥ ४८ ॥

पौराणिकस्तथा धन्यस्तत्र दानं महत्फलम्
राम उवाच-
किं वा पौराणिके देयं कियत्कीदृशमेव च ॥ ४९ ॥

पुराणं कीदृशं वर्ज्यं वर्ज्यः कीदृक्पुराणवित्
शम्भुरुवाच-
षड्रसानन्नपानानि स्नेहद्रव्याणि यानि च ॥ ५० ॥

गृहं सोपस्करं राम पुराणज्ञाय दापयेत्
पर्याप्तान्येव सर्वाणि अधिकानि फलाधिकात् ॥ ५१ ॥

दद्याद्द्रव्यमतो भूयः सचैलं शोभितं मृदु
भूषणानि यथार्हाणि स्वशक्त्या प्रतिपादयेत् ॥ ५२ ॥

गन्धपुष्पं प्रतिदिनं केवलं गन्धमेव च
केवलं च तथा पुष्पं फलकाले फलान्यपि ॥ ५३ ॥

ताम्बूलं च तथा दद्यान्नमस्कुर्याच्च भक्तितः
पुराणस्य समाप्तौ तु दद्याद्दानादिकं तथा ॥ ५४ ॥

अधिकं तु तथा देयं भूहिरण्यादिकं नृप
न च तूष्णीमुपक्रम्य श्रोतुमर्हति कश्चन ॥ ५५ ॥

सभासद्भिः कृता चैव या पूजैकेन वा कृता
देवस्थाने यथाशक्ति सर्वैः पूजनमिष्यते ॥ ५६ ॥

तीर्थेपि च यथा राम पुण्येष्वायतनेषु च
स्वशक्त्या पूजनं कुर्यात्पुराणज्ञाय राघव ॥ ५७ ॥

श्रोतुस्तु लक्षणं पूर्वं मयोक्तं तु भवेन्नृप
पौराणिकस्य सर्वस्य लक्षणं कथयामि ते ॥ ५८ ॥

कुलहीनो महाव्याधिर्महापापी तिरस्कृतः
शौचाचारविहीनश्च वेदस्मृतिविवर्जितः ॥ ५९ ॥

अन्यदेवः पूतिवचो व्यङ्गश्चाप्यधिकाङ्गवान्
परपूर्वापतिः स्तेनः प्राणिहन्ता निराकृतिः ॥ ६० ॥

अथ वर्ज्यं पुराणं ते कथयामि नृपोत्तम
पूर्वज्ञैरुच्यमानं च यत्प्रोक्तं मुनिभिः परैः ॥ ६१ ॥

व्यासादयो मुनिवरा यत्प्रोचुस्तदुदीरयेत्
पुराणस्थं पठेद्ग्रन्थं व्याख्यायेत विचारयन् ॥ ६२ ॥

यया कयापि वा राम भाषयादेशभाषतः
न देशभाषा रचितं ग्रन्थं श्रुत्वा फलं लभेत् ॥ ६३ ॥

व्याख्या या कापि काकुत्स्थ पुराणस्य हिता हि सा
तस्मात्त्वं देवयाचस्व व्याख्यास्ये यत्पुराणकम् ॥ ६४ ॥

एवं पौराणिकेनोक्तं श्रुतवानपि गौतमः
स्वयं वस्त्रत्रयं प्रादाद्ब्राह्मणाय महात्मने ॥ ६५ ॥

कौर्मं पुराणं प्रथमं श्रुतवानिति नः श्रुतम्
दत्तवान्स्वर्णमधिकं वस्त्राणि च शुभानि च ॥ ६६ ॥

अथ लैङ्गं च शुश्राव वैष्णवं वामनं तथा
पाद्मं च गारुडं चैव सौरं ब्राह्ममथैव च ॥ ६७ ॥

एवमष्ट स शुश्राव पुराणानि स गौतमः
अथ रामायणं चैव कौर्ममेव पुनश्च सः ॥ ६८ ॥

शिवनारायणेत्येवं जपं चक्रे सदैव हि
अवाप निधनं चापि स गतो ब्रह्मणः पदम् ॥ ६९ ॥

ब्रह्मा सम्पूज्य तं विप्रं विष्णुलोकमथागमत्
विष्णुना पूजितः सोऽथ जगाम शिवमन्दिरम् ॥ ७० ॥

सर्वेषामेव वन्द्योऽसौ गौतमो मुनिसत्तमः
भारतश्रवणे चापि नियमा ये मयेरिताः ॥ ७१ ॥

पुरा व्यासेन मुनिना त्रिवर्षाद्यत्कृतं शुभम्
श्रवणात्तस्य कृत्स्नस्य व्याकर्ता भारतस्य यः ॥ ७२ ॥

न किञ्चित्प्रणमेद्विप्रं मुक्त्वा योगिनमुत्तमम्
सर्वेषामेव वन्द्योसौ भारतं व्याकरोति यः ॥ ७३ ॥

यो महाभारतं नित्यं व्याख्यास्यति पठेच्च वा
स सर्वेभ्योधिको विप्रस्तारयेच्चैव मानवान् ॥ ७४ ॥

व्याकरोति च पर्वैकं सर्वाणि कतिचित्तु वा
सर्वपापविनिर्मुक्तो हव्ये कव्ये विशिष्यते ॥ ७५ ॥

तमेव प्रणमेद्विप्रं तमेवार्हं च पूजयेत्
तमेव भोजयेन्नित्यं सर्वं तस्मै निवेदयेत् ॥ ७६ ॥

तस्य पूजाविधिः प्रोक्तो व्याख्यानसमये द्विजः
प्रतिपूज्योऽथ वस्त्राद्यैः पूजयेद्विधिमार्गतः ॥ ७७ ॥

आदिपर्वसमाप्तौ च सूक्ष्मवस्त्रत्रयं ददेत्
सुवर्णं च यथाशक्ति सभापर्वणि वाससी ॥ ७८ ॥

आनुशासनिकारण्यस्वर्गारोहेषु पर्वसु
आदिपर्वणि पूजा या सा पूजा नृपपुङ्गव ॥ ७९ ॥

कर्णाश्वमेधवैराटशल्यद्रोणेषु पर्वसु
सूक्ष्मवस्त्रत्रयं शुद्धं निष्कद्वयमथापि वा ॥ ८० ॥

क्षुद्रपर्वस्वथान्येषु निष्कावथ समानयेत्
हरिवंशे सनिष्कं तु वस्त्रत्रितयमेव तु ॥ ८१ ॥

भारतस्याखिलस्यैव समाप्तौ क्षेत्रदो भवेत्
रामायणस्य श्रवणे काण्डेकाण्डे प्रपूजयेत् ॥ ८२ ॥

क्षेत्रं पर्याप्तमथवा सुवर्णमपि दापयेत्
व्याख्यातुर्गुरुवाक्यस्य सर्वकल्मषनाशनः ॥ ८३ ॥

अर्थोधर्मश्च कामश्च मोक्षश्च नृपसत्तम
व्याख्याश्रवणतः सर्वे सिद्धयन्ति च सुबुद्धयः ॥ ८४ ॥

ब्रह्महत्यादिपापानां सर्वेषामपि नाशनम्
एकेन श्रवणेनास्य किं नरैर्न श्रुतं भुवि ॥ ८५ ॥

यानवसुसुवर्णाद्यैर्नित्यमेनं प्रपूजयेत्
व्याख्यातारं यतः पापसन्दोहस्य विनाशनम् ॥ ८६ ॥

अन्यान्यपि पुराणानि मुनिप्रोक्तानि तान्यपि
श्रोतॄणां पापनाशाय वक्तुश्चापि विशेषतः ॥ ८७ ॥

यश्च सर्वपुराणानि षट्त्रिंशत्तु प्रकीर्तयेत्
शृणोति वा न तस्यास्ति चित्तच्छेदः कदाचन ॥ ८८ ॥

ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते
तृतीयं वैष्णवं चैव चतुर्थं शैवमुच्यते ॥ ८९ ॥

अथ भागवतं प्रोक्तं पञ्चमं षष्ठमुच्यते
भविष्यं नारदीयं च सप्तमं परिकीर्तितम् ॥ ९० ॥

मार्कण्डेयमिति प्रोक्तमष्टमं नवमं तथा
आग्नेयं ब्रह्मवैवर्तं दशमं परिकीर्तितम् ॥ ९१ ॥

लैङ्गं च वामनं चैव स्कान्दं मात्स्यमथैव च
कौर्मं वाराहमुदितं गारुडं वाथ कीर्तितम् ॥ ९२ ॥

ब्रह्माण्डमित्यष्टादशपुराणानि विदुर्बुधाः
तथा चोपपुराणानि कथयिष्याम्यतः परम् ॥ ९३ ॥

आद्यं सनत्कुमाराख्यं नारसिंहमतः परम्
तृतीयमाण्डमुद्दिष्टं दौर्वाससमथैव च ॥ ९४ ॥

नारदीयमथान्यं च कापिलं मानवं तथा
तद्वदौशनस प्रोक्तं ब्रह्माण्डं च ततः परम् ॥ ९५ ॥

वारुणं कालिकाह्वानं माहेशं साम्बमेव च
सौरं पाराशरं चैव मारीचं भार्गवाह्वयम् ॥ ९६ ॥

कौमारं च पुराणानि कीर्तितान्यष्ट वै दश
अष्टादशपुराणानां व्याकर्ता तु भवेन्मनुः ॥ ९७ ॥

इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे पुराणमाहात्म्यकथनं
नाम पञ्चदशोत्तरशततमोऽध्यायः ११५