श्रीराम उवाच-
विश्वास-प्रस्तुतिः
महेशनाममाहात्म्यं पूजामाहात्म्यमेव च
नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च ॥ १ ॥
मूलम्

जलदानस्य माहात्म्यं धूपदानस्य सत्तम
दीपगन्धादिदानस्य माहात्म्यं वद मे गुरो ॥ २ ॥

शम्भुरुवाच-
एकैकनाममाहात्म्यं विस्तरान्न हि शक्यते
सङ्क्षेपेण च ते वच्मि शृणु राघव सादरम् ॥ ३ ॥

पुरा त्रेतायुगे राजा विधृतो नाम वीर्यवान्
मृते पितरि बालोसौ भूमिराज्येभिषेचितः ॥ ४ ॥

समानवयसः सर्वान्समीपस्थांश्चकार सः
ये वृद्धा ये च विद्वांसस्ते च तस्य न सम्मताः ॥ ५ ॥

युवानः सम्मता दुष्टा अकार्यकरणास्तथा
सुस्त्र्यानयनदक्षाश्च चोरकर्मविशारदाः ॥ ६ ॥

भाण्डवार्तारता लास्यनिपुणास्तस्य सम्मताः
वशीकरणमन्त्रज्ञा वस्त्रौषधविदस्तथा ॥ ७ ॥

गीतनर्तनशीलाश्च धूर्त्ता द्यूतविदः प्रियाः
पितृसम्मतकर्तॄणां त्यागं चक्रे स पार्थिवः ॥ ८ ॥

विचार्य स च तैः सार्द्धं दुष्टैः कार्यमकारयत्
एतादृशांस्तथा चान्यान्दुष्टान्सह युयोज ह ॥ ९ ॥

एतदुक्तिमुपालम्ब्य शिष्टं सुहृदमत्यजत्
उरोमुष्टिं च फेत्कारं ये कुर्युस्तस्य ते प्रियाः ॥ १० ॥

भगलक्षणतत्त्वज्ञा रतितन्त्रविशारदाः
राजनीतिविहीनं तद्राज्यं समभवत्तदा ॥ ११ ॥

गजाश्वरथमुष्ट्राजं गोमहिष्यादिकं च यत्
तत्सर्वं नाशमापन्नमपहारायतस्ततः ॥ १२ ॥
मूलम्
गजाश्वरथमुष्ट्राजं गोमहिष्यादिकं च यत्
तत्सर्वं नाशमापन्नमपहारायतस्ततः ॥ १२ ॥
विश्वास-प्रस्तुतिः
रत्नानि वसुधान्यानि न दृश्यन्ते पुरे तदा
अथ भूपान्तरेणासौ निर्जितः प्रपलायितः ॥ १३ ॥

महारण्यमथो गत्वा गिरिदुर्गमकल्पयत्
तत्र चाल्पपरीवारश्चोरवृत्तिं समाश्रितः ॥ १४ ॥

सुवर्णवस्त्रधान्यादि रत्नगन्धादिकं तथा
तत्रतत्र विनिर्दिश्य चोरानायानवञ्चकान् ॥ १५ ॥

बन्धाद्यकारयत्तैस्तु द्रव्याहरणकर्मणि
यदाहारो न विद्येत तदाहारमकल्पयत् ॥ १६ ॥
मूलम्
बन्धाद्यकारयत्तैस्तु द्रव्याहरणकर्मणि
यदाहारो न विद्येत तदाहारमकल्पयत् ॥ १६ ॥
विश्वास-प्रस्तुतिः
गोमहिष्यादिमांसेन यद्यन्नं नोपलभ्यते
अश्वीय नरमांसेन भोजनं पर्य्यकल्पयत् ॥ १७ ॥

एतादृशमभूद्वृत्तं सन्ध्योपासादिवर्जितम्
एकस्तु सचिवस्तस्य सुरापो नाम राक्षसः ॥ १८ ॥

नियुङ्क्ते सर्वकालं तमाहरप्रहरेति च
एवं रक्षोमते स्थित्वा नानादेशगतान्नरान् ॥ १९ ॥

नृसहस्रपरीवारो ह्यादद्यादकृपालयः
स्वस्याभिमतयोषास्तु ज्ञात्वा ज्ञात्वा समाहरत् ॥ २० ॥

किञ्चित्कालं च ता भुक्त्वा तासां मांसमभक्षयत्
एवं हत्वा नरान्नारी राज्यं चक्रे सुदुःसहम् ॥ २१ ॥

एवं वर्षसहस्रं तु राज्यं कृत्वा नराधमः
जराशिथिलसर्वाङ्गो वलीपलितदूषितः ॥ २२ ॥
मूलम्
एवं वर्षसहस्रं तु राज्यं कृत्वा नराधमः
जराशिथिलसर्वाङ्गो वलीपलितदूषितः ॥ २२ ॥
विश्वास-प्रस्तुतिः
निर्जीवमभवत्स्थानं समन्ताद्दशयोजनम्
अथ मृत्युदिनं प्राप्तं राज्ञस्तस्य महात्मनः ॥ २३ ॥

मृत्युकालेथ सम्प्राप्ते स्नातं भूमिगतं नृपम्
तस्य चानुचराः सर्वे परिवार्योपतस्थिरे ॥ २४ ॥

सुरापः सचिवः प्राह किं कार्यं मम चादिश
अथ राजा तथा शक्तो निर्गतायुस्तदार्दितः ॥ २५ ॥

नाभेरधस्तु क्षीणासुः कथञ्चिद्वाक्यमुक्तवान्
त्वं सर्वकाले दैत्येन्द्र प्रहरप्राहराहर ॥ २६ ॥

इत्यथोक्त्वा ममारासौ यमदूताः समाययुः
विचित्रं बन्धने यत्नं चक्रुस्ताडनतत्पराः ॥ २७ ॥

चूर्णिता बन्धपाशाश्च हेतिदण्डाश्च चूर्णिताः
तद्गात्रस्पर्शमात्रे च तदद्भुतमिवाभवत् ॥ २८ ॥

अथायातः स्वयं मृत्युः पाशेनैनमयोजयत्
मृत्युपाशमपिच्छिन्नं वीक्ष्य मृत्युरचिन्तयत् ॥ २९ ॥

सर्वमर्त्यमृतिर्दृष्टा दृष्टा नैतादृशी क्वचित्
इति चिन्तापरे मृत्यौ ज्वालावक्त्रः प्रतापवान् ॥ ३० ॥

वीरभद्रेण निर्दिष्टः सहसायाच्च शूलभृत्
ज्वालावक्त्रमथालोक्य मृत्युस्तूर्णं पलाययौ ॥ ३१ ॥

पलायमानं तं दृष्ट्वा मृत्युं वह्निमुखस्तदा
अरे रे चोर चोर त्वं तिष्ठतिष्ठ क्व यास्यसि ॥ ३२ ॥

एनसो मुच्यते चोरः शूलारोपणमात्रतः
एवमाभाष्य मृत्युं तं शूलप्रोतमकल्पयत् ॥ ३३ ॥

शूलं स्कन्धगतं कृत्वा दूतान्सङ्ग्रथ्य रज्जुना
पादशृङ्खलविन्यस्तानादाय नृपमध्यगात् ॥ ३४ ॥

विमानवरमारोप्य गीतवाद्यसुशोभितम्
वीरान्तिकमथो गत्वा सर्वमस्मै न्यवेदयत् ॥ ३५ ॥

वीरभद्रोपि तत्सर्वं शङ्करायामितात्मने
नानामुनिगणैर्देवैर्ब्रह्मविष्णुपुरः सुरैः ॥ ३६ ॥

सेव्यमानाय देवाय पार्वतीसहिताय च
प्रणिपत्य निवेद्याथ शूलस्थम्मृत्युमेव च ॥ ३७ ॥

तूष्णीं बभूव विश्वात्मा वीरभद्रः प्रतापवान्
अग्न्याननं वीक्ष्य शिवो विगर्हयन्कथं त्वयैतद्गणसाहसं कृतम्
बिभेषि मृत्योर्न कथं यमाधिकाद्वदस्व सर्वं परमार्थतो मे ॥ ३९ ॥

प्रणम्य तं वह्निमुखोऽतिरोषो मृत्युं समालोक्य ननर्त हर्षात्
उवाच चौर्यं कृतमेव मृत्युना तदेष शूलेऽपि मया प्ररोहितः ॥ ४० ॥

विमोचयामास शिवोपि मृत्युं दूतानशेषान्निरुजश्चकार
मृत्युं समालोक्य शिवो बभाषे मन्नाम एषां मरणे समास्ते ॥ ४१ ॥

मच्चेतसामन्यधियां च नामहीनाक्षरं वाधिकवर्णयुक्तम्
ममैव लोकं प्रददामि सत्यं ह्यनेन नाम प्रहरेति भाषितम् ॥ ४२ ॥

प्रशब्दमात्रं त्वधिकं हरेतिपदप्रदं वै पदमीरयन्ति
आरादमूंस्त्वं जपतो नमस्व मदीयवाक्यं च यमं वदस्व ॥ ४३ ॥

नतिं यतिं कीर्तिमुपास्तिमाश्रिता दास्यं च कैङ्कर्य्यमथ श्रुतिंवदाः
पञ्चाक्षरोक्तिं शतरुद्रियोक्तिं शिवस्य कुर्वन्ति न ते विचार्याः ॥ ४४ ॥

मन्नामरुद्राक्षविभूतिधारणो ममाग्रतो यस्तु पुराणवक्ता
सर्वेषु पापेष्वपि तेषु सत्सु प्रशास्म्यहं नैव यमाधिकारः ॥ ४५ ॥

ये चापि पापान्वितमायिनो नराः परान्नवस्त्रादिवधूभुजश्च
वाराणसीमृत्युपराश्च ये वै श्रीशैलमर्त्याश्च न ते विचार्याः ॥ ४६ ॥

यूकाश्च दंशा अपि मत्कुणाश्च मृगादयः कीटपिपीलिकाश्च
सरीसृपा वृश्चिकशूकराश्च काशीमृताः शङ्करमाप्नुवन्ति ॥ ४७ ॥

इदं नामगृणन्ध्यायेद्यो वै हृत्पद्ममन्दिरे
त्रियम्बकं विरूपाक्षं सोमं सोमार्द्धभूषणम् ॥ ४८ ॥

त्रिनेत्रकं त्रयीनेत्रं सोमसूर्याग्निलोचनम्
तं नमस्कृत्य दूरस्थो भवमृत्यो ममाज्ञया ॥ ४९ ॥

अथाकर्ण्य शिवप्रोक्तं मृत्युस्तुष्टाव शङ्करम्
नमस्ते देवतानाथ नमस्ते देवमूर्तये ॥ ५० ॥

सर्वज्ञाय नमस्तुभ्यं पशूनां पतये नमः
अथ देवो महादेवो मृत्युं प्राह वरं वृणु ॥ ५१ ॥

स्तोत्रेणानेन तुष्टोस्मि मृत्युर्वरमयाचत
त्वदीयं पालय विभो मां च शङ्कर पापिनम् ॥ ५२ ॥

तथेत्युक्त्वा मृत्युमीशो गच्छ वत्सेति चाब्रवीत्
यमलोकं गतः सोपि यमायाशेषमुक्तवान् ॥ ५३ ॥

य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्
विमुक्तः सर्वपापेभ्यो याति शङ्करसन्निधिम् ॥ ५४ ॥

इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे
एकादशोत्तरशततमोऽध्यायः १११