११२

शम्भुरुवाच-

विश्वास-प्रस्तुतिः

अथान्यदपि निर्वच्मि प्रमदाख्यानमुत्तमम्
सुतया देवरातस्य यत्प्राप्तं नामकीर्तनात् ॥ १ ॥

मूलम्

अथान्यदपि निर्वच्मि प्रमदाख्यानमुत्तमम्
सुतया देवरातस्य यत्प्राप्तं नामकीर्तनात् ॥ १ ॥

विश्वास-प्रस्तुतिः

देवरातसुता बाला कला नामातिरूपिणी
धनञ्जयसुतस्यासीद्भार्या शोणस्य धीमतः ॥ २ ॥

मूलम्

देवरातसुता बाला कला नामातिरूपिणी
धनञ्जयसुतस्यासीद्भार्या शोणस्य धीमतः ॥ २ ॥

विश्वास-प्रस्तुतिः

तावुभौ नियतौ नित्यं धर्मैकप्रवणौ शुभौ
लब्धवन्तौ निधिमथो गङ्गास्नानाय तौ गतौ ॥ ३ ॥

मूलम्

तावुभौ नियतौ नित्यं धर्मैकप्रवणौ शुभौ
लब्धवन्तौ निधिमथो गङ्गास्नानाय तौ गतौ ॥ ३ ॥

विश्वास-प्रस्तुतिः

प्रवाहपतिते कूले मृत्तिकानयनायतौ
कूलादादाय मृल्लोष्टं दृष्टवन्तौ महाघटम् ॥ ४ ॥

मूलम्

प्रवाहपतिते कूले मृत्तिकानयनायतौ
कूलादादाय मृल्लोष्टं दृष्टवन्तौ महाघटम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

राजतं चोर्द्ध्वपाषाणमथ शोणः प्रियां वचः
इदमाह कथं कार्यं किं कर्तव्यं हि नो हितम् ॥ ५ ॥

मूलम्

राजतं चोर्द्ध्वपाषाणमथ शोणः प्रियां वचः
इदमाह कथं कार्यं किं कर्तव्यं हि नो हितम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

भार्योवाच-
न नारीमतमालम्ब्य किञ्चित्कार्यं समाचरेत्
न च नार्या चरेद्गुह्यमप्रियं वाथ किञ्चन ॥ ६ ॥

मूलम्

भार्योवाच-
न नारीमतमालम्ब्य किञ्चित्कार्यं समाचरेत्
न च नार्या चरेद्गुह्यमप्रियं वाथ किञ्चन ॥ ६ ॥

विश्वास-प्रस्तुतिः

यदि नारीसमक्षं तु द्रविणं दृष्टिमापतेत्
वञ्चयीत तथा नारी ईदृशैर्वाक्यसञ्चयैः ॥ ७ ॥

मूलम्

यदि नारीसमक्षं तु द्रविणं दृष्टिमापतेत्
वञ्चयीत तथा नारी ईदृशैर्वाक्यसञ्चयैः ॥ ७ ॥

विश्वास-प्रस्तुतिः

अस्माभिर्न हि सम्प्रेक्ष्यं किं वा तत्र हि तिष्ठति
द्रविणं चेन्न सम्प्रेक्ष्यं बाधोदर्कं भविष्यति ॥ ८ ॥

मूलम्

अस्माभिर्न हि सम्प्रेक्ष्यं किं वा तत्र हि तिष्ठति
द्रविणं चेन्न सम्प्रेक्ष्यं बाधोदर्कं भविष्यति ॥ ८ ॥

विश्वास-प्रस्तुतिः

अन्याज्ञातं तु यदि चेत्कुतो ज्ञानविनिश्चयः
अप्रदृष्टस्त्विदानीं चेन्निभृतः कोपि तिष्ठति ॥ ९ ॥

मूलम्

अन्याज्ञातं तु यदि चेत्कुतो ज्ञानविनिश्चयः
अप्रदृष्टस्त्विदानीं चेन्निभृतः कोपि तिष्ठति ॥ ९ ॥

विश्वास-प्रस्तुतिः

तिरोधानं न किञ्चिच्चेन्मायया कोपि तिष्ठति
न चेन्माया मनुष्याणां क्षेत्त्रपालस्तु तिष्ठति ॥ १० ॥

मूलम्

तिरोधानं न किञ्चिच्चेन्मायया कोपि तिष्ठति
न चेन्माया मनुष्याणां क्षेत्त्रपालस्तु तिष्ठति ॥ १० ॥

विश्वास-प्रस्तुतिः

न हि चेद्भैरवश्चेह तिष्ठति ब्रह्मराक्षसः
न सोपि चेन्महाविद्या राज्ञां तत्र भविष्यति ॥ ११ ॥

मूलम्

न हि चेद्भैरवश्चेह तिष्ठति ब्रह्मराक्षसः
न सोपि चेन्महाविद्या राज्ञां तत्र भविष्यति ॥ ११ ॥

विश्वास-प्रस्तुतिः

न च जानाति चेद्राजा व्यवहारादिसम्भवः
स चेद्गूढप्रकारेण चोरबाधा भविष्यति ॥ १२ ॥

मूलम्

न च जानाति चेद्राजा व्यवहारादिसम्भवः
स चेद्गूढप्रकारेण चोरबाधा भविष्यति ॥ १२ ॥

विश्वास-प्रस्तुतिः

अप्रमत्तस्य भवतो महानर्थो भविष्यति
प्रायेणार्थवतां नॄणां भोगलिप्सा प्रजायते ॥ १३ ॥

मूलम्

अप्रमत्तस्य भवतो महानर्थो भविष्यति
प्रायेणार्थवतां नॄणां भोगलिप्सा प्रजायते ॥ १३ ॥

विश्वास-प्रस्तुतिः

भोगाद्भोगान्तरेच्छा च सर्वानुष्ठाननाशिनी
जानाति यदि नारी स्वं भावयोगगतं तथा ॥ १४ ॥

मूलम्

भोगाद्भोगान्तरेच्छा च सर्वानुष्ठाननाशिनी
जानाति यदि नारी स्वं भावयोगगतं तथा ॥ १४ ॥

विश्वास-प्रस्तुतिः

नारी स्वतन्त्रतामेति रोषाल्लब्धप्रकाशिनी
रोषे विश्वासतां याति तदा दोषः पुरोदितः ॥ १५ ॥

मूलम्

नारी स्वतन्त्रतामेति रोषाल्लब्धप्रकाशिनी
रोषे विश्वासतां याति तदा दोषः पुरोदितः ॥ १५ ॥

विश्वास-प्रस्तुतिः

विश्वासिनि च विश्रम्भः प्रवासो वान्यचित्तता
विश्रम्भाज्जायते स्त्रीणां नानाविधविचेष्टिता ॥ १६ ॥

मूलम्

विश्वासिनि च विश्रम्भः प्रवासो वान्यचित्तता
विश्रम्भाज्जायते स्त्रीणां नानाविधविचेष्टिता ॥ १६ ॥

विश्वास-प्रस्तुतिः

यं कञ्चित्पुरुषं दृष्ट्वा युवानं प्रीतिरापतेत्
प्रीत्या सञ्जायते योगो योगान्मैथुनसङ्गतिः ॥ १७ ॥

मूलम्

यं कञ्चित्पुरुषं दृष्ट्वा युवानं प्रीतिरापतेत्
प्रीत्या सञ्जायते योगो योगान्मैथुनसङ्गतिः ॥ १७ ॥

विश्वास-प्रस्तुतिः

सततं मैथुने जाते विश्रम्भान्तरमापतेत्
भवता वा तथा पूर्वं भुक्तेदानीं च भुज्यते ॥ १८ ॥

मूलम्

सततं मैथुने जाते विश्रम्भान्तरमापतेत्
भवता वा तथा पूर्वं भुक्तेदानीं च भुज्यते ॥ १८ ॥

विश्वास-प्रस्तुतिः

का प्रतीच्छा तवेदानीं प्रीतिः कस्यामथापि वा
का विदग्धा सुसंस्निग्धा पुरुषादन्यतश्चरेत् ॥ १९ ॥

मूलम्

का प्रतीच्छा तवेदानीं प्रीतिः कस्यामथापि वा
का विदग्धा सुसंस्निग्धा पुरुषादन्यतश्चरेत् ॥ १९ ॥

विश्वास-प्रस्तुतिः

योब्रवीदथ वाक्यं तां यदि ब्रूयास्त्वमद्य मे
सर्वमेव तथा वच्मि नान्यथा वाक्यमुच्यते ॥ २० ॥

मूलम्

योब्रवीदथ वाक्यं तां यदि ब्रूयास्त्वमद्य मे
सर्वमेव तथा वच्मि नान्यथा वाक्यमुच्यते ॥ २० ॥

विश्वास-प्रस्तुतिः

इत्थं च धृष्टतां याता तथा रूपान्तरेण च
द्रव्यमादाय यत्किञ्चिदनुवर्तेत्स्वतन्त्रतः ॥ २१ ॥

मूलम्

इत्थं च धृष्टतां याता तथा रूपान्तरेण च
द्रव्यमादाय यत्किञ्चिदनुवर्तेत्स्वतन्त्रतः ॥ २१ ॥

विश्वास-प्रस्तुतिः

समारयित्वा तां द्रव्यं गृहीत्वा पातयिष्यति
अथ पूर्वं पति मृतौ प्रविशेन्नाशुशुक्षणिम् ॥ २२ ॥

मूलम्

समारयित्वा तां द्रव्यं गृहीत्वा पातयिष्यति
अथ पूर्वं पति मृतौ प्रविशेन्नाशुशुक्षणिम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

वैधव्ये द्रविणं सर्वं धर्मार्थं मे भविष्यति
इति निश्चित्य मनसा वैधव्ये समुपस्थिते ॥ २३ ॥

मूलम्

वैधव्ये द्रविणं सर्वं धर्मार्थं मे भविष्यति
इति निश्चित्य मनसा वैधव्ये समुपस्थिते ॥ २३ ॥

विश्वास-प्रस्तुतिः

योनिकुण्डं समासाद्य दिवा वा यदि वा निशि
एकान्तस्थानमभ्येत्य विवृत्य वसनं भगम् ॥ २४ ॥

मूलम्

योनिकुण्डं समासाद्य दिवा वा यदि वा निशि
एकान्तस्थानमभ्येत्य विवृत्य वसनं भगम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

इदमूचे वचो दुःखादुपस्थस्थकरा सती
किं त्वया वै कृतं योने किंवा पापमुपाश्रिता ॥ २५ ॥

मूलम्

इदमूचे वचो दुःखादुपस्थस्थकरा सती
किं त्वया वै कृतं योने किंवा पापमुपाश्रिता ॥ २५ ॥

विश्वास-प्रस्तुतिः

शिश्नस्य वाथवा पापं यत्त्वदन्तरवेशनात्
यच्च कर्तृकृतं पापं मादृक्सेवाविवर्जनात् ॥ २६ ॥

मूलम्

शिश्नस्य वाथवा पापं यत्त्वदन्तरवेशनात्
यच्च कर्तृकृतं पापं मादृक्सेवाविवर्जनात् ॥ २६ ॥

विश्वास-प्रस्तुतिः

अतोपि कण्डूसम्भूतौ प्रवेशयेदथाङ्गुलीम्
विचित्रचेष्टां कृत्वा तु कण्डू बुद्धेरतः परम् ॥ २७ ॥

मूलम्

अतोपि कण्डूसम्भूतौ प्रवेशयेदथाङ्गुलीम्
विचित्रचेष्टां कृत्वा तु कण्डू बुद्धेरतः परम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

मर्दयित्वा कराभ्यां तत्सन्ताड्य च विवृत्य तु
असकृद्धुन्वती पादौ विवृतास्यातिदुःखिता ॥ २८ ॥

मूलम्

मर्दयित्वा कराभ्यां तत्सन्ताड्य च विवृत्य तु
असकृद्धुन्वती पादौ विवृतास्यातिदुःखिता ॥ २८ ॥

विश्वास-प्रस्तुतिः

खट्वा काष्ठमथालिङ्ग्य स्तनपीडं यथाप्रियम्
अथो विचित्रचित्तत्वे ततः प्रद्युष्टती भवेत् ॥ २९ ॥

मूलम्

खट्वा काष्ठमथालिङ्ग्य स्तनपीडं यथाप्रियम्
अथो विचित्रचित्तत्वे ततः प्रद्युष्टती भवेत् ॥ २९ ॥

विश्वास-प्रस्तुतिः

अथवाह्नि पुरे स्थित्वा शाकं व्यवहृतं च यत्
आलम्ब्य वेश्मनि निशि सन्ध्यायां विशिखासु च ॥ ३० ॥

मूलम्

अथवाह्नि पुरे स्थित्वा शाकं व्यवहृतं च यत्
आलम्ब्य वेश्मनि निशि सन्ध्यायां विशिखासु च ॥ ३० ॥

विश्वास-प्रस्तुतिः

कृत्वान्यवेषमात्मानं यैः कैरप्युपभुज्यते
अथ वाच्यप्रभावेण शङ्किता योग्यमाहरेत् ॥ ३१ ॥

मूलम्

कृत्वान्यवेषमात्मानं यैः कैरप्युपभुज्यते
अथ वाच्यप्रभावेण शङ्किता योग्यमाहरेत् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

अज्ञातं च गृहं गत्वा रमयेदेव निश्चितम्
नारीसमक्षं लब्धे तु द्रविणे ह्येतदिष्यते ॥ ३२ ॥

मूलम्

अज्ञातं च गृहं गत्वा रमयेदेव निश्चितम्
नारीसमक्षं लब्धे तु द्रविणे ह्येतदिष्यते ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तस्मान्मयापि भवतो न विचारप्रयोजनम्
शोण उवाच-
एवमेतन्न सन्देहो गच्छ त्वं तिष्ठ दूरतः ॥ ३३ ॥

मूलम्

तस्मान्मयापि भवतो न विचारप्रयोजनम्
शोण उवाच-
एवमेतन्न सन्देहो गच्छ त्वं तिष्ठ दूरतः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

मलमूत्रविसर्गार्थं स्थित्वा गच्छाम्यतः परम्
तस्यां गतायां शोणोपि वस्त्रखण्डं त्वकल्पयत् ॥ ३४ ॥

मूलम्

मलमूत्रविसर्गार्थं स्थित्वा गच्छाम्यतः परम्
तस्यां गतायां शोणोपि वस्त्रखण्डं त्वकल्पयत् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

एकैकस्मिंस्ततः खण्डे त्वग्रहीद्द्रविणं बहु
सैकते त्ववरं जानुदघ्नं कृत्वा ततस्ततः ॥ ३५ ॥

मूलम्

एकैकस्मिंस्ततः खण्डे त्वग्रहीद्द्रविणं बहु
सैकते त्ववरं जानुदघ्नं कृत्वा ततस्ततः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

क्षिप्त्वा धनं पूरयित्वा विष्ठां चक्रे ततोपरि
वस्त्राधारं घटं तं च प्रतिचिक्षेप कुत्रचित् ॥ ३६ ॥

मूलम्

क्षिप्त्वा धनं पूरयित्वा विष्ठां चक्रे ततोपरि
वस्त्राधारं घटं तं च प्रतिचिक्षेप कुत्रचित् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सर्वमज्ञातवत्कृत्वा स्नानाय प्रययौ मुनिः
तस्य भार्या ततः स्नानं कृत्वा सम्पूज्य पार्वतीम् ॥ ३७ ॥

मूलम्

सर्वमज्ञातवत्कृत्वा स्नानाय प्रययौ मुनिः
तस्य भार्या ततः स्नानं कृत्वा सम्पूज्य पार्वतीम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

गच्छेति भर्त्रा सा प्रोक्ता स्ववेश्माभ्यागमत्सती
एतामेकाकिनीं ज्ञात्वा मारीचो नाम राक्षसः ॥ ३८ ॥

मूलम्

गच्छेति भर्त्रा सा प्रोक्ता स्ववेश्माभ्यागमत्सती
एतामेकाकिनीं ज्ञात्वा मारीचो नाम राक्षसः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

भर्तृरूपमथास्थाय कलामेतदुवाच ह
मारीच उवाच-
सप्तगोदावरीतीरे पवित्रं पापनाशनम् ॥ ३९ ॥

मूलम्

भर्तृरूपमथास्थाय कलामेतदुवाच ह
मारीच उवाच-
सप्तगोदावरीतीरे पवित्रं पापनाशनम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

द्राक्षाराममिति प्रोक्तं यत्र भीमः स्वयं स्थितः
भुक्तिमुक्तिप्रदो नॄणां स्मरणात्पापनाशनः ॥ ४० ॥

मूलम्

द्राक्षाराममिति प्रोक्तं यत्र भीमः स्वयं स्थितः
भुक्तिमुक्तिप्रदो नॄणां स्मरणात्पापनाशनः ॥ ४० ॥

विश्वास-प्रस्तुतिः

तत्र गच्छावहे शीघ्रं त्वं तु निर्गच्छ सुन्दरि
कलोवाच-
इदानीमभिषेकाय प्रवृत्तो नाभिषिक्तवान् ॥ ४१ ॥

मूलम्

तत्र गच्छावहे शीघ्रं त्वं तु निर्गच्छ सुन्दरि
कलोवाच-
इदानीमभिषेकाय प्रवृत्तो नाभिषिक्तवान् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

कथमेतादृशं त्वं हि पूर्वानुक्तं वदिष्यसि
प्रकृतेरन्यथाभावमुत्पातं विदुरुत्तमाः ॥ ४२ ॥

मूलम्

कथमेतादृशं त्वं हि पूर्वानुक्तं वदिष्यसि
प्रकृतेरन्यथाभावमुत्पातं विदुरुत्तमाः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

मारीच उवाच-
भर्तुरप्रतिकूलत्वं नारीणां धर्म उच्यते
प्रतिकूलानुकूला वा मम शीघ्रं वदस्व तत् ॥ ४३ ॥

मूलम्

मारीच उवाच-
भर्तुरप्रतिकूलत्वं नारीणां धर्म उच्यते
प्रतिकूलानुकूला वा मम शीघ्रं वदस्व तत् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तूष्णीम्भूत्वाथ सा साध्वी भर्तेत्येव विचार्य तम्
निर्ययौ तेन सा बाला वनमध्ये गता सती ॥ ४४ ॥

मूलम्

तूष्णीम्भूत्वाथ सा साध्वी भर्तेत्येव विचार्य तम्
निर्ययौ तेन सा बाला वनमध्ये गता सती ॥ ४४ ॥

विश्वास-प्रस्तुतिः

अथ मध्याह्नकालोसौ क्रियतामाह्निकक्रियाः
राक्षसोथ वचः श्रुत्वा नानुष्ठानस्थलं त्विह ॥ ४५ ॥

मूलम्

अथ मध्याह्नकालोसौ क्रियतामाह्निकक्रियाः
राक्षसोथ वचः श्रुत्वा नानुष्ठानस्थलं त्विह ॥ ४५ ॥

विश्वास-प्रस्तुतिः

यत्र तत्रास्ति गन्तव्यमितो गच्छावहे ततः
किञ्चित्प्रदेशं गत्वा तु गुहां वीक्ष्य सरस्तथा ॥ ४६ ॥

मूलम्

यत्र तत्रास्ति गन्तव्यमितो गच्छावहे ततः
किञ्चित्प्रदेशं गत्वा तु गुहां वीक्ष्य सरस्तथा ॥ ४६ ॥

विश्वास-प्रस्तुतिः

इह स्थानं हि मे स्थातुं कार्यं स्नानमथ प्रिये
इत्युक्त्वा सरसि स्नात्वा फलाहारं प्रकल्प्य च ॥ ४७ ॥

मूलम्

इह स्थानं हि मे स्थातुं कार्यं स्नानमथ प्रिये
इत्युक्त्वा सरसि स्नात्वा फलाहारं प्रकल्प्य च ॥ ४७ ॥

विश्वास-प्रस्तुतिः

भोजनावसरे प्राप्ते कला दध्यावुमां शिवम्
अयं धवो मम न वा इति ध्यानपराभवत् ॥ ४८ ॥

मूलम्

भोजनावसरे प्राप्ते कला दध्यावुमां शिवम्
अयं धवो मम न वा इति ध्यानपराभवत् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

अथ ध्यानेन तं चोरं निश्चित्य च पतिव्रता
भीतातिनम्रवदना अश्रुपूर्णमुखी तदा ॥ ४९ ॥

मूलम्

अथ ध्यानेन तं चोरं निश्चित्य च पतिव्रता
भीतातिनम्रवदना अश्रुपूर्णमुखी तदा ॥ ४९ ॥

विश्वास-प्रस्तुतिः

कष्टमापतितं पापमित्युक्त्वा निपापत च
रुदतीं तामथो दृष्ट्वा राक्षसः पापनिश्चयः ॥ ५० ॥

मूलम्

कष्टमापतितं पापमित्युक्त्वा निपापत च
रुदतीं तामथो दृष्ट्वा राक्षसः पापनिश्चयः ॥ ५० ॥

विश्वास-प्रस्तुतिः

धर्षितुं तामथारेभे न चैतद्धर्षणं प्रति
बलात्कारमथो कर्तुं यतमाने तु राक्षसे ॥ ५१ ॥

मूलम्

धर्षितुं तामथारेभे न चैतद्धर्षणं प्रति
बलात्कारमथो कर्तुं यतमाने तु राक्षसे ॥ ५१ ॥

विश्वास-प्रस्तुतिः

आजानुनाभिपर्यन्तं शैलस्थानमकल्पयत्
शिला समभवद्वस्त्रं राक्षसो वीक्ष्य तामथ ॥ ५२ ॥

मूलम्

आजानुनाभिपर्यन्तं शैलस्थानमकल्पयत्
शिला समभवद्वस्त्रं राक्षसो वीक्ष्य तामथ ॥ ५२ ॥

विश्वास-प्रस्तुतिः

इत्येवं तां हनिष्यामि खादयिष्याम्यतः परम्
इत्युक्त्वा भ्रामयित्वासिं शिरश्छेत्तुं प्रचक्रमे ॥ ५३ ॥

मूलम्

इत्येवं तां हनिष्यामि खादयिष्याम्यतः परम्
इत्युक्त्वा भ्रामयित्वासिं शिरश्छेत्तुं प्रचक्रमे ॥ ५३ ॥

विश्वास-प्रस्तुतिः

कलाहं मत्पतिर्ज्ञात्वा शापं दास्यति मा हर
इत्युक्तमात्रे वचसि शिरश्चिच्छेद राक्षसः ॥ ५४ ॥

मूलम्

कलाहं मत्पतिर्ज्ञात्वा शापं दास्यति मा हर
इत्युक्तमात्रे वचसि शिरश्चिच्छेद राक्षसः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

प्राप्ता यां दुर्मृतिं तस्यामथ शैवाः समागताः
दूता विचित्राभरणाः सर्वायुधधराः शुभाः ॥ ५५ ॥

मूलम्

प्राप्ता यां दुर्मृतिं तस्यामथ शैवाः समागताः
दूता विचित्राभरणाः सर्वायुधधराः शुभाः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

एतां विमानमारोप्य शिवालोकमुपागमन्
तामागतां गिरिसुता हर्षेण प्रतिपूज्य च ॥ ५६ ॥

मूलम्

एतां विमानमारोप्य शिवालोकमुपागमन्
तामागतां गिरिसुता हर्षेण प्रतिपूज्य च ॥ ५६ ॥

विश्वास-प्रस्तुतिः

स्वपादप्रणतां शुद्धामुमा वाक्यमभाषत
पातिव्रत्येन ते तुष्टा अभीष्टं प्रददामि ते ॥ ५७ ॥

मूलम्

स्वपादप्रणतां शुद्धामुमा वाक्यमभाषत
पातिव्रत्येन ते तुष्टा अभीष्टं प्रददामि ते ॥ ५७ ॥

विश्वास-प्रस्तुतिः

कलोवाच-
दासीभावं प्रयच्छ त्वं त्वत्पादाब्जं मम प्रियम्
प्रार्थ्यैःकिमन्यैर्बहुभिस्तथास्त्विति शिवाब्रवीत् ॥ ५८ ॥

मूलम्

कलोवाच-
दासीभावं प्रयच्छ त्वं त्वत्पादाब्जं मम प्रियम्
प्रार्थ्यैःकिमन्यैर्बहुभिस्तथास्त्विति शिवाब्रवीत् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

इन्द्रादिवनिताभिः सा पूजिताथ कलानिधिः
एतस्मिन्नन्तरे प्राप्तः शोणो मुनिरथो गृहम् ॥ ५९ ॥

मूलम्

इन्द्रादिवनिताभिः सा पूजिताथ कलानिधिः
एतस्मिन्नन्तरे प्राप्तः शोणो मुनिरथो गृहम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

न तत्र दृष्ट्वा तां भार्यां ध्यानयोगपरोभवत्
रक्षोहृतां मृतां प्राप्तां शिवालोकमुमां प्रति ॥ ६० ॥

मूलम्

न तत्र दृष्ट्वा तां भार्यां ध्यानयोगपरोभवत्
रक्षोहृतां मृतां प्राप्तां शिवालोकमुमां प्रति ॥ ६० ॥

विश्वास-प्रस्तुतिः

उमादत्तवरां चापि दृष्टवाञ्ज्ञानचक्षुषा
किञ्चिद्दुःखश्चिरं ध्यात्वा परावृत्य मुनिस्तदा ॥ ६१ ॥

मूलम्

उमादत्तवरां चापि दृष्टवाञ्ज्ञानचक्षुषा
किञ्चिद्दुःखश्चिरं ध्यात्वा परावृत्य मुनिस्तदा ॥ ६१ ॥

विश्वास-प्रस्तुतिः

श्वशुरं गतवान्सोऽथ देवरातं मुनीश्वरः
निवेद्य सर्वं सहितो विश्वामित्रमगान्मुनिम् ॥ ६२ ॥

मूलम्

श्वशुरं गतवान्सोऽथ देवरातं मुनीश्वरः
निवेद्य सर्वं सहितो विश्वामित्रमगान्मुनिम् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

निवेद्य तद्वसिष्ठस्य वसिष्ठोऽप्याह तान्मुनीन्
गत्वा कैलासमादौ तु दृष्ट्वा देवं महेश्वरम् ॥ ६३ ॥

मूलम्

निवेद्य तद्वसिष्ठस्य वसिष्ठोऽप्याह तान्मुनीन्
गत्वा कैलासमादौ तु दृष्ट्वा देवं महेश्वरम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

अनुज्ञां शिवतो लब्ध्वा पार्वतीमन्दिरे गताः
देव्यै विज्ञाप्य तत्सर्वं यथार्थं प्रवदामतत् ॥ ६४ ॥

मूलम्

अनुज्ञां शिवतो लब्ध्वा पार्वतीमन्दिरे गताः
देव्यै विज्ञाप्य तत्सर्वं यथार्थं प्रवदामतत् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

तथेत्युक्त्वा मुनिवराः कैलासं शङ्करालयम्
गत्वा प्रणम्य देवेशं वीरभद्रेण पूजिताः ॥ ६५ ॥

मूलम्

तथेत्युक्त्वा मुनिवराः कैलासं शङ्करालयम्
गत्वा प्रणम्य देवेशं वीरभद्रेण पूजिताः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

विज्ञापयामासुरिदं शोणभार्य्याहृतेति च
शिवः प्राह मुनीन्द्रास्ताञ्ञ्ज्ञातमेव मया त्विदम् ॥ ६६ ॥

मूलम्

विज्ञापयामासुरिदं शोणभार्य्याहृतेति च
शिवः प्राह मुनीन्द्रास्ताञ्ञ्ज्ञातमेव मया त्विदम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

अकालमरणं त्वस्या आयुर्वर्षशतं स्थितम्
अकालमृत्युयुक्तानां पुनर्ज्जीवनमस्ति च ॥ ६७ ॥

मूलम्

अकालमरणं त्वस्या आयुर्वर्षशतं स्थितम्
अकालमृत्युयुक्तानां पुनर्ज्जीवनमस्ति च ॥ ६७ ॥

विश्वास-प्रस्तुतिः

दशपुत्रप्रसूर्वीरा रूपसौभाग्यवत्यपि
भवद्भिरिति निश्चित्य समागतमिह द्विजाः ॥ ६८ ॥

मूलम्

दशपुत्रप्रसूर्वीरा रूपसौभाग्यवत्यपि
भवद्भिरिति निश्चित्य समागतमिह द्विजाः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

यमलोकगतानां तु सर्वमेतद्विनिश्चितम्
ममलोकगतानां च गतिरन्या न विद्यते ॥ ६९ ॥

मूलम्

यमलोकगतानां तु सर्वमेतद्विनिश्चितम्
ममलोकगतानां च गतिरन्या न विद्यते ॥ ६९ ॥

विश्वास-प्रस्तुतिः

अनया कीर्तितं नाम प्राणनिर्गमने पुरा
तया यमलिपिर्मृष्टा कथमायुष्यनिर्णयः ॥ ७० ॥

मूलम्

अनया कीर्तितं नाम प्राणनिर्गमने पुरा
तया यमलिपिर्मृष्टा कथमायुष्यनिर्णयः ॥ ७० ॥

विश्वास-प्रस्तुतिः

अथवा गिरिजायै च निवेदयत कृत्स्नशः
अथ ते पार्वतीपाददर्शनाय गता द्विजाः ॥ ७१ ॥

मूलम्

अथवा गिरिजायै च निवेदयत कृत्स्नशः
अथ ते पार्वतीपाददर्शनाय गता द्विजाः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

प्रणम्य मातरं सर्वे विश्वामित्रोऽब्रवीदिदम्
दीनानाथाकृशा भार्या प्रणष्टपितृकाञ्छिशून् ॥ ७२ ॥

मूलम्

प्रणम्य मातरं सर्वे विश्वामित्रोऽब्रवीदिदम्
दीनानाथाकृशा भार्या प्रणष्टपितृकाञ्छिशून् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

रक्षयित्वा पुरा मातरिष्टदा त्वं सदा ह्यभूः
कला पौत्री ममैवेयं त्वामाराध्य पतिं त्वमुम् ॥ ७३ ॥

मूलम्

रक्षयित्वा पुरा मातरिष्टदा त्वं सदा ह्यभूः
कला पौत्री ममैवेयं त्वामाराध्य पतिं त्वमुम् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

शोणं लब्धवती मातस्त्वत्पूजायाः फलं त्विदम्
तपसा लभ्यते पर्णे दानेन यदि वापि च ॥ ७४ ॥

मूलम्

शोणं लब्धवती मातस्त्वत्पूजायाः फलं त्विदम्
तपसा लभ्यते पर्णे दानेन यदि वापि च ॥ ७४ ॥

विश्वास-प्रस्तुतिः

व्रतोपवासैरथवा कला सा लभ्यते मया
एतया परिविष्टान्नं भोक्तुमिच्छामि तत्कथम् ॥ ७५ ॥

मूलम्

व्रतोपवासैरथवा कला सा लभ्यते मया
एतया परिविष्टान्नं भोक्तुमिच्छामि तत्कथम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच-
यादृशी चेष्यते भार्य्या तादृशी दीयते मया
नैनां त्यक्तुमहं शक्ता किं वा त्वं मन्यसे मुने ॥ ७६ ॥

मूलम्

पार्वत्युवाच-
यादृशी चेष्यते भार्य्या तादृशी दीयते मया
नैनां त्यक्तुमहं शक्ता किं वा त्वं मन्यसे मुने ॥ ७६ ॥

विश्वास-प्रस्तुतिः

विश्वामित्र उवाच-
माता त्वमित्येव मया अविशङ्कितमीरितम्
शोणो मुनिरयं मातस्तव विज्ञापयिष्यति ॥ ७७ ॥

मूलम्

विश्वामित्र उवाच-
माता त्वमित्येव मया अविशङ्कितमीरितम्
शोणो मुनिरयं मातस्तव विज्ञापयिष्यति ॥ ७७ ॥

विश्वास-प्रस्तुतिः

शोण उवाच-
तामेव भार्य्यां प्रतिमे प्रीतिरत्युक्तत्कटाति
सैव मे दीयतां भार्य्या चान्यथा मरणं भवेत् ॥ ७८ ॥

मूलम्

शोण उवाच-
तामेव भार्य्यां प्रतिमे प्रीतिरत्युक्तत्कटाति
सैव मे दीयतां भार्य्या चान्यथा मरणं भवेत् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच-
भार्या पतीसमावेव विषमौ तु विगर्हितौ
तव चासदृशी चेयं सदृशीं प्रददाम्यहम् ॥ ७९ ॥

मूलम्

पार्वत्युवाच-
भार्या पतीसमावेव विषमौ तु विगर्हितौ
तव चासदृशी चेयं सदृशीं प्रददाम्यहम् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

न च मन्मन्दिरे प्राप्तां त्यक्ष्ये देहविवर्ज्जिताम्
शोण उवाच-
यदि नो दीयते चेयं भार्य्यामन्यां मम प्रियाम् ॥ ८० ॥

मूलम्

न च मन्मन्दिरे प्राप्तां त्यक्ष्ये देहविवर्ज्जिताम्
शोण उवाच-
यदि नो दीयते चेयं भार्य्यामन्यां मम प्रियाम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

राज्यं महेश्वरे भक्तिं प्रयच्छ वरमुत्तमम्
भविष्यत्येव मे वैतदित्युक्त्वा चाब्रवीन्मुनीन् ॥ ८१ ॥

मूलम्

राज्यं महेश्वरे भक्तिं प्रयच्छ वरमुत्तमम्
भविष्यत्येव मे वैतदित्युक्त्वा चाब्रवीन्मुनीन् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

भोक्तव्यमिह युष्माभिर्ममास्मिन्दिवसत्रयम्
प्रतीन्दुवारे देवस्य महेशस्यैव तुष्टये ॥ ८२ ॥

मूलम्

भोक्तव्यमिह युष्माभिर्ममास्मिन्दिवसत्रयम्
प्रतीन्दुवारे देवस्य महेशस्यैव तुष्टये ॥ ८२ ॥

विश्वास-प्रस्तुतिः

भोजनीयाः सदा कालमष्टौ विप्रा मुनीश्वराः
इच्छया यत्र कुत्रापि व्रतमेतदुपक्रमेत् ॥ ८३ ॥

मूलम्

भोजनीयाः सदा कालमष्टौ विप्रा मुनीश्वराः
इच्छया यत्र कुत्रापि व्रतमेतदुपक्रमेत् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

वत्सरे परिपूर्णे तु महाराज तमीश्वरम्
चतुर्निष्कप्रमाणेन तदर्द्धेनैव कारयेत् ॥ ८४ ॥

मूलम्

वत्सरे परिपूर्णे तु महाराज तमीश्वरम्
चतुर्निष्कप्रमाणेन तदर्द्धेनैव कारयेत् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

श्वेतवस्त्रयुगं सूक्ष्मं चामरे व्यजने तथा
पादुकोपानहं च्छत्रं सर्वं विप्रे नियोजयेत् ॥ ८५ ॥

मूलम्

श्वेतवस्त्रयुगं सूक्ष्मं चामरे व्यजने तथा
पादुकोपानहं च्छत्रं सर्वं विप्रे नियोजयेत् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

स्वशक्त्या दक्षिणां दत्वा ब्राह्मणांश्च विसर्जयेत्
एतदुद्यापने कुर्यादादौ मध्ये तथा सुधीः ॥ ८६ ॥

मूलम्

स्वशक्त्या दक्षिणां दत्वा ब्राह्मणांश्च विसर्जयेत्
एतदुद्यापने कुर्यादादौ मध्ये तथा सुधीः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

दिनेदिने तथा पूजा सोमस्य परमात्मनः ॥ ८७ ॥

मूलम्

दिनेदिने तथा पूजा सोमस्य परमात्मनः ॥ ८७ ॥

विश्वास-प्रस्तुतिः

तत्पुरुषस्य विद्महे महादेवस्य धीमहि
तन्नो रुद्र प्रःचोदयात् ॥ ८८ ॥

मूलम्

तत्पुरुषस्य विद्महे महादेवस्य धीमहि
तन्नो रुद्र प्रःचोदयात् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

इति पूजामन्त्रः -
स्थण्डिले पूजयेद्देवं प्रतिमायामथापि वा
एकभक्तं स्वयं कुर्याद्ब्रह्मचर्यसमन्वितम् ॥ ८९ ॥

मूलम्

इति पूजामन्त्रः -
स्थण्डिले पूजयेद्देवं प्रतिमायामथापि वा
एकभक्तं स्वयं कुर्याद्ब्रह्मचर्यसमन्वितम् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

एतत्सोमव्रतं प्रोक्तं शिवतुष्टिप्रदं शुभम्
य एवं कुरुते भक्त्या नारी वा पुरुषोपि वा ॥ ९० ॥

मूलम्

एतत्सोमव्रतं प्रोक्तं शिवतुष्टिप्रदं शुभम्
य एवं कुरुते भक्त्या नारी वा पुरुषोपि वा ॥ ९० ॥

विश्वास-प्रस्तुतिः

छायेव शङ्करस्यासौ नित्यमेवानुवर्तते
अद्य सोमदिनं प्राप्तं मध्याह्नात्परतो भुजिः ॥ ९१ ॥

मूलम्

छायेव शङ्करस्यासौ नित्यमेवानुवर्तते
अद्य सोमदिनं प्राप्तं मध्याह्नात्परतो भुजिः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

यूयं च सर्वे मुनयः कृतपौर्वाह्णिकक्रियाः
माध्याह्निकीं क्रिंयां कृत्वा भोक्तुमर्हथ सत्तमाः ॥ ९२ ॥

मूलम्

यूयं च सर्वे मुनयः कृतपौर्वाह्णिकक्रियाः
माध्याह्निकीं क्रिंयां कृत्वा भोक्तुमर्हथ सत्तमाः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

मातुर्वचनमाकर्ण्य तथेत्युक्त्वा नमस्य च
अनुष्ठानाय ते सर्वे गता भागीरथीं नदीम् ॥ ९३ ॥

मूलम्

मातुर्वचनमाकर्ण्य तथेत्युक्त्वा नमस्य च
अनुष्ठानाय ते सर्वे गता भागीरथीं नदीम् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

सङ्गमे मध्यतो वृत्ते कृत्वा माध्याह्निकीं क्रियाम्
विश्वेशपूजां कृत्वा च षोडशैरुपचारकैः ॥ ९४ ॥

मूलम्

सङ्गमे मध्यतो वृत्ते कृत्वा माध्याह्निकीं क्रियाम्
विश्वेशपूजां कृत्वा च षोडशैरुपचारकैः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

अथ ते पार्वतीगेहं गत्वा देवीं प्रणम्य च
लोकमातुर्नियोगेन शालङ्कायनकात्मजः ॥ ९५ ॥

मूलम्

अथ ते पार्वतीगेहं गत्वा देवीं प्रणम्य च
लोकमातुर्नियोगेन शालङ्कायनकात्मजः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

पादप्रक्षालनमुखानुपचारानकल्पयत्
पञ्चगन्धकमादाय तान्मुनीनभ्यलेपयत् ॥ ९६ ॥

मूलम्

पादप्रक्षालनमुखानुपचारानकल्पयत्
पञ्चगन्धकमादाय तान्मुनीनभ्यलेपयत् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

राज्यं च महदाप्नोति यो दद्यात्पञ्चगन्धकम्
पञ्चबाणसमो भूत्वा स्त्रीणां वल्लभतामियात् ॥ ९७ ॥

मूलम्

राज्यं च महदाप्नोति यो दद्यात्पञ्चगन्धकम्
पञ्चबाणसमो भूत्वा स्त्रीणां वल्लभतामियात् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

विष्णवे यो हि दद्यात्तु सोपि मारसमो भवेत्
कामीत्वकामी यः कुर्यात्कैलासे पञ्चवत्सरान् ॥ ९८ ॥

मूलम्

विष्णवे यो हि दद्यात्तु सोपि मारसमो भवेत्
कामीत्वकामी यः कुर्यात्कैलासे पञ्चवत्सरान् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

सर्वगन्धसमोपेतो भोगी चेष्टार्थसंयुतः
यथेष्टवर्तनो भूत्वा ततो जायेत भूमिपः ॥ ९९ ॥

मूलम्

सर्वगन्धसमोपेतो भोगी चेष्टार्थसंयुतः
यथेष्टवर्तनो भूत्वा ततो जायेत भूमिपः ॥ ९९ ॥

कस्तूरीचन्दनं चन्द्रमगरुद्वितयं तथा
पञ्चगन्धं समाख्यातं सर्वकार्येषु शोभनम् १००
विलिप्तपञ्चगन्धेषु ब्राह्मणेषु महात्मसु
आसीनेषु तदाभ्यागाद्ब्राह्मणः स्थविरः कृशः १०१
उन्मत्तवेषो दिग्वासा जराजर्ज्जरितस्त्वरी
खल्वाटः श्वासकासी च बहुहिक्की क्षुधान्वितः १०२
लालास्नुतः श्मश्रुकूर्चश्लेष्मानम्रः स्खलत्पदः
द्व्यष्टवर्षा तथा नारी सर्वाभरणभूषिता १०३
रूपलावण्यसंयुक्ता लोकोत्कृष्टस्वरूपिणी
पुरुषान्रूपसंयुक्तान्वीक्षन्ती च ततस्ततः १०४
गायन्ती त्वथ नृत्यन्ती तं दृष्ट्वाह सती पतिम्
प्रबाधते वृद्धधवं शीघ्रमेहि कृशाधम १०५
आलम्ब्य त्वत्करं वृद्ध दुःखिता नित्यमस्म्यहम्
भूषणं वसनं घ्राणं स्रग्विलेपनमेव च १०६
हासो गीतिस्तथा पानं मण्डनं शोभनं गृहम्
सर्वऋतुसमृद्धिश्च कामस्यैवाभिवृद्धये १०७
सर्वेषामेव कामानां रतिरेका प्रयोजनम्
सुखानि सर्वाण्येकत्र रतिरेकत्र च स्थिता १०८
तुलया तुलितं सर्वं रतिः शतगुणाधिका
तन्मादृशी समासाद्य भवन्तं किं करिष्यति १०९
इति चान्यानि वाक्यानि ब्रुवाणा गृह्य वै करे
तदुत्तरमुवाचेदं किं कुर्मो भाग्यमीदृशम् ११०
मा मारय दुरुक्त्या त्वं मां विज्ञायाथ चेदृशम्
एतादृशो द्विजः प्रायात्पार्वतीमन्दिरं तदा १११
अविज्ञायैव गिरिजामिदं वचनमब्रवीत्
द्विज उवाच-
अन्नार्थिनमिह प्राप्तं विद्धि मामतिथिं मुने ११२
भोजनावसरे प्राप्तं ब्राह्मणान्न हि भोजय
तद्भार्यावचनं प्राह क्व मुनिर्योषिदेव हि ११३
अन्धस्य वचनं सर्वमेवमेतादृशं दृढम्
पार्वत्युवाच-
प्रक्षाल्य चरणावेतमासने उपवेशय ११४
जाम्बूनदकृतेतीव भोज्येनातर्पयद्द्विजम्
सुरत्नचषकोपेतममृतं ब्रह्मवादिनीम् ११५
अरुन्धतीमथाहूय पर्य्यवेषयदम्बिका
कला चारुन्धती चैव अनसूया पतिव्रता ११६
परिवेषं पदार्थानां स्रग्गन्धाक्षतभूषणाः
अकुर्वन्नम्बिकावाक्यात्षड्रसानां पृथक्पृथक् ११७
भुञ्जानेषु तु विप्रेषु दिग्वासा ब्राह्मणाकृतिः
क्षणेन बुभुजे सर्वं दातुं नो शेकुरङ्गनाः ११८
अथ सा गिरिजा देवी स्वयं दातुं प्रचक्रमे
यथादत्तमशेषं तु क्षणेनाश्नाति स द्विजः ११९
भाण्डस्थितमशेषं च भोक्तुमैच्छत्प्रिया सह
तथाम्बिका समादाय प्रादादक्षय्यमस्त्विति १२०
अथ वामकरेणासौ भोक्तुमैच्छत्ततः सती
तत्राप्यक्षय्यमेवास्तु तवान्नमिति चार्पयत् १२१
करान्तरमथोत्पाद्य भोक्तुमैच्छद्द्विजोत्तमः
एवं करसहस्रं च कृत्वैच्छद्भोजनं द्विजः १२२
दत्त्वा दत्त्वा पुनर्देवी सन्तुष्टा न च कोपना
न चित्तमन्यथाकर्तुं शक्यमस्या इति द्विजः १२३
प्रक्षाल्य हस्तौ चरणौ हस्तार्पितसुगन्धवान्
पार्वतीं वाक्यमाहेदं तोषितोहं वरं वृणु १२४
पार्वत्युवाच-
मम दातुं वरं शक्तो यदि त्वं ब्राह्मणोत्तम
वरेण मम किं कार्य्यं शङ्करो मे यतः पतिः १२५
तदाह ब्राह्मणो देवीं शङ्करः कीदृशस्त्विति
सदृशोऽसौ त्वया नो वा त्वद्योग्यो नान्यथा भवेत् १२६
स्त्रीवल्लभत्वमप्येव रूपं दाक्ष्यं शुभाङ्गना
नो चेदेतादृशी भार्य्या मदधीना कथं भवेत् १२७
पार्वत्युवाच-
त्वद्भार्य्यावचनं श्रुत्वा तव वाक्यं तथा द्विज
अपलापस्त्वयं ब्रह्मञ्च्छ्रुतं किंवा तथाविषम् १२८
ब्राह्मण उवाच-
धम्मिल्लं ते करिष्यामि ममाङ्कं त्वं समारुह
प्रचलेद्यदि ते चित्तं पातिव्रत्यं कुतस्तव १२९
पार्वत्युवाच-
मम व्रतं द्विजश्रेष्ठ शङ्कराङ्कैकरोहणम्
अथ तच्चित्तमाज्ञाय भवान्याः परमेश्वरः १३०
द्व्यष्टवर्षवया भूत्वा सुस्निग्धकचबन्धनः
सुस्निग्धचारुनयनो गोक्षीरसमविग्रहः १३१
कोटिकन्दर्पलावण्यः सर्वाभरणभूषितः
स्वपार्श्वस्थितनार्यंसे प्रसारितभुजद्वयः १३२
गायन्मन्दतया साकमुमया पटुता यथा
अथ तां पार्वतीं शम्भुः करेणाकृष्य च स्मयन् १३३
विन्यस्य हस्तौ वनिता द्वयांसे गायन्समस्ताभरणः प्रसन्नदृक्
ननर्त चानन्दसमृद्धगात्रो मुनीन्द्र गीतश्च सकालवेलम् १३४
एतादृशं शिवं ध्यात्वा जन्मकोटिशतेष्वपि
न दुःखं जायते तस्य सदा हर्षश्च जायते १३५
अथ स्तुतो मुनिवरैर्नारीं कृत्वा हरिं ततः
अथ सा पार्वती तुष्टा देवं प्राह पिनाकिनम् १३६
पार्वत्युवाच-
किमित्येतादृशं भावमास्थाय त्वमिहागतः
नारीं कृत्वा तथा विष्णुं किं प्रकृत्या न चागतौ १३७
शिवः प्राह व्रते चात्र ह्यतिथेर्भोजनं शुभम्
जाने सिद्धिमथो येषां विषादो नाभिजायते १३८
जाते विषादे तु व्रतमसम्यगिति निश्चयः
सोमवाराः समायान्ति यावन्तोब्दशतानि तु १३९
तावन्ति मत्पुरे देवि सर्वभोगसमन्वितः
सभार्य्यपुत्रबन्धुश्च वेदोक्तायुष्यजीवितः १४०
पश्चाद्वाराणसीं गत्वा मृतो मुक्तिमवाप्स्यति
शम्भुरुवाच-
अथ देवे स्थिते तत्र मुनयस्त्रिः प्रदक्षिणम् १४१
कृत्वा पञ्चनमस्कारान्पुनः कृत्वा प्रदक्षिणम्
पुनश्च दण्डवद्भूत्वा विसृष्टा निर्ययुस्ततः १४२
अथ शोणः शोभिताङ्गीं भार्यामाप ह्यनिन्दिताम्
राज्यं च भारते वर्षे धर्मेणापालयद्द्विजः १४३
मानुषानखिलान्भोगान्बुभुजे शिवभक्तिमान्
नित्यं देवार्चनपरो नित्यं ब्राह्मणपूजकः १४४
नित्यदाता नित्ययाजी नित्यश्रोता पुराणकम्
मृतः स गतवांल्लोकं शङ्करस्य विभोः शुभम् १४५
शम्भुरुवाच-
नामकीर्तनमाहात्म्यं प्रसङ्गात्परिकीर्तितम्
शृण्वतां सर्वपापघ्नं भक्तानां च तथा नृप १४६
सर्वकल्याणदं नित्यं सुभार्य्या राज्यदं शिवम्
शिवभक्तिप्रदं गोप्यं यस्य कस्यापि नेरयेत् १४७
इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे शिवनाममाहात्म्ये
द्वादशोत्तरशततमोऽध्यायः ११२