शुचिस्मितोवाच-
विश्वास-प्रस्तुतिः
कश्यपं जमदग्निं च देवानां च पुरा कथम्
ररक्ष भस्म तद्ब्रह्मन्समाचक्ष्व मुने मम ॥ १ ॥
मूलम्
कश्यपं जमदग्निं च देवानां च पुरा कथम्
ररक्ष भस्म तद्ब्रह्मन्समाचक्ष्व मुने मम ॥ १ ॥
विश्वास-प्रस्तुतिः
दधीच उवाच-
कश्यपादियुता देवाः पूर्वमभ्यागमन्गिरिम्
शोकरं नाम विख्यातं गिरिमध्ये सुशोभनम् ॥ २ ॥
मूलम्
दधीच उवाच-
कश्यपादियुता देवाः पूर्वमभ्यागमन्गिरिम्
शोकरं नाम विख्यातं गिरिमध्ये सुशोभनम् ॥ २ ॥
विश्वास-प्रस्तुतिः
नानाविहङ्गसङ्कीर्णं नानामुनिगणाश्रयम्
वासुदेवाश्रयं रम्यमप्सरोगणसेवितम् ॥ ३ ॥
मूलम्
नानाविहङ्गसङ्कीर्णं नानामुनिगणाश्रयम्
वासुदेवाश्रयं रम्यमप्सरोगणसेवितम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
विचित्रवृक्षसंवीतं सर्वर्तुकुसुमोज्ज्वलम्
तथाविधं प्रविश्यैते गिरिं वयमथापरे ॥ ४ ॥
मूलम्
विचित्रवृक्षसंवीतं सर्वर्तुकुसुमोज्ज्वलम्
तथाविधं प्रविश्यैते गिरिं वयमथापरे ॥ ४ ॥
विश्वास-प्रस्तुतिः
स्तुवन्तः केशवं तत्र गताः स्म गिरिशेश्वरम्
दृष्ट्वा तत्र महाज्वालां प्रविष्टाश्च वयं च ताम् ॥ ५ ॥
मूलम्
स्तुवन्तः केशवं तत्र गताः स्म गिरिशेश्वरम्
दृष्ट्वा तत्र महाज्वालां प्रविष्टाश्च वयं च ताम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
मामेकं तु तिरस्कृत्य ह्यदहद्देवता मुनीन्
मां ददाह ततः पश्चाद्भस्मीभूता वयं शुभे ॥ ६ ॥
मूलम्
मामेकं तु तिरस्कृत्य ह्यदहद्देवता मुनीन्
मां ददाह ततः पश्चाद्भस्मीभूता वयं शुभे ॥ ६ ॥
विश्वास-प्रस्तुतिः
अस्मानेतादृशान्दृष्ट्वा वीरभद्रः प्रतापवान्
केनापिकारणेनासौ गतवान्पर्वतं च तम् ॥ ७ ॥
मूलम्
अस्मानेतादृशान्दृष्ट्वा वीरभद्रः प्रतापवान्
केनापिकारणेनासौ गतवान्पर्वतं च तम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
भस्मोद्धूलितसर्वाङ्गो मस्तकस्थशिवः शुचिः
एकाकी निःस्पृहः शान्तो हाहाशब्दमथाशृणोत् ॥ ८ ॥
मूलम्
भस्मोद्धूलितसर्वाङ्गो मस्तकस्थशिवः शुचिः
एकाकी निःस्पृहः शान्तो हाहाशब्दमथाशृणोत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
अथ चिन्तापरश्चासीन्म्रियमाण शवध्वनिः
शवानामिवगन्धश्च दृश्यते तन्निरीक्षणे ॥ ९ ॥
मूलम्
अथ चिन्तापरश्चासीन्म्रियमाण शवध्वनिः
शवानामिवगन्धश्च दृश्यते तन्निरीक्षणे ॥ ९ ॥
विश्वास-प्रस्तुतिः
इति निश्चित्य मनसा जगामाग्निमतिप्रभम्
स वह्निर्वीरभद्रं च दग्धुमारब्धवानथ ॥ १० ॥
मूलम्
इति निश्चित्य मनसा जगामाग्निमतिप्रभम्
स वह्निर्वीरभद्रं च दग्धुमारब्धवानथ ॥ १० ॥
विश्वास-प्रस्तुतिः
तृणाग्निरिव शान्तोऽभूदासाद्य सलिलं यथा
ततोऽपरां महाज्वालां वीरभद्रस्तु दृष्टवान् ॥ ११ ॥
मूलम्
तृणाग्निरिव शान्तोऽभूदासाद्य सलिलं यथा
ततोऽपरां महाज्वालां वीरभद्रस्तु दृष्टवान् ॥ ११ ॥
विश्वास-प्रस्तुतिः
खं गच्छन्तीं महाकालो ज्वालां निपतितामपि
मनसा चिन्तयच्चापि वीरभद्रः प्रतापवान् ॥ १२ ॥
मूलम्
खं गच्छन्तीं महाकालो ज्वालां निपतितामपि
मनसा चिन्तयच्चापि वीरभद्रः प्रतापवान् ॥ १२ ॥
विश्वास-प्रस्तुतिः
सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः
तत्सर्वं रक्षणार्थं हि पिपासुश्चाप्यहं त्विमाम् ॥ १३ ॥
मूलम्
सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः
तत्सर्वं रक्षणार्थं हि पिपासुश्चाप्यहं त्विमाम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
प्राश्नामि महतीं ज्वालां सलिलं तृषितो यथा
एतस्मिन्नन्तरे वीरं वागाह चाशरीरिणी ॥ १४ ॥
मूलम्
प्राश्नामि महतीं ज्वालां सलिलं तृषितो यथा
एतस्मिन्नन्तरे वीरं वागाह चाशरीरिणी ॥ १४ ॥
विश्वास-प्रस्तुतिः
भारत्युवाच-
वीर मा साहसं कार्षीः क्व तृषा क्वाशुशुक्षणिः
तृषितानां जलेनार्थो विपरीतो वनाग्निना ॥ १५ ॥
मूलम्
भारत्युवाच-
वीर मा साहसं कार्षीः क्व तृषा क्वाशुशुक्षणिः
तृषितानां जलेनार्थो विपरीतो वनाग्निना ॥ १५ ॥
विश्वास-प्रस्तुतिः
निकामं योजनशिराः प्रणष्टो राक्षसेश्वरः
शतयोजनवक्त्रश्च शतबाहुस्तथापरः ॥ १६ ॥
मूलम्
निकामं योजनशिराः प्रणष्टो राक्षसेश्वरः
शतयोजनवक्त्रश्च शतबाहुस्तथापरः ॥ १६ ॥
विश्वास-प्रस्तुतिः
अगस्त्यश्च महाभागो निःशेषं पीतसागरः
एतानन्यानसङ्ख्याताञ्ज्वालेयं तानमारयत् ॥ १७ ॥
मूलम्
अगस्त्यश्च महाभागो निःशेषं पीतसागरः
एतानन्यानसङ्ख्याताञ्ज्वालेयं तानमारयत् ॥ १७ ॥
विश्वास-प्रस्तुतिः
वीरभद्र उवाच-
भीषिकेयं महाज्वाला त्वदुक्ता न हि जायते
सरस्वति भवत्यां च ममरोषश्च जायते ॥ १८ ॥
मूलम्
वीरभद्र उवाच-
भीषिकेयं महाज्वाला त्वदुक्ता न हि जायते
सरस्वति भवत्यां च ममरोषश्च जायते ॥ १८ ॥
विश्वास-प्रस्तुतिः
सर्वदेवार्चितपदं वीरभद्रमवेहि माम्
भारत्युवाच-
मयोक्तं हितभावेन न द्वेषान्नान्यतो मुने ॥ १९ ॥
मूलम्
सर्वदेवार्चितपदं वीरभद्रमवेहि माम्
भारत्युवाच-
मयोक्तं हितभावेन न द्वेषान्नान्यतो मुने ॥ १९ ॥
विश्वास-प्रस्तुतिः
कोपमुत्सृज वीर त्वमात्मनोहितमाचर
इत्युक्त्वान्तर्दधे देवी भारती वीरभीतितः ॥ २० ॥
मूलम्
कोपमुत्सृज वीर त्वमात्मनोहितमाचर
इत्युक्त्वान्तर्दधे देवी भारती वीरभीतितः ॥ २० ॥
विश्वास-प्रस्तुतिः
अथ वीरो महाज्वालामपासील्लीलयैव तु
क्षणेन महती ज्वाला शतयोजनविस्तृता ॥ २१ ॥
मूलम्
अथ वीरो महाज्वालामपासील्लीलयैव तु
क्षणेन महती ज्वाला शतयोजनविस्तृता ॥ २१ ॥
विश्वास-प्रस्तुतिः
एकेन वीरभद्रेण पीता परमदुःसहा
अथ चेन्द्रमुखानां च मुनीनां भस्मराशयः ॥ २२ ॥
मूलम्
एकेन वीरभद्रेण पीता परमदुःसहा
अथ चेन्द्रमुखानां च मुनीनां भस्मराशयः ॥ २२ ॥
विश्वास-प्रस्तुतिः
दृष्टा वै वीरभद्रेण आहूताश्च महात्मना
न चाब्रुवन्प्रतिवचो मृता मुनिदिवौकसः ॥ २३ ॥
मूलम्
दृष्टा वै वीरभद्रेण आहूताश्च महात्मना
न चाब्रुवन्प्रतिवचो मृता मुनिदिवौकसः ॥ २३ ॥
विश्वास-प्रस्तुतिः
वीरभद्रस्तु विज्ञाय नाशं मुनिदिवौकसाम्
दध्यावमून्कथं सर्वाञ्जीवयाम्यद्य कोविदः ॥ २४ ॥
मूलम्
वीरभद्रस्तु विज्ञाय नाशं मुनिदिवौकसाम्
दध्यावमून्कथं सर्वाञ्जीवयाम्यद्य कोविदः ॥ २४ ॥
विश्वास-प्रस्तुतिः
ध्यानेन दृष्टवांश्चापि जीवितं भस्मदेहिनाम्
अथाचम्य मृतानां तु भस्मान्यथ च भस्मना ॥ २५ ॥
मूलम्
ध्यानेन दृष्टवांश्चापि जीवितं भस्मदेहिनाम्
अथाचम्य मृतानां तु भस्मान्यथ च भस्मना ॥ २५ ॥
विश्वास-प्रस्तुतिः
मृत्युञ्जयेन मन्त्रेण मन्त्रितेन ह्यमन्त्रयत्
अथोत्थिता मुनिवराः स्वं स्वं रूपमुपाश्रिताः ॥ २६ ॥
मूलम्
मृत्युञ्जयेन मन्त्रेण मन्त्रितेन ह्यमन्त्रयत्
अथोत्थिता मुनिवराः स्वं स्वं रूपमुपाश्रिताः ॥ २६ ॥
विश्वास-प्रस्तुतिः
अथ ते गतवन्तश्च गिरिपार्श्वं महाप्रभम्
तत्रापि भक्षिताः सर्वे सर्पेणातिशरीरिणा ॥ २७ ॥
मूलम्
अथ ते गतवन्तश्च गिरिपार्श्वं महाप्रभम्
तत्रापि भक्षिताः सर्वे सर्पेणातिशरीरिणा ॥ २७ ॥
विश्वास-प्रस्तुतिः
अथ वीरो महासर्पसमीपमगमत्प्रभुः
वीरमागतमालोक्य भुजगो योद्धुमारभत् ॥ २८ ॥
मूलम्
अथ वीरो महासर्पसमीपमगमत्प्रभुः
वीरमागतमालोक्य भुजगो योद्धुमारभत् ॥ २८ ॥
विश्वास-प्रस्तुतिः
युयुधे वर्षमेकं तु नानारूपधरः फणी
अथ वीरः प्रगृह्यौष्ठयुगं करयुगेन च ॥ २९ ॥
मूलम्
युयुधे वर्षमेकं तु नानारूपधरः फणी
अथ वीरः प्रगृह्यौष्ठयुगं करयुगेन च ॥ २९ ॥
विश्वास-प्रस्तुतिः
द्विधा चक्रे समस्ताङ्गं देवांस्तत्र गतायुषः
दृष्ट्वाथ भस्मनैवैताञ्जीवयामास शङ्करः ॥ ३० ॥
मूलम्
द्विधा चक्रे समस्ताङ्गं देवांस्तत्र गतायुषः
दृष्ट्वाथ भस्मनैवैताञ्जीवयामास शङ्करः ॥ ३० ॥
विश्वास-प्रस्तुतिः
अथ देवाः समुनयो वीरभद्रं प्रणम्य तु
गतवन्तो यथामार्गं ददृशू रक्ष आगतम् ॥ ३१ ॥
मूलम्
अथ देवाः समुनयो वीरभद्रं प्रणम्य तु
गतवन्तो यथामार्गं ददृशू रक्ष आगतम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
पञ्चमेढ्रं महाकायं दोर्भिश्च दशभिर्युतम्
पञ्चपादसमोपेतं शिरोभिर्युतमष्टभिः ॥ ३२ ॥
मूलम्
पञ्चमेढ्रं महाकायं दोर्भिश्च दशभिर्युतम्
पञ्चपादसमोपेतं शिरोभिर्युतमष्टभिः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
काङ्क्षमाणं महाहारं युध्यमानो हि वालिना
महावराहवपुषो वासुदेवस्य यद्बलम् ॥ ३३ ॥
मूलम्
काङ्क्षमाणं महाहारं युध्यमानो हि वालिना
महावराहवपुषो वासुदेवस्य यद्बलम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तादृशं द्विगुणीभूतं कपौ वालिनि निश्चितम्
तादृशं वानरश्रेष्ठं ससुग्रीवं सराक्षसः ॥ ३४ ॥
मूलम्
तादृशं द्विगुणीभूतं कपौ वालिनि निश्चितम्
तादृशं वानरश्रेष्ठं ससुग्रीवं सराक्षसः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मुष्टियुद्धे पञ्चपादैः सहसा हत्य वालिनम्
सुग्रीवं च कराभ्यां स हन्तुमेव प्रचक्रमे ॥ ३५ ॥
मूलम्
मुष्टियुद्धे पञ्चपादैः सहसा हत्य वालिनम्
सुग्रीवं च कराभ्यां स हन्तुमेव प्रचक्रमे ॥ ३५ ॥
विश्वास-प्रस्तुतिः
आस्ये निक्षिप्य सुग्रीवमग्रसत्कवलं यथा
वालिसुग्रीवग्रसनं दृष्ट्वा चिन्तामवाप ह ॥ ३६ ॥
मूलम्
आस्ये निक्षिप्य सुग्रीवमग्रसत्कवलं यथा
वालिसुग्रीवग्रसनं दृष्ट्वा चिन्तामवाप ह ॥ ३६ ॥
विश्वास-प्रस्तुतिः
कथमेनं हनिष्यामि रक्षयिष्ये कथं कपिम्
एवं हि चिन्तयानं तं वानरं राक्षसेश्वरः ॥ ३७ ॥
मूलम्
कथमेनं हनिष्यामि रक्षयिष्ये कथं कपिम्
एवं हि चिन्तयानं तं वानरं राक्षसेश्वरः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
अग्रसीदेकयत्नेन तथाभूतं च राक्षसम्
दृष्ट्वा देवर्षयः सर्वे पलायनपरास्तथा ॥ ३८ ॥
मूलम्
अग्रसीदेकयत्नेन तथाभूतं च राक्षसम्
दृष्ट्वा देवर्षयः सर्वे पलायनपरास्तथा ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पलायमानांस्तान्दृष्ट्वा पञ्चमेढ्रः स राक्षसः
हस्तैः समस्तैस्तान्सर्वानादायाभक्षयत्तदा ॥ ३९ ॥
मूलम्
पलायमानांस्तान्दृष्ट्वा पञ्चमेढ्रः स राक्षसः
हस्तैः समस्तैस्तान्सर्वानादायाभक्षयत्तदा ॥ ३९ ॥
विश्वास-प्रस्तुतिः
वीरभद्रस्ततो दृष्ट्वा वानरर्षिसुरादनम्
पञ्चाशद्योजनशिलां करेणादाय तं रुषा ॥ ४० ॥
मूलम्
वीरभद्रस्ततो दृष्ट्वा वानरर्षिसुरादनम्
पञ्चाशद्योजनशिलां करेणादाय तं रुषा ॥ ४० ॥
विश्वास-प्रस्तुतिः
निजघान शिरोमध्ये मध्यमं पतितं शिरः
तत आदाय शैलस्य शृङ्गं तच्छतयोजनम् ॥ ४१ ॥
मूलम्
निजघान शिरोमध्ये मध्यमं पतितं शिरः
तत आदाय शैलस्य शृङ्गं तच्छतयोजनम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
स्थापयित्वा दृढतरं राक्षसेन्द्रं तथाहरत्
राक्षसोऽथ बभाषे तं वीरभद्रं त्रिलोचनम् ॥ ४२ ॥
मूलम्
स्थापयित्वा दृढतरं राक्षसेन्द्रं तथाहरत्
राक्षसोऽथ बभाषे तं वीरभद्रं त्रिलोचनम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
मम बाहुबलं पश्य वीक्षितं त्वद्बलं मया
असिद्वयं तैलधौतं पञ्चाशद्योजनोन्नतम् ॥ ४३ ॥
मूलम्
मम बाहुबलं पश्य वीक्षितं त्वद्बलं मया
असिद्वयं तैलधौतं पञ्चाशद्योजनोन्नतम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
एकयोजनविस्तारं सुदृढं लक्षणान्वितम्
एकं गृहाणाभिमतं विशिष्टं तन्ममप्रियम् ॥ ४४ ॥
मूलम्
एकयोजनविस्तारं सुदृढं लक्षणान्वितम्
एकं गृहाणाभिमतं विशिष्टं तन्ममप्रियम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
वीरभद्रस्तथेत्युक्त्वा गृहीत्वासिं महाबलः
करेणाचालयत्तीक्ष्णं क्ष्वेलीं चक्रे ततः क्रुधा ॥ ४५ ॥
मूलम्
वीरभद्रस्तथेत्युक्त्वा गृहीत्वासिं महाबलः
करेणाचालयत्तीक्ष्णं क्ष्वेलीं चक्रे ततः क्रुधा ॥ ४५ ॥
विश्वास-प्रस्तुतिः
गृहीतासिस्तथा क्ष्वेलद्यं चक्रे राक्षसपुङ्गवः
वीरभद्रं समभ्येत्य कण्ठं प्रतिसमर्पयत् ॥ ४६ ॥
मूलम्
गृहीतासिस्तथा क्ष्वेलद्यं चक्रे राक्षसपुङ्गवः
वीरभद्रं समभ्येत्य कण्ठं प्रतिसमर्पयत् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तद्गात्रं भिन्नमभवच्छोणितं निर्गतं बहु
राक्षसस्त्वेकहस्तेन पपौ तच्छोणितं ततः ॥ ४७ ॥
मूलम्
तद्गात्रं भिन्नमभवच्छोणितं निर्गतं बहु
राक्षसस्त्वेकहस्तेन पपौ तच्छोणितं ततः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
वीरभद्रः कण्ठदेशे राक्षसं प्राहरद्रुषा
शिरोद्वयं तथाच्छिन्नं पतमानं ततोऽग्रहीत् ॥ ४८ ॥
मूलम्
वीरभद्रः कण्ठदेशे राक्षसं प्राहरद्रुषा
शिरोद्वयं तथाच्छिन्नं पतमानं ततोऽग्रहीत् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
न्यभक्षयदमेयात्मा सिंहनादं चकार ह
तेन नादेन महता क्षुब्धमासीज्जगत्त्रयम् ॥ ४९ ॥
मूलम्
न्यभक्षयदमेयात्मा सिंहनादं चकार ह
तेन नादेन महता क्षुब्धमासीज्जगत्त्रयम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
अन्योन्यमसिघातेन भिन्नगात्रौ विकस्वरौ
किंशुकाविव दृश्येते पुष्पितौ रुधिरोक्षितौ ॥ ५० ॥
मूलम्
अन्योन्यमसिघातेन भिन्नगात्रौ विकस्वरौ
किंशुकाविव दृश्येते पुष्पितौ रुधिरोक्षितौ ॥ ५० ॥
विश्वास-प्रस्तुतिः
वर्षमेकं तु संयुध्य सासीदेवासुरौ तदा
अतःपरं वर्षमेकं गदायुद्धमभूत्तयोः ॥ ५१ ॥
मूलम्
वर्षमेकं तु संयुध्य सासीदेवासुरौ तदा
अतःपरं वर्षमेकं गदायुद्धमभूत्तयोः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
असिपुत्रिकया पश्चाद्वर्षमेकमभूद्रणः
पुनर्गृहीत्वासियुगं युयुधाते परस्परम् ॥ ५२ ॥
मूलम्
असिपुत्रिकया पश्चाद्वर्षमेकमभूद्रणः
पुनर्गृहीत्वासियुगं युयुधाते परस्परम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
शं ब्रुवाणो महाखड्गं दंष्ट्राकारो गणेश्वरः
सरोषरक्तनयनश्चालयित्वासिमग्रतः ॥ ५३ ॥
मूलम्
शं ब्रुवाणो महाखड्गं दंष्ट्राकारो गणेश्वरः
सरोषरक्तनयनश्चालयित्वासिमग्रतः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तस्य कण्ठवनं सर्वं चिच्छेद कदलद्यं यथा
शिरांसि सर्वाण्यादाय बभक्ष भगनेत्रहा ॥ ५४ ॥
मूलम्
तस्य कण्ठवनं सर्वं चिच्छेद कदलद्यं यथा
शिरांसि सर्वाण्यादाय बभक्ष भगनेत्रहा ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तस्य गात्रं कररुहैर्विदार्याहृत्य देवताः
कपीन्द्रौ च तथा चान्या अद्राक्षीत्परमेश्वरीम् ॥ ५५ ॥
मूलम्
तस्य गात्रं कररुहैर्विदार्याहृत्य देवताः
कपीन्द्रौ च तथा चान्या अद्राक्षीत्परमेश्वरीम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
एतद्युद्धं महाघोरं नारदो वीक्ष्य चाभ्यगात्
ब्रह्मणे वासुदेवाय शङ्कराय व्यजिज्ञपत् ॥ ५६ ॥
मूलम्
एतद्युद्धं महाघोरं नारदो वीक्ष्य चाभ्यगात्
ब्रह्मणे वासुदेवाय शङ्कराय व्यजिज्ञपत् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
मुनयो रक्षिता देवा वालिसुग्रीव वानरौ
एतौ सञ्जीवयामास ब्रह्मविष्णुशिवात्मकः ॥ ५७ ॥
मूलम्
मुनयो रक्षिता देवा वालिसुग्रीव वानरौ
एतौ सञ्जीवयामास ब्रह्मविष्णुशिवात्मकः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
रक्षसे शम्भुना दत्तो वरः परमदारुणः
हिरण्यकशिपोराज्ये बलवानेक राक्षसः ॥ ५८ ॥
मूलम्
रक्षसे शम्भुना दत्तो वरः परमदारुणः
हिरण्यकशिपोराज्ये बलवानेक राक्षसः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
देवैः सार्द्धं तु युयुधे वर्षाणां शतमद्भुतम्
पलायिताश्च बहुधा मृताश्च शतशोसुराः ॥ ५९ ॥
मूलम्
देवैः सार्द्धं तु युयुधे वर्षाणां शतमद्भुतम्
पलायिताश्च बहुधा मृताश्च शतशोसुराः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
शुक्रेण रक्षितः सोऽथ गुरुणाचिन्तयत्त्विदम्
मृतोऽस्मि शतशः शुक्र जीवितोऽस्मि त्वयैव हि ॥ ६० ॥
मूलम्
शुक्रेण रक्षितः सोऽथ गुरुणाचिन्तयत्त्विदम्
मृतोऽस्मि शतशः शुक्र जीवितोऽस्मि त्वयैव हि ॥ ६० ॥
विश्वास-प्रस्तुतिः
अमृत्यवे त्वमेतस्मादुदरस्थमृताय च
अन्यथा मरणं मह्यं भविष्यति न संशयः ॥ ६१ ॥
मूलम्
अमृत्यवे त्वमेतस्मादुदरस्थमृताय च
अन्यथा मरणं मह्यं भविष्यति न संशयः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
गुरो यमेन साकं मे युद्धमासीत्सुदारुणम्
मयासौ ग्रसितो युद्धे यमराजः प्रतापवान् ॥ ६२ ॥
मूलम्
गुरो यमेन साकं मे युद्धमासीत्सुदारुणम्
मयासौ ग्रसितो युद्धे यमराजः प्रतापवान् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
ममोदरं प्रविश्यासौ बिभेद च ननाद च
अहं मृतस्तदा चासं त्वया सञ्जीवितः पुनः ॥ ६३ ॥
मूलम्
ममोदरं प्रविश्यासौ बिभेद च ननाद च
अहं मृतस्तदा चासं त्वया सञ्जीवितः पुनः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तस्मादुदरसंस्थानां मरणाय तपे तपः
शुक्र उवाच-
एवमेतन्न सन्देहो यथावत्त्वं समाचर ॥ ६४ ॥
मूलम्
तस्मादुदरसंस्थानां मरणाय तपे तपः
शुक्र उवाच-
एवमेतन्न सन्देहो यथावत्त्वं समाचर ॥ ६४ ॥
विश्वास-प्रस्तुतिः
स्यमन्तपञ्चकं तीर्थं तत्र त्वं तप्तुमर्हसि
राक्षस उवाच-
तपे महत्तपो घोरं यन्न चीर्णं सुरासुरैः ॥ ६५ ॥
मूलम्
स्यमन्तपञ्चकं तीर्थं तत्र त्वं तप्तुमर्हसि
राक्षस उवाच-
तपे महत्तपो घोरं यन्न चीर्णं सुरासुरैः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
गुल्फप्रदेशे पादान्ते त्वयःपाशैः प्रबध्य च
अयःस्तम्भयुगं कृत्वा अयःपट्टिकयान्वितम् ॥ ६६ ॥
मूलम्
गुल्फप्रदेशे पादान्ते त्वयःपाशैः प्रबध्य च
अयःस्तम्भयुगं कृत्वा अयःपट्टिकयान्वितम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
पट्टिकायां पादबन्धं कृत्वाधः शीर्षतां तथा
विवृतास्यं तथा कल्पं कृत्वाधोमुखमुच्चकैः ॥ ६७ ॥
मूलम्
पट्टिकायां पादबन्धं कृत्वाधः शीर्षतां तथा
विवृतास्यं तथा कल्पं कृत्वाधोमुखमुच्चकैः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
स्तम्भोत्तरेण ज्वालायां चक्रिकायामितस्ततः
अधःशिरास्तथा तिष्ठन्नुन्मील्यैव विलोचने ॥ ६८ ॥
मूलम्
स्तम्भोत्तरेण ज्वालायां चक्रिकायामितस्ततः
अधःशिरास्तथा तिष्ठन्नुन्मील्यैव विलोचने ॥ ६८ ॥
विश्वास-प्रस्तुतिः
एवं तपश्चरिष्यामि वरदः कोपि मे भवेत्
ब्रह्मा वा वरदः सोऽस्तु शङ्करो विष्णुरेव च ॥ ६९ ॥
मूलम्
एवं तपश्चरिष्यामि वरदः कोपि मे भवेत्
ब्रह्मा वा वरदः सोऽस्तु शङ्करो विष्णुरेव च ॥ ६९ ॥
विश्वास-प्रस्तुतिः
वरदे न तु मे भाव्यं यो वा कोवा वरप्रदः
इत्थमाभाष्य मुनिना गुरुणा भार्गवेण सः ॥ ७० ॥
मूलम्
वरदे न तु मे भाव्यं यो वा कोवा वरप्रदः
इत्थमाभाष्य मुनिना गुरुणा भार्गवेण सः ॥ ७० ॥
विश्वास-प्रस्तुतिः
तथातपच्च षण्मासं पुनरन्यच्चकार ह
नखाभ्यां स्वशिरश्छित्त्वा जुहावाग्नौ समन्त्रकम् ॥ ७१ ॥
मूलम्
तथातपच्च षण्मासं पुनरन्यच्चकार ह
नखाभ्यां स्वशिरश्छित्त्वा जुहावाग्नौ समन्त्रकम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
नमो भद्राय मन्त्रेण चत्वारि च शिरांसि सः
पञ्चमं तु शिरो हातुं यतमाने च राक्षसे ॥ ७२ ॥
मूलम्
नमो भद्राय मन्त्रेण चत्वारि च शिरांसि सः
पञ्चमं तु शिरो हातुं यतमाने च राक्षसे ॥ ७२ ॥
विश्वास-प्रस्तुतिः
वह्निमध्यात्समुत्तस्थौ भगवानम्बिकापतिः
शुद्धस्फटिकसङ्काशो बालचन्द्र विभूषणः ॥ ७३ ॥
मूलम्
वह्निमध्यात्समुत्तस्थौ भगवानम्बिकापतिः
शुद्धस्फटिकसङ्काशो बालचन्द्र विभूषणः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
अधःशिरस्कं तद्रक्ष इदमाह महेश्वरः
मा साहसं कृथा रक्षो वरदोऽस्मि वरं वृणु ॥ ७४ ॥
मूलम्
अधःशिरस्कं तद्रक्ष इदमाह महेश्वरः
मा साहसं कृथा रक्षो वरदोऽस्मि वरं वृणु ॥ ७४ ॥
विश्वास-प्रस्तुतिः
राक्षस उवाच-
बहूनां च वराणां त्वं दाता नूनं महेश्वरः
हतशीर्षसमुत्पत्तिं ग्रस्तजीवमृतिं तथा ॥ ७५ ॥
मूलम्
राक्षस उवाच-
बहूनां च वराणां त्वं दाता नूनं महेश्वरः
हतशीर्षसमुत्पत्तिं ग्रस्तजीवमृतिं तथा ॥ ७५ ॥
विश्वास-प्रस्तुतिः
वराहवपुषो विष्णोरस्तु शक्तिश्चतुर्गुणा
मयि तेन हि रोषः स्यात्सन्निधिस्तु सदा मम ॥ ७६ ॥
मूलम्
वराहवपुषो विष्णोरस्तु शक्तिश्चतुर्गुणा
मयि तेन हि रोषः स्यात्सन्निधिस्तु सदा मम ॥ ७६ ॥
विश्वास-प्रस्तुतिः
त्वज्जटोत्पाटनेनैकः पुरुषः सम्भविष्यति
तेनैव मरणं नान्यैरिदमस्तु वृतं मम ॥ ७७ ॥
मूलम्
त्वज्जटोत्पाटनेनैकः पुरुषः सम्भविष्यति
तेनैव मरणं नान्यैरिदमस्तु वृतं मम ॥ ७७ ॥
विश्वास-प्रस्तुतिः
भविष्यत्येवमेवैतदित्युक्त्वान्तर्हितोहरः
एवंलब्धवरः पापी राक्षसो निहतस्त्वया ॥ ७८ ॥
मूलम्
भविष्यत्येवमेवैतदित्युक्त्वान्तर्हितोहरः
एवंलब्धवरः पापी राक्षसो निहतस्त्वया ॥ ७८ ॥
विश्वास-प्रस्तुतिः
अथालिङ्ग्य हरिर्वीरं शङ्करश्च पितामहः
यथागतमथोजग्मुरथ देवादियोषितः ॥ ७९ ॥
मूलम्
अथालिङ्ग्य हरिर्वीरं शङ्करश्च पितामहः
यथागतमथोजग्मुरथ देवादियोषितः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
निपत्य दण्डवद्भूमौ वीरभद्रमथाब्रुवन्
नमस्ते देवदेवेश नमस्ते करुणाकर ॥ ८० ॥
मूलम्
निपत्य दण्डवद्भूमौ वीरभद्रमथाब्रुवन्
नमस्ते देवदेवेश नमस्ते करुणाकर ॥ ८० ॥
विश्वास-प्रस्तुतिः
नमस्ते शाश्वतानन्त नमस्ते वरदो भव
वीरभद्र उवाच-
भस्मना जीवयिष्यामि सुरान्समुनि वानरान् ॥ ८१ ॥
मूलम्
नमस्ते शाश्वतानन्त नमस्ते वरदो भव
वीरभद्र उवाच-
भस्मना जीवयिष्यामि सुरान्समुनि वानरान् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
भवतीभिः प्रतोष्टव्यं शोकः कार्यो न चाधुना
इत्युक्त्वा वीरभद्रस्तु भस्मनाजीवयत्सतान् ॥ ८२ ॥
मूलम्
भवतीभिः प्रतोष्टव्यं शोकः कार्यो न चाधुना
इत्युक्त्वा वीरभद्रस्तु भस्मनाजीवयत्सतान् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
उत्थिता मुनिदेवाश्च वानरौ चोत्थितौ ततः
इदमूचुर्वचो हृष्टाः शिरःस्थाञ्जलयो नमन् ॥ ८३ ॥
मूलम्
उत्थिता मुनिदेवाश्च वानरौ चोत्थितौ ततः
इदमूचुर्वचो हृष्टाः शिरःस्थाञ्जलयो नमन् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
त्वयात्र जीवितास्तात पिता त्वं धर्मतो हि नः
अस्माकं शरणं नित्यं भव शङ्करसम्भव ॥ ८४ ॥
मूलम्
त्वयात्र जीवितास्तात पिता त्वं धर्मतो हि नः
अस्माकं शरणं नित्यं भव शङ्करसम्भव ॥ ८४ ॥
विश्वास-प्रस्तुतिः
शिशूनां दुष्टचरितं दृष्ट्वा शिक्षेस्तथा च तान्
रक्षेः परकृता बाधा व्याधिभ्यश्च यथौरसान् ॥ ८५ ॥
मूलम्
शिशूनां दुष्टचरितं दृष्ट्वा शिक्षेस्तथा च तान्
रक्षेः परकृता बाधा व्याधिभ्यश्च यथौरसान् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
दक्षाध्वरे कृतागस्काः शिक्षिता भवतानघ
इदानीं रक्षितास्तात वयं शिशुवदेव ते ॥ ८६ ॥
मूलम्
दक्षाध्वरे कृतागस्काः शिक्षिता भवतानघ
इदानीं रक्षितास्तात वयं शिशुवदेव ते ॥ ८६ ॥
विश्वास-प्रस्तुतिः
वीरभद्र उवाच-
सत्यमेतन्न सन्देहो यत्र बाधा भवेत्तु वः
तत्र मां स्मरत क्षिप्रं बाधानाशं गमिष्यति ॥ ८७ ॥
मूलम्
वीरभद्र उवाच-
सत्यमेतन्न सन्देहो यत्र बाधा भवेत्तु वः
तत्र मां स्मरत क्षिप्रं बाधानाशं गमिष्यति ॥ ८७ ॥
विश्वास-प्रस्तुतिः
वीरभद्रं पदं येपि पठन्त्यष्टशतं ततः
प्रणवादि नमोंऽतं च चतुर्थीसहितं तथा ॥ ८८ ॥
मूलम्
वीरभद्रं पदं येपि पठन्त्यष्टशतं ततः
प्रणवादि नमोंऽतं च चतुर्थीसहितं तथा ॥ ८८ ॥
विश्वास-प्रस्तुतिः
तेषां राक्षसपीडानां नाशनं च भविष्यति
ब्रह्मराक्षसपीडासु पिशाचादिभयेषु च ॥ ८९ ॥
मूलम्
तेषां राक्षसपीडानां नाशनं च भविष्यति
ब्रह्मराक्षसपीडासु पिशाचादिभयेषु च ॥ ८९ ॥
विश्वास-प्रस्तुतिः
नामानुस्मरणात्सर्वबाधानां च विनाशनम् ॥ ९० ॥
मूलम्
नामानुस्मरणात्सर्वबाधानां च विनाशनम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
विद्युत्प्रभालोचनमुग्रमीशं बालेन्दुदंष्ट्रारुणशोभिताधरम्
सुनीलगात्रं च जटाकृतस्रजं दधानमङ्गे भसितत्रिपुण्ड्रकम् ॥ ९१ ॥
मूलम्
विद्युत्प्रभालोचनमुग्रमीशं बालेन्दुदंष्ट्रारुणशोभिताधरम्
सुनीलगात्रं च जटाकृतस्रजं दधानमङ्गे भसितत्रिपुण्ड्रकम् ॥ ९१ ॥
विश्वास-प्रस्तुतिः
ब्रह्मराक्षसमुक्त्यर्थं स्मरणं त्विदमीरितम्
मन्त्रे च वीरभद्रस्य सर्वमेतदुदीरितम् ॥ ९२ ॥
मूलम्
ब्रह्मराक्षसमुक्त्यर्थं स्मरणं त्विदमीरितम्
मन्त्रे च वीरभद्रस्य सर्वमेतदुदीरितम् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
दधीच उवाच-
अथैवं विदधे वीरो मुनिदेवास्तथागताः
एतत्त्रियायुषं प्रोक्तं भस्ममाहात्म्यमुत्तमम् ॥ ९३ ॥
मूलम्
दधीच उवाच-
अथैवं विदधे वीरो मुनिदेवास्तथागताः
एतत्त्रियायुषं प्रोक्तं भस्ममाहात्म्यमुत्तमम् ॥ ९३ ॥
विश्वास-प्रस्तुतिः
पठतः शृण्वतो वापि स्मरतोऽघविनाशनम्
शिवभक्तिप्रदं पुण्यमायुरारोग्यवर्द्धनम् ॥ ९४ ॥
मूलम्
पठतः शृण्वतो वापि स्मरतोऽघविनाशनम्
शिवभक्तिप्रदं पुण्यमायुरारोग्यवर्द्धनम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
शुचिस्मितोवाच-
अहं कृतार्था धन्या च नारीणामुत्तमास्म्यहम्
हतपापा तथा चास्मि नमस्ते मुनिपुङ्गव ॥ ९५ ॥
मूलम्
शुचिस्मितोवाच-
अहं कृतार्था धन्या च नारीणामुत्तमास्म्यहम्
हतपापा तथा चास्मि नमस्ते मुनिपुङ्गव ॥ ९५ ॥
इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे सप्तोत्तरशततमोऽध्यायः १०७