११४

राम उवाच-

विश्वास-प्रस्तुतिः

क एष दृश्यते व्योम्नि सर्वाभरणभूषितः
विमानस्थो महादीप्त मध्याह्नार्क इवापरः ॥ १ ॥

मूलम्

क एष दृश्यते व्योम्नि सर्वाभरणभूषितः
विमानस्थो महादीप्त मध्याह्नार्क इवापरः ॥ १ ॥

विश्वास-प्रस्तुतिः

दुष्प्रेक्ष्यः सर्वमर्त्यानां तस्याङ्के चारुहासिनी
अपरा श्रीरिव ब्रह्मंस्तथा पञ्चसुयोषितः ॥ २ ॥

मूलम्

दुष्प्रेक्ष्यः सर्वमर्त्यानां तस्याङ्के चारुहासिनी
अपरा श्रीरिव ब्रह्मंस्तथा पञ्चसुयोषितः ॥ २ ॥

विश्वास-प्रस्तुतिः

गायन्ति मधुरां गीतिं सुभ्रूभङ्गनिरीक्षणैः
मन्दस्मितैः करतलशब्दास्फोटिकया तथा ॥ ३ ॥

मूलम्

गायन्ति मधुरां गीतिं सुभ्रूभङ्गनिरीक्षणैः
मन्दस्मितैः करतलशब्दास्फोटिकया तथा ॥ ३ ॥

विश्वास-प्रस्तुतिः

क्वचिद्गलकृतैर्गीतैरन्योन्य करताडनैः
अन्योन्य मुखमालोक्य प्रलोभैर्गीतपूर्वकैः ॥ ४ ॥

मूलम्

क्वचिद्गलकृतैर्गीतैरन्योन्य करताडनैः
अन्योन्य मुखमालोक्य प्रलोभैर्गीतपूर्वकैः ॥ ४ ॥

विश्वास-प्रस्तुतिः

क्रीडन्नास्ते महायोगी पद्मकिञ्जल्कसन्निभः
एवं चरितपुण्येन केन वा तद्वदस्व मे ॥ ५ ॥

मूलम्

क्रीडन्नास्ते महायोगी पद्मकिञ्जल्कसन्निभः
एवं चरितपुण्येन केन वा तद्वदस्व मे ॥ ५ ॥

विश्वास-प्रस्तुतिः

शम्भुरुवाच-
एष विप्रः पुरा राम सर्वसम्पत्समन्वितः
नानाविधसुखोपेतो भार्य्यापोषणतत्परः ॥ ६ ॥

मूलम्

शम्भुरुवाच-
एष विप्रः पुरा राम सर्वसम्पत्समन्वितः
नानाविधसुखोपेतो भार्य्यापोषणतत्परः ॥ ६ ॥

विश्वास-प्रस्तुतिः

अपुत्रो दानहीनश्च देवतार्चनवर्जितः
पञ्चयज्ञविहीनश्च स्वाध्यायपरिवर्जितः ॥ ७ ॥

मूलम्

अपुत्रो दानहीनश्च देवतार्चनवर्जितः
पञ्चयज्ञविहीनश्च स्वाध्यायपरिवर्जितः ॥ ७ ॥

विश्वास-प्रस्तुतिः

प्रातर्मध्याह्नसायाह्नभोजनप्रवणोऽशुचिः
कदाचिदगमद्गेहं गौतमस्य महात्मनः ॥ ८ ॥

मूलम्

प्रातर्मध्याह्नसायाह्नभोजनप्रवणोऽशुचिः
कदाचिदगमद्गेहं गौतमस्य महात्मनः ॥ ८ ॥

विश्वास-प्रस्तुतिः

त्र्यम्बकस्य गिरौ पुण्ये नानामुनिगणाश्रिते
तत्रापि शोभितगृहं स्फटिकस्तम्भकल्पितम् ॥ ९ ॥

मूलम्

त्र्यम्बकस्य गिरौ पुण्ये नानामुनिगणाश्रिते
तत्रापि शोभितगृहं स्फटिकस्तम्भकल्पितम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

अगुरुद्रवकस्तूरीचन्द्र कुङ्कुमचर्चिता
भित्तिर्यस्य च सन्तानकुसुमामोदसौष्ठवम् ॥ १० ॥

मूलम्

अगुरुद्रवकस्तूरीचन्द्र कुङ्कुमचर्चिता
भित्तिर्यस्य च सन्तानकुसुमामोदसौष्ठवम् ॥ १० ॥

विश्वास-प्रस्तुतिः

कस्तूरिका पुष्परस समुत्सेचितभूतलम्
सूक्ष्म सुश्वेतविविधवितानपरिशोभितम् ॥ ११ ॥

मूलम्

कस्तूरिका पुष्परस समुत्सेचितभूतलम्
सूक्ष्म सुश्वेतविविधवितानपरिशोभितम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

अङ्गणं शोभित महाकदलीपूगशोभितम्
समीपसरसीजात मञ्जुकूजन्मधुव्रतम् ॥ १२ ॥

मूलम्

अङ्गणं शोभित महाकदलीपूगशोभितम्
समीपसरसीजात मञ्जुकूजन्मधुव्रतम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

पाटीरतरुसम्भूत गन्धपूरितदिङ्मुखम्
शिक्षागीतकृताल्हाद गीतपूरितदिङ्मुखम् ॥ १३ ॥

मूलम्

पाटीरतरुसम्भूत गन्धपूरितदिङ्मुखम्
शिक्षागीतकृताल्हाद गीतपूरितदिङ्मुखम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

निदाघजनिताताप नाशयन्त्रविनिर्मितम्
कदलीदलसञ्च्छादि पावकाकल्पितच्छदम् ॥ १४ ॥

मूलम्

निदाघजनिताताप नाशयन्त्रविनिर्मितम्
कदलीदलसञ्च्छादि पावकाकल्पितच्छदम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

पाटीरतरुसुस्निग्ध सान्द्र द्वारकपाटकम्
सौगन्धिकमहामोदि कल्पितान्तर भित्तिकम् ॥ १५ ॥

मूलम्

पाटीरतरुसुस्निग्ध सान्द्र द्वारकपाटकम्
सौगन्धिकमहामोदि कल्पितान्तर भित्तिकम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

ईशानभागसुभग रतिकल्पित वेदिकम्
हाटिकाकल्पितपदं विचित्रवेदिकायुतम् ॥ १६ ॥

मूलम्

ईशानभागसुभग रतिकल्पित वेदिकम्
हाटिकाकल्पितपदं विचित्रवेदिकायुतम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

सुस्निग्धनि बिडच्छायं वटमूलोपकल्पितम्
प्रसूनकदलीखण्ड सरोभिः प्रान्तशोभितम् ॥ १७ ॥

मूलम्

सुस्निग्धनि बिडच्छायं वटमूलोपकल्पितम्
प्रसूनकदलीखण्ड सरोभिः प्रान्तशोभितम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

महावटाग्रसंलग्न तुषारितपयोधरम्
नाकोपवनसम्पन्न विचित्राराम शोभितम् ॥ १८ ॥

मूलम्

महावटाग्रसंलग्न तुषारितपयोधरम्
नाकोपवनसम्पन्न विचित्राराम शोभितम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

वापीकूपतडागाद्यमनेकवनशोभितम्
मन्दं मन्दं ववौ वायुर्यत्र गेहे सुखप्रदः ॥ १९ ॥

मूलम्

वापीकूपतडागाद्यमनेकवनशोभितम्
मन्दं मन्दं ववौ वायुर्यत्र गेहे सुखप्रदः ॥ १९ ॥

विश्वास-प्रस्तुतिः

वादिन्यश्चारुसर्वाङ्ग्यो वाद्यानि स्मरसम्पदः
वीणां वेणुं त्रिवेणुं च वादयन्ति वराङ्गनाः ॥ २० ॥

मूलम्

वादिन्यश्चारुसर्वाङ्ग्यो वाद्यानि स्मरसम्पदः
वीणां वेणुं त्रिवेणुं च वादयन्ति वराङ्गनाः ॥ २० ॥

विश्वास-प्रस्तुतिः

तौर्य्यत्रिककृतो नार्य्यश्चतुर्दिक्षु तथोर्द्ध्वतः
सुवर्णादिकपात्रेषु वटका भस्मनः शुभाः ॥ २१ ॥

मूलम्

तौर्य्यत्रिककृतो नार्य्यश्चतुर्दिक्षु तथोर्द्ध्वतः
सुवर्णादिकपात्रेषु वटका भस्मनः शुभाः ॥ २१ ॥

विश्वास-प्रस्तुतिः

वासिताः सर्वगन्धैश्च सुधूपैरपि धूपिताः
कुशग्रथितसङ्घाश्च अक्षमालाश्च कोटिशः ॥ २२ ॥

मूलम्

वासिताः सर्वगन्धैश्च सुधूपैरपि धूपिताः
कुशग्रथितसङ्घाश्च अक्षमालाश्च कोटिशः ॥ २२ ॥

विश्वास-प्रस्तुतिः

कृष्णाजिनसहस्राणि बहिः प्रान्ते स्थितानि च
एतादृशे गृहवरे देववन्द्यो मुनीश्वरः ॥ २३ ॥

मूलम्

कृष्णाजिनसहस्राणि बहिः प्रान्ते स्थितानि च
एतादृशे गृहवरे देववन्द्यो मुनीश्वरः ॥ २३ ॥

विश्वास-प्रस्तुतिः

कर्पूरादींश्च संस्थाप्य चतुर्दिक्षु मुनीश्वरः
पाटीरपीठे कर्पूरसिंहासनमकल्पयत् ॥ २४ ॥

मूलम्

कर्पूरादींश्च संस्थाप्य चतुर्दिक्षु मुनीश्वरः
पाटीरपीठे कर्पूरसिंहासनमकल्पयत् ॥ २४ ॥

विश्वास-प्रस्तुतिः

सूक्ष्मं श्वेतं च सुस्रिग्धमावृत्तं घनसारकैः
सुगन्धवासितजलैः स्नाप्य क्षीरेण शङ्करम् ॥ २५ ॥

मूलम्

सूक्ष्मं श्वेतं च सुस्रिग्धमावृत्तं घनसारकैः
सुगन्धवासितजलैः स्नाप्य क्षीरेण शङ्करम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

अन्यैश्च वैदिकैर्मन्त्रैः स्नापयित्वा सदाशिवम्
दारुचन्द्रोपपीठे तु वस्त्रपीठं निधाय च
पात्रिकामग्रतः स्थाप्य स्थापयित्वा दलेष्वमून् ॥ २६ ॥

मूलम्

अन्यैश्च वैदिकैर्मन्त्रैः स्नापयित्वा सदाशिवम्
दारुचन्द्रोपपीठे तु वस्त्रपीठं निधाय च
पात्रिकामग्रतः स्थाप्य स्थापयित्वा दलेष्वमून् ॥ २६ ॥

विश्वास-प्रस्तुतिः

एकस्मिन्नक्षताः पात्रे अन्यस्मिन्सतिलाक्षताः
पञ्चगन्धकमेकस्मिन्नन्यस्मिन्नष्टगन्धकम् ॥ २७ ॥

मूलम्

एकस्मिन्नक्षताः पात्रे अन्यस्मिन्सतिलाक्षताः
पञ्चगन्धकमेकस्मिन्नन्यस्मिन्नष्टगन्धकम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

काश्मीरं मृगनाभिं तु कर्पूरं चन्दनं तथा
पात्रेष्वन्येषु विन्यस्य पूजास्थाने प्रकल्प्य च ॥ २८ ॥

मूलम्

काश्मीरं मृगनाभिं तु कर्पूरं चन्दनं तथा
पात्रेष्वन्येषु विन्यस्य पूजास्थाने प्रकल्प्य च ॥ २८ ॥

विश्वास-प्रस्तुतिः

नानावरणमार्गेण पूजा तत्र विधीयते
लिङ्गमध्ये स्थितो देवः पञ्चवक्त्रः सदाशिवः ॥ २९ ॥

मूलम्

नानावरणमार्गेण पूजा तत्र विधीयते
लिङ्गमध्ये स्थितो देवः पञ्चवक्त्रः सदाशिवः ॥ २९ ॥

विश्वास-प्रस्तुतिः

तस्य प्रावरणं लिङ्गं शक्तिस्तस्य विधीयते
शक्तेरावरणं विष्णुर्विष्णोरावरणं विधिः ॥ ३० ॥

मूलम्

तस्य प्रावरणं लिङ्गं शक्तिस्तस्य विधीयते
शक्तेरावरणं विष्णुर्विष्णोरावरणं विधिः ॥ ३० ॥

विश्वास-प्रस्तुतिः

ब्रह्मप्रावरणं चन्द्रस्तस्य सूर्यस्ततः श्रुतिः
दिग्देवतासु तद्गुप्तिस्तासामावरणं दिशः ॥ ३१ ॥

मूलम्

ब्रह्मप्रावरणं चन्द्रस्तस्य सूर्यस्ततः श्रुतिः
दिग्देवतासु तद्गुप्तिस्तासामावरणं दिशः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

दिशामावरणं शम्भुस्तस्य चावरणं गुणाः
दशप्रावरणं ह्येतच्छिवलिङ्गार्चनं शुभम् ॥ ३२ ॥

मूलम्

दिशामावरणं शम्भुस्तस्य चावरणं गुणाः
दशप्रावरणं ह्येतच्छिवलिङ्गार्चनं शुभम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

केषाञ्चिन्मतमेतत्स्यादथ प्रावरणान्तरम्
विद्यावरणमाख्यातं तदुमावरणं स्मृतम् ॥ ३३ ॥

मूलम्

केषाञ्चिन्मतमेतत्स्यादथ प्रावरणान्तरम्
विद्यावरणमाख्यातं तदुमावरणं स्मृतम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

विष्णुरावरणं तस्या विष्णोश्चावरणं विधिः
ब्रह्मप्रावरणञ्चन्द्रस्तस्य भानुरथावृतिः ॥ ३४ ॥

मूलम्

विष्णुरावरणं तस्या विष्णोश्चावरणं विधिः
ब्रह्मप्रावरणञ्चन्द्रस्तस्य भानुरथावृतिः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

भानोरावरणं चेश इति षोढावृतिः स्मृता
विधिं विना समाख्यातं पञ्चावरणमुत्तमम् ॥ ३५ ॥

मूलम्

भानोरावरणं चेश इति षोढावृतिः स्मृता
विधिं विना समाख्यातं पञ्चावरणमुत्तमम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

शशाङ्कविष्णुशक्तीनामेतदावरणत्रयम्
अम्बिकावरणं प्रोक्तमेकावरणमुत्तमम् ॥ ३६ ॥

मूलम्

शशाङ्कविष्णुशक्तीनामेतदावरणत्रयम्
अम्बिकावरणं प्रोक्तमेकावरणमुत्तमम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

अथवा लोकपालाः स्युरावृतिः सोमपूजने
अनावरणमथवा पूजनं शस्यते शिवे ॥ ३७ ॥

मूलम्

अथवा लोकपालाः स्युरावृतिः सोमपूजने
अनावरणमथवा पूजनं शस्यते शिवे ॥ ३७ ॥

विश्वास-प्रस्तुतिः

पत्रिकाष्टदलेष्वेव स्थितद्रव्यैर्यजेच्छिवम्
पत्रिकालक्षणं वक्ष्ये सर्वकर्मोपयोगितम् ॥ ३८ ॥

मूलम्

पत्रिकाष्टदलेष्वेव स्थितद्रव्यैर्यजेच्छिवम्
पत्रिकालक्षणं वक्ष्ये सर्वकर्मोपयोगितम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

स्वर्णेन राजतेनाथ ताम्रेणाथ प्रकल्पितम्
मुक्ताशुक्तिनिभं कुर्यात्पत्रिकाष्टदलं शुभम् ॥ ३९ ॥

मूलम्

स्वर्णेन राजतेनाथ ताम्रेणाथ प्रकल्पितम्
मुक्ताशुक्तिनिभं कुर्यात्पत्रिकाष्टदलं शुभम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

पद्मपत्रसमानाष्टकोणाकारं प्रकल्पयेत्
पलमात्रं ततः शस्तं निर्वृतं विस्तृतं पदम् ॥ ४० ॥

मूलम्

पद्मपत्रसमानाष्टकोणाकारं प्रकल्पयेत्
पलमात्रं ततः शस्तं निर्वृतं विस्तृतं पदम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

अस्थूलमध्यमुपरि पद्माकृतिदलाष्टकम्
अथवा शक्तिमार्गेण पञ्चपत्रं प्रकल्पयेत् ॥ ४१ ॥

मूलम्

अस्थूलमध्यमुपरि पद्माकृतिदलाष्टकम्
अथवा शक्तिमार्गेण पञ्चपत्रं प्रकल्पयेत् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

त्रिपत्रमथवा कुर्याच्छक्तिभावे मतेन च
यथा स्याच्छोभनं पात्रं तथा कुर्य्याद्विचक्षणः ॥ ४२ ॥

मूलम्

त्रिपत्रमथवा कुर्याच्छक्तिभावे मतेन च
यथा स्याच्छोभनं पात्रं तथा कुर्य्याद्विचक्षणः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

शक्त्यान्तरितरुद्राक्षैः कल्पिताष्टशतैः शुभा
मालोपवीतं त्रिंशत्या अष्टकेन प्रकल्पितम् ॥ ४३ ॥

मूलम्

शक्त्यान्तरितरुद्राक्षैः कल्पिताष्टशतैः शुभा
मालोपवीतं त्रिंशत्या अष्टकेन प्रकल्पितम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

प्रगण्डयोरथैकैकं बद्धा तु द्वे प्रकोष्ठयोः
शिरस्येका धृता तेन कण्ठे च परमर्षिणा ॥ ४४ ॥

मूलम्

प्रगण्डयोरथैकैकं बद्धा तु द्वे प्रकोष्ठयोः
शिरस्येका धृता तेन कण्ठे च परमर्षिणा ॥ ४४ ॥

विश्वास-प्रस्तुतिः

रुद्राक्षैः स्फटिकै रत्नैः कल्पिता ह्यक्षमालिका
व्याघ्रचर्मासनं कृत्वा पद्मासनगतो मुनिः ॥ ४५ ॥

मूलम्

रुद्राक्षैः स्फटिकै रत्नैः कल्पिता ह्यक्षमालिका
व्याघ्रचर्मासनं कृत्वा पद्मासनगतो मुनिः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

आवाहनासनं चार्घ्यं पाद्यं वाचमनीयकम्
निर्वर्त्य गङ्गासलिलैः स्नापयामास शङ्करम् ॥ ४६ ॥

मूलम्

आवाहनासनं चार्घ्यं पाद्यं वाचमनीयकम्
निर्वर्त्य गङ्गासलिलैः स्नापयामास शङ्करम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

अष्टगन्धकसंयुक्तैः पुष्पैर्बकुलपाटलैः
स्वर्णभाण्डस्थितैर्वस्त्रशोधितैर्वासितैर्दृढम् ॥ ४७ ॥

मूलम्

अष्टगन्धकसंयुक्तैः पुष्पैर्बकुलपाटलैः
स्वर्णभाण्डस्थितैर्वस्त्रशोधितैर्वासितैर्दृढम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

द्वारे ताम्रकटाहश्च प्रबन्धद्रोणिना शुभम्
गोशृङ्गेण विषाणेन गवयस्य तथा क्वचित् ॥ ४८ ॥

मूलम्

द्वारे ताम्रकटाहश्च प्रबन्धद्रोणिना शुभम्
गोशृङ्गेण विषाणेन गवयस्य तथा क्वचित् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

दक्षिणावर्तशङ्खेन रत्नपात्रैरथापि वा
स्वर्णैर्वा राजतैर्वापि ताम्रैः कांस्यैरथापि वा ॥ ४९ ॥

मूलम्

दक्षिणावर्तशङ्खेन रत्नपात्रैरथापि वा
स्वर्णैर्वा राजतैर्वापि ताम्रैः कांस्यैरथापि वा ॥ ४९ ॥

विश्वास-प्रस्तुतिः

स्वर्णैश्च सूक्ष्मकलशैः स्नापयामास चेच्छया
अथवा मृण्मयैः कुर्य्यात्पद्मपत्रैरथापि वा ॥ ५० ॥

मूलम्

स्वर्णैश्च सूक्ष्मकलशैः स्नापयामास चेच्छया
अथवा मृण्मयैः कुर्य्यात्पद्मपत्रैरथापि वा ॥ ५० ॥

विश्वास-प्रस्तुतिः

पालाशैश्चूतजम्ब्वाद्यैः पात्रैः संस्नापयेद्विभुम्
स्नानानामथ सर्वेषां धारास्नानं विशिष्यते ॥ ५१ ॥

मूलम्

पालाशैश्चूतजम्ब्वाद्यैः पात्रैः संस्नापयेद्विभुम्
स्नानानामथ सर्वेषां धारास्नानं विशिष्यते ॥ ५१ ॥

विश्वास-प्रस्तुतिः

नमस्तेत्यादिमन्त्रेण शतरुद्रियसञ्ज्ञिना
शं चेत्याद्यनुवाकेन शान्तिरूपेण चेश्वरम् ॥ ५२ ॥

मूलम्

नमस्तेत्यादिमन्त्रेण शतरुद्रियसञ्ज्ञिना
शं चेत्याद्यनुवाकेन शान्तिरूपेण चेश्वरम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

आवृत्य च यथाशक्ति पश्चाद्गन्धादि विन्यसेत्
ततश्च शोभनैः पुष्पैः पत्रैर्बिल्वैः समर्चयेत् ॥ ५३ ॥

मूलम्

आवृत्य च यथाशक्ति पश्चाद्गन्धादि विन्यसेत्
ततश्च शोभनैः पुष्पैः पत्रैर्बिल्वैः समर्चयेत् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तुलसीमारुवदलैः कल्हारैश्च महोत्पलैः
नीलोत्पलैरुत्पलैश्च शेषैश्च करवीरकैः ॥ ५४ ॥

मूलम्

तुलसीमारुवदलैः कल्हारैश्च महोत्पलैः
नीलोत्पलैरुत्पलैश्च शेषैश्च करवीरकैः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

कर्णिकारैः सिताम्भोजैरपराजितया तथा
तिलाक्षतैरक्षतैश्च श्रीपत्रैस्तिलमिश्रकैः ॥ ५५ ॥

मूलम्

कर्णिकारैः सिताम्भोजैरपराजितया तथा
तिलाक्षतैरक्षतैश्च श्रीपत्रैस्तिलमिश्रकैः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

एवं महेशमीशानं पूजयामास गौतमः
कर्पूरागरुकस्तूरी सर्ज्जागरुकचन्दनैः ॥ ५६ ॥

मूलम्

एवं महेशमीशानं पूजयामास गौतमः
कर्पूरागरुकस्तूरी सर्ज्जागरुकचन्दनैः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अन्यैश्च धूपयामास षोडशाथ प्रदीपिकाः
कर्पूरवर्त्तिसंयुक्ता दीपयन्त्रोपरिस्थिताः ॥ ५७ ॥

मूलम्

अन्यैश्च धूपयामास षोडशाथ प्रदीपिकाः
कर्पूरवर्त्तिसंयुक्ता दीपयन्त्रोपरिस्थिताः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

निवेदितं महेशाय अथ नैवेद्यमुत्तमम्
सुपक्वशालिपिष्टान्नं भक्ष्यं लेह्यं च चोष्यकम् ॥ ५८ ॥

मूलम्

निवेदितं महेशाय अथ नैवेद्यमुत्तमम्
सुपक्वशालिपिष्टान्नं भक्ष्यं लेह्यं च चोष्यकम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

मधुरादिसमोपेतं पञ्चभक्ष्यसमन्वितम्
अनेकपक्वशाकाढ्यमनेक पक्वमिश्रितम् ॥ ५९ ॥

मूलम्

मधुरादिसमोपेतं पञ्चभक्ष्यसमन्वितम्
अनेकपक्वशाकाढ्यमनेक पक्वमिश्रितम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

पानं विंशतिसंयुक्तं द्राक्षारम्भाफलान्वितम्
सूपाष्टकादिसंयुक्तं युक्तं मूलफलादिना ॥ ६० ॥

मूलम्

पानं विंशतिसंयुक्तं द्राक्षारम्भाफलान्वितम्
सूपाष्टकादिसंयुक्तं युक्तं मूलफलादिना ॥ ६० ॥

विश्वास-प्रस्तुतिः

यथासम्भवसंयुक्तैरन्यैरप्युपकल्पितम्
अग्रपुष्पसमोपेतं नैवेद्यं प्रददौ मुनिः ॥ ६१ ॥

मूलम्

यथासम्भवसंयुक्तैरन्यैरप्युपकल्पितम्
अग्रपुष्पसमोपेतं नैवेद्यं प्रददौ मुनिः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

सौवर्णपात्रिका न्यस्तनीराजनसहस्रकम्
सोपहाराय देवाय दत्वा चैव नमस्य च ॥ ६२ ॥

मूलम्

सौवर्णपात्रिका न्यस्तनीराजनसहस्रकम्
सोपहाराय देवाय दत्वा चैव नमस्य च ॥ ६२ ॥

विश्वास-प्रस्तुतिः

पूगखण्डानथो घृष्टान्पत्राणि क्षालितानि च
अपृष्ठाग्राणि सुश्वेतच्छदयावृतिकानि च ॥ ६३ ॥

मूलम्

पूगखण्डानथो घृष्टान्पत्राणि क्षालितानि च
अपृष्ठाग्राणि सुश्वेतच्छदयावृतिकानि च ॥ ६३ ॥

विश्वास-प्रस्तुतिः

घनसारकचूर्णं च न्यस्तपत्रत्रयं शुभम्
सौवर्णपात्रविन्यस्तमिदं ताम्बूलमीश्वरे ॥ ६४ ॥

मूलम्

घनसारकचूर्णं च न्यस्तपत्रत्रयं शुभम्
सौवर्णपात्रविन्यस्तमिदं ताम्बूलमीश्वरे ॥ ६४ ॥

विश्वास-प्रस्तुतिः

अथ प्रदक्षिणं कृत्वा नमस्काराननन्तरम्
अष्टयोषास्ततः प्राप्तास्तन्त्रीवेण्वादिधारिकाः ॥ ६५ ॥

मूलम्

अथ प्रदक्षिणं कृत्वा नमस्काराननन्तरम्
अष्टयोषास्ततः प्राप्तास्तन्त्रीवेण्वादिधारिकाः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

विचित्रवाद्यवादिन्यः सम्प्राप्ता मुनिसन्निधिम्
क्षुद्रतालयुगं गृह्य स्वयं गातुं प्रचक्रमे ॥ ६६ ॥

मूलम्

विचित्रवाद्यवादिन्यः सम्प्राप्ता मुनिसन्निधिम्
क्षुद्रतालयुगं गृह्य स्वयं गातुं प्रचक्रमे ॥ ६६ ॥

विश्वास-प्रस्तुतिः

गौतमे गातुमुद्युक्ते तानं कुर्युरथाङ्गनाः
मन्दं मन्दं च वाद्यानि वादयन्ति तथापराः ॥ ६७ ॥

मूलम्

गौतमे गातुमुद्युक्ते तानं कुर्युरथाङ्गनाः
मन्दं मन्दं च वाद्यानि वादयन्ति तथापराः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

मधुरं गायति मुनौ स्वरामूर्तिभृतस्तथा
प्रानृत्यन्त महेशाग्रे तदद्भुतमिवाभवत् ॥ ६८ ॥

मूलम्

मधुरं गायति मुनौ स्वरामूर्तिभृतस्तथा
प्रानृत्यन्त महेशाग्रे तदद्भुतमिवाभवत् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे प्राप्तो भगवान्नारदो मुनिः
तमागतं गौतमोपि सम्पूज्य प्रणिपत्य च ॥ ६९ ॥

मूलम्

एतस्मिन्नन्तरे प्राप्तो भगवान्नारदो मुनिः
तमागतं गौतमोपि सम्पूज्य प्रणिपत्य च ॥ ६९ ॥

विश्वास-प्रस्तुतिः

आहचैनङ्कृतार्थोस्मिनचकश्चिन्मयासमः
तवागमनकृत्यं किं कुत आगमनं तथा ॥ ७० ॥

मूलम्

आहचैनङ्कृतार्थोस्मिनचकश्चिन्मयासमः
तवागमनकृत्यं किं कुत आगमनं तथा ॥ ७० ॥

विश्वास-प्रस्तुतिः

श्रीनारद उवाच-
पातालादागतोस्मीह भुक्त्वा वै बाणमन्दिरे
आयास्यन्ति महात्मानो बाणशुक्रादयो गृहम् ॥ ७१ ॥

मूलम्

श्रीनारद उवाच-
पातालादागतोस्मीह भुक्त्वा वै बाणमन्दिरे
आयास्यन्ति महात्मानो बाणशुक्रादयो गृहम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

अथ क्षणादभ्यगाच्च बाणः परपुरञ्जयः
विंशत्यक्षौहिणीयुक्तो गजमारुह्य सोसुरः ॥ ७२ ॥

मूलम्

अथ क्षणादभ्यगाच्च बाणः परपुरञ्जयः
विंशत्यक्षौहिणीयुक्तो गजमारुह्य सोसुरः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

अपरं हि गजं शुक्रः प्रह्लादो रथमुत्तमम्
वृषपर्वा रथवरं बलिस्तुरगमुत्तमम् ॥ ७३ ॥

मूलम्

अपरं हि गजं शुक्रः प्रह्लादो रथमुत्तमम्
वृषपर्वा रथवरं बलिस्तुरगमुत्तमम् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

आगतानथ तान्सर्वानाज्ञाय स तु गौतमः
सशिष्यो निर्जगामाथ ह्यादायार्घ्यादिकं त्वरा ॥ ७४ ॥

मूलम्

आगतानथ तान्सर्वानाज्ञाय स तु गौतमः
सशिष्यो निर्जगामाथ ह्यादायार्घ्यादिकं त्वरा ॥ ७४ ॥

विश्वास-प्रस्तुतिः

गौतमं चापि ते वीक्ष्यावरुह्य च गजादिकात्
नमश्चक्रुरथो दैत्यास्तं नमस्कृत्य भार्गवम् ॥ ७५ ॥

मूलम्

गौतमं चापि ते वीक्ष्यावरुह्य च गजादिकात्
नमश्चक्रुरथो दैत्यास्तं नमस्कृत्य भार्गवम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

आलिङ्ग्य राक्षसान्सर्वान्पूजयित्वा यथाविधि
सेनायाः सन्निवेशं च चकार मुनिपुङ्गवः ॥ ७६ ॥

मूलम्

आलिङ्ग्य राक्षसान्सर्वान्पूजयित्वा यथाविधि
सेनायाः सन्निवेशं च चकार मुनिपुङ्गवः ॥ ७६ ॥

विश्वास-प्रस्तुतिः

पादौ प्रक्षाल्य शुक्रस्य जलं मूर्ध्नि धृतं तथा
विचित्रफलसंयुक्तं दत्तवानर्हणं मुनिः ॥ ७७ ॥

मूलम्

पादौ प्रक्षाल्य शुक्रस्य जलं मूर्ध्नि धृतं तथा
विचित्रफलसंयुक्तं दत्तवानर्हणं मुनिः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

वापीतडागसरसी स्नानपूर्वकृत क्रियाः
सङ्गमे वर्तमाने तु गौतमस्याश्रमे शुभे ॥ ७८ ॥

मूलम्

वापीतडागसरसी स्नानपूर्वकृत क्रियाः
सङ्गमे वर्तमाने तु गौतमस्याश्रमे शुभे ॥ ७८ ॥

विश्वास-प्रस्तुतिः

तद्गेहं तु प्रविश्याथ राक्षसास्सपुरोहिताः
देवपूजाप्रपत्तिं च चक्रुः सर्वे द्विजालये ॥ ७९ ॥

मूलम्

तद्गेहं तु प्रविश्याथ राक्षसास्सपुरोहिताः
देवपूजाप्रपत्तिं च चक्रुः सर्वे द्विजालये ॥ ७९ ॥

विश्वास-प्रस्तुतिः

सद्यः प्रकल्पितायां च वेद्यां शुक्रोऽयजच्छिवम्
तस्यैव वामभागे तु प्रह्लादोयजदच्युतम् ॥ ८० ॥

मूलम्

सद्यः प्रकल्पितायां च वेद्यां शुक्रोऽयजच्छिवम्
तस्यैव वामभागे तु प्रह्लादोयजदच्युतम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

सोमं च बलिरप्येवमन्ये चासुरपुङ्गवाः
अथ बाणोऽयजद्देवमेकमेव त्रियम्बकम् ॥ ८१ ॥

मूलम्

सोमं च बलिरप्येवमन्ये चासुरपुङ्गवाः
अथ बाणोऽयजद्देवमेकमेव त्रियम्बकम् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

शुक्रोपि भगवन्तन्तमुमानाथमपूजयत्
गौतमोप्यथ मध्याह्ने पूजयामास शङ्करम् ॥ ८२ ॥

मूलम्

शुक्रोपि भगवन्तन्तमुमानाथमपूजयत्
गौतमोप्यथ मध्याह्ने पूजयामास शङ्करम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

सर्वे शुक्लाम्बरधरा भस्मोद्धूलितविग्रहाः
सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्ड्रकम् ॥ ८३ ॥

मूलम्

सर्वे शुक्लाम्बरधरा भस्मोद्धूलितविग्रहाः
सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्ड्रकम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः
हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकम् ॥ ८४ ॥

मूलम्

नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः
हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

तेषां मध्ये महाकाशमाकाशे निर्मलानलम्
तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम् ॥ ८५ ॥

मूलम्

तेषां मध्ये महाकाशमाकाशे निर्मलानलम्
तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

अज्ञानसंयुतं भूतं शमलं सर्वसङ्गतम्
तद्देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना ॥ ८६ ॥

मूलम्

अज्ञानसंयुतं भूतं शमलं सर्वसङ्गतम्
तद्देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना ॥ ८६ ॥

विश्वास-प्रस्तुतिः

आकाशस्यावृतं चाहं दग्ध्वाऽऽकाशमथो दहेत्
दग्ध्वाकाशमयो वायुमग्निभूतं तदा दहेत् ॥ ८७ ॥

मूलम्

आकाशस्यावृतं चाहं दग्ध्वाऽऽकाशमथो दहेत्
दग्ध्वाकाशमयो वायुमग्निभूतं तदा दहेत् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च
तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत् ॥ ८८ ॥

मूलम्

अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च
तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

एवं दहित्वा भूतानि देही तज्ज्ञानवह्निना
शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरम् ॥ ८९ ॥

मूलम्

एवं दहित्वा भूतानि देही तज्ज्ञानवह्निना
शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरम् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

निष्पन्नचन्द्रकिरणसङ्काशकिरणं शिवम्
शिवाङ्गोत्पन्नकिरणैरमृतद्रवसंयुतैः ॥ ९० ॥

मूलम्

निष्पन्नचन्द्रकिरणसङ्काशकिरणं शिवम्
शिवाङ्गोत्पन्नकिरणैरमृतद्रवसंयुतैः ॥ ९० ॥

विश्वास-प्रस्तुतिः

सुशीतला ततो ज्वाला प्रशान्ता चन्द्ररश्मिवत्
प्रसारितसुधारुग्भिः सान्द्रीभूतश्च सम्प्लवः ॥ ९१ ॥

मूलम्

सुशीतला ततो ज्वाला प्रशान्ता चन्द्ररश्मिवत्
प्रसारितसुधारुग्भिः सान्द्रीभूतश्च सम्प्लवः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

क्रमेण प्लावितं भूतग्रामं सञ्चिन्तयेत्परम् ॥ ९२ ॥

मूलम्

क्रमेण प्लावितं भूतग्रामं सञ्चिन्तयेत्परम् ॥ ९२ ॥

विश्वास-प्रस्तुतिः

इत्थं कृत्वा भूतशुद्धिं क्रियार्हो मर्त्यः शुद्धो जायते एव शुद्धः
पूजां कर्तुं जाप्यकर्मापि पश्चाद्देवध्याने ब्रह्महत्यादि हानिः ॥ ९३ ॥

मूलम्

इत्थं कृत्वा भूतशुद्धिं क्रियार्हो मर्त्यः शुद्धो जायते एव शुद्धः
पूजां कर्तुं जाप्यकर्मापि पश्चाद्देवध्याने ब्रह्महत्यादि हानिः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

एवं ध्यात्वा चन्द्रदीप्तिप्रकाशं ध्यानेनारोप्याशु लिङ्गे शिवस्य
सदाशिवं दीपमध्ये विचिन्त्य पञ्चाक्षरेणार्चनमव्ययं तु ॥ ९४ ॥

मूलम्

एवं ध्यात्वा चन्द्रदीप्तिप्रकाशं ध्यानेनारोप्याशु लिङ्गे शिवस्य
सदाशिवं दीपमध्ये विचिन्त्य पञ्चाक्षरेणार्चनमव्ययं तु ॥ ९४ ॥

विश्वास-प्रस्तुतिः

आवाहनादीनुपचारांस्तथापि कृत्वा स्नानं पूर्ववच्छङ्करस्य
उदुम्बरं राजतं स्वर्णपीठं वस्त्रादिछन्नं सर्वमेवेह पीठम् ॥ ९५ ॥

मूलम्

आवाहनादीनुपचारांस्तथापि कृत्वा स्नानं पूर्ववच्छङ्करस्य
उदुम्बरं राजतं स्वर्णपीठं वस्त्रादिछन्नं सर्वमेवेह पीठम् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

अन्ते कृत्वा बुद्बुदानां च वृष्टिं पीठे पीठे नागमेकं पुरस्तात्
कुर्यात्पीठे चोर्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च ॥ ९६ ॥

मूलम्

अन्ते कृत्वा बुद्बुदानां च वृष्टिं पीठे पीठे नागमेकं पुरस्तात्
कुर्यात्पीठे चोर्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च ॥ ९६ ॥

विश्वास-प्रस्तुतिः

जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादश प्रातिगुण्ये
सुश्वेतेन तस्य मध्ये महेशं लिङ्गाकारं पीठयुक्तं प्रपूज्यम् ॥ ९७ ॥

मूलम्

जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादश प्रातिगुण्ये
सुश्वेतेन तस्य मध्ये महेशं लिङ्गाकारं पीठयुक्तं प्रपूज्यम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

एवं कृत्वा बाणमुख्या दितीशा दत्त्वा दत्त्वा पञ्चगन्धाष्टगन्धम्
पुष्पैः पत्रैः श्री तिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्च प्रपूज्य ॥ ९८ ॥

मूलम्

एवं कृत्वा बाणमुख्या दितीशा दत्त्वा दत्त्वा पञ्चगन्धाष्टगन्धम्
पुष्पैः पत्रैः श्री तिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्च प्रपूज्य ॥ ९८ ॥

विश्वास-प्रस्तुतिः

धूपं दत्त्वा विधिवत्सम्प्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम्
पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्रतत्रापि चक्रुः ॥ ९९ ॥

मूलम्

धूपं दत्त्वा विधिवत्सम्प्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम्
पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्रतत्रापि चक्रुः ॥ ९९ ॥

अथास्मिन्नन्तरे गौतमस्यप्राप्तः शिष्यः शङ्करात्मेति नाम्ना १००
उन्मत्तवेशो दिग्वासा अनेकावृतिमाश्रितः
क्वचिद्द्विजातिप्रवरः क्वचिच्चण्डालसन्निभः १०१
क्वचिच्छूद्र समो योगी तापसः क्वचिदप्युत
गर्जत्युत्पतते चैव नृत्यति स्तौति गायति १०२
रोदिति शृणुते व्यक्तं पतत्युत्तिष्ठति क्वचित्
शिवज्ञानैकसम्पन्नः परमानन्दनिर्भरः १०३
सम्प्राप्तो भोज्यवेलायां गौतमस्यान्तिकं ययौ
बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च १०४
क्वचिल्लेहति तत्पात्रं तूष्णीमेवाभ्यगात्क्वचित्
हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्क्वचित् १०५
क्वचिद्गृहान्तरे मूत्रं क्वचित्कर्दमलेपनम्
सर्वदा तं गुरुर्दृष्ट्वा करमालम्ब्य मन्दिरम् १०६
प्रवेश्य स्वीयपीठे तमुपवेश्याभ्यभोजयत्
स्वयं तदस्य पात्रेण बुभुजे गौतमो मुनिः १०७
तस्य चित्तं परिज्ञातुं कदाचिदथ सुन्दरी
अहल्या शिष्यमाहूय भुङ्क्ष्वेत्युक्त्वाथ सा शुभा १०८
सौवर्णे भाजने चान्नं निधाय चषकान्तरे
पानादिकमथो दत्वा एकस्मिन्पावकं पुनः १०९
निधायाङ्गारनिचयं कण्टकानां चयं परे
निधाय भुङ्क्ष्व भुङ्क्ष्वेति स चापि बुभुजे मुनिः ११०
यथा पपौ हि पानीयं तथा वह्निमपि द्विजः
कण्टकानपि भुक्त्वा स यथापूर्वमतिष्ठत १११
पुरा हि मुनिकन्याभिराहूतो भोजनाय च
दिनेदिने तत्प्रदत्तं लोष्ठमम्बु च गोमयम् ११२
कर्दमं काष्ठदण्डं च भुक्त्वा प्रीत्याथ हर्षितः
एतादृशो मुनिरसौ चण्डालसदृशाकृतिः ११३
सुजीर्णोपानहौ हस्ते गृहीत्वा तु तथा करे
अन्त्यजोचितभाषाभिर्वृषपर्वाणमभ्यगात् ११४
वृषपर्वेशयोर्मध्ये दिग्वासाः समतिष्ठत
वृषपर्वा तमज्ञात्वा पीडयित्वा शिरोऽच्छिनत् ११५
हते तस्मिन्द्विजश्रेष्ठे जगदेतच्चराचरम्
अतीव कलुषमभवत्तत्रस्था मुनयस्तथा ११६
गौतमस्य महाशोकः सञ्जातः सुमहात्मनः
निर्ययौ चक्षुषोर्वारि शोकं सन्दर्शयन्निव ११७
गौतमः सर्वदैत्यानां सन्निधौ वाक्यमुक्तवान्
किमनेन कृतं पापं येन च्छिन्नमिदं शिरः ११८
मम प्राणाधिकस्येह सर्वदा शिवयोगिनः
ममापि मरणं सत्यं शिष्यरूपी यतो गुरुः ११९
शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम्
मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम् १२०
शुक्र उवाच-
एनं सञ्जीवयिष्यामि मम गोत्रं शिवप्रियम्
किमसौ म्रियते ब्रह्मन्पश्य मे तपसो बलम् १२१
इति वादिनि विप्रेन्द्रे गौतमोऽपि ममार ह
तस्मिन्मृतेऽथ शुक्रोऽपि प्राणांस्तत्याज योगतः १२२
तस्यापि हतमाज्ञाय प्रह्लादा द्दानवेश्वराः
सर्वे मृताः क्षणेनैव तदद्भुतमिवाभवत् १२३
मृतमासीदथ बलं तस्य बाणस्य धीमतः
अहल्या शोकसन्तप्ता रुरोदोच्चैः पुनः पुनः १२४
गौतमेन महेशस्य पूजया पूजितो विभुः
वीरभद्रो महायोगी सर्वं दृष्ट्वा चुकोप ह १२५
अहो कष्टमहोकष्टं माहेशा बहवो मृताः
शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यहम् १२६
इति निश्चित्य गतवान्मन्दराचलमव्ययम्
नमस्कृत्वा विरूपाक्षमिदं सर्वमथोक्तवान् १२७
ब्रह्म हरी स्थितौ तत्र दृष्ट्वा प्राह शिवो वचः
मद्भक्तैः साहसं कर्म कृतं दृष्ट्वा वरप्रदः १२८
गत्वा पश्यामहे विष्णो युवामप्यागमिष्यथ
अथेशो वृषमारुह्य वायुना धूतचामरः १२९
नन्दिकेन सुवेषेण धृते छत्रेति शोभने
सुश्वेतहेमदण्डे च नान्ययोगे धृते विभोः १३०
महेशानुमतिं लब्ध्वा हरिर्नागान्तके स्थितः
आरक्तनीलछत्राभ्यां शुशुभे लक्ष्यकौस्तुभः १३१
शिवानुमत्या ब्रह्मापि हंसारूढोऽभवत्तदा
इन्द्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः १३२
इन्द्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः
अथ ते निर्ययुः सर्वे नानावाद्यानुमोदिताः १३३
कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः
ब्रह्मविष्णुमहेशाना दृष्ट्वा तत्परमाद्भुतम् १३४
स्वभक्तं जीवयामास वामकोणनिरीक्षणात्
शङ्करो गौतमं प्राह तुष्टोऽहं ते वरं वृणु १३५
गौतम उवाच-
यदि प्रसन्नो देवेश यदि देयो वरो मम
त्वल्लिङ्गार्चनसामर्थ्यं नित्यमस्तु महेश्वर १३६
वृतमेतन्मया देव शृणुष्वैतत्त्रिलोचन
मम शिष्यो महाभागो हेयाहेयादिवर्जितः १३७
प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा
न च घ्राणेन घ्रातव्यं न दातव्यं न चेतरत् १३८
इति बुद्घ्वा तथा कुर्वन्स हि योगी महायशाः
उन्मत्तविकृताकारः शङ्करात्मेति कीर्तितः १३९
न कश्चित्तं प्रतिद्विष्यान्न च तं हिंसयेदिति
एतन्मे दीयतां देव एतेषाममृतिस्तथा १४०
श्रीभगवानुवाच-
आकल्पमेते जीवन्तु ततो मुक्तिं भजन्तु च
त्वया कृतमिदं वेश्म विस्तृतं विकृतं शुभम् १४१
तिष्ठामः क्षणमात्रं तु ततो यास्याम मन्दिरम्
गौतम उवाच-
अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति १४२
ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते
अथेशो विष्णुमालोक्य गृहीत्वा तु करं हरेः १४३
प्रहसन्नम्बुजाभाक्षमित्युवाच सदाशिवः
म्लानोदरोसि गोविन्द देयं ते भोजनं किमु १४४
स्वयं प्रविश्य यदि वा स्वयं भुङ्क्ष्व स्वगेहवत्
गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति १४५
इत्युक्त्वा तत्करालम्बी एकान्तमगमद्विभुः
आदिश्य नन्दिनं देवो द्वाराध्यक्षं यथोक्तवत् १४६
गौतमं समुवाचायमुत्तरं विष्णुभाषणम्
सदाशिव उवाच-
सम्पादयान्नं सर्वेषां भोक्तुकामा वयं मुने १४७
इत्युक्त्वैकान्तमगमद्वासुदेवेन शङ्करः
मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ १४८
अन्योन्यं भाषणं कृत्त्वा प्रोत्तस्थतुरुभावपि
गत्वा तटाकं गम्भीरं स्नास्यन्तौ देवसत्तमौ १४९
कराम्बुपानमन्योन्यं पृथक्कृत्वोभयत्र च
मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे १५०
अथ विष्णुर्महेशश्च जलपातानि शीघ्रतः
चक्रतुः शङ्करः पद्मकिञ्जल्काञ्जलिना हरेः १५१
अवाकिरन्मुखे तस्य पद्मोत्फुल्लविलोचने
नेत्रे केशरसम्पातान्न्यमीलयत केशवः १५२
अत्रान्तरे हरेः स्कन्धमारुरोह महेश्वरः
हर्युत्तमाङ्गं बाहुभ्यां गृहीत्वा सन्न्यमज्जयत् १५३
उन्मज्जयित्वा च पुनः पुनश्चापि पुनः पुनः
पीडितः स हरिः सूक्ष्मं पातयामास शङ्करम् १५४
अथ पादौ गृहीत्वा तु आचकर्ष च भ्रामयत्
अताडयद्धरेर्वक्षः पातयामास चाच्युतम् १५५
अथोत्थितो हरिस्तोयमादायञ्जलिना ततः
अवाकिरदथो शम्भुमथ विष्णुमथो हरः १५६
जलक्रीडैवमभवदथ चर्षिगणान्तरे
जलक्रीडासम्भ्रमेण विस्रस्तजटबन्धनाः १५७
अथ सम्भ्रमतस्तेषामन्योन्यजटबन्धनम्
इतरेतरबद्धासु जटासु च मुनीश्वराः १५८
शक्तिमन्तोऽशक्तिमतः आकर्षन्ति च सव्यथम्
पातयन्तोन्यतश्चापि क्रोशतो रुदतस्तथा १५९
एवं प्रवृत्ते तुमुले सम्भूते तोयकर्मणि
आकाशे नारदो हृष्टो ननर्त च ननाद च १६०
विपञ्चीं नादयन्वाद्यं ललितां गीतिमुज्जगौ
सुगीत्या ललितायास्तु अगायत विधा दश १६१
शुश्राव गीतं मधुरं शङ्करो लोकभावनः
स्वयं गातुं हि ललितं मन्दं मन्दं प्रचक्रमे १६२
स्वयं गायति देवेशे मिश्रा मङ्गलकैशिकी
नारदे नृत्यमाने तु गायति स्वरभेदिनि १६३
स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम्
स्वधारामृतसंयुक्तं गानेनैवमथो जयत् १६४
वासुदेवो मर्दलं च कराभ्यामिदमाहनत्
अवगाहंश्चतुर्वक्त्रस्तुम्बुरुर्मुखरो बभौ १६५
तानका गौतमाद्यास्तु तूष्णीं गातुं च वायुतः
गायके मधुरं गीतं हनूमति कपीश्वरे १६६
म्लानमम्लानमभवत्कृशाः पुष्टास्तदाऽभवन्
स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिताः १६७
तूष्णीं सर्वे समभवन्देवर्षिगणदानवाः
एकः स हनुमान्गाता श्रोतारः सर्व एव ते १६८
मध्याह्नकालवितते भोजनावसरे सति
दुकूलयुगमाधत्त शृण्वन्गीतिं महेश्वरः १६९
पीतवस्त्रद्वयं विष्णुरारक्तं चतुराननः
स्वस्वार्हाण्यथ सर्वेऽपि कृत्यं कृत्वापि कालिकम् १७०
स्वं स्वं वाहनमारुह्य निर्गताः सर्वदेवताः
गानप्रियो महेशस्तु जगाद प्लवगेश्वरम् १७१
प्लवगत्वं मयाज्ञप्तो निःशङ्कं वृषमारुह
मम चाभिमुखो भूत्वा गायस्वाशेषगायनम् १७२
अथाह कपिशार्दूलो भगवन्तं महेश्वरम्
वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते १७३
तव वाहनमारुह्य पातकी स्यामहं विभो
मामेवारुह देवेश विहङ्गः शिववाहनः १७४
तव चाभिमुखं गानं करिष्यामि विलोकय
अथेश्वरो हनूमन्तमारुरोह वृषं यथा १७५
आरूढे शङ्करे देवे हनूमान्कन्धराशिरः
छित्त्वा त्वचं परावृत्य मुखं गायति पूर्ववत् १७६
शृण्वन्गीतिसुधां शम्भुर्गौतमस्य गृहं गतः
सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः १७७
पूजिता गौतमेनाथ भोजनावसरे सति
यच्छुष्कदारुसम्भूतं गृहोपकरणादिकम् १७८
प्ररूढमभवत्सर्वं गायमाने हनूमति
तस्मिन्गाने समस्तानां चित्रदृष्टिरतिष्ठत १७९
द्विबाहुरीशस्य पदाभिवन्दनः समस्तगात्राभरणोपपन्नः
प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्द्धाञ्जलिभिः सुरैः स्तुतः १८०
शिरः कराभ्यां परिगृह्य शङ्करो हनूमतः पूर्वमुखं चकार
पद्मासनासीन हनूमताञ्जलौ निधाय पादं त्वपरं मुखे च १८१
पादाङ्गुलीभ्यामथ नासिकां विभुः स्नेहेन जग्राह च मन्दमन्दम्
स्कन्धे मुखे त्वंसतले च कण्ठे वक्षःस्थले च स्तनमध्यमे हृदि १८२
ततश्च कुक्षावथ नाभिमण्डले ततो द्वितीयं निदधाति चाञ्जलौ
शिरो गृहीत्वावनमय्य शङ्करः पस्पर्श पृष्ठं चिबुकेन सध्वनि १८३
हारं च मुक्तापरिकल्पितं शिवो हनूमतः कण्ठगतं चकार ह
अथ विष्णुर्महेशानमिदं वचनमुक्तवान् १८४
हनूमता समो नास्ति कृत्स्नब्रह्माण्डमण्डले
श्रुति देवाद्यगम्यं हि पदं तव किलस्थितम् १८५
सर्वोपनिषदव्यक्तं त्वत्पदं कपि सर्वयुक्
यमादिसाधनैर्योगैर्न क्षणं ते पदं स्थितम् १८६
महायोगिहृदम्भोजे बलं स्वच्छं हनूमति
वर्षकोटिसहस्रेषु तपः कृत्वा तु दुष्करम् १८७
त्वद्रूपं नाभिजानाति कुतः पादं मुनीश्वराः
अहो भाग्यं विचित्रं हि चपलो वा नरो मृगः १८८
धत्ते पादयुगं चाङ्गे योगिहृद्यपि न क्षमम्
मया वर्षसहस्रं तु सहस्राब्दं तथान्वहम् १८९
भक्त्या सम्पूजितोऽपीश पादो नो दर्शितस्त्वया
लोके वादो हि सुमहाञ्छुम्भुर्नारायणप्रियः १९०
हरिः प्रियस्तथा शम्भोर्न तादृग्भाग्यमस्ति मे
सदाशिव उवाच-
न त्वया सदृशो मह्यं प्रियोस्ति भगवन्हरे १९१
पार्वती वा त्वया तुल्या न चान्यो विद्यते मम
अथ देवाय महते गौतमः प्रणिपत्य च १९२
व्यज्ञापयदमेयात्मन्देवैहि करुणानिधे
मध्याह्नोऽयं व्यतिक्रान्तो भुक्तिवेलाऽखिलस्य च १९३
अथाचम्य महादेवो विष्णुना सहितो विभुः
प्रविश्य गौतमगृहं भोजनायोपचक्रमे १९४
रत्नाङ्गुलीयैरथ नूपुराभ्यां दुकूलबन्धेन तडित्सु काञ्च्या
हारैरनेकैरथ कण्ठनिष्क यज्ञोपवीतोत्तरवाससी च १९५
विलम्बिचञ्चन्मणिकुण्डलेन सुपुष्पिधम्मिल्लवरेण देवः
पञ्चाङ्गगन्धस्य विलेपनेन बाह्वङ्गदैः कङ्कणकाङ्गुलीयकैः १९६
इत्थं विभूषितः शिवो निविष्टउत्तमासने स्वसम्मुखं हरिं तथा न्यवेशयद्वरासने
अन्योन्यसम्मुखौ स्थितौ हरीशौ देवसत्तमौ सुवर्णभाजनान्यथो ददौ स चापि गौतमः १९७
त्रिंशत्प्रभेदभक्ष्यकं सुपायसं चतुर्विधं सुपक्वपाकजातकं शतद्वयं प्रकल्पितम्
अपक्वपक्वमिश्रकं शतत्रयं प्रकल्पितं शतंशतं तथा सुकन्दशाककं तथा मुनिः १९८
शाकादि सर्पिषान्वितं ददौ च पञ्चविंशतिं सुशर्करादिकं तथा सुचूनदाडिमादिकम्
मोचाफलं तु गोस्तनीं सुखर्जुनागरङ्गकं जम्बूफलं प्रियालुकं विकङ्कतं फलं तथा १९९
एवमादीनि चान्यानि द्रव्याण्यर्प्य यथाविधि
दत्वा चापोशनं विप्रो भुञ्जध्वमिति चाब्रवीत् २००
भुञ्जानेषु च सर्वेषु व्यजनं सूक्ष्मवस्त्रजम्
गौतमः स्वयमादाय शिवविष्णू अवीजयत् २०१
परिहासमथोकर्तुमियेष परमेश्वरः
पश्य विष्णो हनूमन्तं कथं भुङ्क्ते स वानरः २०२
वानरं पश्यति हरौ मण्डकं विष्णुभाजने
चिक्षेप मुनिसङ्घेषु पश्यत्स्वपि महेश्वरः २०३
हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम्
त्वदुच्छिष्टमभोज्यं तु तवैव वचनाद्विभो २०४
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं तथा
मह्यं निवेद्य सकलं कूप एव विनिक्षिपेत् २०५
अभुक्ते त्वद्वचो नूनं भुक्ते चापि कृपा तव
सदाशिव उवाच-
बाणलिङ्गे स्वयम्भूते चन्द्रकान्ते ह्यवस्थिते २०६
चान्द्रायणसमं ज्ञेयं शम्भोर्नैवेद्यभक्षणम्
भुक्तिवेलेयमधुना तद्वैरस्यं कथान्तरात् २०७
भुक्त्वा तु कथयिष्यामि निर्विशङ्कं विभुङ्क्ष्व तत्
अथासौ जलसंस्कारं कृतवान्गौतमो मुनिः २०८
आरक्तसुस्निग्धसुसूक्ष्म गात्राननेकधा धौत सुशोषिताङ्गान्
तडागतोयैः कृतवीजघर्षितैर्विशोधितैस्तैः करकानपूरयत् २०९
नद्याः सैकतवेदिकां नवतरां सञ्च्छाद्य सूक्ष्माम्बरैः शुद्धैः श्वेततरैरथोपरिघटांस्तोयेन पूर्णान्क्षिपेत्
क्षिप्त्वा नालकजातिमास्तपुटकं कङ्कोलकस्तूरिकाचूर्णं चन्दनचन्द्ररश्मिविशदां मालां पुटां तं क्षिपेत् २१०
यामस्यापि पुनश्च वारिवसनेनाशोध्य कुम्भे क्षिपेच्चन्द्र ग्रन्थिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलाम् २११
शेफालीस्तबकमथो जलं च तत्र विन्यस्य प्रथमत एव तोयशुद्धिम्
कृत्वाथो मृदुतरसूक्ष्मवस्त्रखण्डेनावेष्टेत्सृणिकमुखं च सूक्ष्मचन्द्रम् २१२
अनातपप्रदेशे तु निधाय करकानथ
मन्दवातसमोपेते सूक्ष्मव्यजनवीजिते २१३
अथ उर्वीशसलिलैः सिञ्चयेत्सृणिकामपि
संस्कृत्वा स्वायतास्तत्र नरा नार्योथ वा नृप २१४
तत्कन्या वा क्षालिताङ्गा धौतवस्त्राश्च वा सह
मधुपिङ्गलनिर्य्यासमसान्द्रमगुरुद्रवम् २१५
बाहुमूले च कण्ठे च विलिप्य सान्द्रमेव च
मस्तके जाप्यकं न्यस्य पञ्चगन्धविलेपनम् २१६
पुष्पनद्धसुकेशास्तु ताः शुभास्याः सुनिर्मलाः
एवमेवोचितानार्य आत्तकुङ्कुमविग्रहाः २१७
युवत्यश्चारुसर्वाङ्ग्यो नितरां भूषणैरपि
एतादृग्वनिताभिर्वानरैर्वादापयेज्जलम् २१८
तेऽपि प्रदानसमये सूक्ष्मवस्त्राल्पवेष्टनम्
अथवा मकरे न्यस्य करकं तत्र पश्य हि २१९
दोरिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेत्
एवं सत्कारयामास गौतमो भगवान्मुनिः २२०
महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु
प्रक्षालिताङ्घ्रिहस्तेषु गन्धोद्वर्तितपाणिषु २२१
तदासनसमासीने देवदेवे महेश्वरे
अथ नीचसमासीना देवाः सर्षिगणास्तथा २२२
मणिपात्रेषु संवेष्ट्य पूगखण्डान्सुधूपितान्
अकोणवर्तुलान्स्थूलानसूक्ष्मानकृशानपि २२३
श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरखण्डकम्
चूर्णं च शङ्करायाथ निवेदयति गौतमे २२४
गृहाण देव ताम्बूलमित्युक्तवचने मुनौ
कपे गृहाण ताम्बूलं प्रयच्छ मम खण्डकान् २२५
उवाच वानरो नास्ति मम शुद्धिर्महेश्वर
अनेकफलभुक्तत्वाद्वानरस्तु शुचिः कथम् २२६
सदाशिव उवाच-
मद्वाक्यादखिलं शुद्ध्येन्मद्वाक्यादमृतं विषम्
मद्वाक्यादखिला वेदा मद्वाक्याद्देवतादयः २२७
मद्वाक्याद्धर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते
पुराणान्यागमाश्चैव स्मृतयो मम वाक्यतः २२८
अतो गृहाण ताम्बूलं मम दद्याः सुखण्डकान्
हरिर्वामकरेणादात्ताम्बूलं पूगखण्डकम् २२९
ततः पत्राणि सङ्गृह्य ततः खण्डान्समर्पयत्
कर्पूरमग्रतो दत्तं गृहीत्वाऽभक्षयच्छिवः २३०
देवे तु कृतताम्बूले पार्वती मन्दराचलात्
जया विजययोर्हस्तं गृहीत्वाऽऽयान्मुनेर्गृहम् २३१
देवपादौ ततो नत्वा विनम्रवदनाऽऽभवत्
उन्नमय्य मुखं तस्या इदमाह त्रिलोचनः २३२
त्वदर्थं देवदेवेशि अपराधः कृतो मया
यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सुन्दरि २३३
अथ स्वमन्दिरे स्थाप्य देवदेवविवर्जिते
सर्वबन्धविमुक्ते च महदेनो मया कृतम् २३४
क्षन्तुमर्हसि देवेशि त्यक्तकोपा विलोकय
न बभाषैवमुक्त्वा सा अरुन्धत्या हि निर्ययौ २३५
निर्गच्छन्तीं मुनिर्ज्ञात्वा दण्डवत्प्रणनाम च
तदारभ्य महेशाय दण्डप्रणति संस्तुतिम् २३६
कुर्यादुवाच च शिवा गौतम त्वं किमिच्छसि
गौतम उवाच-
कृतकृत्योस्मि देवेशि यदि देयो वरो मम २३७
मन्मन्दिरे महाभागे भोक्तुमर्हसि साम्प्रतम्
देव्युवाच-
भोक्ष्यामि तव गेहेहं शङ्करानुमता मुने २३८
गत्वेशं गौतमो विप्रो लब्धानुज्ञः पुनर्गतः
भोजयामास गिरिजां देवीं चारुन्धतीं तथा २३९
भुक्त्वाथ पार्वती सर्वं गन्धपुष्पसभूषणा
सहानुचरकन्याभिः सहस्राभिर्हरं ययौ २४०
अथाह शङ्करो देवीं गच्छ गौतममन्दिरम्
सन्ध्योपास्तिमहं कृत्वा आगच्छामि पुनर्गृहम् २४१
इत्युक्ता प्रययौ देवी गौतमस्यैव मन्दिरम्
सन्ध्यावन्दनकामाश्च सर्वएव विनिर्गताः २४२
कृतसन्ध्यास्तटाके तु महेशाद्यास्तु कृत्स्नशः
अथोत्तरमुखः शम्भुर्न्यासं कृत्वा जजाप ह २४३
अथविष्णुर्महातेजा महेशमिदमब्रवीत्
सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते २४४
हूयते सर्वयज्ञेषु स भवान्किं जपिष्यति
रचिताञ्जलयः सर्वे त्वामेवैकमुपासते २४५
स भवान्देवदेवेश कस्मै वा रचिताञ्जलि
नमस्कारादि पुण्यानां फलदस्त्वं महेश्वर २४६
तव कः फलदो वन्द्यः को वा त्वत्तोधिको वद
शङ्कर उवाच-
ध्याये न किञ्चिद्गोविन्द न नमस्येह किञ्चन २४७
नोपास्ये कञ्चन हरे न जपिष्येह किञ्चन
किन्तु नास्तिकजन्तूनां प्रवृत्त्यर्थमिदं मया २४८
दर्शनीयं हरे ते स्युरन्यथा पापकारिणः
तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया २४९
ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्ठत
अथ ते गौतमगृहं प्राप्ता देवगणर्षयः २५०
सर्वे पूजामथो चक्रुर्देवदेवे पिनाकिने
देवो हनूमता सार्द्धं गायन्नास्ते रघूत्तम २५१
पञ्चाक्षरीं महाविद्यां सर्व एव तदा जपन्
हनूमत्करमालम्ब्य देव्यभ्याशं गतो हरः २५२
एकशय्यासमासीनौ तावुभौ देवदम्पती
गायन्नास्ते स हनुमांस्तुम्बुरुर्नारदस्तथा २५३
नानाविधिविलासांश्च चकार परमेश्वरः
आहूय पार्वतीमीश इदं वाक्यमुवाच ह २५४
श्रीसदाशिव उवाच-
रचयिष्यामि धम्मिल्लमेहि मत्पुरतः शुभे
देव्याह न च युक्तं तद्भर्त्राशुश्रूषणं स्त्रियः २५५
केशप्रसाधनकृतावनर्थान्तरमापतेत्
केशप्रसाधने देव तत्वं सर्वं न चेप्सितम् २५६
अथ बन्धे कृते पश्चादंसप्रान्तप्रमार्जनम्
तनोश्चरमसंलग्न केशपुष्पादिमार्जनम् २५७
एतस्मिन्वर्तमाने तु महात्मानो यदागमन्
तदा किमुत्तरं वाच्यं तव देवादिवन्दिनः २५८
नायान्ति चेदथ विभो भीतिर्नाशमुपेष्यति
एवं हि भाषमाणां तां करेणाकृष्य शङ्करः २५९
स्वोर्वोस्तां स्थापयित्वैव विस्रस्य कचबन्धनम्
विभज्य च कराभ्यां स प्रससार नखैरपि २६०
विष्णुदत्तां पारिजातस्रजं कचगतामपि
कृत्वा धम्मिल्लमकरोदथ मालां करागताम् २६१
मल्लिकास्रजमादाय बबन्ध कचबन्धने
कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः २६२
पार्वतीवसने गूढगन्धाढ्ये च समादधात्
अथांसपृष्ठसंलग्नमार्जनं कृतवान्विभुः २६३
श्लथनीवेरधो देव्या वस्त्रवेष्टेरधोगतः
देवः किमिदमित्युक्त्वा नीवीबन्धं चकार ह २६४
नासाभूषणमेतत्ते पश्यामि स मदात्ततः
इत्युक्त्वा स्वयमादाय विच्छायं मौक्तिकं सती २६५
हरिद्रायाः समायोगे मुक्ताफलमदीप्तिमत्
इदं हि ध्रियतां मुक्ताफलं मम तव प्रियम् २६६
पार्वत्युवाच-
अहो त्वन्मन्दिरं शम्भो सर्ववस्तुसमृद्धिमत्
पूर्वमेव मया सर्वं वस्तुज्ञातं विभूषणैः २६७
अहो द्रविणसम्पत्तिर्भूषणैरवगम्यते
शिरोविभूषितं देव ब्रह्मशीर्षस्य मालया २६८
नरकस्य तथा माला वक्षःस्थलविभूषणम्
शेषश्च वासुकिश्चैव सविषौ तव कङ्कणे २६९
दिशोंऽबरे जटा केशा भसितं चाङ्गरागकम्
महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च २७०
ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः
एवं वदन्तीं गिरिजां विष्णुः प्राहाति कोपनः २७१
किमर्थं निन्दसे देवि देवदेवं जगत्पतिम्
त्यक्ष्ये प्राणान्प्रियान्भद्रे तव नूनमसंयमम् २७२
यत्रेशनिन्दनं भद्रे तत्र नो मरणं व्रतम्
इत्युक्त्वाथ नखाभ्यां हि हरिश्छेत्तुं शिरोगतः २७३
महेशस्तु करं गृह्य प्राह मा साहसं कृथाः
पार्वतीवचनं सर्वं प्रियं मम तवाप्रियम् २७४
ममाप्रियं हृषीकेश कर्तुं यत्किञ्चिदिष्यते
ओमित्युक्त्वाथ भगवांस्तूष्णीम्भूतोऽभवद्धरिः २७५
हनुमानथ देवाय व्यज्ञापयदिदं वचः
अर्थयामि विनिष्कामं मम पूजाव्रतं तथा २७६
पूजार्थमप्यहं गच्छे ममानुज्ञातुमर्हसि
शङ्कर उवाच-
कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद २७७
को गुरुः कश्च मन्त्रस्ते कीदृशं पूजनं तथा
एवं वदति देवेशे हनूमानतिकम्पितः २७८
वेपमानसमस्ताङ्गः स्तोतुमेव प्रचक्रमे
हनूमानुवाच-
नमो देवाय महते शङ्करायामितात्मने २७९
योगिने योगधात्रे च योगिनां गुरवे नमः
योगिगम्याय देवाय ज्ञानिनां पतये नमः २८०
वेदानां पतये तुभ्यं देवानां पतये नमः
ध्यानायध्यनगम्याय धातॄणां गुरवे नमः २८१
शिष्टायशिष्टगम्याय भूम्यादि पतये नमः
नमस्तेत्यादिना वेदवाक्यानां निधये नमः २८२
आतनुष्वेतिवाक्यैश्च प्रतिपाद्याय ते नमः
अष्टमूर्ते नमस्तुभ्यं पशूनाम्पतये नमः २८३
त्र्यम्बकाय त्रिनेत्राय सोमसूर्याग्निलोचन
सुभृङ्गराजधत्तूरद्रोणपुष्पप्रियाय ते २८४
बृहतीपूगपुन्नाग चम्पकादिप्रियाय च
नमस्तेस्तु नमस्तेस्तु भूय एव नमोनमः २८५
शिवो हरिमथ प्राह मा भैषीर्वद मेऽखिलम्
हनुमानुवाच-
शिवलिगार्चनं कार्यं भस्मोद्धूलितदेहिना २८६
दिवासम्पादितैस्तोयैः पुष्पाद्यैरपि तादृशैः
देव विज्ञापयिष्यामि शिवपूजाविधिं शुभम् २८७
सायङ्काले तु सम्प्राप्ते अशिरः स्नानमाचरेत्
क्षालितं वसनं शुष्कं धृत्वाचम्य द्विरग्रधीः २८८
अथ भस्म समादाय आग्नेयं स्नानमाचरेत्
प्रणवेन समामन्त्र्याप्यष्टवारमथापि वा २८९
पञ्चाक्षरेण मन्त्रेण नाम्ना वा येनकेनचित्
सप्ताभिमन्त्रितं भस्म दर्भपाणिः समाहरेत् २९०
ईशानः सर्वविद्यानामुक्त्वा शिरसि पातयेत्
तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत् २९१
अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत्
वामदेवाय नम इति गुह्यस्थाने विनिक्षिपेत् २९२
सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः
उद्धूलयेत्समस्ताङ्गे प्रणवेन विचक्षणः २९३
त्रैवर्णिकानामुदितः स्नानादिविधिरुत्तमः
शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुणा तथा २९४
शिवेति पदमुच्चार्य भस्मसम्मन्त्रयेत्सुधीः
सप्तवारमथादाय शिवायेति शिरः क्षिपेत् २९५
शङ्कराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेत्
स्थाणवे नम इत्युक्त्वा गुह्ये चापि स्वयम्भुवे २९८
उच्चार्य पादयोः क्षिप्त्वा भस्मशुद्धमतः परम्
नमः शिवायेत्युच्चार्य सर्वाङ्गोद्धूलनं स्मृतम् २९७
प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः
दर्भाभावे सुवर्णं स्यात्तदभावे गवालकः २९८
तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम्
सन्ध्योपास्तिं जपं देव्याः कृत्वा देवगृहं व्रजेत् २९९
देववेदिमथो वापि कल्पितं स्थण्डिलं तु वा
मृण्मयं कल्पितं शुद्धं पद्मादिरचनायुतम् ३००
चातुर्वर्णक रङ्गैश्च श्वेतेनैकेन वा पुनः
विचित्राणि च पद्मानि स्वस्तिकादि तथैव च ३०१
उत्पलादि गदा शङ्ख त्रिशूलं डमरुं तथा
सरोक्तपञ्चप्रासादं शिवलिङ्गमथैव च ३०२
सर्वकामफलं वृक्षं कुलकं कोलकं तथा
षट्कोणञ्चत्रिकोणञ्चनवकोणमथापिवा ३०३
कोणद्वादशकान्दोलां पादुकाव्यजनानि च
चामरच्छत्रयुगलं विष्णुब्रह्मादिकं तथा ३०४
चूर्णैर्विरचयेद्वेद्यां धीमान्देवालयेऽपि वा
यत्रापि देवपूजा स्यात्तत्रैवं कल्पयेद्बुधः ३०५
स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम्
याचितं तु कनिष्ठं स्याद्बलात्कारमथाधमम् ३०६
अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम्
रक्तशालि जपा स्थाण कलमासित रक्तकैः ३०७
तन्दुलैर्व्रीहिमात्रोत्थैः कर्णैश्चैव यथाक्रमम्
उत्तमैर्मध्यमैश्चैव कथितैरधमैस्तथा ३०८
पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत्
प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेत् ३०९
आसनं च प्रवक्ष्यामि यथादृष्टं यथाश्रुतम्
कौशं चार्मं चैलतुल्यं दारवं ताडपत्रकम् ३१०
काम्बलं काञ्चनं चैव राजतं ताम्रमेव च
गोकरीषार्कजैर्वापि आसनं परिकल्पयेत् ३११
वैयाघ्रं रौरवं चैव हारिणं मार्गमेव च
चार्मं चतुर्विधं ज्ञेयमथ बन्धुकमेव च ३१२
यथासम्भवमेतेषु ह्यासनं परिकल्पयेत्
कृतपद्मासनो वापि स्वास्तिकासन एव च ३१३
दर्भभस्मसमासीनः प्राणानायम्य वाग्यतः
तावत्स देवतारूपो ध्यानं चान्तः समाचरेत् ३१४
शिखान्ते द्वादशाङ्गुल्ये स्थितं सूक्ष्मतनुं शिवम्
अन्तश्चरन्तं भूतेषु गुहायां विश्वमूर्तिषु ३१५
सर्वाभरणसंयुक्तमणिमादि गुणान्वितम्
ध्यात्वा तं धारयेच्चित्ते तद्व्याप्त्या पूरयेत्तनूम् ३१६
तया दीप्त्या शरीरस्थं पापं नाशमुपागतम्
स्वर्णं पारदसम्पर्काद्रक्तं श्वेतं यथा भवेत् ३१७
तद्द्वादशदलावृत्तमष्टपञ्चत्रिरेव वा
परिकल्प्यासनं शुद्धं तत्र लिङ्गं निधाय च ३१८
गुहास्थितं महेशानं लिङ्गे सञ्चिन्तयेत्तथा
शोधिते कलशे तोयं शोधितं गन्धवासितम् ३१९
सुगन्धपुष्पं निक्षिप्य प्रणवेनाभिमन्त्रितम्
प्राणायामश्च प्रणवः शूद्रेषु न विधीयते ३२०
प्राणायामपदे ध्यानं शिवेत्योङ्कारमन्त्रणम्
गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च ३२१
तानि स्थाप्य समीपे तु ततः सङ्कल्पयिष्यते
शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च ३२२
इति सङ्कल्पयित्वा तु तत आवाहनादिकम्
कृत्वा तु स्नानपर्यन्तं ततः स्नानं प्रकल्पयेत् ३२३
नमस्तेत्यादिमन्त्रेण शतरुद्रियविधानतः
अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता ३२४
तया यः स्नापयेन्मासं जपन्रुद्रमुपांशु वा
एकवारं त्रिवारं च पञ्च सप्त नवापि वा ३२५
एकादशमथो वारमथैकादशचान्वितम्
मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् ३२६
शैवया विद्यया स्नानं केवलं प्रणवेन च
मृण्मयैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा ३२७
कांस्येन मुक्ता भुक्त्या च पुष्पादिक सरेणवा
स्नापयेद्देवदेवेशं यथासम्भवमीरितैः ३२८
शृङ्गस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत्
पूर्वमन्तस्तु संशोध्य बहिरन्तस्तु शोधयेत् ३२९
सुस्निग्धं लघुकृत्वाथ नागं छिन्द्यात्कथञ्चन
नीचैकदेशविन्यस्तद्वारद्रोण्या सुवृत्तयोः ३३०
कुशानुयुतया स्नानं देवाय परिकल्पयेत्
एवं गवयशृङ्गस्य जलमूर्तिरथोच्यते ३३१
द्वारे निषिद्धलोहार्द्धं सन्धिद्वारा समन्विते
योगवक्त्रं नागदण्डं नागाकारं प्रकल्पयेत् ३३२
फलस्थाने तु चषकं दण्डेन समरन्ध्रकम्
तत्रैव पातयेत्तोयमूर्द्ध्वयन्त्रघटे स्थितम् ३३३
पातयेदथ चान्येन वामेनैव करेण वा
मुक्तिधाराकृता तेन पवित्रं पापनाशनम् ३३४
एवं संस्थाप्य देवेशं पञ्चगव्यैस्तथैव च
पञ्चामृतैरथ स्नाप्य मधुरत्रितयेन च ३३५
विभूष्य भूषकैर्देवं पुनः स्नाप्य महेश्वरम्
शीतोपचारं कृत्वाथ तत आचमनादिकम् ३३६
वस्त्रं तथोपवीतं च पञ्चगन्धकमेव च
कर्पूरमरुवं चापि पाटीरमथ वा भवेत् ३३७
उभयं मिश्रितं वापि शिवलिङ्गं प्रपूजयेत्
कृत्स्नपीठं गन्धपूर्णं यद्वा विभवसारतः ३३८
तूष्णीमथोपचारं वा कालियं पुष्पमर्पयेत्
श्रीपत्रमरुचित्याजं यथाशक्त्याखिलं यथा ३३९
अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा
कपिलाघृतसंयुक्तं सर्वधूपाय शस्यते ३४०
धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान्
अथवाप्याज्यमात्रेण दीपान्दत्वोपहारकम् ३४१
यथाशक्त्युपपन्नं च दत्वा पुष्पसमन्वितम्
मुखशुद्धिं ततो दत्वा दत्वा ताम्बूलमादरात् ३४२
प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते
गीताङ्गपञ्चकं पश्चात्तानि विज्ञापयामि ते ३४३
गीतं वाद्यं पुराणं च नृत्यं हासोक्तिरेव च
नीराजनं च पुष्पाणामञ्जलिश्चाखिलार्पणम् ३४४
क्षमा चोद्वासनं चैव कीर्तितं चोपचारकम्
भूषणं च तथा छत्रं चामरं व्यजनं तथा ३४५
शिवोपवीतं कैङ्कर्यं षडीशानोपचारकम्
द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम् ३४६
एकेनाह्ना समस्तानां पापानां नाशनं ध्रुवम्
द्वात्रिंशदुपचारं स्यात्पूजनं तूत्तमोत्तमम् ३४७
सदाशिव उवाच-
एवमेतत्कपिश्रेष्ठ तव पूजां वदाम्यहम्
मत्पादयुगलं पूज्य सर्वपूजाकरो भव ३४८
आराध्येत्थं यथालिङ्गे तन्ममाराधनं कुरु
हनूमानुवाच-
गुरुणा लिङ्गपूजैव नियता कल्पिता मम ३४९
तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम्
इत्युक्त्वैव नमस्येशं शिवलिगार्चनेऽभवत् ३५०
सरस्तीरमथो गत्वा कृत्वा सैकतवेदिकाम्
तालपत्रैर्विरचितमासनं परिकल्पयेत् ३५१
प्रक्षाल्य पादहस्तौ तु समाचम्य समाहितः
भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः ३५२
देववेद्यामथो चक्रे पद्मानि सुमनोहरम्
अनन्तरं तालपत्रं पद्मासनगतः कपिः ३५३
प्राणानायम्य सन्यासं शुक्लध्यानसमन्वितः
प्रणम्य गुरुमीशानं जपन्नासीदतः परम् ३५४
अथ देवार्चनं कर्तुं यत्नमास्थितवानपि
पलाशपत्रपुटकद्वयानीत जलं शुचि ३५५
शिरःकमण्डलुगतं निधायाग्निं त्रिमन्त्रितम्
आवाहनादि कृत्वाथ स्नानपर्यन्तमेव च ३५६
अथ स्नापयितुं देवमादाय करसम्पुटे
कृत्वा निरीक्षणं देवं पीठं नो दृष्टवान्कपिः ३५७
लिङ्गमात्रं करगतं दृष्ट्वा भीतिसमन्वितः
इदमाह महायोगी किं वा पापं मया कृतम् ३५८
यदेतत्पीठरहितं शिवलिङ्गं करस्थितम्
ममाद्य मरणं सिद्धं पीठं चेन्नागमिष्यति ३५९
अथ रुद्रं जपिष्यामि तदायाति महेश्वरः
इति निश्चित्य मनसा जजाप शतरुद्रियम् ३६०
अथापि न समायातो महेशोऽथ कपीश्वरः
रुद्रं न्यपातयद्भूम्यां वीरभद्रः समागतः ३६१
किमर्थं रुद्यते भक्त रुदिहेतुं वदस्व मे
हनूमानुवाच-
पीठहीनमिदं लिङ्गं पश्य मे पापसञ्चयम् ३६२
वीरभद्र उवाच-
यदि नायाति पीठं ते लिङ्गे मा साहसं कृथाः
दाहयिष्याम्यहं लोकं यदि नायाति पीठकम् ३६३
पश्य दर्शय मे लिङ्गं पीठं यद्यागतं न वा
अथ दृष्ट्वा वीरभद्रो लिङ्गं पीठमनागतम् ३६४
दग्धुकामोऽखिलाल्ँलोकान्वीरभद्रः प्रतापवान्
अनलं भुवि चिक्षेप क्षणाद्दग्धा मही तदा ३६५
अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत
पञ्चोर्द्ध्वलोकानदहज्जनलोकनिवासिनः ३६६
ललाटनेत्रसम्भूतं नखेनादाय चानलम्
जम्बीरफलसङ्काशं कृत्वा करतले विभुः ३६७
यदि नायाति पीठं ते दग्धा लोका न संशयः
अनायातमथो दृष्ट्वा वीरभद्रः प्रतापवान् ३६८
सनकादयो महात्मानो ज्ञात्वा योगेन चागमन्
गौतमस्याश्रमवरं समागम्य महेश्वरम् ३६९
न दृष्टवन्तो देवादिं विद्यमानमपि द्विजाः
अस्तुवन्नथ च स्तोत्रैः सर्ववेदसमुद्भवैः ३७०
ॐनमो देवदेवाय तस्मै शुद्धप्रभाचिन्त्यरूपाय तस्मै
नमः सुराणामधीशाय तस्मै नमो वेदगुह्याय शुद्धाय तस्मै ३७१
नमः शिवायादिदेवाय तस्मै नमो व्यालयज्ञोपवीताय तस्मै
नमः सुरानन्दसन्दोह वर्षत्रयी बिन्दुविश्वम्भराय तस्मै ३७२
पृथिव्यथो वायुराकाशमापः पुनः शशी वह्निसूर्य्यौ तथात्मा
यस्याष्टैता मूर्तयः शङ्करस्य तस्मै नमो ज्ञानगम्याय शश्वत् ३७३
एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः
विष्णुमाह च गच्छ त्वं समानय च तान्द्विजान् ३७४
आनीतास्तेन हरिणा देवाय प्रणतास्तु ते
तानाह शङ्करो वाक्यं किमर्थं यूयमागताः ३७५
मुनय ऊचुः -
देव द्वादशलोकानां दृश्यन्ते भस्मराशयः
स्थितमेकं वनमिदं पश्य त्वं लोकसङ्क्षयम् ३७६
सदाशिव उवाच-
ऊर्द्ध्वस्थपञ्चलोकानां दाहे सन्देह एव नः
कथमङ्गारवृष्टिश्च कथं नो वा महाध्वनिः ३७७
मुनय ऊचुः -
भीतिरस्माकमधुना वर्तते वीरभद्रतः
स एवाङ्गारवृष्टिं च पिपासुरिव तामपात् ३७८
देवोथ वीरमाहूय किं वीरेत्यब्रवीद्भवः
वीरो हनूमतो लिङ्गपीठाभावादिदं कृतम् ३७९
कपेश्चित्तं परिज्ञातुं मया कृतमिदं बृहत्
कृपानिधिरथो देवो यथापूर्वमकल्पयत् ३८०
दग्धानप्यखिलाल्ँलोकान्पूर्वतः शोभनान्विभुः
कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत् ३८१
आलिङ्ग्याघ्राय शिरसि ताम्बूलं दत्तवान्हरः
अथासौ हनुमानीश पूजनं कृतवानथ ३८२
एकं वनचरं तत्र गन्धर्वं सविपञ्चिकम्
इदमाह महावीणा मम वै दीयतामिति ३८३
गन्धर्वो न मया त्याज्या वीणा प्राणसमा मम
ममापि प्राणसदृशी वीणेत्याह कपीश्वरः ३८४
अथ मुष्टिनिपातेन गन्धर्वे पतिते कपिः
आदाय वीणां महतीं स्वरतन्तुसमन्विताम् ३८५
अलाबुसंयुतां कृत्वा राजवृक्षफलाकृतिम्
तस्योरसि विनिक्षिप्य गायन्नागाच्छिवान्तिकम् ३८६
बृहतीकुसुमैः शुद्धैर्देवपादावपूजयत्
तस्मै वरमथ प्रादादाकल्पं जीवितं पुनः ३८७
समुद्रलङ्घने शक्तिं वरं प्रादादथापरम् ३८८
समस्तभूषासुविभूषिताङ्गः स्वदीप्तिमन्दीकृतदेवदीप्तिः
प्रसन्नमूर्तिस्तरुणः शिवाङ्गकः सम्भावयामास समस्तदेवान् ३८९
पीतमुद्गमनीयं च समादाय महेश्वरः
पीतवस्त्रमिदं देव त्वं गृहाण हरे शुभम् ३९०
ब्रह्मणे रक्तवसनं सर्वेषां वसुदस्तथा
देवर्षिदानवादीनां दत्तवान्वसुयुग्मकम् ३९१
रामोपि चैतदाकर्ण्य शम्भवे युग्ममर्पयत्
सुसूक्ष्मं बहुमूल्यं च स्वर्णभूषणमेव च ३९२
अथ भुक्त्वा सुखासीनः सामात्यः सपुरोहितः
नानामुनिगणैर्भूपैर्वानरैर्गौतमी तटे ३९३
शम्भुं पुराणतत्त्वज्ञं राघवो वाक्यमब्रवीत्
त्वमेव सर्वं जानीषे सर्वधर्मगुहाशयम् ३९४
कस्मिन्कस्मिन्युगे ब्रह्मन्किंविशिष्टं वदस्व मे
शम्भुरुवाच-
ध्यानमेव कृते श्रेष्ठं त्रेतायां यज्ञ एव च ३९५
द्वापरे चार्चनं तिष्ये दानं च हरिकीर्तनम्
सर्वं च शस्तं सर्वत्र ध्यानं न च कलौ युगे ३९६
नराणां मुग्धचित्तत्वात्कृच्छ्रस्थानां विशाम्पते
न धर्मे नियताबुद्धिर्न वेदे नैव च स्मृतौ ३९७
न क्रतौ न स्वधाकारे पुराणानां च न श्रुतौ
न यज्ञेन च तीर्थेषु न च शुश्रूषणे सताम् ३९८
नेज्यायां देवतानां च न स्वजातीयकर्मणि
न देवस्मरणेनापि न च क्वापि वृषे नृप ३९९
अतश्च दीर्घकालानां पुण्यानामक्षमा नराः
दानं तु स्वल्पकालत्वात्कर्तुं शक्नोति मानवः ४००
अतश्च कलिदुष्टानां प्रायश्चितं न विद्यते
केषाञ्चित्पापनाशः स्यात्प्रायश्चित्तैस्तु नान्यथा ४०१
ब्रह्मज्ञानी गयाश्राद्धी काशीगन्ता श्रुतौ रतः
पुराणज्ञावमाश्चैते श्रोता तस्य च राघव ४०२
युगानामनुसारेण तथार्थस्य विवेचनात्
स्व पर प्रत्ययोत्पादात्परब्रह्मप्रकाशनात् ४०३
पुराणवक्ता सर्वस्माद्ब्राह्मणस्तु विशिष्यते
तेनापि च कृतं पापं न सज्येत्किमुतान्यतः ४०४
अन्येषामपि केषाञ्चित्पुराणं पापनाशनम्
यः पुराणेषु विश्वासी वक्तारं मन्यते गुरुम् ४०५
ब्रह्मविद्याप्रदातारं विशेषं ज्ञातिबन्धुतः
तस्य पापानि सर्वाणि विलयं यान्त्यसंशयम् ४०६
अथ श्रीशैलगमनं पूजकस्य महेशितुः
अतः कलौ मनुष्याणां पुराणं पापनाशनम् ४०७
पुरा कलियुगे राम वृत्तं सङ्कीर्तये शृणु
आसीत्तु गौतमो नाम ब्राह्मणो वेदवर्जितः ४०८
तस्य पुष्टिः पशुश्चास्तां भ्रातरौ वेदवर्जितौ
ताभ्यां सह कृषिं चक्रे तत्र वृद्धिमवाप च ४०९
धनधान्यादिकं किञ्चिद्राजानं दत्तवानथ
उवाच वचनं किञ्चिदधिकारं निरूपय ४१०
अर्थं न गमयिष्यामि तौ शक्तौ भ्रातरौ मम
राजोवाच-
ब्राह्मणस्याधिकारो हि वैदिके धर्मकर्मणि ४११
तदन्यत्र नियुक्तस्य ब्राह्मण्यं विप्रणश्यति
गौतम उवाच-
युगेष्वन्येषु धर्मोयं कलिधर्मो न तादृशः ४१२
भूपति त्वं हि भूपाल नृपाणां धर्म उच्यते
ब्राह्मणश्च परिक्षीणस्तं कुर्वन्नैव दुष्यति ४१३
शूद्राणां तु कृषिर्द्धर्मो नापद्यप्यग्रजन्मनः
तस्मात्क्षत्त्रेण वर्तिष्ये ग्रामान्मम समादिश ४१४
अन्यत्र चात्र क्षत्त्रेण वर्तनं मम रोचते
अन्यन्न तु तथेत्युक्तो ददौ ग्रामान्द्विजन्मनः ४१५
ग्रामाधिकारदुष्टस्य वर्तनं त्वन्यथाभवत्
अभक्षि मांसं चापायि सुरा चाभाषि दुर्वचः ४१६
परयोषा तथा गामि परस्वं प्रत्यहारि च
अक्रीडि द्यूतमसकृत्कलञ्जं चादि दुर्भुजा ४१७
नापूजि जगतामीशः शिवो वा विष्णुरेव वा
एवं कालेन दुर्वृत्तं राजा वाक्यमभाषत ४१८
विप्र विप्रत्वमुत्सृज्य शूद्रत्वं प्राप्तवानसि
तस्मान्नियोगधर्मेण भवन्तं भ्रंशयामि च ४१९
मास्तु विप्रत्वमद्यैव शूद्रतैव वरं मम
तदृते यदि विप्रास्ते न भोक्ष्यन्ति वरं मम ४२०
न हि सर्वमिदं त्यक्तुं शक्तोहं पृथिवीपते
शम्भुरुवाच-
एवं वदति दुर्विप्रे राजा तूष्णीमतिष्ठत ४२१
स तु वै शूद्रतुल्यश्च बुभुजेन्नं सहामिषम्
कदाचिदथ दुर्वृत्तः प्रतोलीमण्डपस्थितः ४२२
द्विजेन पठ्यमानं तु पद्यं तु श्रुतवानिदम्
हृदये पद्यमेतत्तु द्विजेरितमतिष्ठत ४२३
परात्परतरं यान्ति नारायणपरायणाः
न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ४२४
व्याख्यानमपि च श्रुत्वा पौराणिकमभाषत
कीदृङ्नारायणः प्रोक्तः कीदृशोपि महेश्वरः ४२५
किं परं त्वयनं प्रोक्तं द्वेषः कीदृगुदाहृतः
किं तत्परमिति ख्यातं ततः परतरं च किम् ४२६
पौराणिक उवाच-
परं तद्ब्रह्मणः स्थानं सुखव्यक्तैकलक्षणम्
ततः परतरं विष्णोर्द्धाम तद्ब्रह्मणोधिकम् ४२७
अविनाशितया तत्तु कीर्तितं परमं पदम्
तन्मध्ये पुरुषो विष्णुस्तदङ्ग परमं विभुः ४२८
आपो हि नरजन्मत्वान्नाराः प्रोक्ता मनीषिभिः
नाराश्चास्यायनं यस्मात्तेन नारायणः स्मृतः ४२९
तत्परं वर्तनं येषां ते प्रोक्तास्तत्परायणाः
महदादीनि तत्वानि यानि तेषां य ईश्वरः ४३०
सूर्याग्निशशिनेत्रोऽसौ महेशः स्यादुमापतिः
द्वेषो हि वैरं विज्ञेयमीश्वरे परमात्मनि ४३१
शम्भुरुवाच-
एवं पुराणभट्टेन समीरितमिदं वचः
चिन्तयन्पुनरप्याह मादृशस्य कथं गतिः ४३२
पौराणिकोऽथ तं प्राह शृणु वक्ष्यामि ते गतिम्
कुरु सर्वेण यत्नेन प्रायश्चित्तं यथाविधि ४३३
धर्मं चर यथाशक्ति यथाकालं यथाविधि
विमुक्तपापः पश्चात्त्वमुत्तमां गतिमेष्यसि ४३४
पुराणमथवा नित्यं शृणुष्वावहितश्च सन्
निराशो वा महेशानं पूजयस्व पिनाकिनम् ४३५
देवं वा पुण्डरीकाक्षं केशवं क्लेशनाशनम्
सन्न्यासमथवा नित्यं ब्रह्मज्ञानपरो भव ४३६
अथवा गच्छ काशीशं मुक्तौ वा मृतिमाप्नुहि
गयां वा गच्छ तत्र त्वं श्राद्धं कर्तुं प्रयत्नतः ४३७
अथवा सर्ववेदानां सारं पातकनाशनम्
रुद्रं रुद्रप्रियकरं जप प्रत्यहमादरात् ४३८
श्रीशैलमथवा गच्छ केदारमथवेच्छया
अथवा प्रतिवर्षे तु माघस्नानं प्रवर्तय ४३९
किमत्र बहुनोक्तेन धर्मभक्तः सदा भव
नैवं नरकवासस्ते भविता तु द्विजाधम ४४०
गौतम उवाच-
श्रुत्वा सर्वं करिष्यामि पुराणं भवतो मुखात्
शास्त्रं विश्वासहेतुं च वर्जं चापि वदस्व मे ४४१
पौराणिक उवाच-
वर्ज्यं मांसं सुराऽन्यस्त्री भोगो द्यूतं विकत्थनम्
पारुष्यमनृतं माया देवदेवविनिन्दनम् ४४२
गुरूणां सुरवृद्धानां पुराणस्मृतिभाषिणाम्
निन्दनं श्वेतवृन्ताकं कृतकालाबुवर्तनम् ४४३
बीजपूरं कुसुम्भं च लोहितं शृङ्गमेव च
अररुं नालिकेरं च कूष्माण्डकं तथैव च ४४४
कोविदारफलं तैलपक्वं मानवजं पयः
वार्ध्रीणस खरी दुग्धं सूतिका क्षीरमाविकम् ४४५
औष्ट्रमेकशफक्षीरं मार्गमाजं नृसम्भवम्
विवत्सासन्धिनीक्षीरं लवणं चैव योगि यत् ४४६
नालिकेररसं कांस्ये ताम्रे मधु च सीसके
काचे तक्रं करम्भांश्च घृताक्तान्नैव कारयेत् ४४७
होमं तु मृण्मये पात्रे पुरोडाशं तु राजते
न सेवेत परं लोके शुभार्थी तु विचक्षणः ४४८
पात्रान्तश्चूर्णलेपोऽपि तत्र भक्षणमेव च
क्रमुकस्य तथा भक्षश्चूर्णपत्रस्य चैव हि ४४९
क्रमुकस्यापि पक्वस्य भक्षणं क्रमियोगिनः
पायसे लवणं चैव केवलं च करार्पितम् ४५०
सिन्धुसौराष्ट्रकाम्बोजमागधेषु च सिंहले
न दोषाय भवेत्तत्र क्षीरं च लवणान्वितम् ४५१
क्षीराणि च समस्तानि लवणानि च योगतः
देशेष्वन्येषु दोषाय पाने चैवेह संशयः ४५२
किमत्र बहुनोक्तेन सद्भिर्निन्द्यं विवर्जयेत्
शम्भुरुवाच-
एवं तस्य वचः श्रुत्वा ब्राह्मणस्य महात्मनः ४५३
स्वमेव भवनं गत्वा चिन्तयामास दुःखितः
रात्रौ मृत्युर्दिवा चेति न जानाति महानपि ४५४
परलोके सुखं दुःखमिह भोगविनोदनम्
क्रिमिकीटमनुष्याद्यैः सुख दुःखैः पृथक्पृथक् ४५५
प्रतिजीवन्तु हेतूनां भेदोऽपि सुविनिश्चयः
एकस्यापि हि जीवस्य नास्ति चैकविधा स्थितिः ४५६
जन्मकाले महाऽज्ञानं शैशवेत्यल्पबोधनम्
स्खलत्पदेल्पविज्ञानं बाल्ये चाल्पं तथैव च ४५७
कौमारे क्रीडनरतिर्यौवने विषयोषितम्
यौवने विनिवृत्ते तु द्रव्यसम्पादनेषणा ४५८
वार्द्धके भोगलिप्सा च न भोक्तुं क्षमतेपि च
दूषिका श्लेष्मलालाभिर्वलीपलितकम्पनैः ४५९
श्वासकासानिलाक्षिप्तैर्हृषीकैर्विकलैर्युतः
किञ्चिद्धर्तुं न शक्नोति न च जानाति किञ्चन ४६०
तिष्ठन्तीषु परस्त्रीषु गुह्यस्थानं प्रदर्शयेत्
कोशकण्डूयनपरः क्रूरो जीवितलक्षणैः ४६१
कण्डूयते स्फिचौ वस्त्रमुद्धृत्य च विचालयन्
भुञ्जानः श्लेष्मणा ग्रासं ग्रसितुं न च शक्नुयात् ४६२
यदा कासस्तदा जज्ञे पायुवायुश्च शब्दवान्
निःसृतिश्च मलस्यापि श्लेष्मनिर्गम एव च ४६३
स्नुषादिभर्त्सनं बाल तालहास्यनिदर्शनम्
गुरुनिर्गमनादीनि सञ्चिन्त्य च पुनः पुनः ४६४
आहूतो भोजनाद्यर्थं भोज्यान्नादि विनिन्दयन्
चिरमुष्णं च निर्भर्त्स्य पुनश्चिन्तामवाप सः ४६५
अतिदुष्कृतिकर्माहं कथं भोक्ष्ये कथं स्वपे
कथं तिष्ठे कथं गच्छे परलोकः कथं भवेत् ४६६
इति चिन्ताकुलो नित्यं न नमत्यपरान्वितः
द्विजस्य सदनं गत्वा पुराणज्ञस्य राघव ४६७
लज्जावाक्कृतवक्त्रश्च किङ्करोमीत्यभाषत
न किञ्चिदप्युवाचासौ द्विजः पौराणिकस्तदा ४६८
पापोयमिति विज्ञाय शिष्येण निरगामयत्
गौतमोपि विनिर्गम्य द्वार्येव च बहिः स्थितः ४६९
भुव्यासीनं तु विज्ञाय पुराणार्थविचारकम्
कथं कथमपि प्राप्य पीठं दत्तं च नाभजत् ४७०
निषण्णो भूतले राम पुराणज्ञमभाषत
प्रायश्चित्तं करिष्यामि तदत्रैव विधीयताम् ४७१
ब्राह्मण उवाच-
पापानि कीर्तयस्व त्वं सर्वथैव कृतानि तु
स चापि नाऽकृतं किञ्चिन्मया पापमितीरयन् ४७२
रुदन्पपात भूम्यां च कथं तातेति पीडितः
ब्राह्मणस्तमथ प्राह प्रायश्चित्तं न विद्यते ४७३
महापापं त्रिरावृत्ते पुनश्च यदि चेत्कृतम्
गौतम उवाच-
पौराणिक महाभाग प्राप्यापि त्वामहं कथम् ४७४
पापयुक्तो द्विजश्रेष्ठ सङ्गतिर्विफला भवेत्
पौराणिक उवाच-
शास्त्रं प्रमाणं सर्वेषां प्रायश्चित्तविनिर्णये ४७५
तद्विना यो हि तं ब्रूयात्प्रायाश्चित्तं न तद्भवेत्
सकृत्कृते सकृत्प्रोक्तं द्वितीये द्विगुणं भवेत् ४७६
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः
त्वया कृतं तु बहुधा चतुर्विधमपीच्छया ४७७
कथं वक्तुमहं शक्तः प्रायश्चित्तं भवादृशे
गौतमोऽपि पुनः प्राह क्व गन्तव्यं मयेति च
उपवासत्रयं कृत्वा शिवरात्रिमविन्दत ४८०
चतुर्थमुपवासं च चकारातीव दुःखितः
पारणं चाप्यमायां स कृतवान्फलवल्कलैः ४८१
अथ प्रदक्षिणं चक्रे श्रीशैलस्य च स द्विजः
गतवान्मन्दिरं पश्चाच्चिन्तयातिकृशः श्वसन् ४८२
कथं पापनिवृत्तिर्मे तूष्णीम्भूतस्य सेत्स्यति
अनन्तमविचार्यं किं पापं च सुमहत्तरम् ४८३
श्रुत्वा न कोपि मे ब्रूयात्प्रायश्चित्तं विधीयताम्
किन्तु कस्मिन्पुराणे तु श्रुते ज्ञातं भविष्यति ४८४
इति कृत्वा मतिं सोथ पुराणज्ञमभाषत
पुराणमेकं मे तात व्याख्यातु भगवानिति ४८५
जातकर्मादिसंस्कारान्कारयस्व ममाशु वै
द्विजो भूत्वा शृणोम्यद्य प्रायश्चित्तं करोम्यतः ४८६
विधायकं पुराणं मे भविष्यति च कीर्तितम्
अतः शक्यं करिष्यामि पुराणार्थं विनिश्चयन् ४८७
पौराणिक उवाच-
यथावत्कीर्तयिष्यामि पुराणं पापनाशनम्
यथाज्ञानं यथाशक्ति यथाशुद्धं यथाविधि ४८८
किं वाञ्च्छसि पुराणं तु कीर्तयिष्ये तदेव तु
गौतम उवाच-
सर्वं रुचि पुराणं मे वक्तव्यं किं हितं वद ४८९
श्रुते यस्मिन्भिदा नैव जायते तु हरीशयोः
पौराणिक उवाच-
कौर्मोक्तं यत्पुराणं तद्देवयोरभिदाभिधम् ४९०
शृणोति यस्तत्प्रथमं तस्य पापं विनश्यति
तस्य वक्ता तु यो विप्रस्तस्य विघ्नान्तरं भवेत् ४९१
श्रोतव्यं मन्यते पापो यदि भार्या विनश्यति
किञ्चैकं दुष्करं वक्ष्ये श्रोतुर्वक्तुरनिन्दकम् ४९२
व्याख्यातरि यदि प्रीतिर्द्धर्मादेव प्रकाशिनी
आचारदर्शने पुण्ये कर्ममोक्षादिदर्शके ४९३
तदा तुष्टो महेशः स्याद्विष्णुरिष्टफलप्रदः
पितरस्तारितास्तेन यान्ति ते परमां गतिम् ४९४
इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे
चतुर्दशोत्तरशततमोऽध्यायः ११४