श्रीराम उवाच-
विश्वास-प्रस्तुतिः
भस्मोत्पत्तिं महाभाग भस्ममाहात्म्यमेव च
भस्मसन्धारणे पुण्यं भस्मदाने च तद्वद ॥ १ ॥
मूलम्

शम्भुरुवाच-
भस्मोत्पत्तिं प्रवक्ष्यामि सर्वपापप्रणाशिनीम्
स्मरणात्कीर्तनाद्राम तां शृणुष्व नराधिप ॥ २ ॥

य एकः शाश्वतो देवो ब्रह्मवन्द्यः सदाशिवः
त्रिलोचनो गुणाधारो गुणातीतोऽक्षरोव्ययः ॥ ३ ॥

सिसृक्षा तस्य जाताथ वीक्ष्यात्मस्थं गुणत्रयम्
वेदत्रयमिदं ज्ञेयं गुणत्रयमिदं हि यत् ॥ ४ ॥

पृथक्कृत्वात्मनस्तात तत्रस्थानं विभज्य च
दक्षिणाङ्गेसृजत्पुत्रं ब्रह्माणं वामतो हरिम् ॥ ५ ॥

पृष्ठदेशे महेशानं त्रीन्पुत्रानसृजद्विभुः
जातमात्रास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ ६ ॥

इदमूचुर्वचः स्पष्टं को भवान्के वयन्त्विति
तानाह च शिवः पुत्रान्यूयं पुत्रा अहं पिता ॥ ७ ॥

इदं गुणत्रयं पुत्रा भजध्वं कर्महेतुकम्
पुत्रा ऊचुः -
कं वा गुणं को भजतां कियन्तं कालमीश्वर ॥ ८ ॥

कथं गुणनिवृत्तिश्च भवेदेतद्वदस्व नः
शिव उवाच-
यावज्ज्ञानं हि भवतां यावदायुरथापि वा ॥ ९ ॥

धारणं तावदेवस्यादेकैकस्य गुणस्य च
सत्वं ब्रह्मा रजोविष्णुर्भजेन्महेश्वरस्तमः ॥ १० ॥

इत्युक्तमात्रे देवेशे ब्रह्मा सत्वमथाग्रहीत्
न च चालयितुं शक्तो धारणे किमु शक्तिमान् ॥ ११ ॥

तं गुणं तु तिरस्कृत्य रजोगुणमथाग्रहीत्
न च चालयितुं शक्तो जग्राहाथ तमोगुणम् ॥ १२ ॥

न च चालयितुं शक्तो निपपात रुरोद च
विष्णुश्च वामहस्तेन रजोगुणमधारयत् ॥ १३ ॥

अङ्गुलीभ्यां महेशोऽपि तमोगुणमधारयत्
सत्वमेकोङ्गुलीभ्यां च सत्वं विष्णुमथादधात् ॥ १४ ॥

ब्रह्माणं पादपीठे च दधार च ननर्त च ॥ १५ ॥

नृत्यन्तमत्यन्तविलासरूपं गोक्षीररूपं तरुणं त्रिनेत्रम्
सर्वं दधानं कृतकौतुकं शिवं समीक्ष्य पुत्रान्वरदो बभाषे ॥ १६ ॥

प्रीतोऽस्मि तव पुत्राहं वरं वृणु यथेप्सितम्
अथाह पितरं पुत्रो वरमेनं ददस्व मे ॥ १७ ॥

मामुद्दिश्य कृता पूजा तव पूजा भवेच्छिव
तिष्ठेर्मयि सदा त्वं च त्वमेवाहं च वाव्ययः ॥ १८ ॥

एवमेतन्महाभाग भविष्यति न संशयः
रक्तगौराविमौ पुत्रौ ब्रह्मविष्णू ममैव तु ॥ १९ ॥

बाहुमूलस्थरोमौ च ममाकारौ तथानघौ
अथ ब्रह्माणमाहेदं भजत्वेकं गुणं भवान् ॥ २० ॥

ब्रह्मोवाच-
त्वन्निर्दिष्टं गुणमहं धर्तुं शक्तो न हीश्वर
धारयिष्ये रजो देव सत्वं भजतु वै हरिः ॥ २१ ॥

अवशिष्टं गुणं चायमीश्वरो धारयिष्यति
शम्भुरुवाच-
गुणानादायते देवा नशेकुर्नित्यधारणम् ॥ २२ ॥

कर्तुं भरणशक्त्यर्थं शिवमित्यवदत्पुनः
गुणान्वयं सर्वकालं न च धारयितुं क्षमाः ॥ २३ ॥

दीयतां भगवञ्छक्तिर्यदि भोस्त्वं वरप्रदः
अथ तद्वचनं श्रुत्वा शिवो वाक्यमभाषत ॥ २४ ॥

विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते
गुणत्रयाश्रया विद्या अविद्या च तदाश्रया ॥ २५ ॥

गुणत्रयं च दग्ध्वैव तत्सारं धर्तुमर्हथ
यच्च किञ्चिद्भवेत्तत्र भवद्भिर्ध्रियतां हि तत् ॥ २६ ॥

अथाहुस्तत्सुता वाक्यं न दाहो ज्वलनं विना
शिवः प्राह महेशस्य लोचने वह्निरस्ति वै ॥ २७ ॥

गुणत्रयमिदं धेनुर्विद्या स्याद्गोमयं शुभम्
मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥ २८ ॥

वत्सास्तु स्मृतयो यस्यास्तत्सम्भूतं तु गोमयम्
आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत् ॥ २९ ॥

गावो गावो गाव इति प्राशयेत्तु तृणं जलम्
उपोष्य च चतुर्द्दश्यां शुक्ले कृष्णेऽथवा व्रती ॥ ३० ॥

परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः
कृतस्नानो धौतवस्त्रो गोमयार्थं व्रजेत्तु गाम् ॥ ३१ ॥

उत्थाप्य तां प्रयत्नेन गायत्र्या मूत्रमाहरेत्
सौवर्णे राजते ताम्रे धारयेन्मृन्मये घटे ॥ ३२ ॥

पौष्करे वा पलाशे वा पात्रे गोशृङ्ग एव वा
आदधीत हि गोमूत्रं गन्धद्वारेति गोमयम् ॥ ३३ ॥

अभूमिपातं गृह्णीयात्पात्रे पूर्वोदितेऽधिके
गोमयं शोधयेद्विद्वाञ्छ्रीर्मे भजतु मन्त्रतः ॥ ३४ ॥

अलक्ष्मीर्मयीति मन्त्रेण गोमयस्यापमार्जनम्
सं त्वा सिञ्चामि मन्त्रेण गोमूत्रं गोमये क्षिपेत् ॥ ३५ ॥

पञ्चानां त्वेति मन्त्रेण पिण्डांश्चैव चतुर्द्दश
कुर्यात्संशोष्य किरणैस्तरणेराहरेत्तु तान् ॥ ३६ ॥

निदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान्
स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमिन्धयेत् ॥ ३७ ॥

पिण्डान्विनिक्षिपेत्तत्तदर्णदेवाय पिण्डकान्
आघारावाज्यभागौ च प्रक्षिप्य द्वौ हुनेत्सुधीः ॥ ३८ ॥

ततो निधनपतये त्रयोदशजयादयः
होतव्याः पञ्चब्रह्माणि नमो हिरण्यबाहवे ॥ ३९ ॥

इति सर्वाहुतीर्हुत्वा चतुर्थ्यन्तैस्तु मन्त्रकैः
ततः शर्वाय रुद्राय यस्य वैकङ्कतीति च ॥ ४० ॥

एतैस्तु जुहुयाद्विद्वाननाज्ञातत्रयं तथा
व्याहृतीरथ हुत्वा तु ततः स्विष्टकृतं हुनेत् ॥ ४१ ॥

इध्मशेषं तु निर्वर्त्य पूर्णपात्रोदकं ततः
पूर्णमासान्तयजुषा जलेनान्येन बृंहयेत् ॥ ४२ ॥

ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत्
प्राच्यामिति दिशां लिङ्गैर्दिक्षु तोयं विनिक्षिपेत् ॥ ४३ ॥

ब्रह्मणे दक्षिणां दत्वा शान्ते पुलकमाहरेत्
आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये ॥ ४४ ॥

जातवेदसमेने त्वां पुलाकं च्छादयाद्य मे
मन्त्रेणानेन तं वह्निं पुलाके छादयेदथ ॥ ४५ ॥

त्रिदिनं ज्वलनस्थित्यै छादनं पुलकैः स्मृतम्
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः ॥ ४६ ॥

भस्माधिकमभीप्संस्तु ह्यधिकं गोमयं हरेत्
दिनत्रयेण यदि वा एकस्मिन्दिवसे बहु ॥ ४७ ॥

तृतीये वा चतुर्थे वा प्रातःस्नात्वा सिताम्बरः
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ ४८ ॥

शुक्लदन्तो भस्मदिग्धो मन्त्रेणानेन मन्त्रवित्
तद्वेति चोच्चारयित्वा भस्मसत्यं न सन्त्यजेत् ॥ ४९ ॥

तत आवाहनमुखा उपचारास्तु षोडश
कर्तव्या हुतदानेन ततोऽग्निमुपसंहरेत् ॥ ५० ॥

अग्ने भस्मेति मन्त्रेण गृह्णीयाद्भस्म चोद्भवम्
अग्निरस्मीति मन्त्रेण प्रमृज्य च ततः परम् ॥ ५१ ॥

संयोज्य गङ्गासलिलैः कपिलापयसाथवा
चन्द्रं कुङ्कुमकाश्मीरमुशीरं चन्दनं तथा ॥ ५२ ॥

अगुरुद्वितयं चैव चूर्णयित्वा तु सूक्ष्मतः
क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममन्त्रतः ॥ ५३ ॥

ततः पयः सेचने च गदितः कपिला मनुः
अमृतं देवि ते क्षीरं पवित्रमिह वर्द्धितम् ॥ ५४ ॥

तवप्रसादान्मुच्यन्ते मनुजाः सर्वपाप्मनः
प्रणवेनावहेद्विद्वान्भस्मनो वटकानथ ॥ ५५ ॥

अणोरणीयानिति हि मन्त्रेण तु विचक्षणम्
शम्भुरुवाच-
इत्थं तु भस्मसम्पाद्य शुष्कमादाय मन्त्रवित् ॥ ५६ ॥

प्रणवेन विमृज्याथ सप्तप्रणवमन्त्रितम्
ईशानेन शिरोदेशं मुखं तत्पुरुषेण च ॥ ५७ ॥

उरोदेशमघोरेण गुह्यं वामेन मन्त्रयेत्
सद्योजातेन वै पादौ सर्वाङ्गं प्रणवेन तु ॥ ५८ ॥

तत उद्धूल्य सर्वाङ्गमापादतलमस्तकम्
तत आचम्य वसनं धौतं श्वेतं प्रधारयेत् ॥ ५९ ॥

पुनराचम्य कर्म स्वं कर्तुमर्हति सर्वतः
ततो भस्मसमादाय प्रमृज्य प्रणवेन तु ॥ ६० ॥

त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं विभुम्
स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ ६१ ॥

नमः शिवाभ्यामित्युक्त्वा बाह्वोर्वापि त्रिपुण्ड्रकम्
अघोराय नम इति उभाभ्यां च प्रकोष्ठयोः ॥ ६२ ॥

भीमायेति ततः पृष्ठे शिरोधि पश्चिमे तथा
नीलकण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः ॥ ६३ ॥

प्रक्षाल्याथ ततो हस्तौ कर्मानुष्ठानमाचरेत्
शिव उवाच-
यूयमेवं प्रकारेण भस्म कृत्वा प्रघृष्य च ॥ ६४ ॥

गुणान्धारयितुं शक्तास्ततः स्रक्ष्यथ वै प्रजाः
शम्भुरुवाच-
इत्थं शिवोदिता देवा ब्रह्मविष्णुमहेश्वराः ॥ ६५ ॥

तथा कृत्वा च विधिना हमहमिकया तदा
अन्योन्यबोधनाशक्ताः प्रणम्य शिवमूचिरे ॥ ६६ ॥

कं गुणं धारयेत्को वा शिवः प्राह सुतानथ
कर्मशक्तिं तथा ज्ञानं मुखरेण्वैव नश्यति ॥ ६७ ॥

अल्पायुर्दृश्यते ब्रह्मा मनुभिश्चास्य जीवितम्
योऽहं ब्रह्माण्डमालाभिर्भूषितो ब्रह्मगोपनम् ॥ ६८ ॥

रजोगुणमवष्टभ्य न च जानासि मां तदा
ब्रह्माधिकबलो विष्णुरायुषि ब्रह्मणोऽधिकः ॥ ६९ ॥

ब्रह्माण्डमालाभरणे महेशस्य ममैव तु
चतुर्निःश्वासमात्रेण विष्णोरायुरुदाहृतम् ॥ ७० ॥

ब्रह्मणोऽधिकसत्वत्वात्सत्वमालम्बतां हरिः
जानाति सर्वकालं मां क्वचिदेव न विस्मरेत् ॥ ७१ ॥

सात्विकैकैव पूजास्य राजसी तामसी न तु
शान्तं शिवं सत्वगुणं रजवक्त्रावमानतः ॥ ७२ ॥

नभोनीलं तथा चैव गुणं शम्भुस्तथाभजत्
सत्वं रजस्तमश्चापि दधार च पुरा किल ॥ ७३ ॥

अतोऽस्य विविधा पूजा शङ्करस्य विधीयते
रजश्च तमसायुक्तं दारुणं परिकीर्तितम् ॥ ७४ ॥

दारुणापि ततः पूजा शङ्करे गतिदा मता
रजश्च तमसायुक्तमलं शास्त्रप्रवर्तकम् ॥ ७५ ॥

विच्छिन्नापि ततः पूजा शङ्करे फलदा मता
तमश्च सत्वसंयुक्तं मिश्रकं च प्रवर्तकम् ॥ ७६ ॥

मिश्रपूजा विफलदा शङ्करे लोकशङ्करे
यादृशं तादृशं वापि नियमेनार्चनं विभोः ॥ ७७ ॥

शङ्करस्याशुफलदं यादृशस्यापि देहिनः
शम्भुरुवाच-
एतत्सङ्क्षेपतः प्रोक्तं विधानं भस्मनोऽनघ ॥ ७८ ॥

वक्तृश्रोतृजनानां च समस्ताघविनाशनम् ॥ ७९ ॥

इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे भस्मोत्पत्तिविधानं नामाष्टोत्तरशततमोऽध्यायः १०८