शुचिस्मितोवाच-
विश्वास-प्रस्तुतिः
आयुष्यवर्द्धनं भस्माशनं दृष्टं महामुने
परलोकगतिं दातुं शक्तमेतं वदस्व मे ॥ १ ॥
मूलम्
आयुष्यवर्द्धनं भस्माशनं दृष्टं महामुने
परलोकगतिं दातुं शक्तमेतं वदस्व मे ॥ १ ॥
विश्वास-प्रस्तुतिः
दधीच उवाच-
अत्र ते कथयिष्यामि इतिहासं पुरातनम्
चित्रगुप्तयमाभ्यां च यद्विख्यातं बभूव ह ॥ २ ॥
मूलम्
दधीच उवाच-
अत्र ते कथयिष्यामि इतिहासं पुरातनम्
चित्रगुप्तयमाभ्यां च यद्विख्यातं बभूव ह ॥ २ ॥
विश्वास-प्रस्तुतिः
मिथिलायां पुरा कश्चिच्छुनः पर्यटते क्षुधा
पुरा जन्मशतात्पूर्वं ब्राह्मणः पापनिश्चयः ॥ ३ ॥
मूलम्
मिथिलायां पुरा कश्चिच्छुनः पर्यटते क्षुधा
पुरा जन्मशतात्पूर्वं ब्राह्मणः पापनिश्चयः ॥ ३ ॥
विश्वास-प्रस्तुतिः
पूर्वेवयसि वेदाढ्यः शास्त्राढ्यश्च सुबुद्धिमान्
स स्नातुं जाह्नवीं गत्वा स्नानं कृत्वा पितॄनपि ॥ ४ ॥
मूलम्
पूर्वेवयसि वेदाढ्यः शास्त्राढ्यश्च सुबुद्धिमान्
स स्नातुं जाह्नवीं गत्वा स्नानं कृत्वा पितॄनपि ॥ ४ ॥
विश्वास-प्रस्तुतिः
देवानृषीन्समभ्यर्च्य ययौ प्रात्तलिकापुरम्
प्रतिश्रयमथो चक्रे ब्राह्मणस्य निवेशने ॥ ५ ॥
मूलम्
देवानृषीन्समभ्यर्च्य ययौ प्रात्तलिकापुरम्
प्रतिश्रयमथो चक्रे ब्राह्मणस्य निवेशने ॥ ५ ॥
विश्वास-प्रस्तुतिः
तत्रैका क्षत्रियसुता यौवनस्था हतप्रिया
भ्रष्टराज्या च षट्कोटि निष्कद्रव्येण संयुता ॥ ६ ॥
मूलम्
तत्रैका क्षत्रियसुता यौवनस्था हतप्रिया
भ्रष्टराज्या च षट्कोटि निष्कद्रव्येण संयुता ॥ ६ ॥
विश्वास-प्रस्तुतिः
भुक्त्वाथ शयितं विप्रं सर्वावयवसुन्दरम्
रात्रौ चन्द्रोदये शुद्धे ज्योत्स्नाहसितदिङ्मुखे ॥ ७ ॥
मूलम्
भुक्त्वाथ शयितं विप्रं सर्वावयवसुन्दरम्
रात्रौ चन्द्रोदये शुद्धे ज्योत्स्नाहसितदिङ्मुखे ॥ ७ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणाभ्याशमागत्य तमुदीक्ष्येदमब्रवीत्
कुतस्त्वमागतो विप्र कं वा देशं गमिष्यसि ॥ ८ ॥
मूलम्
ब्राह्मणाभ्याशमागत्य तमुदीक्ष्येदमब्रवीत्
कुतस्त्वमागतो विप्र कं वा देशं गमिष्यसि ॥ ८ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच-
अकालचर्या सर्वेषां शङ्कामुत्पादयेद्ध्रुवम्
वयःस्थयोर्मिथोवादो रहस्ये हास्यमन्दिरे ॥ ९ ॥
मूलम्
ब्राह्मण उवाच-
अकालचर्या सर्वेषां शङ्कामुत्पादयेद्ध्रुवम्
वयःस्थयोर्मिथोवादो रहस्ये हास्यमन्दिरे ॥ ९ ॥
विश्वास-प्रस्तुतिः
क्षत्रियोवाच-
कथाप्रसङ्गे यात्रायां तीर्थे देशादि विप्लवे
दुर्भिक्षे ग्रामदहने रहोवादो न दूषितः ॥ १० ॥
मूलम्
क्षत्रियोवाच-
कथाप्रसङ्गे यात्रायां तीर्थे देशादि विप्लवे
दुर्भिक्षे ग्रामदहने रहोवादो न दूषितः ॥ १० ॥
विश्वास-प्रस्तुतिः
प्रतिश्रयस्तु मद्गेहे भवतैव पुरा कृतः
मद्गेहवासिनी चाहं न शङ्का त्विह कस्यचित् ॥ ११ ॥
मूलम्
प्रतिश्रयस्तु मद्गेहे भवतैव पुरा कृतः
मद्गेहवासिनी चाहं न शङ्का त्विह कस्यचित् ॥ ११ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच-
तूष्णीम्भावो मया कार्यो गच्छ त्वं शीघ्रमग्रतः
इत्युक्ता ब्राह्मणेनासौ मनसेदमचिन्तयत् ॥ १२ ॥
मूलम्
ब्राह्मण उवाच-
तूष्णीम्भावो मया कार्यो गच्छ त्वं शीघ्रमग्रतः
इत्युक्ता ब्राह्मणेनासौ मनसेदमचिन्तयत् ॥ १२ ॥
विश्वास-प्रस्तुतिः
अनेन सङ्गमो मह्यं यथाभूयात्तथाविधि
रोदनं तु करिष्यामि तथा यास्यति सान्त्वितुम् ॥ १३ ॥
मूलम्
अनेन सङ्गमो मह्यं यथाभूयात्तथाविधि
रोदनं तु करिष्यामि तथा यास्यति सान्त्वितुम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
मां च सान्त्वयितुं प्राप्तो मां समुत्थापयिष्यति
अहमुत्तिष्ठमानैव दोर्लताकण्ठसङ्गिनी ॥ १४ ॥
मूलम्
मां च सान्त्वयितुं प्राप्तो मां समुत्थापयिष्यति
अहमुत्तिष्ठमानैव दोर्लताकण्ठसङ्गिनी ॥ १४ ॥
विश्वास-प्रस्तुतिः
कुचयुग्मेन तद्गात्रं स्पर्शयन्ती विमूर्च्छिता
गतभानां हि मां दृष्ट्वा निषण्णः स्वयमेव सः ॥ १५ ॥
मूलम्
कुचयुग्मेन तद्गात्रं स्पर्शयन्ती विमूर्च्छिता
गतभानां हि मां दृष्ट्वा निषण्णः स्वयमेव सः ॥ १५ ॥
विश्वास-प्रस्तुतिः
उत्सङ्गे मामकं देहं निधास्यति द्विजाग्रणीः
अचेतनेव वसनमपास्य रुदतीव च ॥ १६ ॥
मूलम्
उत्सङ्गे मामकं देहं निधास्यति द्विजाग्रणीः
अचेतनेव वसनमपास्य रुदतीव च ॥ १६ ॥
विश्वास-प्रस्तुतिः
सुस्निग्धं रोमरहितं पक्वाश्वत्थदलाकृति
दर्शयिष्यामि तत्स्थानं कामगेहं सुगन्धि च ॥ १७ ॥
मूलम्
सुस्निग्धं रोमरहितं पक्वाश्वत्थदलाकृति
दर्शयिष्यामि तत्स्थानं कामगेहं सुगन्धि च ॥ १७ ॥
विश्वास-प्रस्तुतिः
मयैव विलुठन्त्याङ्गे तस्य वस्त्रमपास्यते
विलुप्यमानसं तस्य करिष्ये स्ववशं द्विजम् ॥ १८ ॥
मूलम्
मयैव विलुठन्त्याङ्गे तस्य वस्त्रमपास्यते
विलुप्यमानसं तस्य करिष्ये स्ववशं द्विजम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
अदृष्टौ यादृशं चित्तं दृष्टौ नैतादृशं भवेत्
दर्शने यादृशं चित्तं संलापे नैव तादृशम् ॥ १९ ॥
मूलम्
अदृष्टौ यादृशं चित्तं दृष्टौ नैतादृशं भवेत्
दर्शने यादृशं चित्तं संलापे नैव तादृशम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
संलापे यादृशं चित्तं हास्योक्तौ नैव तादृशम्
हास्योक्तौ यादृशं चित्तं स्पर्शने नैव तादृशम् ॥ २० ॥
मूलम्
संलापे यादृशं चित्तं हास्योक्तौ नैव तादृशम्
हास्योक्तौ यादृशं चित्तं स्पर्शने नैव तादृशम् ॥ २० ॥
विश्वास-प्रस्तुतिः
स्पर्शने यादृशं चित्तं योनिदृष्टौ न तादृशम्
तद्दृष्टौ यादृशं चित्तं योनिस्पर्शे न तादृशम् ॥ २१ ॥
मूलम्
स्पर्शने यादृशं चित्तं योनिदृष्टौ न तादृशम्
तद्दृष्टौ यादृशं चित्तं योनिस्पर्शे न तादृशम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
बाहुमूलकुचद्वन्द्व स्वयोनिस्पर्शदर्शनात्
कस्य न स्खलते चेतो रेतः स्कन्नं च नो भवेत् ॥ २२ ॥
मूलम्
बाहुमूलकुचद्वन्द्व स्वयोनिस्पर्शदर्शनात्
कस्य न स्खलते चेतो रेतः स्कन्नं च नो भवेत् ॥ २२ ॥
विश्वास-प्रस्तुतिः
दधीच उवाच-
इति सञ्चिन्त्य मनसा क्षत्रिया गृहमभ्यगात्
स्वगृहद्वारमासाद्य मन्दं मन्दं रुरोद वै ॥ २३ ॥
मूलम्
दधीच उवाच-
इति सञ्चिन्त्य मनसा क्षत्रिया गृहमभ्यगात्
स्वगृहद्वारमासाद्य मन्दं मन्दं रुरोद वै ॥ २३ ॥
विश्वास-प्रस्तुतिः
चिरं कालं च रुदितं ब्राह्मणः करुणानिधिः ॥ २४ ॥
मूलम्
चिरं कालं च रुदितं ब्राह्मणः करुणानिधिः ॥ २४ ॥
विश्वास-प्रस्तुतिः
स्त्रीबालवृद्धातुर राजयोगिनां विषाग्नितोयाद्रि निपातनादिना
दुःखस्य चैवोद्धरणं प्रशस्यते कूपस्यदानेन समं वदन्ति ॥ २५ ॥
मूलम्
स्त्रीबालवृद्धातुर राजयोगिनां विषाग्नितोयाद्रि निपातनादिना
दुःखस्य चैवोद्धरणं प्रशस्यते कूपस्यदानेन समं वदन्ति ॥ २५ ॥
विश्वास-प्रस्तुतिः
इत्थं विचार्य विप्रोऽसौ शुचिर्भूतः प्रसन्नधीः
तस्याः समीपमगमत्तामुवाच ततो द्विजः ॥ २६ ॥
मूलम्
इत्थं विचार्य विप्रोऽसौ शुचिर्भूतः प्रसन्नधीः
तस्याः समीपमगमत्तामुवाच ततो द्विजः ॥ २६ ॥
विश्वास-प्रस्तुतिः
अलं शोकेन महता इहामुत्र विरोधिना
शरीरशोषणं ह्येतच्चित्तविध्वंसनं तथा ॥ २७ ॥
मूलम्
अलं शोकेन महता इहामुत्र विरोधिना
शरीरशोषणं ह्येतच्चित्तविध्वंसनं तथा ॥ २७ ॥
विश्वास-प्रस्तुतिः
त्यज शोकमिमं बाले न चार्थः शोचितेन वै
शोकस्य कारणं किं वा येनेत्थं रुद्यते त्वया ॥ २८ ॥
मूलम्
त्यज शोकमिमं बाले न चार्थः शोचितेन वै
शोकस्य कारणं किं वा येनेत्थं रुद्यते त्वया ॥ २८ ॥
विश्वास-प्रस्तुतिः
दधीच उवाच-
एवमुक्ता द्विजेनाथ न सा किञ्चिदुवाच ह
मूर्च्छितेवापतद्भूमौ तमदृष्ट्वेव वीक्षते ॥ २९ ॥
मूलम्
दधीच उवाच-
एवमुक्ता द्विजेनाथ न सा किञ्चिदुवाच ह
मूर्च्छितेवापतद्भूमौ तमदृष्ट्वेव वीक्षते ॥ २९ ॥
विश्वास-प्रस्तुतिः
तामथोत्थापयामास ब्राह्मणः परमार्थवित्
उत्थितोत्थापिता तेन निपपात पुनः पुनः ॥ ३० ॥
मूलम्
तामथोत्थापयामास ब्राह्मणः परमार्थवित्
उत्थितोत्थापिता तेन निपपात पुनः पुनः ॥ ३० ॥
विश्वास-प्रस्तुतिः
पतितां पतितां विप्रो निषद्योत्थाप्य तां पुनः
अङ्कमारोपयामास प्रममार्ज विलोचने ॥ ३१ ॥
मूलम्
पतितां पतितां विप्रो निषद्योत्थाप्य तां पुनः
अङ्कमारोपयामास प्रममार्ज विलोचने ॥ ३१ ॥
विश्वास-प्रस्तुतिः
अथ सा मूर्च्छितेवाशु वसनं परिमुच्य तम्
दर्शयन्ती स्तनौ गुह्यं बाहुमूले विलोचने ॥ ३२ ॥
मूलम्
अथ सा मूर्च्छितेवाशु वसनं परिमुच्य तम्
दर्शयन्ती स्तनौ गुह्यं बाहुमूले विलोचने ॥ ३२ ॥
विश्वास-प्रस्तुतिः
आलम्ब्य कण्ठे बाहुभ्यां स्तनाभ्यामस्पृशद्द्विजम्
चन्द्रातपश्च विशदो मन्दमारुतसम्भवः ॥ ३३ ॥
मूलम्
आलम्ब्य कण्ठे बाहुभ्यां स्तनाभ्यामस्पृशद्द्विजम्
चन्द्रातपश्च विशदो मन्दमारुतसम्भवः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अथ चिन्तापरो विप्रो नैव कार्यमिदं मम
पितुर्वा मातुरुचितं पत्युर्वाथ गुरोस्तथा ॥ ३४ ॥
मूलम्
अथ चिन्तापरो विप्रो नैव कार्यमिदं मम
पितुर्वा मातुरुचितं पत्युर्वाथ गुरोस्तथा ॥ ३४ ॥
विश्वास-प्रस्तुतिः
असम्बुद्धस्य मे सर्वं विपरीतं विभाति वै
अथ कामः समायातो रहस्ये स्थितयोस्तयोः ॥ ३५ ॥
मूलम्
असम्बुद्धस्य मे सर्वं विपरीतं विभाति वै
अथ कामः समायातो रहस्ये स्थितयोस्तयोः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
विव्याध निशितैर्बाणैर्द्विजं कामो दुरात्मवान्
स्मरबाणातुरो विप्रश्चिन्तयामास कामुकः ॥ ३६ ॥
मूलम्
विव्याध निशितैर्बाणैर्द्विजं कामो दुरात्मवान्
स्मरबाणातुरो विप्रश्चिन्तयामास कामुकः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
इयं सुचारु सर्वाङ्गी कामिनीव प्रदृश्यते
नोचेद्योनिमुखे ह्यस्याः कथं रोमाञ्चसम्भवः ॥ ३७ ॥
मूलम्
इयं सुचारु सर्वाङ्गी कामिनीव प्रदृश्यते
नोचेद्योनिमुखे ह्यस्याः कथं रोमाञ्चसम्भवः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तदेतस्याः कुचस्पर्शात्सर्वं व्यक्तं भविष्यति
इति सञ्चिन्त्य मनसा कुचौ योनिं द्विजोऽस्पृशत् ॥ ३८ ॥
मूलम्
तदेतस्याः कुचस्पर्शात्सर्वं व्यक्तं भविष्यति
इति सञ्चिन्त्य मनसा कुचौ योनिं द्विजोऽस्पृशत् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सापि मूर्च्छितरूपेव मन्दस्मितमुखाभवत्
आलिलिङ्ग द्विजं गाढमाननं च चुचुम्ब ह ॥ ३९ ॥
मूलम्
सापि मूर्च्छितरूपेव मन्दस्मितमुखाभवत्
आलिलिङ्ग द्विजं गाढमाननं च चुचुम्ब ह ॥ ३९ ॥
विश्वास-प्रस्तुतिः
तयोरथ समायोगो वर्षाणां शतमप्यभूत्
गते वर्षशते पश्चादेकस्मिन्दिवसे द्विजः ॥ ४० ॥
मूलम्
तयोरथ समायोगो वर्षाणां शतमप्यभूत्
गते वर्षशते पश्चादेकस्मिन्दिवसे द्विजः ॥ ४० ॥
विश्वास-प्रस्तुतिः
स्नातुं ययौ नदीं प्रातः सापि विप्रप्रसङ्गतः
स्नानं तत्र तथा चक्रे पुराणं श्रुतवानथ ॥ ४१ ॥
मूलम्
स्नातुं ययौ नदीं प्रातः सापि विप्रप्रसङ्गतः
स्नानं तत्र तथा चक्रे पुराणं श्रुतवानथ ॥ ४१ ॥
विश्वास-प्रस्तुतिः
कौर्मं समस्तपापानां नाशनं शिवभक्तिदम्
इदं च पद्यं शुश्राव पुराणज्ञेन भाषितम् ॥ ४२ ॥
मूलम्
कौर्मं समस्तपापानां नाशनं शिवभक्तिदम्
इदं च पद्यं शुश्राव पुराणज्ञेन भाषितम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः
कौर्मं पुराणं श्रुत्वैव मुच्यते पातकात्ततः ॥ ४३ ॥
मूलम्
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः
कौर्मं पुराणं श्रुत्वैव मुच्यते पातकात्ततः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
श्रुत्वैतद्वचनं विप्रः पौराणिकमभाषत
मया कृतानां पापानां न च सङ्ख्यास्ति काचन ॥ ४४ ॥
मूलम्
श्रुत्वैतद्वचनं विप्रः पौराणिकमभाषत
मया कृतानां पापानां न च सङ्ख्यास्ति काचन ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अशेषपापसन्दोहनाशनं तदिहोच्यताम्
पौराणिक उवाच-
आराधय स्वदेवेशं शङ्करं त्रिदशेश्वरम् ॥ ४५ ॥
मूलम्
अशेषपापसन्दोहनाशनं तदिहोच्यताम्
पौराणिक उवाच-
आराधय स्वदेवेशं शङ्करं त्रिदशेश्वरम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तस्य सम्पूजनाद्विप्र सर्वं पापं विनश्यति
पापमेव तमः प्रोक्तं ज्ञानदीपेन नश्यति ॥ ४६ ॥
मूलम्
तस्य सम्पूजनाद्विप्र सर्वं पापं विनश्यति
पापमेव तमः प्रोक्तं ज्ञानदीपेन नश्यति ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अथवा पूजया विप्र समस्ताघविनाशनम्
ज्ञानपूजाविहीनानां नरके पतनं ध्रुवम् ॥ ४७ ॥
मूलम्
अथवा पूजया विप्र समस्ताघविनाशनम्
ज्ञानपूजाविहीनानां नरके पतनं ध्रुवम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
दधीच उवाच-
अथ द्विजो ह्यभिगतः शिवालयमनुत्तमम्
द्रोणपुष्पसहस्रेण पूजयामास शङ्करम् ॥ ४८ ॥
मूलम्
दधीच उवाच-
अथ द्विजो ह्यभिगतः शिवालयमनुत्तमम्
द्रोणपुष्पसहस्रेण पूजयामास शङ्करम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
गृहं जगाम च ततो भोजनं कृतवानथ
विहाय क्षत्रियां विप्रो जगामेष्टां भुवं ततः ॥ ४९ ॥
मूलम्
गृहं जगाम च ततो भोजनं कृतवानथ
विहाय क्षत्रियां विप्रो जगामेष्टां भुवं ततः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
हविष्यमन्नमादाय भुक्त्यशक्तेः शिवालयम्
गत्वा दीपस्थिताज्येन भोजनं कृतवान्बहिः ॥ ५० ॥
मूलम्
हविष्यमन्नमादाय भुक्त्यशक्तेः शिवालयम्
गत्वा दीपस्थिताज्येन भोजनं कृतवान्बहिः ॥ ५० ॥
विश्वास-प्रस्तुतिः
अथ मृत्युवशं प्राप्तो यमलोकं जगाम वै
यम उवाच-
त्वया कृतानां पापानां केषाञ्चिन्नाशनं पुरा ॥ ५१ ॥
मूलम्
अथ मृत्युवशं प्राप्तो यमलोकं जगाम वै
यम उवाच-
त्वया कृतानां पापानां केषाञ्चिन्नाशनं पुरा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
त्वयैकदिवसे पूजा शङ्करस्य यतः कृता
तव पापसहस्रं च प्रणष्टं भवतो द्विज ॥ ५२ ॥
मूलम्
त्वयैकदिवसे पूजा शङ्करस्य यतः कृता
तव पापसहस्रं च प्रणष्टं भवतो द्विज ॥ ५२ ॥
विश्वास-प्रस्तुतिः
स्थितानामपि पापानां फलं नरकपातनम्
वर्षकोटिद्वयं विप्र श्वानजन्मशतं पुनः ॥ ५३ ॥
मूलम्
स्थितानामपि पापानां फलं नरकपातनम्
वर्षकोटिद्वयं विप्र श्वानजन्मशतं पुनः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
शिवदीपाज्यहरणात्फलं नरकसेवनम्
नरके च स्थितिस्तस्य शतवर्षं सुभीषणम् ॥ ५४ ॥
मूलम्
शिवदीपाज्यहरणात्फलं नरकसेवनम्
नरके च स्थितिस्तस्य शतवर्षं सुभीषणम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
कुम्भीपाके च काष्ठत्वं भस्म भूत्वा पुनः पुनः
वर्षाणां दशकं त्वेवं कृमिभुक्तिः परं दश ॥ ५५ ॥
मूलम्
कुम्भीपाके च काष्ठत्वं भस्म भूत्वा पुनः पुनः
वर्षाणां दशकं त्वेवं कृमिभुक्तिः परं दश ॥ ५५ ॥
विश्वास-प्रस्तुतिः
पुनश्च दीपवर्तित्वं वर्षाणां च तथा दश
श्लेष्मामेध्यपुरीषेषु मूत्ररेतोह्रदेषु च ॥ ५६ ॥
मूलम्
पुनश्च दीपवर्तित्वं वर्षाणां च तथा दश
श्लेष्मामेध्यपुरीषेषु मूत्ररेतोह्रदेषु च ॥ ५६ ॥
विश्वास-प्रस्तुतिः
उन्मज्ज्य च निमज्ज्याथ श्लेष्मविण्मलभोजनम्
ततो नरकशेषेण श्वानजन्मशतं परम् ॥ ५७ ॥
मूलम्
उन्मज्ज्य च निमज्ज्याथ श्लेष्मविण्मलभोजनम्
ततो नरकशेषेण श्वानजन्मशतं परम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
यमवाक्यमिति श्रुत्वा ब्राह्मणो निपपात च
अथ तस्य प्रिया भार्या पतिचिन्तापराभवत् ॥ ५८ ॥
मूलम्
यमवाक्यमिति श्रुत्वा ब्राह्मणो निपपात च
अथ तस्य प्रिया भार्या पतिचिन्तापराभवत् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे तस्याः समीपं नारदोऽभ्यगात्
नारदस्य पपातासौ पादयोरतिदुःखिता ॥ ५९ ॥
मूलम्
एतस्मिन्नन्तरे तस्याः समीपं नारदोऽभ्यगात्
नारदस्य पपातासौ पादयोरतिदुःखिता ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तामुत्थाप्य मुनिः शुद्धां गतायुषमभाषत
अयि मुग्धे विशालाक्षि भर्तारं गन्तुमर्हसि ॥ ६० ॥
मूलम्
तामुत्थाप्य मुनिः शुद्धां गतायुषमभाषत
अयि मुग्धे विशालाक्षि भर्तारं गन्तुमर्हसि ॥ ६० ॥
विश्वास-प्रस्तुतिः
भर्ता ते हि विशालाक्षि मृतो बन्धुविवर्जितः
न रोदितव्यं ते भद्रे ज्वलनं प्रविशस्व भोः ॥ ६१ ॥
मूलम्
भर्ता ते हि विशालाक्षि मृतो बन्धुविवर्जितः
न रोदितव्यं ते भद्रे ज्वलनं प्रविशस्व भोः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण्युवाच-
अशक्यं यदि वा शक्यं मया गन्तुं मुने वद
अग्निप्रवेशकालो वै व्यतीतो न भवेद्यथा ॥ ६२ ॥
मूलम्
ब्राह्मण्युवाच-
अशक्यं यदि वा शक्यं मया गन्तुं मुने वद
अग्निप्रवेशकालो वै व्यतीतो न भवेद्यथा ॥ ६२ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
योजनानां शतं त्वेकमितः स्थानात्पुरं हितत्
श्वो दाहः किल विप्रस्य भविता गन्तुमर्हसि ॥ ६३ ॥
मूलम्
नारद उवाच-
योजनानां शतं त्वेकमितः स्थानात्पुरं हितत्
श्वो दाहः किल विप्रस्य भविता गन्तुमर्हसि ॥ ६३ ॥
विश्वास-प्रस्तुतिः
अव्ययोवाच-
दूरस्थितं कायनाथं गन्तुमर्हामि हे मुने
तद्वचस्तु समाकर्ण्य नारदस्तामभाषत ॥ ६४ ॥
मूलम्
अव्ययोवाच-
दूरस्थितं कायनाथं गन्तुमर्हामि हे मुने
तद्वचस्तु समाकर्ण्य नारदस्तामभाषत ॥ ६४ ॥
विश्वास-प्रस्तुतिः
विपञ्ची नालसंस्था त्वं भव गच्छाम्यहं क्षणात्
इत्युदीर्य तदा गत्वा त्वरां चक्रे गतं च तत् ॥ ६५ ॥
मूलम्
विपञ्ची नालसंस्था त्वं भव गच्छाम्यहं क्षणात्
इत्युदीर्य तदा गत्वा त्वरां चक्रे गतं च तत् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
देशं नष्टद्विजस्थानं तामुवाचाव्ययां मुनिः
रोदनं नेह कर्तव्यं यदि तत्राग्निमेष्यसि ॥ ६६ ॥
मूलम्
देशं नष्टद्विजस्थानं तामुवाचाव्ययां मुनिः
रोदनं नेह कर्तव्यं यदि तत्राग्निमेष्यसि ॥ ६६ ॥
विश्वास-प्रस्तुतिः
पापं यदि कृतं भद्रे परपूरुषसेवनम्
एतद्विशुद्धये पुत्रि प्रायश्चित्तं समाचर ॥ ६७ ॥
मूलम्
पापं यदि कृतं भद्रे परपूरुषसेवनम्
एतद्विशुद्धये पुत्रि प्रायश्चित्तं समाचर ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तवोपपातकव्रात नाशो वह्निप्रवेशनात्
नान्यत्पश्यामि नारीणां सर्वपापोपशान्तये ॥ ६८ ॥
मूलम्
तवोपपातकव्रात नाशो वह्निप्रवेशनात्
नान्यत्पश्यामि नारीणां सर्वपापोपशान्तये ॥ ६८ ॥
विश्वास-प्रस्तुतिः
अग्निप्रवेशं मुक्त्वैकं प्रायश्चित्तं जगत्त्रये
दधीच उवाच-
अथ नारदवाक्येन नोदिता सा वचोऽब्रवीत् ॥ ६९ ॥
मूलम्
अग्निप्रवेशं मुक्त्वैकं प्रायश्चित्तं जगत्त्रये
दधीच उवाच-
अथ नारदवाक्येन नोदिता सा वचोऽब्रवीत् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
अग्निप्रवेशे नारीणां किं कर्तव्यं महामुने
नारद उवाच-
स्नानं मङ्गलसंस्कारो भूषणाञ्जनधारणम् ॥ ७० ॥
मूलम्
अग्निप्रवेशे नारीणां किं कर्तव्यं महामुने
नारद उवाच-
स्नानं मङ्गलसंस्कारो भूषणाञ्जनधारणम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
गन्धपुष्पं तथा धूपं हरिद्राक्षतधारणम्
मङ्गलं च तथा सूत्रं पादालक्तकमेव च ॥ ७१ ॥
मूलम्
गन्धपुष्पं तथा धूपं हरिद्राक्षतधारणम्
मङ्गलं च तथा सूत्रं पादालक्तकमेव च ॥ ७१ ॥
विश्वास-प्रस्तुतिः
शक्त्या दानं प्रियोक्तिश्च प्रसन्नास्यत्वमेव च
नानामङ्गलवाद्यानां श्रवणं गीतकस्य च ॥ ७२ ॥
मूलम्
शक्त्या दानं प्रियोक्तिश्च प्रसन्नास्यत्वमेव च
नानामङ्गलवाद्यानां श्रवणं गीतकस्य च ॥ ७२ ॥
विश्वास-प्रस्तुतिः
व्यभिचारकृते पापे तत्पापस्य प्रशान्तये
अतीतं पातकं स्पृष्ट्वा प्रायश्चित्तं तदीरितम् ॥ ७३ ॥
मूलम्
व्यभिचारकृते पापे तत्पापस्य प्रशान्तये
अतीतं पातकं स्पृष्ट्वा प्रायश्चित्तं तदीरितम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
कुर्यादथ स्वकां भूषां विप्राय प्रतिपादयेत्
भूषाभावे स्वकीयेन प्रायश्चित्तं तु कारयेत् ॥ ७४ ॥
मूलम्
कुर्यादथ स्वकां भूषां विप्राय प्रतिपादयेत्
भूषाभावे स्वकीयेन प्रायश्चित्तं तु कारयेत् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
नान्यथा तस्य पापस्य नाशनं वेति कुत्रचित्
अव्ययोवाच-
सर्वमेतत्करिष्यामि हरिद्रा मे न विद्यते ॥ ७५ ॥
मूलम्
नान्यथा तस्य पापस्य नाशनं वेति कुत्रचित्
अव्ययोवाच-
सर्वमेतत्करिष्यामि हरिद्रा मे न विद्यते ॥ ७५ ॥
विश्वास-प्रस्तुतिः
भूषणं किमुत ब्रह्मन्सर्वमेतत्प्रदीयताम्
नारद उवाच-
न ह्यस्ति किञ्चित्सौभाग्यद्रव्यमन्यत्त्वपेक्षया ॥ ७६ ॥
मूलम्
भूषणं किमुत ब्रह्मन्सर्वमेतत्प्रदीयताम्
नारद उवाच-
न ह्यस्ति किञ्चित्सौभाग्यद्रव्यमन्यत्त्वपेक्षया ॥ ७६ ॥
विश्वास-प्रस्तुतिः
दधीच उवाच-
अथ क्षणेनाभ्यगमत्कैलासं शिवमन्दिरम्
गिरिजामथ दृष्ट्वासौ प्रणिपत्येदमब्रवीत् ॥ ७७ ॥
मूलम्
दधीच उवाच-
अथ क्षणेनाभ्यगमत्कैलासं शिवमन्दिरम्
गिरिजामथ दृष्ट्वासौ प्रणिपत्येदमब्रवीत् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
हरिद्रा दीयतां मातर्भूषणानि च सूत्रकम्
पार्वत्युवाच-
विधवायै मया किञ्चिद्भूषणं दीयतां कथम् ॥ ७८ ॥
मूलम्
हरिद्रा दीयतां मातर्भूषणानि च सूत्रकम्
पार्वत्युवाच-
विधवायै मया किञ्चिद्भूषणं दीयतां कथम् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
मया दत्ते हि तस्मिन्वै वैधव्यं नोपपद्यते
नारद उवाच-
मातर्न विधवा यावद्धवाङ्गं वर्तते स्त्रियः ॥ ७९ ॥
मूलम्
मया दत्ते हि तस्मिन्वै वैधव्यं नोपपद्यते
नारद उवाच-
मातर्न विधवा यावद्धवाङ्गं वर्तते स्त्रियः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
आदाहात्सूतकं नास्ति तिष्ठेत्सौभाग्यमुत्तमम्
पार्वत्युवाच-
न चान्यदेहो मद्भूषां हरिद्रां धर्तुमर्हति ॥ ८० ॥
मूलम्
आदाहात्सूतकं नास्ति तिष्ठेत्सौभाग्यमुत्तमम्
पार्वत्युवाच-
न चान्यदेहो मद्भूषां हरिद्रां धर्तुमर्हति ॥ ८० ॥
विश्वास-प्रस्तुतिः
भूषणादौ मया दत्ते चिरञ्जीवितमिष्यते
दीयते हि जयन्त्यैव सर्वमेतत्त्वयोदितम् ॥ ८१ ॥
मूलम्
भूषणादौ मया दत्ते चिरञ्जीवितमिष्यते
दीयते हि जयन्त्यैव सर्वमेतत्त्वयोदितम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
जयन्तीं स जगामाथ तया दत्तमथाहरत्
स्नपन्त्या अव्ययायास्तु हरिद्रां दत्तवान्मुनिः ॥ ८२ ॥
मूलम्
जयन्तीं स जगामाथ तया दत्तमथाहरत्
स्नपन्त्या अव्ययायास्तु हरिद्रां दत्तवान्मुनिः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
ततः स सूक्ष्मवसनभूषणानि मुनिर्ददौ
आह चैनां तवान्तेष्टिं कः करोति नियुङ्क्ष्व तम् ॥ ८३ ॥
मूलम्
ततः स सूक्ष्मवसनभूषणानि मुनिर्ददौ
आह चैनां तवान्तेष्टिं कः करोति नियुङ्क्ष्व तम् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
अव्ययोवाच-
त्वयैव मे समस्तानां क्रियाणां कारणं मुने
पितासि सर्वं कुर्वद्य नमस्ते मुनिसत्तम ॥ ८४ ॥
मूलम्
अव्ययोवाच-
त्वयैव मे समस्तानां क्रियाणां कारणं मुने
पितासि सर्वं कुर्वद्य नमस्ते मुनिसत्तम ॥ ८४ ॥
विश्वास-प्रस्तुतिः
दधीच उवाच-
अथ तं ब्राह्मणं दग्ध्वा नारदस्तामुवाच ह
अव्यये गच्छ दहनं प्रविश त्वं यदीच्छसि ॥ ८५ ॥
मूलम्
दधीच उवाच-
अथ तं ब्राह्मणं दग्ध्वा नारदस्तामुवाच ह
अव्यये गच्छ दहनं प्रविश त्वं यदीच्छसि ॥ ८५ ॥
विश्वास-प्रस्तुतिः
अथ सा भूषिता साध्वी त्रिःप्रदक्षिणपूर्वकम्
नारदं तु नमस्कृत्य गौराङ्गीमर्पयन्मनः ॥ ८६ ॥
मूलम्
अथ सा भूषिता साध्वी त्रिःप्रदक्षिणपूर्वकम्
नारदं तु नमस्कृत्य गौराङ्गीमर्पयन्मनः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
सुसूक्ष्मं मङ्गलंसूत्रं हरिद्रामक्षतांस्तथा
कुसुमानि च वासांसि कस्तूरीचन्दनं तथा ॥ ८७ ॥
मूलम्
सुसूक्ष्मं मङ्गलंसूत्रं हरिद्रामक्षतांस्तथा
कुसुमानि च वासांसि कस्तूरीचन्दनं तथा ॥ ८७ ॥
विश्वास-प्रस्तुतिः
सौवर्णकङ्कतिकां च फलानि विविधानि च
स्वदक्षिणादिवस्त्रान्तं स्पर्शयित्वा पृथक्पृथक् ॥ ८८ ॥
मूलम्
सौवर्णकङ्कतिकां च फलानि विविधानि च
स्वदक्षिणादिवस्त्रान्तं स्पर्शयित्वा पृथक्पृथक् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
पार्वतीप्रीतिकामा सा पुरन्ध्रीभ्योऽखिलं ददौ
ज्वालामालाभिराकाशं दहन्तमिव चानलम् ॥ ८९ ॥
मूलम्
पार्वतीप्रीतिकामा सा पुरन्ध्रीभ्योऽखिलं ददौ
ज्वालामालाभिराकाशं दहन्तमिव चानलम् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
त्रिःप्रदक्षिणमागत्य स्थित्वाग्नेः पुरतः सती
इदं प्राह तदा वाक्यं प्राञ्जलिः प्रहसन्मुखी ॥ ९० ॥
मूलम्
त्रिःप्रदक्षिणमागत्य स्थित्वाग्नेः पुरतः सती
इदं प्राह तदा वाक्यं प्राञ्जलिः प्रहसन्मुखी ॥ ९० ॥
विश्वास-प्रस्तुतिः
अव्ययोवाच-
इन्द्रादयो दिशाम्पाला मातर्मेदिनि भास्कर
धर्मादयः सुराः सर्वे शृणुध्वं मम भाषितम् ॥ ९१ ॥
मूलम्
अव्ययोवाच-
इन्द्रादयो दिशाम्पाला मातर्मेदिनि भास्कर
धर्मादयः सुराः सर्वे शृणुध्वं मम भाषितम् ॥ ९१ ॥
विश्वास-प्रस्तुतिः
पाणिपीडनमारभ्य चैतदन्तमहर्निशम्
वाङ्मनःकर्मभिर्भर्ता सेवितो यदि भक्तितः ॥ ९२ ॥
मूलम्
पाणिपीडनमारभ्य चैतदन्तमहर्निशम्
वाङ्मनःकर्मभिर्भर्ता सेवितो यदि भक्तितः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
व्यभिचारो यथा न स्यादवस्थात्रितये मम
तेन सत्येन मे पत्या सार्द्धं यानं प्रयच्छत ॥ ९३ ॥
मूलम्
व्यभिचारो यथा न स्यादवस्थात्रितये मम
तेन सत्येन मे पत्या सार्द्धं यानं प्रयच्छत ॥ ९३ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वाथ स्वहस्ताग्रपुष्पकं द्रुतमाक्षिपत्
प्रविष्टा ज्वलनं दीप्तमथापश्यद्विमानकम् ॥ ९४ ॥
मूलम्
इत्युक्त्वाथ स्वहस्ताग्रपुष्पकं द्रुतमाक्षिपत्
प्रविष्टा ज्वलनं दीप्तमथापश्यद्विमानकम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
सूर्येण सममुत्कृष्टमप्सरोगीतशोभितम्
आरुरोह विमानं सा भर्त्रा साकं दिवं ययौ ॥ ९५ ॥
मूलम्
सूर्येण सममुत्कृष्टमप्सरोगीतशोभितम्
आरुरोह विमानं सा भर्त्रा साकं दिवं ययौ ॥ ९५ ॥
विश्वास-प्रस्तुतिः
यमः प्राहाथ सम्पूज्य वनितां तां पतिव्रताम्
अक्षयः स्वर्ग एवेह न च पापं तवास्ति वै ॥ ९६ ॥
मूलम्
यमः प्राहाथ सम्पूज्य वनितां तां पतिव्रताम्
अक्षयः स्वर्ग एवेह न च पापं तवास्ति वै ॥ ९६ ॥
विश्वास-प्रस्तुतिः
कोटिद्वयसमास्तत्र नरके हन्त पातकम्
मृष्टमेव न सन्देहः किन्तु पातकमेव च ॥ ९७ ॥
मूलम्
कोटिद्वयसमास्तत्र नरके हन्त पातकम्
मृष्टमेव न सन्देहः किन्तु पातकमेव च ॥ ९७ ॥
विश्वास-प्रस्तुतिः
एकं शिवस्य दीपाज्यभक्षणेन समर्जितम्
न वापि नरके पातः श्वानजन्मशतं भवेत् ॥ ९८ ॥
मूलम्
एकं शिवस्य दीपाज्यभक्षणेन समर्जितम्
न वापि नरके पातः श्वानजन्मशतं भवेत् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
अव्ययोवाच-
अग्निप्रवेशशुद्धानां पुनश्च नरकः कथम्
अग्निप्रवेशात्सर्वेषां पापानां नाशनं भवेत् ॥ ९९ ॥
मूलम्
अव्ययोवाच-
अग्निप्रवेशशुद्धानां पुनश्च नरकः कथम्
अग्निप्रवेशात्सर्वेषां पापानां नाशनं भवेत् ॥ ९९ ॥
यम उवाच-
शिवद्रव्यापहारस्य पातकं नैव नश्यति
इत्थमाहपुरा शम्भुरन्येषां नाशनं भवेत् १००
अथ स श्वानतामाप्य शताब्दं स्यात्ततः परम्
दधीचमन्दिरं प्राप्तो मृत्योरास्य गतो हि सः १०१
तस्य भित्तिसमीपे तु भस्मास्ते ह्यभिमन्त्रितम्
भस्मनि श्वा पपाताथ ममार च गतो यमम् १०२
यमः सम्पूज्यावनतो भवान्पुण्यतमो मुनिः
मद्गेहे भवतः स्थानं न योग्यं गम्यतां बहिः १०३
अथ गत्वा बहिस्तस्थौ सारमेयो यमोदितः
सन्तापावस्थितं तं च नारदो दृष्टवानमुम् १०४
पप्रच्छ च किमर्थं त्वमिह तिष्ठसि दीप्तिमान्
शिवभस्मस्थितमृतं शैवं जाने महामते १०५
शैवानां पापिनां चापि साहसेन तनुत्यजाम्
यमलोको न चास्तीति शिवाज्ञा शिवनोदिता १०६
दधीच उवाच-
इत्थमाभाष्य तं श्वानं कैलासमगमन्मुनिः
दण्डवत्प्रणिपत्येशं व्यज्ञापयदथो हरम् १०७
देव कश्चिद्यमपुराद्बहिरास्ते स कुक्कुरः
भस्मन्येव मृतस्तद्वद्भवलोकं स चार्हति १०८
अथ मुख्यगणाविष्टो वीरभद्रः शिवेरितः
आनयामास तं श्वानं दिव्यरूपधरं तदा १०९
महेशपादप्रणतं देवायाथ व्यजिज्ञपत्
आह माहेश्वरो देवं गणमेनं कुरुष्व मे ११०
तथेति च शिवः प्राह गणः श्वानमुखोऽभवत्
दधीच उवाच-
अतुल्यं भस्ममाहात्म्यं मयोक्तं ते शुचिस्मिते १११
इतः परं हि किं भूयः श्रोतुमिच्छसि सुव्रते ११२
इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे विभूतिमाहात्म्ये षडुत्तरशततमोऽध्यायः १०६