११०

श्रीराम उवाच-

विश्वास-प्रस्तुतिः

अयमग्निशिखो नाम वह्निः शिवगणश्च वै
स कथं तादृशो भूतस्तन्मे वद नमस्तव ॥ १ ॥

मूलम्

अयमग्निशिखो नाम वह्निः शिवगणश्च वै
स कथं तादृशो भूतस्तन्मे वद नमस्तव ॥ १ ॥

विश्वास-प्रस्तुतिः

शम्भुरुवाच-
अयमासीत्पुरा कश्चित्क्षत्त्रियः क्रोधनः सदा
नष्टभार्यो नष्टसेनो नष्टराष्ट्रोतिदुःखितः ॥ २ ॥

मूलम्

शम्भुरुवाच-
अयमासीत्पुरा कश्चित्क्षत्त्रियः क्रोधनः सदा
नष्टभार्यो नष्टसेनो नष्टराष्ट्रोतिदुःखितः ॥ २ ॥

विश्वास-प्रस्तुतिः

लब्ध्वा लुलाय द्वितयं कृषिं चक्रे सहात्मजैः
ऋणेन महता युक्तः पुनश्चातीव दुःखितः ॥ ३ ॥

मूलम्

लब्ध्वा लुलाय द्वितयं कृषिं चक्रे सहात्मजैः
ऋणेन महता युक्तः पुनश्चातीव दुःखितः ॥ ३ ॥

विश्वास-प्रस्तुतिः

पुनश्च दुःखितो राजा सर्पेण सुतनाशनात्
तथाभूतो महीपालस्तत्याज कृषिमप्युत ॥ ४ ॥

मूलम्

पुनश्च दुःखितो राजा सर्पेण सुतनाशनात्
तथाभूतो महीपालस्तत्याज कृषिमप्युत ॥ ४ ॥

विश्वास-प्रस्तुतिः

परित्यज्य सुतौ चापि त्यक्ताहारो रुरोद ह
सुतावथ समागम्य प्राहतुः पितरं त्विदम् ॥ ५ ॥

मूलम्

परित्यज्य सुतौ चापि त्यक्ताहारो रुरोद ह
सुतावथ समागम्य प्राहतुः पितरं त्विदम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

किमर्थं रुद्यते तात नष्टो नायाति रोदनात्
शरीरशोषणायाथ शोकस्तेऽद्य भविष्यति ॥ ६ ॥

मूलम्

किमर्थं रुद्यते तात नष्टो नायाति रोदनात्
शरीरशोषणायाथ शोकस्तेऽद्य भविष्यति ॥ ६ ॥

विश्वास-प्रस्तुतिः

शोकेन चक्षुषी नष्टे कण्ठो नष्टस्तथा तव
अनुष्ठानं तथा नष्टं किमर्थं परितप्यसे ॥ ७ ॥

मूलम्

शोकेन चक्षुषी नष्टे कण्ठो नष्टस्तथा तव
अनुष्ठानं तथा नष्टं किमर्थं परितप्यसे ॥ ७ ॥

विश्वास-प्रस्तुतिः

एको नष्टो न चायाति रक्ष पञ्चस्थितानसून्
बहूनां रक्षणं पुण्यमाश्रितानां विशेषतः ॥ ८ ॥

मूलम्

एको नष्टो न चायाति रक्ष पञ्चस्थितानसून्
बहूनां रक्षणं पुण्यमाश्रितानां विशेषतः ॥ ८ ॥

विश्वास-प्रस्तुतिः

अन्याश्रितममुं शत्रुं कथं शोचितुमर्हसि
पितोवाच-
पुत्रः शत्रुः कथं पुत्रौ युवां शत्रू तथा च मे ॥ ९ ॥

मूलम्

अन्याश्रितममुं शत्रुं कथं शोचितुमर्हसि
पितोवाच-
पुत्रः शत्रुः कथं पुत्रौ युवां शत्रू तथा च मे ॥ ९ ॥

विश्वास-प्रस्तुतिः

अत्यन्तसुखिनं पुत्रं कथं शत्रुमभाषतम्
सुतावूचतुः
जायमानो हरेद्भार्यां वर्द्धमानो हरेद्धनम् ॥ १० ॥

मूलम्

अत्यन्तसुखिनं पुत्रं कथं शत्रुमभाषतम्
सुतावूचतुः
जायमानो हरेद्भार्यां वर्द्धमानो हरेद्धनम् ॥ १० ॥

विश्वास-प्रस्तुतिः

म्रियमाणस्तथा प्राणाञ्छत्रुत्वं किमतः परम्
यत्सुखं च त्वया प्रोक्तं स्पर्शनालिङ्गनादिभिः ॥ ११ ॥

मूलम्

म्रियमाणस्तथा प्राणाञ्छत्रुत्वं किमतः परम्
यत्सुखं च त्वया प्रोक्तं स्पर्शनालिङ्गनादिभिः ॥ ११ ॥

विश्वास-प्रस्तुतिः

दुःखोदर्कमिदं राजन्सर्वमेतद्वदामि ते
प्रसूतिकाले पुत्रस्य भार्यानाशविचारणा ॥ १२ ॥

मूलम्

दुःखोदर्कमिदं राजन्सर्वमेतद्वदामि ते
प्रसूतिकाले पुत्रस्य भार्यानाशविचारणा ॥ १२ ॥

विश्वास-प्रस्तुतिः

जीवितायामथोपत्न्यामात्मनः सुखनाशनम्
योन्यशुद्धौ तु जातायां संयोगो नोपपद्यते ॥ १३ ॥

मूलम्

जीवितायामथोपत्न्यामात्मनः सुखनाशनम्
योन्यशुद्धौ तु जातायां संयोगो नोपपद्यते ॥ १३ ॥

विश्वास-प्रस्तुतिः

आलिङ्गनपरे गाढं स्तन्येनाङ्गं परिप्लुते
तथापि यदि संयोगः शिशुरोदनताः स्त्रियाः ॥ १४ ॥

मूलम्

आलिङ्गनपरे गाढं स्तन्येनाङ्गं परिप्लुते
तथापि यदि संयोगः शिशुरोदनताः स्त्रियाः ॥ १४ ॥

विश्वास-प्रस्तुतिः

दृढं शिशुगतं चित्तं ततो वैरस्यमेव च
अथ चेत्पतितो डिम्भो मध्ये मैथुनमुद्गतिः ॥ १५ ॥

मूलम्

दृढं शिशुगतं चित्तं ततो वैरस्यमेव च
अथ चेत्पतितो डिम्भो मध्ये मैथुनमुद्गतिः ॥ १५ ॥

विश्वास-प्रस्तुतिः

रतिमध्ये तु विच्छेदे दुःखं किञ्चिदसन्निभम्
सर्वकाले परिमिते कदाचिद्रतिसम्भवः ॥ १६ ॥

मूलम्

रतिमध्ये तु विच्छेदे दुःखं किञ्चिदसन्निभम्
सर्वकाले परिमिते कदाचिद्रतिसम्भवः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तत्काले भोजनं नास्ति स्वापो नास्ति च भार्यया
शिशूनां रक्षणे दुःखं व्याधितर्षग्रहादिभिः ॥ १७ ॥

मूलम्

तत्काले भोजनं नास्ति स्वापो नास्ति च भार्यया
शिशूनां रक्षणे दुःखं व्याधितर्षग्रहादिभिः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तन्मतं यत्सुखं चित्रं यथाङ्कारोहणं पितुः
आलिङ्गनकृतं तात चुम्बनादिकृतं तथा ॥ १८ ॥

मूलम्

तन्मतं यत्सुखं चित्रं यथाङ्कारोहणं पितुः
आलिङ्गनकृतं तात चुम्बनादिकृतं तथा ॥ १८ ॥

विश्वास-प्रस्तुतिः

अत्यन्तमधुरोक्त्यादि यत्सुखानि नरेश्वर
रतिमध्ये विरामस्य कलां नार्हन्ति षोडशीम् ॥ १९ ॥

मूलम्

अत्यन्तमधुरोक्त्यादि यत्सुखानि नरेश्वर
रतिमध्ये विरामस्य कलां नार्हन्ति षोडशीम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

अन्यान्यपि च दुःखानि सन्ति पुत्रे सहस्रशः
अनेन त्वं किं क्रियसे इहामुत्र विरोधिना ॥ २० ॥

मूलम्

अन्यान्यपि च दुःखानि सन्ति पुत्रे सहस्रशः
अनेन त्वं किं क्रियसे इहामुत्र विरोधिना ॥ २० ॥

विश्वास-प्रस्तुतिः

त्यज शोकमिदं तस्मादावां पुत्रौ स्थिताविह
श्रीराजोवाच-
त्यजामि शोकं दुर्वारं सर्वकार्यविरोधिनम् ॥ २१ ॥

मूलम्

त्यज शोकमिदं तस्मादावां पुत्रौ स्थिताविह
श्रीराजोवाच-
त्यजामि शोकं दुर्वारं सर्वकार्यविरोधिनम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

आत्मनश्च हितं कार्यमिहामुत्र सुतौ मम
पुरोधसं तु गच्छामि मम पूर्वं महागुरुम् ॥ २२ ॥

मूलम्

आत्मनश्च हितं कार्यमिहामुत्र सुतौ मम
पुरोधसं तु गच्छामि मम पूर्वं महागुरुम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

वसिष्ठं मुनिवर्यं च स दास्यति गतिं मम
एवमुक्त्वा गतो विप्रं वाराणस्यां स्थितं गुरुम् ॥ २३ ॥

मूलम्

वसिष्ठं मुनिवर्यं च स दास्यति गतिं मम
एवमुक्त्वा गतो विप्रं वाराणस्यां स्थितं गुरुम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

दण्डवत्प्रणनामाथ मुनिना परिपूजितः
आलिङ्गितशिरो घ्रातो दत्तासनपरिग्रहः ॥ २४ ॥

मूलम्

दण्डवत्प्रणनामाथ मुनिना परिपूजितः
आलिङ्गितशिरो घ्रातो दत्तासनपरिग्रहः ॥ २४ ॥

विश्वास-प्रस्तुतिः

उक्तश्चागमनं किं ते किं कार्य्यं करवाणि वै
राजोवाच-
गतिं प्रयच्छ मे विप्र संसारतरणाय हि ॥ २५ ॥

मूलम्

उक्तश्चागमनं किं ते किं कार्य्यं करवाणि वै
राजोवाच-
गतिं प्रयच्छ मे विप्र संसारतरणाय हि ॥ २५ ॥

विश्वास-प्रस्तुतिः

खिन्नोहं कर्मणा शश्वद्भवन्तं शरणं गतः
वसिष्ठ उवाच-
गतिं पश्य महालिङ्गं विश्वेश्वरमिति स्थितम् ॥ २६ ॥

मूलम्

खिन्नोहं कर्मणा शश्वद्भवन्तं शरणं गतः
वसिष्ठ उवाच-
गतिं पश्य महालिङ्गं विश्वेश्वरमिति स्थितम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

एनं पूजय राजेन्द्र देवदेवं पिनाकिनम्
यमाराध्य पुरा शक्तिररुन्धत्याः सुतो मुनिः ॥ २७ ॥

मूलम्

एनं पूजय राजेन्द्र देवदेवं पिनाकिनम्
यमाराध्य पुरा शक्तिररुन्धत्याः सुतो मुनिः ॥ २७ ॥

विश्वास-प्रस्तुतिः

रक्षसा भक्षितश्चापि यमलोकं गतो न सः
किञ्चित्कालं गतः स्वर्गं ब्रह्मलोकमगादतः ॥ २८ ॥

मूलम्

रक्षसा भक्षितश्चापि यमलोकं गतो न सः
किञ्चित्कालं गतः स्वर्गं ब्रह्मलोकमगादतः ॥ २८ ॥

विश्वास-प्रस्तुतिः

ब्रह्मलोकाद्विष्णुलोके क्रीडन्नास्ते सुतो मम
अमुं पश्य महाराज लुब्धकं वनचारिणम् ॥ २९ ॥

मूलम्

ब्रह्मलोकाद्विष्णुलोके क्रीडन्नास्ते सुतो मम
अमुं पश्य महाराज लुब्धकं वनचारिणम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

पूजयन्तं हि विश्वेशं पत्रमात्रै स्वसम्भृतैः
शमीवृक्षस्य सम्भूतैस्तथा पूगप्रसूनकैः ॥ ३० ॥

मूलम्

पूजयन्तं हि विश्वेशं पत्रमात्रै स्वसम्भृतैः
शमीवृक्षस्य सम्भूतैस्तथा पूगप्रसूनकैः ॥ ३० ॥

विश्वास-प्रस्तुतिः

कदम्बकुसुमैरर्ककुसुमैर्यूथिकाभवैः
एतैरन्यैर्महेशानं पूजयन्तं विलोकय ॥ ३१ ॥

मूलम्

कदम्बकुसुमैरर्ककुसुमैर्यूथिकाभवैः
एतैरन्यैर्महेशानं पूजयन्तं विलोकय ॥ ३१ ॥

विश्वास-प्रस्तुतिः

इतोर्द्धयाममात्रेण मरिष्यति तदद्भुतम्
अन्तकाले समायाते लुब्धकोपि शिवाय वै ॥ ३२ ॥

मूलम्

इतोर्द्धयाममात्रेण मरिष्यति तदद्भुतम्
अन्तकाले समायाते लुब्धकोपि शिवाय वै ॥ ३२ ॥

विश्वास-प्रस्तुतिः

उपहारप्रदानाय दृष्टवान्पार्श्वतो घटम्
तं चूतफलसम्पूर्णं शुनोच्छिष्टं विगर्हितम् ॥ ३३ ॥

मूलम्

उपहारप्रदानाय दृष्टवान्पार्श्वतो घटम्
तं चूतफलसम्पूर्णं शुनोच्छिष्टं विगर्हितम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सङ्कल्पितोपहारस्य ह्यभावाल्लुब्धकस्तथा
इदं जगौ शुभं वाक्यं लोकानां भक्तिसूचकम् ॥ ३४ ॥

मूलम्

सङ्कल्पितोपहारस्य ह्यभावाल्लुब्धकस्तथा
इदं जगौ शुभं वाक्यं लोकानां भक्तिसूचकम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

पुष्पाभावे हरिर्नेत्रं फलाभावेङ्गुलं रविः
लिङ्गविस्रंसनेकं च जमदग्नि ऋषिस्तथा ॥ ३५ ॥

मूलम्

पुष्पाभावे हरिर्नेत्रं फलाभावेङ्गुलं रविः
लिङ्गविस्रंसनेकं च जमदग्नि ऋषिस्तथा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

लिङ्गपीठविभेदे च गात्रं निर्भिद्य दत्तवान्
अन्यैर्माहैश्वरैरन्यत्साहसं परमं कृतम् ॥ ३६ ॥

मूलम्

लिङ्गपीठविभेदे च गात्रं निर्भिद्य दत्तवान्
अन्यैर्माहैश्वरैरन्यत्साहसं परमं कृतम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

ममापि तत्तथा कार्य्यमन्यथा दोषभागहम्
एतस्मिन्नन्तरे कश्चिदुन्मत्तः शिवमभ्यगात् ॥ ३७ ॥

मूलम्

ममापि तत्तथा कार्य्यमन्यथा दोषभागहम्
एतस्मिन्नन्तरे कश्चिदुन्मत्तः शिवमभ्यगात् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

अथ लुब्धकृतां पूजामाहृत्याभक्षयत्क्षणात्
वमनं च तथा चक्रे शिवपीठेथ लुब्धकः ॥ ३८ ॥

मूलम्

अथ लुब्धकृतां पूजामाहृत्याभक्षयत्क्षणात्
वमनं च तथा चक्रे शिवपीठेथ लुब्धकः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

शिवापकारिणं चैनं हन्मि नो वेत्यचिन्तयत्
अथ स्वात्मवधायैव यत्नमास्थाय शङ्करः ॥ ३९ ॥

मूलम्

शिवापकारिणं चैनं हन्मि नो वेत्यचिन्तयत्
अथ स्वात्मवधायैव यत्नमास्थाय शङ्करः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

उन्मत्तेन यथोद्भुक्ता शिवपूजा मया कृता
लिङ्गप्रावरणे ह्येषा तदहं मम देहिनः ॥ ४० ॥

मूलम्

उन्मत्तेन यथोद्भुक्ता शिवपूजा मया कृता
लिङ्गप्रावरणे ह्येषा तदहं मम देहिनः ॥ ४० ॥

विश्वास-प्रस्तुतिः

प्रावृतिस्त्वगियं त्वद्य निर्मोक्तव्या मया द्रुतम्
पूजाविमोचनायैतत्फलहानेर्गलं त्यजेत् ॥ ४१ ॥

मूलम्

प्रावृतिस्त्वगियं त्वद्य निर्मोक्तव्या मया द्रुतम्
पूजाविमोचनायैतत्फलहानेर्गलं त्यजेत् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

इत्थं सङ्कल्प्य स तथा तीक्ष्णस्वधितिनाद्भुतम्
चक्रे त्वचं दक्षपादं त्वचं च्छित्वा कटेरधः ॥ ४२ ॥

मूलम्

इत्थं सङ्कल्प्य स तथा तीक्ष्णस्वधितिनाद्भुतम्
चक्रे त्वचं दक्षपादं त्वचं च्छित्वा कटेरधः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

वामपादं तथा चक्रे कटिपर्यन्तमाशुच
हृष्टश्चावेपितश्चैव तत ऊर्ध्वमथाच्छिनत् ॥ ४३ ॥

मूलम्

वामपादं तथा चक्रे कटिपर्यन्तमाशुच
हृष्टश्चावेपितश्चैव तत ऊर्ध्वमथाच्छिनत् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

करांसोदरहृत्कण्ठत्वचं निर्भिद्य लुब्धकः
मस्तकस्य त्वचं चापि निर्बिभेद प्रहृष्टवान् ॥ ४४ ॥

मूलम्

करांसोदरहृत्कण्ठत्वचं निर्भिद्य लुब्धकः
मस्तकस्य त्वचं चापि निर्बिभेद प्रहृष्टवान् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

तयोरन्तरतस्तस्माद्गात्रं निर्भिद्य वर्तुलम्
छित्त्वाङ्गुलि समादाय देवायार्पितवांस्त्वचम् ॥ ४५ ॥

मूलम्

तयोरन्तरतस्तस्माद्गात्रं निर्भिद्य वर्तुलम्
छित्त्वाङ्गुलि समादाय देवायार्पितवांस्त्वचम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

आरादेव तथा दिव्यरूपः स्वक्षश्चतुर्भुजः
नानाभूषणसंयुक्तः स्थितो वियति शाङ्करः ॥ ४६ ॥

मूलम्

आरादेव तथा दिव्यरूपः स्वक्षश्चतुर्भुजः
नानाभूषणसंयुक्तः स्थितो वियति शाङ्करः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

अथ शैवाः समायाता दूताः शतसहस्रशः
विचित्रमुकुटाकाराः सर्वाभरणभूषिताः ॥ ४७ ॥

मूलम्

अथ शैवाः समायाता दूताः शतसहस्रशः
विचित्रमुकुटाकाराः सर्वाभरणभूषिताः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

त्रिशूलपाणयः सर्वे शुद्धस्फटिकसन्निभाः
चतुर्भुजाः सुरूपाश्च विमानवरसंस्थिताः ॥ ४८ ॥

मूलम्

त्रिशूलपाणयः सर्वे शुद्धस्फटिकसन्निभाः
चतुर्भुजाः सुरूपाश्च विमानवरसंस्थिताः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

सर्वे सूर्यसमाः शान्ता रम्भावत्प्रियया युताः
सूनुपत्नीबलोत्साह विलासस्त्रीशतान्विताः ॥ ४९ ॥

मूलम्

सर्वे सूर्यसमाः शान्ता रम्भावत्प्रियया युताः
सूनुपत्नीबलोत्साह विलासस्त्रीशतान्विताः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

तेजसा सूर्यसदृशाः पुष्पवृष्टिमवाकिरन्
तैराहूतो लुब्धकश्च नागच्छदवदच्च तान् ॥ ५० ॥

मूलम्

तेजसा सूर्यसदृशाः पुष्पवृष्टिमवाकिरन्
तैराहूतो लुब्धकश्च नागच्छदवदच्च तान् ॥ ५० ॥

विश्वास-प्रस्तुतिः

भार्याबन्धुजनोपेतो गच्छेहमथवा न वा
शैवास्तद्वचनं श्रुत्वा वाक्यमेतदथोचिरे ॥ ५१ ॥

मूलम्

भार्याबन्धुजनोपेतो गच्छेहमथवा न वा
शैवास्तद्वचनं श्रुत्वा वाक्यमेतदथोचिरे ॥ ५१ ॥

विश्वास-प्रस्तुतिः

येन पुण्यं कृतं पापं तेन भोग्यं हि तत्फलम्
लुब्धक उवाच-
अशौचानां च सर्वेषां धर्माणामेककर्तृकम् ॥ ५२ ॥

मूलम्

येन पुण्यं कृतं पापं तेन भोग्यं हि तत्फलम्
लुब्धक उवाच-
अशौचानां च सर्वेषां धर्माणामेककर्तृकम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

माहेश्वराणां धर्माणां फलं च द्विबहुष्वपि
एतस्मिन्नन्तरे प्राप्तो वीरभद्रः शतार्भकः ॥ ५३ ॥

मूलम्

माहेश्वराणां धर्माणां फलं च द्विबहुष्वपि
एतस्मिन्नन्तरे प्राप्तो वीरभद्रः शतार्भकः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

नानाकोटिगणोपेतो एहि लुब्धकबन्धुयुक्
सर्वं त्वयोक्तं च तथा सभार्यो ज्ञातिबन्धुयुक् ॥ ५४ ॥

मूलम्

नानाकोटिगणोपेतो एहि लुब्धकबन्धुयुक्
सर्वं त्वयोक्तं च तथा सभार्यो ज्ञातिबन्धुयुक् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

आरुह्येदं विमानं च शिवं गच्छ शिवं तु वः
अथ तद्वचनात्प्राप्तः शिवलोकं विमानगः ॥ ५५ ॥

मूलम्

आरुह्येदं विमानं च शिवं गच्छ शिवं तु वः
अथ तद्वचनात्प्राप्तः शिवलोकं विमानगः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच-
दृष्टवानसि सर्वं त्वमीशपूजां समाचर
विमुक्तपापबन्धस्त्वं शिवलोकं गमिष्यसि ॥ ५६ ॥

मूलम्

वसिष्ठ उवाच-
दृष्टवानसि सर्वं त्वमीशपूजां समाचर
विमुक्तपापबन्धस्त्वं शिवलोकं गमिष्यसि ॥ ५६ ॥

विश्वास-प्रस्तुतिः

यदि राज्यं त्वया प्रार्थ्यं मार्जयेशां गणं नृप
गोमयोदकलेपं च नित्यमेव समाचर ॥ ५७ ॥

मूलम्

यदि राज्यं त्वया प्रार्थ्यं मार्जयेशां गणं नृप
गोमयोदकलेपं च नित्यमेव समाचर ॥ ५७ ॥

विश्वास-प्रस्तुतिः

एतावता भूमिराज्यं ध्रुवं तव भविष्यति
यावदायुश्च ते राज्यमन्ते शिवपदं भवेत् ॥ ५८ ॥

मूलम्

एतावता भूमिराज्यं ध्रुवं तव भविष्यति
यावदायुश्च ते राज्यमन्ते शिवपदं भवेत् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

नैतस्मिंस्तु भवेद्राज्यसंसिद्धिरनुमृत्युतः
अतो देहान्तरं प्राप्य शिवसेवाप्रभावतः ॥ ५९ ॥

मूलम्

नैतस्मिंस्तु भवेद्राज्यसंसिद्धिरनुमृत्युतः
अतो देहान्तरं प्राप्य शिवसेवाप्रभावतः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

भविष्यति च ते राज्यं शिवभक्तिः स्थिरा तथा
शम्भुरुवाच-
अथ कृत्वा तथा पूजां मृतः स्वर्गं गतस्ततः ॥ ६० ॥

मूलम्

भविष्यति च ते राज्यं शिवभक्तिः स्थिरा तथा
शम्भुरुवाच-
अथ कृत्वा तथा पूजां मृतः स्वर्गं गतस्ततः ॥ ६० ॥

विश्वास-प्रस्तुतिः

राजजन्मपुनः प्राप्य राज्यं चक्रे शिवेरतः
कदाचिदथ देवस्य गृहमभ्यगमन्नृपः ॥ ६१ ॥

मूलम्

राजजन्मपुनः प्राप्य राज्यं चक्रे शिवेरतः
कदाचिदथ देवस्य गृहमभ्यगमन्नृपः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

नानादीपसमोपेतं मणिभिर्नागराडिव
भटानामथ सम्मर्द एको दीपो पतन्नृपे ॥ ६२ ॥

मूलम्

नानादीपसमोपेतं मणिभिर्नागराडिव
भटानामथ सम्मर्द एको दीपो पतन्नृपे ॥ ६२ ॥

विश्वास-प्रस्तुतिः

तदासौ कुपितो राजा दीपमादाय सत्वरम्
देवालयपुरे रम्ये न्यक्षिपत्कोपसंयुतः ॥ ६३ ॥

मूलम्

तदासौ कुपितो राजा दीपमादाय सत्वरम्
देवालयपुरे रम्ये न्यक्षिपत्कोपसंयुतः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

दग्धं देवगृहं तेन एनश्च समपद्यत
अथ तेन पुनस्तत्र दग्धं वेश्मगृहादिकम् ॥ ६४ ॥

मूलम्

दग्धं देवगृहं तेन एनश्च समपद्यत
अथ तेन पुनस्तत्र दग्धं वेश्मगृहादिकम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

निर्मापयामास नृपो महेशानमथायजत्
अथ मृत्युदिने प्राप्ते राजाराधितशङ्करः ॥ ६५ ॥

मूलम्

निर्मापयामास नृपो महेशानमथायजत्
अथ मृत्युदिने प्राप्ते राजाराधितशङ्करः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

भस्मस्नायी भस्मशायी जपन्रुद्रं ममार ह
शिवलोकं गतः सोयं वीरभद्रेण भाषितः ॥ ६६ ॥

मूलम्

भस्मस्नायी भस्मशायी जपन्रुद्रं ममार ह
शिवलोकं गतः सोयं वीरभद्रेण भाषितः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

भव त्वं गणशार्दूलो ममवै परिचारकः
शाङ्करान्मम निर्देशादानयस्व ममान्तिकम् ॥ ६७ ॥

मूलम्

भव त्वं गणशार्दूलो ममवै परिचारकः
शाङ्करान्मम निर्देशादानयस्व ममान्तिकम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

शिरोहीनो भवांश्चापि ज्वालावक्त्रो भविष्यति
सतूवाच महात्मानं वीरभद्रं गणेश्वरम् ॥ ६८ ॥

मूलम्

शिरोहीनो भवांश्चापि ज्वालावक्त्रो भविष्यति
सतूवाच महात्मानं वीरभद्रं गणेश्वरम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

चक्षुः श्रोत्रं तथा जिह्वा नासिकास्यं शिरोगणः
एतैर्विना व्यवहृतिः कथं मे सम्भविष्यति ॥ ६९ ॥

मूलम्

चक्षुः श्रोत्रं तथा जिह्वा नासिकास्यं शिरोगणः
एतैर्विना व्यवहृतिः कथं मे सम्भविष्यति ॥ ६९ ॥

विश्वास-प्रस्तुतिः

अभावे शिरसः किं वा मया पापं कृतं विभो
वीरभद्र उवाच-
त्वयैव स्वीकृता पूर्वं देवी परमसुन्दरी ॥ ७० ॥

मूलम्

अभावे शिरसः किं वा मया पापं कृतं विभो
वीरभद्र उवाच-
त्वयैव स्वीकृता पूर्वं देवी परमसुन्दरी ॥ ७० ॥

विश्वास-प्रस्तुतिः

महेशभवनं नित्यं चार्तुवर्णकरङ्गकैः
स्वस्तिकं सर्वतोभद्रं नन्द्यावर्तादिकं शुभम् ॥ ७१ ॥

मूलम्

महेशभवनं नित्यं चार्तुवर्णकरङ्गकैः
स्वस्तिकं सर्वतोभद्रं नन्द्यावर्तादिकं शुभम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

पद्ममुत्पलमान्दोल पादो व्यजन चामरे
त्रिशूलं शङ्खचक्रे च गदाधनुरथैव च ॥ ७२ ॥

मूलम्

पद्ममुत्पलमान्दोल पादो व्यजन चामरे
त्रिशूलं शङ्खचक्रे च गदाधनुरथैव च ॥ ७२ ॥

विश्वास-प्रस्तुतिः

त्रिशूलं डमरुङ्खड्गं वृषं भृङ्गिरिटिं शिवम्
तथाष्टपत्रं कमलमन्यद्यन्त्रादिकं तथा ॥ ७३ ॥

मूलम्

त्रिशूलं डमरुङ्खड्गं वृषं भृङ्गिरिटिं शिवम्
तथाष्टपत्रं कमलमन्यद्यन्त्रादिकं तथा ॥ ७३ ॥

विश्वास-प्रस्तुतिः

कल्पयन्ती प्रतिदिनं सेवते वृषभध्वजम्
कदाचिदथ सा वेश्या देवसद्मन्युपस्थिता ॥ ७४ ॥

मूलम्

कल्पयन्ती प्रतिदिनं सेवते वृषभध्वजम्
कदाचिदथ सा वेश्या देवसद्मन्युपस्थिता ॥ ७४ ॥

विश्वास-प्रस्तुतिः

राज्ञः काराङ्किकः कश्चिद्देववेश्म समाविशत्
अथ तां दृष्टवांस्तत्र स इदं वाक्यमुक्तवान् ॥ ७५ ॥

मूलम्

राज्ञः काराङ्किकः कश्चिद्देववेश्म समाविशत्
अथ तां दृष्टवांस्तत्र स इदं वाक्यमुक्तवान् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

काराङ्किक उवाच-
एकान्तसंस्थिता वेश्या युवाहं स्थविरश्च न
स्थविरं व्याधितं षण्ढमशक्तं धनवर्जितम् ॥ ७६ ॥

मूलम्

काराङ्किक उवाच-
एकान्तसंस्थिता वेश्या युवाहं स्थविरश्च न
स्थविरं व्याधितं षण्ढमशक्तं धनवर्जितम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

अदीर्घमेहनं दीनं पुरुषं योषिदुत्सृजेत्
अश्मश्रुलं मलच्छन्नं जडं दुर्गन्धिदूषितम् ॥ ७७ ॥

मूलम्

अदीर्घमेहनं दीनं पुरुषं योषिदुत्सृजेत्
अश्मश्रुलं मलच्छन्नं जडं दुर्गन्धिदूषितम् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

स्वल्पमव्यसनं नारी दूरतः परिवर्ज्जयेत्
तस्मान्मे दीयतां वेश्ये मैथुनं जीवयाशु माम् ॥ ७८ ॥

मूलम्

स्वल्पमव्यसनं नारी दूरतः परिवर्ज्जयेत्
तस्मान्मे दीयतां वेश्ये मैथुनं जीवयाशु माम् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

वेश्योवाच-
नियतः सर्वजातीनामिहामुत्र सुखप्रदः
पातिव्रत्यं परो धर्मः स्त्रीणामिति हि शुश्रुम ॥ ७९ ॥

मूलम्

वेश्योवाच-
नियतः सर्वजातीनामिहामुत्र सुखप्रदः
पातिव्रत्यं परो धर्मः स्त्रीणामिति हि शुश्रुम ॥ ७९ ॥

विश्वास-प्रस्तुतिः

यदधीना यदा वेश्या तदा नान्येन सङ्गता
पतिव्रतेति विख्याता तस्मात्तं परिपालयेत् ॥ ८० ॥

मूलम्

यदधीना यदा वेश्या तदा नान्येन सङ्गता
पतिव्रतेति विख्याता तस्मात्तं परिपालयेत् ॥ ८० ॥

विश्वास-प्रस्तुतिः

काराङ्किक उवाच-
यदि चैवं मृतिः शीघ्रं भविष्यति न संशयः
अथ राजान्तिकं गत्वा राजानमिदमुक्तवान् ॥ ८१ ॥

मूलम्

काराङ्किक उवाच-
यदि चैवं मृतिः शीघ्रं भविष्यति न संशयः
अथ राजान्तिकं गत्वा राजानमिदमुक्तवान् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

वेश्या वेश्यैव नो भार्या नेति वक्तुं च नोचितम्
इत्थं राजानमुक्त्वाथ मण्डं चैवारनालजम् ॥ ८२ ॥

मूलम्

वेश्या वेश्यैव नो भार्या नेति वक्तुं च नोचितम्
इत्थं राजानमुक्त्वाथ मण्डं चैवारनालजम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

किञ्चिदादाय तस्यास्तु मन्दिरं गतवानयम्
निद्रावसरमालोक्य प्रसृज्यच करं ततः ॥ ८३ ॥

मूलम्

किञ्चिदादाय तस्यास्तु मन्दिरं गतवानयम्
निद्रावसरमालोक्य प्रसृज्यच करं ततः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

वस्त्रस्य विवरे तत्र मण्डं चिक्षेप दुष्टधीः
एवं कृत्वा ततो गत्वा राजानमिदमुक्तवान् ॥ ८४ ॥

मूलम्

वस्त्रस्य विवरे तत्र मण्डं चिक्षेप दुष्टधीः
एवं कृत्वा ततो गत्वा राजानमिदमुक्तवान् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

राजन्निर्गत्य गत्वाथ वेश्याग्र्यां तव योषितः
उत्थापयित्वा वेश्यां तां सर्वाङ्गं द्रष्टुमर्हसि ॥ ८५ ॥

मूलम्

राजन्निर्गत्य गत्वाथ वेश्याग्र्यां तव योषितः
उत्थापयित्वा वेश्यां तां सर्वाङ्गं द्रष्टुमर्हसि ॥ ८५ ॥

विश्वास-प्रस्तुतिः

उन्मुक्तबन्धमथवा वसनं पश्य यत्नतः
वेश्यावेश्माथगतवान्राजा काराङ्किकं वचः ॥ ८६ ॥

मूलम्

उन्मुक्तबन्धमथवा वसनं पश्य यत्नतः
वेश्यावेश्माथगतवान्राजा काराङ्किकं वचः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

इदमाह सनिद्रेयं पश्येमां यामि पश्यसि
स तूवाच नृपं तत्र न मे युक्तमिदं नृप ॥ ८७ ॥

मूलम्

इदमाह सनिद्रेयं पश्येमां यामि पश्यसि
स तूवाच नृपं तत्र न मे युक्तमिदं नृप ॥ ८७ ॥

विश्वास-प्रस्तुतिः

तन्मातरं वा पितरं दर्शनाय नियोजय
तद्दृष्टौ सर्वमेवेदं व्यक्तमाशु भविष्यति ॥ ८८ ॥

मूलम्

तन्मातरं वा पितरं दर्शनाय नियोजय
तद्दृष्टौ सर्वमेवेदं व्यक्तमाशु भविष्यति ॥ ८८ ॥

विश्वास-प्रस्तुतिः

आनीता ह्यथ राज्ञा तु माता वीक्षितुमुद्यता
वचनात्तु नृपस्यैव वस्त्रं शोधयतीव सा ॥ ८९ ॥

मूलम्

आनीता ह्यथ राज्ञा तु माता वीक्षितुमुद्यता
वचनात्तु नृपस्यैव वस्त्रं शोधयतीव सा ॥ ८९ ॥

विश्वास-प्रस्तुतिः

तत्रस्थितं मण्डमथ विज्ञायाम्बा ह्यमर्दयत्
मर्दनाद्वसनं क्लिन्नं किं तदित्याह पार्थिवः ॥ ९० ॥

मूलम्

तत्रस्थितं मण्डमथ विज्ञायाम्बा ह्यमर्दयत्
मर्दनाद्वसनं क्लिन्नं किं तदित्याह पार्थिवः ॥ ९० ॥

विश्वास-प्रस्तुतिः

न किञ्चिद्देव नो किञ्चिदिति वेश्याप्रसूरपि
बहुवाक्येन राजाथ वसनं वीक्ष्य शङ्कया ॥ ९१ ॥

मूलम्

न किञ्चिद्देव नो किञ्चिदिति वेश्याप्रसूरपि
बहुवाक्येन राजाथ वसनं वीक्ष्य शङ्कया ॥ ९१ ॥

विश्वास-प्रस्तुतिः

शुक्रक्लिन्नमिदं वासः प्राहैतत्पश्यतामिति
अथ दृष्ट्वा समीपस्थास्तथेत्यूचुर्वचो नृपम् ॥ ९२ ॥

मूलम्

शुक्रक्लिन्नमिदं वासः प्राहैतत्पश्यतामिति
अथ दृष्ट्वा समीपस्थास्तथेत्यूचुर्वचो नृपम् ॥ ९२ ॥

विश्वास-प्रस्तुतिः

राजाथ स्वगृहं गत्वा दण्डाध्यक्षमभाषत
इदानीमेव वेश्यायाः शिरश्छिन्ध्यविचारयन् ॥ ९३ ॥

मूलम्

राजाथ स्वगृहं गत्वा दण्डाध्यक्षमभाषत
इदानीमेव वेश्यायाः शिरश्छिन्ध्यविचारयन् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

दर्शनीयं शिरस्तस्या घटिकाभ्यन्तरे मम
दण्डकश्च नृपोक्त्यास्यास्तथा कृत्वा ह्यदर्शयत् ॥ ९४ ॥

मूलम्

दर्शनीयं शिरस्तस्या घटिकाभ्यन्तरे मम
दण्डकश्च नृपोक्त्यास्यास्तथा कृत्वा ह्यदर्शयत् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

वीरभद्र उवाच-
एवं कृतं त्वया पूर्वं प्राप्तं च फलमद्य ते
ज्वालयैव हि वक्ता त्वं श्रोता द्रष्टा च जिघ्रसि ॥ ९५ ॥

मूलम्

वीरभद्र उवाच-
एवं कृतं त्वया पूर्वं प्राप्तं च फलमद्य ते
ज्वालयैव हि वक्ता त्वं श्रोता द्रष्टा च जिघ्रसि ॥ ९५ ॥

विश्वास-प्रस्तुतिः

रसं जानासि मतिमानतिक्रोधी भविष्यसि
शम्भुरुवाच-
एवं ज्वालामुखो जातो राजा माहेश्वरोऽक्षमी ॥ ९६ ॥

मूलम्

रसं जानासि मतिमानतिक्रोधी भविष्यसि
शम्भुरुवाच-
एवं ज्वालामुखो जातो राजा माहेश्वरोऽक्षमी ॥ ९६ ॥

विश्वास-प्रस्तुतिः

तस्मात्तु क्षमिणा भाव्यं परत्रेह सुखेप्सुना
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् ॥ ९७ ॥

मूलम्

तस्मात्तु क्षमिणा भाव्यं परत्रेह सुखेप्सुना
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

विमुक्तपापबन्धश्च शिवलोके भविष्यति ॥ ९८ ॥

मूलम्

विमुक्तपापबन्धश्च शिवलोके भविष्यति ॥ ९८ ॥

इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे शिवपूजामाहात्म्यकथनं
नाम दशोत्तरशततमोऽध्यायः ११०