शम्भुरुवाच-
विश्वास-प्रस्तुतिः
अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीम्
श्रुत्वा यां प्राप धर्मात्मा शिवभक्तिमनुत्तमाम् ॥ १ ॥
मूलम्
अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीम्
श्रुत्वा यां प्राप धर्मात्मा शिवभक्तिमनुत्तमाम् ॥ १ ॥
विश्वास-प्रस्तुतिः
इक्ष्वाकुर्नाम विप्रेन्द्रो महाविद्यो महामतिः
बहुशास्त्रप्रवीणश्च नीतिशास्त्रविशारदः ॥ २ ॥
मूलम्
इक्ष्वाकुर्नाम विप्रेन्द्रो महाविद्यो महामतिः
बहुशास्त्रप्रवीणश्च नीतिशास्त्रविशारदः ॥ २ ॥
विश्वास-प्रस्तुतिः
न यष्टा न च दाता च न देवानां च पूजकः
न चाध्यापयिता वेदं न व्याख्याता श्रुतस्य च ॥ ३ ॥
मूलम्
न यष्टा न च दाता च न देवानां च पूजकः
न चाध्यापयिता वेदं न व्याख्याता श्रुतस्य च ॥ ३ ॥
विश्वास-प्रस्तुतिः
न पुराणेतिहासानां श्रुतीनामागमस्य वा
यत्नाद्भोक्ता तथा देहसंस्कारैकप्रवर्तकः ॥ ४ ॥
मूलम्
न पुराणेतिहासानां श्रुतीनामागमस्य वा
यत्नाद्भोक्ता तथा देहसंस्कारैकप्रवर्तकः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तादृशस्य द्विजस्याथ समालक्ष्यायुरत्यगात्
लक्षान्तरे तथैकस्मिन्वत्सरे मासि पञ्चमे ॥ ५ ॥
मूलम्
तादृशस्य द्विजस्याथ समालक्ष्यायुरत्यगात्
लक्षान्तरे तथैकस्मिन्वत्सरे मासि पञ्चमे ॥ ५ ॥
विश्वास-प्रस्तुतिः
तृतीय दिवसे रात्र्यां पुराणं श्रुतवानिदम्
स्वसम्पादितवित्तस्य येन दानं न वै कृतम् ॥ ६ ॥
मूलम्
तृतीय दिवसे रात्र्यां पुराणं श्रुतवानिदम्
स्वसम्पादितवित्तस्य येन दानं न वै कृतम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
दिनेदिने भुज्यमानं निःसारं स्यात्क्रमेण हि
वर्षाण्येव च तावन्ति नरके पच्यते ध्रुवम् ॥ ७ ॥
मूलम्
दिनेदिने भुज्यमानं निःसारं स्यात्क्रमेण हि
वर्षाण्येव च तावन्ति नरके पच्यते ध्रुवम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
कृमियोनिसहस्रं च अनुभूय ततः परम्
दरिद्रो व्याधितोऽबन्धुर्दुष्टभार्यो बहुप्रजः ॥ ८ ॥
मूलम्
कृमियोनिसहस्रं च अनुभूय ततः परम्
दरिद्रो व्याधितोऽबन्धुर्दुष्टभार्यो बहुप्रजः ॥ ८ ॥
विश्वास-प्रस्तुतिः
दिनेदिने भिक्षितेन याचितेन च जीवनम्
यन्न क्वापि च बीजानां मग्नानामथ मार्गणात् ॥ ९ ॥
मूलम्
दिनेदिने भिक्षितेन याचितेन च जीवनम्
यन्न क्वापि च बीजानां मग्नानामथ मार्गणात् ॥ ९ ॥
विश्वास-प्रस्तुतिः
लब्धेनजीवनं कर्म भृत्यानामथ जीवनम्
मध्ये श्रोत्रविहीनश्च नेत्रहीनः स्खलन्मलः ॥ १० ॥
मूलम्
लब्धेनजीवनं कर्म भृत्यानामथ जीवनम्
मध्ये श्रोत्रविहीनश्च नेत्रहीनः स्खलन्मलः ॥ १० ॥
विश्वास-प्रस्तुतिः
एवं पुराणं श्रुत्वा साविक्ष्वाकुर्भृशदुःखितः
मनसा चिन्तयच्चेदं स्मारं स्मारं द्विजाधमः ॥ ११ ॥
मूलम्
एवं पुराणं श्रुत्वा साविक्ष्वाकुर्भृशदुःखितः
मनसा चिन्तयच्चेदं स्मारं स्मारं द्विजाधमः ॥ ११ ॥
विश्वास-प्रस्तुतिः
रूपपुष्पैर्माहिष्मयी दुर्गापि फलवर्जिता
तथा पुराणरहिता विद्या नो गतिदर्शनी ॥ १२ ॥
मूलम्
रूपपुष्पैर्माहिष्मयी दुर्गापि फलवर्जिता
तथा पुराणरहिता विद्या नो गतिदर्शनी ॥ १२ ॥
विश्वास-प्रस्तुतिः
बहुशास्त्रं समभ्यस्य बहुवेदान्सविस्तरान्
पुंसोश्रुतपुराणस्य सम्यग्याति न दर्शनम् ॥ १३ ॥
मूलम्
बहुशास्त्रं समभ्यस्य बहुवेदान्सविस्तरान्
पुंसोश्रुतपुराणस्य सम्यग्याति न दर्शनम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
शम्भुरुवाच-
एवं चिन्तयतस्तस्य अकालमरणं त्वभूत्
यमलोकं गतश्चाथ यमेन परिभाषितः ॥ १४ ॥
मूलम्
शम्भुरुवाच-
एवं चिन्तयतस्तस्य अकालमरणं त्वभूत्
यमलोकं गतश्चाथ यमेन परिभाषितः ॥ १४ ॥
विश्वास-प्रस्तुतिः
यम उवाच-
अनेकपापयुक्तोसि पुण्यं नैव महत्तव
न वेदाध्यापनात्प्राप्तं पापं च विदितं तव ॥ १५ ॥
मूलम्
यम उवाच-
अनेकपापयुक्तोसि पुण्यं नैव महत्तव
न वेदाध्यापनात्प्राप्तं पापं च विदितं तव ॥ १५ ॥
विश्वास-प्रस्तुतिः
कोटिवर्षाणि नरके तवस्थितिरिति द्विज
आयुरस्ति तवात्यल्पं गम्यतां पौर्विकीं तनुम् ॥ १६ ॥
मूलम्
कोटिवर्षाणि नरके तवस्थितिरिति द्विज
आयुरस्ति तवात्यल्पं गम्यतां पौर्विकीं तनुम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
कुरु पुण्यं हितं दानं देवतापूजनं जपम्
साङ्गमध्यापनं विप्र भोजनं भस्मधारणम् ॥ १७ ॥
मूलम्
कुरु पुण्यं हितं दानं देवतापूजनं जपम्
साङ्गमध्यापनं विप्र भोजनं भस्मधारणम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
भज विश्वेश्वरं देवं देवदेवमुमापतिम्
तस्य प्रयत्नमात्रेण मम लोकं न गच्छसि ॥ १८ ॥
मूलम्
भज विश्वेश्वरं देवं देवदेवमुमापतिम्
तस्य प्रयत्नमात्रेण मम लोकं न गच्छसि ॥ १८ ॥
विश्वास-प्रस्तुतिः
यत्किञ्चित्प्रत्यहं पापिन्पुराणं शृणु सादरम्
ततस्तच्छ्रवणादेव नेक्षसे मम यातनाः ॥ १९ ॥
मूलम्
यत्किञ्चित्प्रत्यहं पापिन्पुराणं शृणु सादरम्
ततस्तच्छ्रवणादेव नेक्षसे मम यातनाः ॥ १९ ॥
विश्वास-प्रस्तुतिः
यमस्य वचनं श्रुत्वा ब्राह्मणः स्वां ययौ तनुम्
अथेशपूजनकृते यत्नमास्थाय स द्विजः ॥ २० ॥
मूलम्
यमस्य वचनं श्रुत्वा ब्राह्मणः स्वां ययौ तनुम्
अथेशपूजनकृते यत्नमास्थाय स द्विजः ॥ २० ॥
विश्वास-प्रस्तुतिः
अगमन्मुनिवर्यं तु जाबालिशिवपूजकम्
तपः स्वाध्यायसम्पन्नं श्रुतिस्मृतिविवेचकम् ॥ २१ ॥
मूलम्
अगमन्मुनिवर्यं तु जाबालिशिवपूजकम्
तपः स्वाध्यायसम्पन्नं श्रुतिस्मृतिविवेचकम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
पुराणतत्त्ववेत्तारं लक्षशिष्यसमावृतम्
जराशिथिलसर्वाङ्गं वेदवेदाङ्गपारगम् ॥ २२ ॥
मूलम्
पुराणतत्त्ववेत्तारं लक्षशिष्यसमावृतम्
जराशिथिलसर्वाङ्गं वेदवेदाङ्गपारगम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
द्रष्टुकामो ययौ शैलं मन्दरं चारुकन्दरम्
नानाविहङ्गसम्पूर्णं नानापुष्पलतावृतम् ॥ २३ ॥
मूलम्
द्रष्टुकामो ययौ शैलं मन्दरं चारुकन्दरम्
नानाविहङ्गसम्पूर्णं नानापुष्पलतावृतम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
सर्वर्तुकुसुमोपेतं नानागन्धोपशोभितम्
किन्नराणां च मिथुनैर्गीतपूर्णमहागुहम् ॥ २४ ॥
मूलम्
सर्वर्तुकुसुमोपेतं नानागन्धोपशोभितम्
किन्नराणां च मिथुनैर्गीतपूर्णमहागुहम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
अनेकरूपलावण्य वनितोषितपादपम्
लम्बमानविचित्राभिस्ताभिः शोभितपादपम् ॥ २५ ॥
मूलम्
अनेकरूपलावण्य वनितोषितपादपम्
लम्बमानविचित्राभिस्ताभिः शोभितपादपम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
रतिश्रमप्रसुप्तानां बोधनादितषट्पदम्
कूजन्ति च पिकाः कामं वियुक्तानां युजे किल ॥ २६ ॥
मूलम्
रतिश्रमप्रसुप्तानां बोधनादितषट्पदम्
कूजन्ति च पिकाः कामं वियुक्तानां युजे किल ॥ २६ ॥
विश्वास-प्रस्तुतिः
नानामुनिगणाकीर्णं प्रशान्तमृगचारिणम्
अप्सरोगणसङ्कीर्णं गन्धर्वगणसेवितम् ॥ २७ ॥
मूलम्
नानामुनिगणाकीर्णं प्रशान्तमृगचारिणम्
अप्सरोगणसङ्कीर्णं गन्धर्वगणसेवितम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
नानासिद्धमुखोद्भूतगीतपूर्णवनान्तरम्
विचित्रफलसम्पूर्णं नानादेवालयान्वितम् ॥ २८ ॥
मूलम्
नानासिद्धमुखोद्भूतगीतपूर्णवनान्तरम्
विचित्रफलसम्पूर्णं नानादेवालयान्वितम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
प्रासादशतसम्बाधं नानागृहसमन्वितम्
सिंहाननैर्गजमुखैरुलूकवदनैरथ ॥ २९ ॥
मूलम्
प्रासादशतसम्बाधं नानागृहसमन्वितम्
सिंहाननैर्गजमुखैरुलूकवदनैरथ ॥ २९ ॥
विश्वास-प्रस्तुतिः
अमुखैर्विमुखैरुग्रैरर्द्धवक्त्रैर्मृगीमुखैः
रुरुजन्तुकगोधाहि वानरर्क्षमुखैरपि ॥ ३० ॥
मूलम्
अमुखैर्विमुखैरुग्रैरर्द्धवक्त्रैर्मृगीमुखैः
रुरुजन्तुकगोधाहि वानरर्क्षमुखैरपि ॥ ३० ॥
विश्वास-प्रस्तुतिः
व्याघ्रवृश्चिकभल्लूष्ट्रश्वानगर्दभतुण्डकैः
समस्तजीववदनसदृशास्यैर्गणेश्वरैः
वल्लीमुखैर्वृक्षमुखैः शिलावक्त्रैरयोमुखैः ॥ ३१ ॥
मूलम्
व्याघ्रवृश्चिकभल्लूष्ट्रश्वानगर्दभतुण्डकैः
समस्तजीववदनसदृशास्यैर्गणेश्वरैः
वल्लीमुखैर्वृक्षमुखैः शिलावक्त्रैरयोमुखैः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
शङ्खमुक्तादिजलजवदनैरुपशोभितम्
अधिकाङ्गैरनङ्गैश्च जटिलैः शिखिमुण्डितैः ॥ ३२ ॥
मूलम्
शङ्खमुक्तादिजलजवदनैरुपशोभितम्
अधिकाङ्गैरनङ्गैश्च जटिलैः शिखिमुण्डितैः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
पत्रिवक्त्रैर्द्विषड्वक्त्रैस्त्रिविग्रहमुखैरपि
घण्टास्यैः शूर्पवदनकर्णपादमुखैरपि ॥ ३३ ॥
मूलम्
पत्रिवक्त्रैर्द्विषड्वक्त्रैस्त्रिविग्रहमुखैरपि
घण्टास्यैः शूर्पवदनकर्णपादमुखैरपि ॥ ३३ ॥
विश्वास-प्रस्तुतिः
घण्टामुखैर्वेणुमुखैः किङ्किणीवदनैरपि
यादृग्वस्तु जगत्यस्ति तादृशास्यैरयोमुखैः ॥ ३४ ॥
मूलम्
घण्टामुखैर्वेणुमुखैः किङ्किणीवदनैरपि
यादृग्वस्तु जगत्यस्ति तादृशास्यैरयोमुखैः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
कैश्चिन्निभृतकन्दर्परूपलावण्यकोमलैः
कोटिसूर्यप्रतीकाशैश्चन्द्र कोटिसमप्रभैः ॥ ३५ ॥
मूलम्
कैश्चिन्निभृतकन्दर्परूपलावण्यकोमलैः
कोटिसूर्यप्रतीकाशैश्चन्द्र कोटिसमप्रभैः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
नानावर्णैर्विश्वमुखैर्विश्वरूपैश्चतुर्मुखैः
द्विमुखैः पञ्चवक्त्रैश्च त्रिमुखैः षण्मुखैरपि ॥ ३६ ॥
मूलम्
नानावर्णैर्विश्वमुखैर्विश्वरूपैश्चतुर्मुखैः
द्विमुखैः पञ्चवक्त्रैश्च त्रिमुखैः षण्मुखैरपि ॥ ३६ ॥
विश्वास-प्रस्तुतिः
एकानेकमुखैः शान्तैः सर्वदा सुखिभिर्युतम्
नानाभोगसमृद्धैश्च रतिकामसमैरपि ॥ ३७ ॥
मूलम्
एकानेकमुखैः शान्तैः सर्वदा सुखिभिर्युतम्
नानाभोगसमृद्धैश्च रतिकामसमैरपि ॥ ३७ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीनारायणमुखैरुमेशसमविग्रहैः
नानारूपधरैश्चान्यैः सेवितं मन्दराचलम् ॥ ३८ ॥
मूलम्
लक्ष्मीनारायणमुखैरुमेशसमविग्रहैः
नानारूपधरैश्चान्यैः सेवितं मन्दराचलम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
धेनवो यत्र वेदाश्च मीमांसावत्स संयुताः
धर्मादयः सवर्ष्माणः पुराणानि च कर्मणा ॥ ३९ ॥
मूलम्
धेनवो यत्र वेदाश्च मीमांसावत्स संयुताः
धर्मादयः सवर्ष्माणः पुराणानि च कर्मणा ॥ ३९ ॥
विश्वास-प्रस्तुतिः
स्मृतीतिहासजातानि आगमाश्च शरीरिणः
स्थिताश्च मन्दरे यत्र सशैलः पापनाशनः ॥ ४० ॥
मूलम्
स्मृतीतिहासजातानि आगमाश्च शरीरिणः
स्थिताश्च मन्दरे यत्र सशैलः पापनाशनः ॥ ४० ॥
विश्वास-प्रस्तुतिः
तस्य मध्ये महापुण्यं पुरं परमशोभितम्
वापीतडागोपवनप्रासादशतशोभितम् ॥ ४१ ॥
मूलम्
तस्य मध्ये महापुण्यं पुरं परमशोभितम्
वापीतडागोपवनप्रासादशतशोभितम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सप्तप्राकारपरिखं रत्नाट्टालकसंयुतम्
गोपुरैर्नवभिर्युक्तं विचित्रगृहसंयुतम् ॥ ४२ ॥
मूलम्
सप्तप्राकारपरिखं रत्नाट्टालकसंयुतम्
गोपुरैर्नवभिर्युक्तं विचित्रगृहसंयुतम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
यस्य चाप्रतिमं तेज उष्णशीतादिवर्जितम्
तन्मध्ये नगरी पुण्या तन्मध्ये च सभा शुभा ॥ ४३ ॥
मूलम्
यस्य चाप्रतिमं तेज उष्णशीतादिवर्जितम्
तन्मध्ये नगरी पुण्या तन्मध्ये च सभा शुभा ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तस्यां भद्रासनं मध्ये वेदपादविचित्रितम्
सर्वोपनिषदाकॢप्तं पादपीठं सुशोभनम् ॥ ४४ ॥
मूलम्
तस्यां भद्रासनं मध्ये वेदपादविचित्रितम्
सर्वोपनिषदाकॢप्तं पादपीठं सुशोभनम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः
तत्रासीनो महायोगी गोक्षीरसदृशाकृतिः ॥ ४५ ॥
मूलम्
पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः
तत्रासीनो महायोगी गोक्षीरसदृशाकृतिः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
मन्दस्मितसुचार्वास्योद्व्यष्टवर्षवयाः प्रभुः
दधान उरसामालां मणिरुद्राक्षकल्पिताम् ॥ ४६ ॥
मूलम्
मन्दस्मितसुचार्वास्योद्व्यष्टवर्षवयाः प्रभुः
दधान उरसामालां मणिरुद्राक्षकल्पिताम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
बिभ्राण उपवीतं च कर्णिकारसमद्युतिः
सुरत्नकुण्डलो देवः किरीटकनकाम्बरः ॥ ४७ ॥
मूलम्
बिभ्राण उपवीतं च कर्णिकारसमद्युतिः
सुरत्नकुण्डलो देवः किरीटकनकाम्बरः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
नानाभूषणसंयुक्तो नानागन्धविलेपनः
वामाङ्कन्यस्तगिरिजो वीक्षमाणस्तदाननम् ॥ ४८ ॥
मूलम्
नानाभूषणसंयुक्तो नानागन्धविलेपनः
वामाङ्कन्यस्तगिरिजो वीक्षमाणस्तदाननम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
मुग्धां च सुमुखीं बालां नवयौवनशोभिताम्
भूषितां चारुसर्वाङ्गीं बिभ्रतीं कनकाम्बुजम् ॥ ४९ ॥
मूलम्
मुग्धां च सुमुखीं बालां नवयौवनशोभिताम्
भूषितां चारुसर्वाङ्गीं बिभ्रतीं कनकाम्बुजम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
आलिङ्ग्य वामेनकरेण देवीं दक्षेण तस्या मुखमुन्नमय्य
स्पृष्ट्वा शिरो वामकरेण तस्या दक्षेण कुर्वंस्तिलकं च देवः ॥ ५० ॥
मूलम्
आलिङ्ग्य वामेनकरेण देवीं दक्षेण तस्या मुखमुन्नमय्य
स्पृष्ट्वा शिरो वामकरेण तस्या दक्षेण कुर्वंस्तिलकं च देवः ॥ ५० ॥
विश्वास-प्रस्तुतिः
भक्तिर्वीजयते देवं प्रणव व्यजनेन च
पूजाकान्तापि कुसुमैर्मालां देवाय बिभ्रती ॥ ५१ ॥
मूलम्
भक्तिर्वीजयते देवं प्रणव व्यजनेन च
पूजाकान्तापि कुसुमैर्मालां देवाय बिभ्रती ॥ ५१ ॥
विश्वास-प्रस्तुतिः
ज्ञप्तिर्विरक्तिर्वनिते बिभ्रत्यौ योगचामरे
समाधिः कार्यकर्तास्य धारणायोषिदस्य च ॥ ५२ ॥
मूलम्
ज्ञप्तिर्विरक्तिर्वनिते बिभ्रत्यौ योगचामरे
समाधिः कार्यकर्तास्य धारणायोषिदस्य च ॥ ५२ ॥
विश्वास-प्रस्तुतिः
यमाश्चनियमाश्चैव किङ्करास्तस्य कीर्तिताः
प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णधृक् ॥ ५३ ॥
मूलम्
यमाश्चनियमाश्चैव किङ्करास्तस्य कीर्तिताः
प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णधृक् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
ध्यानं च द्रविणाध्यक्षः सत्यं सेनापतिस्तथा
ब्रह्मप्रभृतिकीटान्ताः पशवस्तत्पतिः शिवः ॥ ५४ ॥
मूलम्
ध्यानं च द्रविणाध्यक्षः सत्यं सेनापतिस्तथा
ब्रह्मप्रभृतिकीटान्ताः पशवस्तत्पतिः शिवः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
पशूनां पालको धर्मः स्यादधर्मश्च तस्करः
मायापाशेन ते बद्धा मोचनी काशिका मृतिः ॥ ५५ ॥
मूलम्
पशूनां पालको धर्मः स्यादधर्मश्च तस्करः
मायापाशेन ते बद्धा मोचनी काशिका मृतिः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
नानाविधाश्च प्रमदा देवदेवमुमापतिम्
एतादृशमुमानाथं कोटिजन्तुरनुस्मरेत् ॥ ५६ ॥
मूलम्
नानाविधाश्च प्रमदा देवदेवमुमापतिम्
एतादृशमुमानाथं कोटिजन्तुरनुस्मरेत् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
इष्टान्भोगानवाप्याथ शिवलोके महीयते
ब्रह्मविष्णुमहेन्द्राद्यास्तत्पुरद्वारपालकाः ॥ ५७ ॥
मूलम्
इष्टान्भोगानवाप्याथ शिवलोके महीयते
ब्रह्मविष्णुमहेन्द्राद्यास्तत्पुरद्वारपालकाः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीसरस्वतीदेव्यौ देहल्याद्यर्च्चनेक्षितेः
नियुक्ते देवदेवस्य देवाश्च सुरयोषितः ॥ ५८ ॥
मूलम्
लक्ष्मीसरस्वतीदेव्यौ देहल्याद्यर्च्चनेक्षितेः
नियुक्ते देवदेवस्य देवाश्च सुरयोषितः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः
एतादृशमहाशैलमिक्ष्वाकुः सन्ददर्श ह ॥ ५९ ॥
मूलम्
दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः
एतादृशमहाशैलमिक्ष्वाकुः सन्ददर्श ह ॥ ५९ ॥
विश्वास-प्रस्तुतिः
मुनिं प्रणम्य जाबालिमिदमाह वचस्तदा
गन्तुकामो महाशैलं शक्तोस्यस्मिन्न वा मुने ॥ ६० ॥
मूलम्
मुनिं प्रणम्य जाबालिमिदमाह वचस्तदा
गन्तुकामो महाशैलं शक्तोस्यस्मिन्न वा मुने ॥ ६० ॥
विश्वास-प्रस्तुतिः
ममायुरल्पं कथितं यमेन ज्ञानिना पुरा ॥ ६१ ॥
मूलम्
ममायुरल्पं कथितं यमेन ज्ञानिना पुरा ॥ ६१ ॥
विश्वास-प्रस्तुतिः
नरकश्च बहुःप्रोक्तः कथं श्रेयो भविष्यति
जाबालिरुवाच-
मयापि सर्वमेतत्ते ज्ञातं दिव्येन चक्षुषा ॥ ६२ ॥
मूलम्
नरकश्च बहुःप्रोक्तः कथं श्रेयो भविष्यति
जाबालिरुवाच-
मयापि सर्वमेतत्ते ज्ञातं दिव्येन चक्षुषा ॥ ६२ ॥
विश्वास-प्रस्तुतिः
आयुर्दशदिनं ब्रह्मन्विद्वानपि न धर्मकृत्
न तपस्ते ह्यनभ्यासान्न च योगोऽल्पकालतः ॥ ६३ ॥
मूलम्
आयुर्दशदिनं ब्रह्मन्विद्वानपि न धर्मकृत्
न तपस्ते ह्यनभ्यासान्न च योगोऽल्पकालतः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
न दानं द्रविणाभावादसामर्थ्यात्तथार्हणा
न यज्ञो न व्रतं पूर्तं न च पुण्यमनायुषः ॥ ६४ ॥
मूलम्
न दानं द्रविणाभावादसामर्थ्यात्तथार्हणा
न यज्ञो न व्रतं पूर्तं न च पुण्यमनायुषः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
न चाध्यापनतीर्थादि सेवाकालविरोधतः
तस्मात्तत्पापनाशाय प्रायश्चित्तं न विद्यते ॥ ६५ ॥
मूलम्
न चाध्यापनतीर्थादि सेवाकालविरोधतः
तस्मात्तत्पापनाशाय प्रायश्चित्तं न विद्यते ॥ ६५ ॥
विश्वास-प्रस्तुतिः
गतिप्रदं तथा धर्मं गच्छ वा तिष्ठ वा मुने
इक्ष्वाकुरुवाच-
यावज्जीवं प्रतिज्ञाय क्रियते यो वृषो द्विज ॥ ६६ ॥
मूलम्
गतिप्रदं तथा धर्मं गच्छ वा तिष्ठ वा मुने
इक्ष्वाकुरुवाच-
यावज्जीवं प्रतिज्ञाय क्रियते यो वृषो द्विज ॥ ६६ ॥
विश्वास-प्रस्तुतिः
तेन पापपरीहारो भविष्यति सुनिश्चितम्
तं ब्रूहि येन धर्मेण मम पापं प्रणश्यति ॥ ६७ ॥
मूलम्
तेन पापपरीहारो भविष्यति सुनिश्चितम्
तं ब्रूहि येन धर्मेण मम पापं प्रणश्यति ॥ ६७ ॥
विश्वास-प्रस्तुतिः
केन वा पुण्ययोगेन स्वर्गतिश्च भविष्यति
शरणं भव विप्रर्षे नरकादतिबिभ्यतः ॥ ६८ ॥
मूलम्
केन वा पुण्ययोगेन स्वर्गतिश्च भविष्यति
शरणं भव विप्रर्षे नरकादतिबिभ्यतः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
सर्वधर्मफलं प्राहुः शरणागतपालनम्
जाबालिरुवाच-
सत्यं स्वल्पेन कालेन न तादृग्लभ्यते वृषः ॥ ६९ ॥
मूलम्
सर्वधर्मफलं प्राहुः शरणागतपालनम्
जाबालिरुवाच-
सत्यं स्वल्पेन कालेन न तादृग्लभ्यते वृषः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
अमृतेत्वनृते शक्यं वक्तुं स्वप्नान्तरेष्वपि
रहस्यमेकं किञ्चित्तु यस्य कस्यापि नोच्यते ॥ ७० ॥
मूलम्
अमृतेत्वनृते शक्यं वक्तुं स्वप्नान्तरेष्वपि
रहस्यमेकं किञ्चित्तु यस्य कस्यापि नोच्यते ॥ ७० ॥
विश्वास-प्रस्तुतिः
इक्ष्वाकुरुवाच-
शरणं पालय मुने कालो मे निर्गमिष्यति
जाबालिरुवाच-
मम प्राणाधिकं विप्र रहस्यं श्रुतिचोदितम् ॥ ७१ ॥
मूलम्
इक्ष्वाकुरुवाच-
शरणं पालय मुने कालो मे निर्गमिष्यति
जाबालिरुवाच-
मम प्राणाधिकं विप्र रहस्यं श्रुतिचोदितम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
शिवलिङ्गार्चनं नाम ब्रह्मादिभिरनुष्ठितम्
समस्तपापशमनं सर्वोपद्रवनाशनम् ॥ ७२ ॥
मूलम्
शिवलिङ्गार्चनं नाम ब्रह्मादिभिरनुष्ठितम्
समस्तपापशमनं सर्वोपद्रवनाशनम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
भुक्तिमुक्तिप्रदं तस्माच्छिवपूजां समाचर
नातिक्रामेद्यदि मुने शिवलिङ्गार्चनं शुभम् ॥ ७३ ॥
मूलम्
भुक्तिमुक्तिप्रदं तस्माच्छिवपूजां समाचर
नातिक्रामेद्यदि मुने शिवलिङ्गार्चनं शुभम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
यः शम्भुपूजां विच्छिन्द्यात्तेन च्छिन्नं हि मे शिरः
वरं शूलविनिक्षेपो वरं शाल्मलिकर्षणम् ॥ ७४ ॥
मूलम्
यः शम्भुपूजां विच्छिन्द्यात्तेन च्छिन्नं हि मे शिरः
वरं शूलविनिक्षेपो वरं शाल्मलिकर्षणम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
वरं प्राणपरित्यागो नैव पूजाव्यतिक्रमः
वरं वह्निप्रपतनं वरं चाधःशिरः कृतम् ॥ ७५ ॥
मूलम्
वरं प्राणपरित्यागो नैव पूजाव्यतिक्रमः
वरं वह्निप्रपतनं वरं चाधःशिरः कृतम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
वरं स्वमलभुक्तिर्वा नेशपूजाव्यतिक्रमः
अपूजयित्वा चेशानं यो हि भुङ्क्ते नराधमः ॥ ७६ ॥
मूलम्
वरं स्वमलभुक्तिर्वा नेशपूजाव्यतिक्रमः
अपूजयित्वा चेशानं यो हि भुङ्क्ते नराधमः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
पापानामन्नरूपाणां तस्य भोजनमुच्यते
अनुच्चार्य पदं शम्भोर्भुङ्क्ते यदि च खादति ॥ ७७ ॥
मूलम्
पापानामन्नरूपाणां तस्य भोजनमुच्यते
अनुच्चार्य पदं शम्भोर्भुङ्क्ते यदि च खादति ॥ ७७ ॥
विश्वास-प्रस्तुतिः
शिवेति मङ्गलं नाम यस्य वाचि प्रवर्तते
भस्मीभवन्ति तस्याशु महापातककोटयः ॥ ७८ ॥
मूलम्
शिवेति मङ्गलं नाम यस्य वाचि प्रवर्तते
भस्मीभवन्ति तस्याशु महापातककोटयः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
शिवं प्रदक्षिणीकृत्य यो नमस्यति मानवः
भूमेः प्रदक्षिणं कृत्वा यत्तत्पुण्यमवाप्नुयात् ॥ ७९ ॥
मूलम्
शिवं प्रदक्षिणीकृत्य यो नमस्यति मानवः
भूमेः प्रदक्षिणं कृत्वा यत्तत्पुण्यमवाप्नुयात् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
प्रदक्षिणत्रयं कृत्वा नमस्कारं च पञ्चधा
पुनः प्रदक्षिणं कृत्वा नत्वा मुच्येत पातकैः ॥ ८० ॥
मूलम्
प्रदक्षिणत्रयं कृत्वा नमस्कारं च पञ्चधा
पुनः प्रदक्षिणं कृत्वा नत्वा मुच्येत पातकैः ॥ ८० ॥
विश्वास-प्रस्तुतिः
सर्ववाद्यानि यः कुर्यात्कारयेद्वा शिवालये
बलेन महता युक्तो वेदसेव्यत्र जायते ॥ ८१ ॥
मूलम्
सर्ववाद्यानि यः कुर्यात्कारयेद्वा शिवालये
बलेन महता युक्तो वेदसेव्यत्र जायते ॥ ८१ ॥
विश्वास-प्रस्तुतिः
श्रावयेद्यः पुराणानि देवदेवं त्रिलोचनम्
सर्वपापविनिर्मुक्तो वसेच्छिवपुरे कृती ॥ ८२ ॥
मूलम्
श्रावयेद्यः पुराणानि देवदेवं त्रिलोचनम्
सर्वपापविनिर्मुक्तो वसेच्छिवपुरे कृती ॥ ८२ ॥
विश्वास-प्रस्तुतिः
तं नित्यमादरेणेशो वक्ति वाक्यं प्रियं सदा
एतत्सङ्क्षेपतः प्रोक्तमीशपूजनमुत्तमम् ॥ ८३ ॥
मूलम्
तं नित्यमादरेणेशो वक्ति वाक्यं प्रियं सदा
एतत्सङ्क्षेपतः प्रोक्तमीशपूजनमुत्तमम् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
अल्पायुश्च भवान्विप्र शिवपूजनमाचर
त्रिकालं वा द्विकालं वा एककालमथापि वा ॥ ८४ ॥
मूलम्
अल्पायुश्च भवान्विप्र शिवपूजनमाचर
त्रिकालं वा द्विकालं वा एककालमथापि वा ॥ ८४ ॥
विश्वास-प्रस्तुतिः
यामं यामार्धमथवा शिवपूजनमाचर
वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृताश्रयः ॥ ८५ ॥
मूलम्
यामं यामार्धमथवा शिवपूजनमाचर
वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृताश्रयः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
वानप्रस्थप्रसूनैश्च प्रातःपूजय शङ्करम्
श्रीफलैः शतपत्रैश्च पद्मसौगन्धिकैरपि ॥ ८६ ॥
मूलम्
वानप्रस्थप्रसूनैश्च प्रातःपूजय शङ्करम्
श्रीफलैः शतपत्रैश्च पद्मसौगन्धिकैरपि ॥ ८६ ॥
विश्वास-प्रस्तुतिः
नीपैर्जपाभिः पुन्नागैः करवीरैश्च पाटलैः
तुलस्याच रविदलैरपराजितया तथा ॥ ८७ ॥
मूलम्
नीपैर्जपाभिः पुन्नागैः करवीरैश्च पाटलैः
तुलस्याच रविदलैरपराजितया तथा ॥ ८७ ॥
विश्वास-प्रस्तुतिः
अपामार्गदलै रुद्र जटादमनकेन च
सर्वैरेभिः समफलैर्बिल्वपत्रैश्च धूर्तकैः ॥ ८८ ॥
मूलम्
अपामार्गदलै रुद्र जटादमनकेन च
सर्वैरेभिः समफलैर्बिल्वपत्रैश्च धूर्तकैः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
द्रोणैः शिरीषैः शक्तैश्च दूर्वया कोरकैरपि
नन्द्यावर्तैरक्षतैश्च तिलमिश्रैश्च केवलैः ॥ ८९ ॥
मूलम्
द्रोणैः शिरीषैः शक्तैश्च दूर्वया कोरकैरपि
नन्द्यावर्तैरक्षतैश्च तिलमिश्रैश्च केवलैः ॥ ८९ ॥
विश्वास-प्रस्तुतिः
अन्यैरपि यथाशक्ति प्रातः सम्पूजयेच्छिवम्
कर्णिकारैश्च सौवर्णर्दूवर्ययापि शिवार्चनम् ॥ ९० ॥
मूलम्
अन्यैरपि यथाशक्ति प्रातः सम्पूजयेच्छिवम्
कर्णिकारैश्च सौवर्णर्दूवर्ययापि शिवार्चनम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
मुकुलैर्नार्चयेद्देवं चम्पकैर्जलजं विना
जलजानां च सर्वेषां पत्राणामक्षतस्य च ॥ ९१ ॥
मूलम्
मुकुलैर्नार्चयेद्देवं चम्पकैर्जलजं विना
जलजानां च सर्वेषां पत्राणामक्षतस्य च ॥ ९१ ॥
विश्वास-प्रस्तुतिः
कुशपुष्पस्य रजतसुवर्णकृतयोरपि
अन्यत्कृत्वा यथा यत्तु तैलपक्वं भवेन्नृप ॥ ९२ ॥
मूलम्
कुशपुष्पस्य रजतसुवर्णकृतयोरपि
अन्यत्कृत्वा यथा यत्तु तैलपक्वं भवेन्नृप ॥ ९२ ॥
विश्वास-प्रस्तुतिः
न तत्पर्युषितं प्रोक्तमपूपादि गमिष्यति
उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः ॥ ९३ ॥
मूलम्
न तत्पर्युषितं प्रोक्तमपूपादि गमिष्यति
उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
जले तत्प्रोक्षितं मूलफलशाकादिकं नृप
न च पर्युषितं प्रोक्तं गङ्गातोयं च सागरम् ॥ ९४ ॥
मूलम्
जले तत्प्रोक्षितं मूलफलशाकादिकं नृप
न च पर्युषितं प्रोक्तं गङ्गातोयं च सागरम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
महानदीजलं सर्वं केदारजलमेव च
ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव ॥ ९५ ॥
मूलम्
महानदीजलं सर्वं केदारजलमेव च
ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव ॥ ९५ ॥
विश्वास-प्रस्तुतिः
तडागवापीसरसां कूपेनापां च यद्भवेत्
तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेत् ॥ ९६ ॥
मूलम्
तडागवापीसरसां कूपेनापां च यद्भवेत्
तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेत् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
न रात्रौ जलमाहार्यं दिवा सम्पादयेज्जलम्
ससैकतं तथा धार्यं न च पर्युषितं हि तत् ॥ ९७ ॥
मूलम्
न रात्रौ जलमाहार्यं दिवा सम्पादयेज्जलम्
ससैकतं तथा धार्यं न च पर्युषितं हि तत् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
एवं विदित्वा पूजां त्वं शिवलिङ्गे समाचर
शम्भुरुवाच-
एवमुक्तोथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः ॥ ९८ ॥
मूलम्
एवं विदित्वा पूजां त्वं शिवलिङ्गे समाचर
शम्भुरुवाच-
एवमुक्तोथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः ॥ ९८ ॥
विश्वास-प्रस्तुतिः
शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत
नवमेऽथ दिने प्राप्ते प्रातःकाले कृतार्चनः ॥ ९९ ॥
मूलम्
शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत
नवमेऽथ दिने प्राप्ते प्रातःकाले कृतार्चनः ॥ ९९ ॥
मरणावसरे प्राप्ते शिवपूजां विधाय सः
स्वान्प्राणानुपहाराय तत्याजैव महेशितुः १००
मृतं तमथ विज्ञाय यमदूताः समागताः
यमलोकप्रापका ये यतमास्थाय तस्थिरे १०१
शैवाश्चापि समायाता दूता वह्निमुखादयः
तेषामन्योन्यवादोभून्मामको मामकस्त्विति १०२
अथ यामः पाशपाणिः शिवदूतमथार्दयत्
अथ वह्निमुखः क्रुद्धो यमदूतशतं ततः १०३
महाकायस्तथा भूत्वा गृहीत्वा च करेण तत्
शिरांसि च तथैकेनापीड्य चिच्छेद शष्पवत् १०४
मारयित्वा ततो दूतानादायेक्ष्वाकुमभ्यगात्
निवेदयामास च तं वीरभद्राय धीमते १०५
स चापि शङ्करायाथ तं प्राह च महेश्वरः
त्वयाष्टदिनपूजैव कृता कृष्णा दिने दिने १०६
त्वमनिन्दः पुरा मां च लिङ्गं शिश्नाग्रमित्युत
तेनैव पापयोगेन शिश्नवक्त्रो भविष्यसि १०७
शिश्नाग्रे विवरं चक्रं जिह्वानासादिवर्जितः
पूर्वं मन्नामवक्तृत्वाद्वक्ता चापि भविष्यसि १०८
अथेशवचनात्सोपि तथाभूतोभवत्क्षणात्
शम्भुरुवाच-
य इदं शृणुयान्नित्यं पुराणाख्यानमुत्तमम् १०९
विमुक्तपापबन्धश्च शिवभक्तो भविष्यति
स याति च शिवस्थाने वक्ता चापि तथा भवेत् ११०
यश्च वक्ति कथामेनां हरेण सदृशो भवेत्
उक्त्वा कथामिमां पूर्वमधीरो नाम भूमिपः १११
स्वर्गं स गतवान्राजा कृतपापोथ भार्यया ११२
इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे विभूतिमाहात्म्येन
नवोत्तरशततमोऽध्यायः १०९