१०५

मुनय ऊचुः -

विश्वास-प्रस्तुतिः

अतःपरं महाभागः किं चकार स राघवः
मुनयश्च महात्मानः किमकुर्वंस्ततः परम् ॥ १ ॥

मूलम्

अतःपरं महाभागः किं चकार स राघवः
मुनयश्च महात्मानः किमकुर्वंस्ततः परम् ॥ १ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
रामचन्द्रे सुखासीने विभीषणे कपीश्वरे
शम्भुमूचुर्मुनिवराः कथां पुण्यां वदस्व नः ॥ २ ॥

मूलम्

सूत उवाच-
रामचन्द्रे सुखासीने विभीषणे कपीश्वरे
शम्भुमूचुर्मुनिवराः कथां पुण्यां वदस्व नः ॥ २ ॥

विश्वास-प्रस्तुतिः

तेषामाकर्ण्य वचनं पार्वतीमाह शङ्करः
इदं कस्यापि विप्रस्य गृहं परमशोभनम् ॥ ३ ॥

मूलम्

तेषामाकर्ण्य वचनं पार्वतीमाह शङ्करः
इदं कस्यापि विप्रस्य गृहं परमशोभनम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

रम्योपवनवापीभिर्वीरुद्भिरुपशोभितम्
कूजन्मधुकरश्रेण्या आहूतकुसुमायुधम् ॥ ४ ॥

मूलम्

रम्योपवनवापीभिर्वीरुद्भिरुपशोभितम्
कूजन्मधुकरश्रेण्या आहूतकुसुमायुधम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

मध्याह्नसन्ध्यामारोढुमिव सूर्यः प्रवर्त्तते
छायावापीजलस्नातौ परिधाय सुवाससी ॥ ५ ॥

मूलम्

मध्याह्नसन्ध्यामारोढुमिव सूर्यः प्रवर्त्तते
छायावापीजलस्नातौ परिधाय सुवाससी ॥ ५ ॥

विश्वास-प्रस्तुतिः

मृगनाभिसमुद्घृष्टघनसारसुचन्दनम्
आलिप्य सल्लकीदामदृढधम्मिल्लसंयुतौ ॥ ६ ॥

मूलम्

मृगनाभिसमुद्घृष्टघनसारसुचन्दनम्
आलिप्य सल्लकीदामदृढधम्मिल्लसंयुतौ ॥ ६ ॥

विश्वास-प्रस्तुतिः

अनल्पघनसारं तु ताम्बूलं प्रतिखादितम्
आस्वाद्य माद्यन्मुदितौ यत्र धारागृहे शुभे ॥ ७ ॥

मूलम्

अनल्पघनसारं तु ताम्बूलं प्रतिखादितम्
आस्वाद्य माद्यन्मुदितौ यत्र धारागृहे शुभे ॥ ७ ॥

विश्वास-प्रस्तुतिः

मयूरनादबहुले बहिर्मधुरगीतकैः
शय्यायामास्तृतायां च परस्परसुखस्थितौ ॥ ८ ॥

मूलम्

मयूरनादबहुले बहिर्मधुरगीतकैः
शय्यायामास्तृतायां च परस्परसुखस्थितौ ॥ ८ ॥

विश्वास-प्रस्तुतिः

विशालस्मितरक्तोष्ठमाननं चुम्बितं यदि
संसारफलमाघ्रातमावयोस्तु भविष्यति ॥ ९ ॥

मूलम्

विशालस्मितरक्तोष्ठमाननं चुम्बितं यदि
संसारफलमाघ्रातमावयोस्तु भविष्यति ॥ ९ ॥

विश्वास-प्रस्तुतिः

इतीरितमथ श्रुत्वा कुपिता मुनयस्तु ते
उक्तं वा सुशुभं वाक्यमस्मासु किमिदं त्वया ॥ १० ॥

मूलम्

इतीरितमथ श्रुत्वा कुपिता मुनयस्तु ते
उक्तं वा सुशुभं वाक्यमस्मासु किमिदं त्वया ॥ १० ॥

विश्वास-प्रस्तुतिः

विप्रलापः प्रियासक्तेः कृतो नोस्मद्वचः कृतम्
अथ कोपपराच्छम्भोराननात्परमाद्भुता ॥ ११ ॥

मूलम्

विप्रलापः प्रियासक्तेः कृतो नोस्मद्वचः कृतम्
अथ कोपपराच्छम्भोराननात्परमाद्भुता ॥ ११ ॥

विश्वास-प्रस्तुतिः

ज्वाला विनिर्गता सापि करालवदनाभवत्
कस्यचित्तु मुनेर्भार्यामाससादाथ सत्वरम् ॥ १२ ॥

मूलम्

ज्वाला विनिर्गता सापि करालवदनाभवत्
कस्यचित्तु मुनेर्भार्यामाससादाथ सत्वरम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

पलायनपरा चासीद्रामं दृष्ट्वा च बिभ्यती
रामोऽपि ब्राह्मणीं शुद्धां मोचयामीत्यभाषत ॥ १३ ॥

मूलम्

पलायनपरा चासीद्रामं दृष्ट्वा च बिभ्यती
रामोऽपि ब्राह्मणीं शुद्धां मोचयामीत्यभाषत ॥ १३ ॥

विश्वास-प्रस्तुतिः

जगाम पुष्पकेणैव ब्रुवन्मुक्तिं पुनः पुनः
बाणं च धनुषा योक्तुं न च सस्मार राघवः ॥ १४ ॥

मूलम्

जगाम पुष्पकेणैव ब्रुवन्मुक्तिं पुनः पुनः
बाणं च धनुषा योक्तुं न च सस्मार राघवः ॥ १४ ॥

विश्वास-प्रस्तुतिः

शम्भुरप्यतिपुण्यानि वनान्यायतनानि च
पुराणि च विचित्राणि दृष्ट्वा रामं न चास्मरत् ॥ १५ ॥

मूलम्

शम्भुरप्यतिपुण्यानि वनान्यायतनानि च
पुराणि च विचित्राणि दृष्ट्वा रामं न चास्मरत् ॥ १५ ॥

विश्वास-प्रस्तुतिः

क्षणेन च तदा प्राप्तो लोकालोकं महागिरिम्
दृष्ट्वाथ राघवः शैलं गृहमार्गसमाकुलम् ॥ १६ ॥

मूलम्

क्षणेन च तदा प्राप्तो लोकालोकं महागिरिम्
दृष्ट्वाथ राघवः शैलं गृहमार्गसमाकुलम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

विप्रयोषिन्महाभागा क्व गता वदत द्विजाः
इतो गतेति ते प्रोचुस्तमोभागं गिरेरिति ॥ १७ ॥

मूलम्

विप्रयोषिन्महाभागा क्व गता वदत द्विजाः
इतो गतेति ते प्रोचुस्तमोभागं गिरेरिति ॥ १७ ॥

विश्वास-प्रस्तुतिः

रामो विवर्णवदनः कष्टमित्यभिचिन्तयन्
अथ शम्भुर्महातेजाः प्रकाशमतुलं ददौ ॥ १८ ॥

मूलम्

रामो विवर्णवदनः कष्टमित्यभिचिन्तयन्
अथ शम्भुर्महातेजाः प्रकाशमतुलं ददौ ॥ १८ ॥

विश्वास-प्रस्तुतिः

तत्प्रकाशप्रभावेण रामः कृत्यां ययावनु
तमोमयी महाभूमिः सर्वजन्तुविवर्जिता ॥ १९ ॥

मूलम्

तत्प्रकाशप्रभावेण रामः कृत्यां ययावनु
तमोमयी महाभूमिः सर्वजन्तुविवर्जिता ॥ १९ ॥

विश्वास-प्रस्तुतिः

आब्रह्माण्डकटाहान्ता शतयोजनकोटितः
महारजतभूमिश्च तमोमध्ये व्यवस्थिता ॥ २० ॥

मूलम्

आब्रह्माण्डकटाहान्ता शतयोजनकोटितः
महारजतभूमिश्च तमोमध्ये व्यवस्थिता ॥ २० ॥

विश्वास-प्रस्तुतिः

तत्र नारायणपुरं सूर्यकोटिसमप्रभम्
स राम मुनिवर्यास्तु तं दृष्ट्वा विस्मयं ययुः ॥ २१ ॥

मूलम्

तत्र नारायणपुरं सूर्यकोटिसमप्रभम्
स राम मुनिवर्यास्तु तं दृष्ट्वा विस्मयं ययुः ॥ २१ ॥

विश्वास-प्रस्तुतिः

किमेतदिति चाचिन्त्य नः प्रवेशः कथं भवेत्
किमेष प्रलयाग्निः स्यान्मायया परमात्मनः ॥ २२ ॥

मूलम्

किमेतदिति चाचिन्त्य नः प्रवेशः कथं भवेत्
किमेष प्रलयाग्निः स्यान्मायया परमात्मनः ॥ २२ ॥

विश्वास-प्रस्तुतिः

किंवा नो मरणं त्वद्य उत श्रेयो भविष्यति
इति चिन्ताकुलेष्वेव स रामेषु मुनिष्वथ ॥ २३ ॥

मूलम्

किंवा नो मरणं त्वद्य उत श्रेयो भविष्यति
इति चिन्ताकुलेष्वेव स रामेषु मुनिष्वथ ॥ २३ ॥

विश्वास-प्रस्तुतिः

शम्भुराह शृणुष्वाद्य राघवैतद्वदामि ते
प्रकल्पिता मया माया त्वत्कृते नैतदद्भुतम् ॥ २४ ॥

मूलम्

शम्भुराह शृणुष्वाद्य राघवैतद्वदामि ते
प्रकल्पिता मया माया त्वत्कृते नैतदद्भुतम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

नारायणीयमेतत्तु परमं धाम भास्वरम्
उष्णशीताद्यविच्छेद्यं ज्ञानगम्यं न चाक्षुषम् ॥ २५ ॥

मूलम्

नारायणीयमेतत्तु परमं धाम भास्वरम्
उष्णशीताद्यविच्छेद्यं ज्ञानगम्यं न चाक्षुषम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

तत्तु पूजयतश्चोर्ध्वं पश्य ब्रह्मपुरोगमान्
दिक्षु सर्वासु च मुनीन्पश्य पूजयतोऽमलान् ॥ २६ ॥

मूलम्

तत्तु पूजयतश्चोर्ध्वं पश्य ब्रह्मपुरोगमान्
दिक्षु सर्वासु च मुनीन्पश्य पूजयतोऽमलान् ॥ २६ ॥

विश्वास-प्रस्तुतिः

चतुरो निगमान्पश्य स्तुवतः परमं पदम्
योगिनः सनकाद्यास्तु योगमास्थाय यत्नतः ॥ २७ ॥

मूलम्

चतुरो निगमान्पश्य स्तुवतः परमं पदम्
योगिनः सनकाद्यास्तु योगमास्थाय यत्नतः ॥ २७ ॥

विश्वास-प्रस्तुतिः

ध्यायन्ति परमं तेजस्तदिदं पश्य राघव
अमुं च रोमशं पश्य प्रदक्षिणनमस्क्रियाः ॥ २८ ॥

मूलम्

ध्यायन्ति परमं तेजस्तदिदं पश्य राघव
अमुं च रोमशं पश्य प्रदक्षिणनमस्क्रियाः ॥ २८ ॥

विश्वास-प्रस्तुतिः

कुर्वाणं कोटिकोटीश्च वालखिल्यान्मुनीश्वरान्
लक्ष्म्यादिसर्ववनिता पूज्यमानं परं पदम् ॥ २९ ॥

मूलम्

कुर्वाणं कोटिकोटीश्च वालखिल्यान्मुनीश्वरान्
लक्ष्म्यादिसर्ववनिता पूज्यमानं परं पदम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

साकारं च निराकारं ब्रह्म यत्परिकीर्तितम्
अज्ञानिनो न पश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ ३० ॥

मूलम्

साकारं च निराकारं ब्रह्म यत्परिकीर्तितम्
अज्ञानिनो न पश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ ३० ॥

विश्वास-प्रस्तुतिः

शम्भुवाक्यादतः सर्वे पूजयामासुरच्युतम्
गिरिकर्णीं च तुलसीं मल्लिकां मारुतं तथा ॥ ३१ ॥

मूलम्

शम्भुवाक्यादतः सर्वे पूजयामासुरच्युतम्
गिरिकर्णीं च तुलसीं मल्लिकां मारुतं तथा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

नीलोत्पलैरम्बुजैश्च कृष्णास्फुटजलैरपि
पूजयन्तो महात्मानो महात्मानं जनार्दनम् ॥ ३२ ॥

मूलम्

नीलोत्पलैरम्बुजैश्च कृष्णास्फुटजलैरपि
पूजयन्तो महात्मानो महात्मानं जनार्दनम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

नारदं खेऽथ ददृशुर्जटिलं सविपञ्चिकम्
नारायणपदाघोषं लम्बकूर्चोपवीतिनम् ॥ ३३ ॥

मूलम्

नारदं खेऽथ ददृशुर्जटिलं सविपञ्चिकम्
नारायणपदाघोषं लम्बकूर्चोपवीतिनम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

स चापि मनसा दध्यौ क एष इति नारदः
स पपात प्रभोः पादे शम्भोरानन्दनिर्भरः ॥ ३४ ॥

मूलम्

स चापि मनसा दध्यौ क एष इति नारदः
स पपात प्रभोः पादे शम्भोरानन्दनिर्भरः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

शैवीं पञ्चाक्षरीं विद्यां जजाप मनसा मुनिः
धन्योऽस्म्यनुगृहीतोऽस्मि जन्माद्यसफलं मम ॥ ३५ ॥

मूलम्

शैवीं पञ्चाक्षरीं विद्यां जजाप मनसा मुनिः
धन्योऽस्म्यनुगृहीतोऽस्मि जन्माद्यसफलं मम ॥ ३५ ॥

विश्वास-प्रस्तुतिः

ब्रह्मादिवन्द्यं चागम्यं ज्ञातवानस्मि ते पदम्
नारदं तमथ प्राह शम्भुर्मैवं वदेति हि ॥ ३६ ॥

मूलम्

ब्रह्मादिवन्द्यं चागम्यं ज्ञातवानस्मि ते पदम्
नारदं तमथ प्राह शम्भुर्मैवं वदेति हि ॥ ३६ ॥

विश्वास-प्रस्तुतिः

यथा च मां न जानन्ति तथा मे कुरु वर्तनम्
गच्छ शीघ्रं हरिं ब्रूहि ममागमनमल्पतः ॥ ३७ ॥

मूलम्

यथा च मां न जानन्ति तथा मे कुरु वर्तनम्
गच्छ शीघ्रं हरिं ब्रूहि ममागमनमल्पतः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

अथ स त्वरया गत्वा सर्वं व्यज्ञापयद्धरिम्
अथ सत्वरया विष्णोरादायार्घोदकं शुभम् ॥ ३८ ॥

मूलम्

अथ स त्वरया गत्वा सर्वं व्यज्ञापयद्धरिम्
अथ सत्वरया विष्णोरादायार्घोदकं शुभम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

कमलासहितो योगी कोटिकोटिसमावृतः
निर्ययौ नारदं हस्ते गृहीत्वा गरुडध्वजः ॥ ३९ ॥

मूलम्

कमलासहितो योगी कोटिकोटिसमावृतः
निर्ययौ नारदं हस्ते गृहीत्वा गरुडध्वजः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

नमोनमो नमोस्त्वस्मै शङ्करायेत्युदीरयन्
अर्घपाद्यादिना सर्वान्पूजयामास केशवः ॥ ४० ॥

मूलम्

नमोनमो नमोस्त्वस्मै शङ्करायेत्युदीरयन्
अर्घपाद्यादिना सर्वान्पूजयामास केशवः ॥ ४० ॥

विश्वास-प्रस्तुतिः

प्रावेशयदमेयात्मा नारायणपुरं शुभम्
गृहराजे ततः स्थित्वा नारायण उवाच ह ॥ ४१ ॥

मूलम्

प्रावेशयदमेयात्मा नारायणपुरं शुभम्
गृहराजे ततः स्थित्वा नारायण उवाच ह ॥ ४१ ॥

विश्वास-प्रस्तुतिः

कथमेते समायाताः कोऽयं राजा महायशाः
अमानुषप्रवेशोऽयं ब्रह्माद्यैरप्यगोचरः ॥ ४२ ॥

मूलम्

कथमेते समायाताः कोऽयं राजा महायशाः
अमानुषप्रवेशोऽयं ब्रह्माद्यैरप्यगोचरः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

शम्भुरुवाच-
मुनिवेषा यथा प्राप्ता वयमेते नृपस्तथा
तवांशो नृपतिश्चायं रामचन्द्रः प्रतापवान् ॥ ४३ ॥

मूलम्

शम्भुरुवाच-
मुनिवेषा यथा प्राप्ता वयमेते नृपस्तथा
तवांशो नृपतिश्चायं रामचन्द्रः प्रतापवान् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

एनां संवीक्षितुं पत्नीं तव केशव काङ्क्षति
नारायणस्तथेत्युक्त्वा प्रविशेत्याह राघवम् ॥ ४४ ॥

मूलम्

एनां संवीक्षितुं पत्नीं तव केशव काङ्क्षति
नारायणस्तथेत्युक्त्वा प्रविशेत्याह राघवम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

अथ प्रविश्य भवनं लक्ष्मीं वीक्ष्य नमस्य च
विनयावनतो भूत्वा वाचमाह सुचारिणीम् ॥ ४५ ॥

मूलम्

अथ प्रविश्य भवनं लक्ष्मीं वीक्ष्य नमस्य च
विनयावनतो भूत्वा वाचमाह सुचारिणीम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

कृतार्थोऽस्मि न सन्देहो वद त्वं किं तु मन्यसे
श्रीदेव्युवाच-
त्वं युवा कामकृष्टश्च रूपवानसि राघव ॥ ४६ ॥

मूलम्

कृतार्थोऽस्मि न सन्देहो वद त्वं किं तु मन्यसे
श्रीदेव्युवाच-
त्वं युवा कामकृष्टश्च रूपवानसि राघव ॥ ४६ ॥

विश्वास-प्रस्तुतिः

सीता सा चारुसर्वाङ्गी तव पत्नी तया भवान्
वियुक्तोऽस्ति पुरा चासीदतीव विरहाकुलः ॥ ४७ ॥

मूलम्

सीता सा चारुसर्वाङ्गी तव पत्नी तया भवान्
वियुक्तोऽस्ति पुरा चासीदतीव विरहाकुलः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

ममापि वद सर्वं तदथवा न च लप्स्यसि
सहासान्यथ वाक्यानि यूनां चित्तहराणि च ॥ ४८ ॥

मूलम्

ममापि वद सर्वं तदथवा न च लप्स्यसि
सहासान्यथ वाक्यानि यूनां चित्तहराणि च ॥ ४८ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा तु तानि सर्वाणि रामभद्रो यतात्मवान्
निर्गन्तुं काङ्क्षते तत्र आनम्य तन्मुखाम्बुजम् ॥ ४९ ॥

मूलम्

श्रुत्वा तु तानि सर्वाणि रामभद्रो यतात्मवान्
निर्गन्तुं काङ्क्षते तत्र आनम्य तन्मुखाम्बुजम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

स्मरबाणेन पद्मेन सम्पीड्य रघुशेखरम्
अन्वेव निर्ययौ देवी पद्मा पद्मवनप्रिया ॥ ५० ॥

मूलम्

स्मरबाणेन पद्मेन सम्पीड्य रघुशेखरम्
अन्वेव निर्ययौ देवी पद्मा पद्मवनप्रिया ॥ ५० ॥

विश्वास-प्रस्तुतिः

एकपत्नीव्रतं ज्ञात्वा रामं ते समुपागमन्
अथवेपितसर्वाङ्गं स्खलत्पदगतिं नृपम् ॥ ५१ ॥

मूलम्

एकपत्नीव्रतं ज्ञात्वा रामं ते समुपागमन्
अथवेपितसर्वाङ्गं स्खलत्पदगतिं नृपम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

शिवनारायणौ दृष्ट्वा विस्मयं परमं गतौ
अहोऽस्य द्रढिमाचित्ते मायिनोऽप्य वशात्मनः ॥ ५२ ॥

मूलम्

शिवनारायणौ दृष्ट्वा विस्मयं परमं गतौ
अहोऽस्य द्रढिमाचित्ते मायिनोऽप्य वशात्मनः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

धैर्यं पश्येह नियतं तेन रामः सुकीर्तिमान्
सर्वतः शिवमेवास्य नाशिवं विद्यते क्वचित् ॥ ५३ ॥

मूलम्

धैर्यं पश्येह नियतं तेन रामः सुकीर्तिमान्
सर्वतः शिवमेवास्य नाशिवं विद्यते क्वचित् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

अथ रामो वचः प्राह गच्छेहं भगवन्प्रभो
अनुज्ञातोऽथ हरिणा पुष्पकेण स राघवः ॥ ५४ ॥

मूलम्

अथ रामो वचः प्राह गच्छेहं भगवन्प्रभो
अनुज्ञातोऽथ हरिणा पुष्पकेण स राघवः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

स मुनिः सहशम्भुश्च सहनारायणो ययौ
लोकालोकं गतः शीघ्रं ततः स्वादूदधिं गतः ॥ ५५ ॥

मूलम्

स मुनिः सहशम्भुश्च सहनारायणो ययौ
लोकालोकं गतः शीघ्रं ततः स्वादूदधिं गतः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

ततो द्वीपसमुद्रांश्च जम्बूद्वीपं पुनर्गतः
भरद्वाजाश्रमपदे तस्थिवान्गौतमीतटे ॥ ५६ ॥

मूलम्

ततो द्वीपसमुद्रांश्च जम्बूद्वीपं पुनर्गतः
भरद्वाजाश्रमपदे तस्थिवान्गौतमीतटे ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अथ स्नात्वा महानद्यां भरद्वाजो मुनीश्वरः
शिष्यैः श्रीमान्परिवृतः पुष्पकं दृष्टवान्मुनिः ॥ ५७ ॥

मूलम्

अथ स्नात्वा महानद्यां भरद्वाजो मुनीश्वरः
शिष्यैः श्रीमान्परिवृतः पुष्पकं दृष्टवान्मुनिः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

तत्र रामं महाबाहुं शिवनारायणावृषीन्
यथावत्पूजयित्वा तु तानुवाच महामुनिः ॥ ५८ ॥

मूलम्

तत्र रामं महाबाहुं शिवनारायणावृषीन्
यथावत्पूजयित्वा तु तानुवाच महामुनिः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

ममाश्रमपदे यूयं भोक्तुमर्हथ सत्तमाः
रामस्तु मन्वाक्येन तथेत्याह कथञ्चन ॥ ५९ ॥

मूलम्

ममाश्रमपदे यूयं भोक्तुमर्हथ सत्तमाः
रामस्तु मन्वाक्येन तथेत्याह कथञ्चन ॥ ५९ ॥

विश्वास-प्रस्तुतिः

अथ स्नात्वा महानद्यां कृत्वा देवादितर्पणम्
भोक्तुकामं तदा रामं वसिष्ठो वाक्यमुक्तवान् ॥ ६० ॥

मूलम्

अथ स्नात्वा महानद्यां कृत्वा देवादितर्पणम्
भोक्तुकामं तदा रामं वसिष्ठो वाक्यमुक्तवान् ॥ ६० ॥

विश्वास-प्रस्तुतिः

धर्मत्यागो भवेद्राम न श्राद्धं क्रियते यदि
श्रीराम उवाच-
अमायां ग्रहणे तीर्थे व्यतीपातेऽथ सङ्क्रमे ॥ ६१ ॥

मूलम्

धर्मत्यागो भवेद्राम न श्राद्धं क्रियते यदि
श्रीराम उवाच-
अमायां ग्रहणे तीर्थे व्यतीपातेऽथ सङ्क्रमे ॥ ६१ ॥

विश्वास-प्रस्तुतिः

व्यतीतं यदि चेच्छ्राद्धं भगवन्क्रियते पुनः
नित्यश्राद्धं पुनर्नैव कुर्यादिति वचस्तव ॥ ६२ ॥

मूलम्

व्यतीतं यदि चेच्छ्राद्धं भगवन्क्रियते पुनः
नित्यश्राद्धं पुनर्नैव कुर्यादिति वचस्तव ॥ ६२ ॥

विश्वास-प्रस्तुतिः

यथा ममैव मातॄणां मरणे समुपस्थिते
अशौचे च समायाते नित्यश्राद्धं न वै कृतम् ॥ ६३ ॥

मूलम्

यथा ममैव मातॄणां मरणे समुपस्थिते
अशौचे च समायाते नित्यश्राद्धं न वै कृतम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

व्यतीपातादिकालेषु कृतं तु वचनात्तव
वसिष्ठ उवाच-
एते हि मुनयः सर्वे तथा शम्भुरयं द्विजः ॥ ६४ ॥

मूलम्

व्यतीपातादिकालेषु कृतं तु वचनात्तव
वसिष्ठ उवाच-
एते हि मुनयः सर्वे तथा शम्भुरयं द्विजः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

एतन्मुखादशेषेण निर्णयस्तु भविष्यति
सह सर्वे विनिश्चित्य मुनयः शम्भुमब्रुवन् ॥ ६५ ॥

मूलम्

एतन्मुखादशेषेण निर्णयस्तु भविष्यति
सह सर्वे विनिश्चित्य मुनयः शम्भुमब्रुवन् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

वदास्माकमशेषं त्वं द्विजवर्य महानसि
शम्भुरुवाच-
त्यक्तव्यं यच्च वै श्राद्धं पुनः कर्तव्यमेव च ॥ ६६ ॥

मूलम्

वदास्माकमशेषं त्वं द्विजवर्य महानसि
शम्भुरुवाच-
त्यक्तव्यं यच्च वै श्राद्धं पुनः कर्तव्यमेव च ॥ ६६ ॥

विश्वास-प्रस्तुतिः

सूतके समनुप्राप्ते विघ्नेषु च वदाम्यहम्
मासिकान्युदकुम्भानि श्राद्धानि सकलानिच ॥ ६७ ॥

मूलम्

सूतके समनुप्राप्ते विघ्नेषु च वदाम्यहम्
मासिकान्युदकुम्भानि श्राद्धानि सकलानिच ॥ ६७ ॥

विश्वास-प्रस्तुतिः

प्रतिसांवत्सरं श्राद्धं सूतकानन्तरं विदुः
त्यक्तान्यन्यानि यावन्ति सूतके विघ्नसम्भवे ॥ ६८ ॥

मूलम्

प्रतिसांवत्सरं श्राद्धं सूतकानन्तरं विदुः
त्यक्तान्यन्यानि यावन्ति सूतके विघ्नसम्भवे ॥ ६८ ॥

विश्वास-प्रस्तुतिः

अनन्तरं हि कार्याणि सर्वाणीति न संशयः
मासिकानि समस्तानि श्राद्धं प्रात्यब्दिकं तथा ॥ ६९ ॥

मूलम्

अनन्तरं हि कार्याणि सर्वाणीति न संशयः
मासिकानि समस्तानि श्राद्धं प्रात्यब्दिकं तथा ॥ ६९ ॥

विश्वास-प्रस्तुतिः

सूतकानन्तरं कार्यं विघ्नेऽन्यस्मिन्यतोन्यथा
एकादश्यां कृष्णपक्षे कर्तव्यं शुभमिच्छता ॥ ७० ॥

मूलम्

सूतकानन्तरं कार्यं विघ्नेऽन्यस्मिन्यतोन्यथा
एकादश्यां कृष्णपक्षे कर्तव्यं शुभमिच्छता ॥ ७० ॥

विश्वास-प्रस्तुतिः

तत्र व्यतिक्रमे हेतावमायां क्रियते तु तत्
यथोत्तरदिनेष्वेव कर्तव्यं यद्यविघ्नतः ॥ ७१ ॥

मूलम्

तत्र व्यतिक्रमे हेतावमायां क्रियते तु तत्
यथोत्तरदिनेष्वेव कर्तव्यं यद्यविघ्नतः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

कृष्णपक्षे त्वमायां तु कर्तव्यं राम नो कृतम्
मृताहस्य यदा मासो न ज्ञायेत कथञ्चन ॥ ७२ ॥

मूलम्

कृष्णपक्षे त्वमायां तु कर्तव्यं राम नो कृतम्
मृताहस्य यदा मासो न ज्ञायेत कथञ्चन ॥ ७२ ॥

विश्वास-प्रस्तुतिः

मार्गशीर्षेऽथवा माघे श्राद्धं तद्दिवसे स्मृतम्
यदा तु वासराज्ञानं मासस्य ज्ञानमेव च ॥ ७३ ॥

मूलम्

मार्गशीर्षेऽथवा माघे श्राद्धं तद्दिवसे स्मृतम्
यदा तु वासराज्ञानं मासस्य ज्ञानमेव च ॥ ७३ ॥

विश्वास-प्रस्तुतिः

अमायामेव तन्मासे श्राद्धं सांवत्सरं भवेत्
दिनमासापरिज्ञाने प्रोषितस्य मृतस्य च ॥ ७४ ॥

मूलम्

अमायामेव तन्मासे श्राद्धं सांवत्सरं भवेत्
दिनमासापरिज्ञाने प्रोषितस्य मृतस्य च ॥ ७४ ॥

विश्वास-प्रस्तुतिः

तत्तिथ्यां तद्दिनं ग्राह्यं तत्र ज्ञानं यदा भवेत्
आश्विनामा च मार्गामा माघामा च दिनत्रयम् ॥ ७५ ॥

मूलम्

तत्तिथ्यां तद्दिनं ग्राह्यं तत्र ज्ञानं यदा भवेत्
आश्विनामा च मार्गामा माघामा च दिनत्रयम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

तत्र वान्यतमं ग्राह्यं दिनमासाप्रतीतितः
वृद्धिसप्तमसीमन्त प्रेतश्राद्धानुमासिकम् ॥ ७६ ॥

मूलम्

तत्र वान्यतमं ग्राह्यं दिनमासाप्रतीतितः
वृद्धिसप्तमसीमन्त प्रेतश्राद्धानुमासिकम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

नित्योदकुम्भश्राद्धं च मासे स्युरधिकेऽपि च
ग्रहणे पुत्रजन्मादौ कर्मण्यपि च शान्तिके ॥ ७७ ॥

मूलम्

नित्योदकुम्भश्राद्धं च मासे स्युरधिकेऽपि च
ग्रहणे पुत्रजन्मादौ कर्मण्यपि च शान्तिके ॥ ७७ ॥

विश्वास-प्रस्तुतिः

सङ्कल्पिते च सर्वस्मिन्नधिमासो न दुष्यति
रोगी यदा मनुष्यः स्याच्छ्राद्धकर्मण्युपस्थिते ॥ ७८ ॥

मूलम्

सङ्कल्पिते च सर्वस्मिन्नधिमासो न दुष्यति
रोगी यदा मनुष्यः स्याच्छ्राद्धकर्मण्युपस्थिते ॥ ७८ ॥

विश्वास-प्रस्तुतिः

भार्यां वा भ्रातरं वापि शिष्यं वापि नियोजयेत्
तस्याभावे न हानिः स्यात्कर्मणः श्राद्धसञ्ज्ञिनः ॥ ७९ ॥

मूलम्

भार्यां वा भ्रातरं वापि शिष्यं वापि नियोजयेत्
तस्याभावे न हानिः स्यात्कर्मणः श्राद्धसञ्ज्ञिनः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

नित्यश्राद्धे यथाशक्ति भोक्तारं तु नियोजयेत्
अमावास्या मासिकं च मृताह व्यतिरेकि यत् ॥ ८० ॥

मूलम्

नित्यश्राद्धे यथाशक्ति भोक्तारं तु नियोजयेत्
अमावास्या मासिकं च मृताह व्यतिरेकि यत् ॥ ८० ॥

विश्वास-प्रस्तुतिः

स्वयं कर्मण्यशक्तश्चेत्सुतं विप्रं नियोजयेत्
राजकार्यनियुक्तस्य दासग्रहणवर्तिनः ॥ ८१ ॥

मूलम्

स्वयं कर्मण्यशक्तश्चेत्सुतं विप्रं नियोजयेत्
राजकार्यनियुक्तस्य दासग्रहणवर्तिनः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

व्यसनेषु समस्तेषु श्राद्धं विप्रेण कारयेत्
प्रातःकाले तु न श्राद्धं प्रकुर्वन्ति द्विजोत्तमाः ॥ ८२ ॥

मूलम्

व्यसनेषु समस्तेषु श्राद्धं विप्रेण कारयेत्
प्रातःकाले तु न श्राद्धं प्रकुर्वन्ति द्विजोत्तमाः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

नैमित्तिकेषु श्राद्धेषु न कालनियमः स्मृतः ॥ ८३ ॥

मूलम्

नैमित्तिकेषु श्राद्धेषु न कालनियमः स्मृतः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

गृहादिव्यतिरिक्तस्य प्रक्रमः कुतुपः स्मृतः
कुतुपादथवाप्यर्वागासन्नकुतुपो भवेत् ॥ ८४ ॥

मूलम्

गृहादिव्यतिरिक्तस्य प्रक्रमः कुतुपः स्मृतः
कुतुपादथवाप्यर्वागासन्नकुतुपो भवेत् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

मासेमासे यथाश्राद्धेऽपराह्णस्पृग्विधीयते
अपराह्णव्यापिनी स्यादुभयत्र यदा त्वमा ॥ ८५ ॥

मूलम्

मासेमासे यथाश्राद्धेऽपराह्णस्पृग्विधीयते
अपराह्णव्यापिनी स्यादुभयत्र यदा त्वमा ॥ ८५ ॥

विश्वास-प्रस्तुतिः

क्षये पूर्वा तु कर्तव्या वृद्धौ साम्ये परा स्मृता
अमावास्या तु या हि स्यादपराह्णद्वये समा ॥ ८६ ॥

मूलम्

क्षये पूर्वा तु कर्तव्या वृद्धौ साम्ये परा स्मृता
अमावास्या तु या हि स्यादपराह्णद्वये समा ॥ ८६ ॥

विश्वास-प्रस्तुतिः

क्षये पूर्वा परा वृद्धौ साम्येऽपि च परा भवेत्
क्षीणस्तु चन्द्रमा यत्र तत्र श्राद्धं तु पार्वणम् ॥ ८७ ॥

मूलम्

क्षये पूर्वा परा वृद्धौ साम्येऽपि च परा भवेत्
क्षीणस्तु चन्द्रमा यत्र तत्र श्राद्धं तु पार्वणम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

अमाष्टभागे सूक्ष्मोऽसौ भूताष्टांशे स नास्ति चेत्
मध्याह्नव्यापिनी सा स्यादेकोद्दिष्टे तिथिर्भवेत् ॥ ८८ ॥

मूलम्

अमाष्टभागे सूक्ष्मोऽसौ भूताष्टांशे स नास्ति चेत्
मध्याह्नव्यापिनी सा स्यादेकोद्दिष्टे तिथिर्भवेत् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

सायाह्नव्यापिनी या स्यात्पार्वणे सा तिथिर्भवेत्
अल्पापराह्णगा यामा ग्राह्या श्राद्धादिके भवेत् ॥ ८९ ॥

मूलम्

सायाह्नव्यापिनी या स्यात्पार्वणे सा तिथिर्भवेत्
अल्पापराह्णगा यामा ग्राह्या श्राद्धादिके भवेत् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

मृताहे त्रिमुहूर्ता च सायङ्काले तिथिर्भवेत्
परेह्यस्तङ्गता यत्र त्रिमुहूर्तं तु पूर्ववत् ॥ ९० ॥

मूलम्

मृताहे त्रिमुहूर्ता च सायङ्काले तिथिर्भवेत्
परेह्यस्तङ्गता यत्र त्रिमुहूर्तं तु पूर्ववत् ॥ ९० ॥

विश्वास-प्रस्तुतिः

तत्रापरेद्युः श्राद्धं स्याज्ज्येष्ठपुत्रस्य नाशनम्
अमाश्राद्धं यथा कुर्यान्मृताहे समुपस्थिते ॥ ९१ ॥

मूलम्

तत्रापरेद्युः श्राद्धं स्याज्ज्येष्ठपुत्रस्य नाशनम्
अमाश्राद्धं यथा कुर्यान्मृताहे समुपस्थिते ॥ ९१ ॥

विश्वास-प्रस्तुतिः

मध्याह्नव्यापिनी तत्र ह्य द्विजस्य विधीयते
राम उवाच-
श्राद्धक्रममशेषेण मर्त्यकर्मक्रमं तथा ॥ ९२ ॥

मूलम्

मध्याह्नव्यापिनी तत्र ह्य द्विजस्य विधीयते
राम उवाच-
श्राद्धक्रममशेषेण मर्त्यकर्मक्रमं तथा ॥ ९२ ॥

विश्वास-प्रस्तुतिः

प्रासङ्गिकानां धर्माणां निर्णयं वक्तुमर्हसि
शम्भुरुवाच-
श्राद्धस्य दिवसे प्राप्ते पूर्वेद्युर्नियमान्वितः ॥ ९३ ॥

मूलम्

प्रासङ्गिकानां धर्माणां निर्णयं वक्तुमर्हसि
शम्भुरुवाच-
श्राद्धस्य दिवसे प्राप्ते पूर्वेद्युर्नियमान्वितः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

निमन्त्रयीत विप्रेन्द्रान्विप्रलक्षणसंयुतान्
एकभुक्तं ब्रह्मचर्यमन्त्यजाद्यैरभाषणम् ॥ ९४ ॥

मूलम्

निमन्त्रयीत विप्रेन्द्रान्विप्रलक्षणसंयुतान्
एकभुक्तं ब्रह्मचर्यमन्त्यजाद्यैरभाषणम् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

दन्तधावनमभ्यङ्ग नखकेशनिकृन्तनम्
कर्ता कुर्वीत पूर्वेद्युस्त्यक्त्वा चैव परेऽहनि ॥ ९५ ॥

मूलम्

दन्तधावनमभ्यङ्ग नखकेशनिकृन्तनम्
कर्ता कुर्वीत पूर्वेद्युस्त्यक्त्वा चैव परेऽहनि ॥ ९५ ॥

विश्वास-प्रस्तुतिः

गृह्णीतनियमानुक्तान्सर्वमेतत्परित्यजेत्
त्रिकालं चैव पूजा चेत्प्रातर्देवं यजेत्स्वकम् ॥ ९६ ॥

मूलम्

गृह्णीतनियमानुक्तान्सर्वमेतत्परित्यजेत्
त्रिकालं चैव पूजा चेत्प्रातर्देवं यजेत्स्वकम् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

अरुणोदयवेलायां करोति यदि पूजनम्
अधःशायी तथा भूतः प्रातरुत्थाय कर्मवित् ॥ ९७ ॥

मूलम्

अरुणोदयवेलायां करोति यदि पूजनम्
अधःशायी तथा भूतः प्रातरुत्थाय कर्मवित् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

प्रातस्त्यमपि यत्कर्म तत्कृत्वा स्नानपूर्वकम्
ऋणत्रयविनिर्मुक्तो यास्यति ब्रह्मतत्परम् ॥ ९८ ॥

मूलम्

प्रातस्त्यमपि यत्कर्म तत्कृत्वा स्नानपूर्वकम्
ऋणत्रयविनिर्मुक्तो यास्यति ब्रह्मतत्परम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

सूर्यस्योदयवेलायां शिवपूजां करोति यः
सूर्येणसम तेजस्वी शिवलोके महीयते ॥ ९९ ॥

मूलम्

सूर्यस्योदयवेलायां शिवपूजां करोति यः
सूर्येणसम तेजस्वी शिवलोके महीयते ॥ ९९ ॥

उदिते भास्करे पश्चाद्धटिकान्तरपूजनम्
रुद्रेणसम तेजस्वी शिवलोके महीयते १००
तृतीयघटिकायां तु शिवपूजां समाचरेत्
कुबेरसम तेजस्वी शिवलोके महीयते १०१
तृतीयघटिकायां तु शिवपूजां समाचरेत्
कुबेरसम तेजस्वी शिवलोके महीयते १०२
चतुर्थीपञ्चमीषष्ठीसप्तमी घटिकासु यः
शिवं पूजयते भक्त्या शिवलोके मरुत्समः १०३
तत्काल एव क्रियते पूजा यत्कालनोदिता
यथा प्रतिज्ञमथवा गृहीत नियमो यजेत् १०४
उपचारेषु शक्त्या वै नियमं परिपालयेत्
नियमातिक्रमे वापि यागश्च स्याद्विभोर्यदि १०५
श्रीराम उवाच-
क्व पूजा देवदेवस्य शङ्करस्यामितौजसः
स्मरणात्पापनाशस्य स्मरणान्मोक्षदस्य च १०६
शिवस्य शिवरूपस्य शिवतत्त्वार्थवेदिनः
सोमस्य सोमभूषस्य सोमनेत्रस्य राजितुः १०७
वेदमूर्तेरमूर्तेश्च वेदसारस्य वेदिनः
वेदवेदाङ्गवित्तस्य वेद्यावेद्यस्य योगिनः १०८
गोक्षीरसमदेहस्य गोक्षीरस्नानमोदिनः
गोपालिनस्त्रिनेत्रस्य त्रयीनेत्रस्य मायिनः १०९
प्रश्नमध्ये तथा रामं शिवज्ञानमथादिशत्
स्थाणुभूतइवासीनो नासाग्रन्यस्तलोचनः ११०
आनन्दनिष्यन्दविलोचनाश्रु प्रवाहसंस्पृष्टकपोलदेशः
दधार देवं गिरिशं हृदम्बुजे गोक्षीरसुस्निग्धसुचारुगात्रम् १११
प्रतिबिम्बमथो गात्रे रामस्य समदृश्यत
दृष्ट्वैव बिम्बितं शम्भुं चतुर्बाहुं त्रिलोचनम् ११२
विस्मयं परमं याताः सर्वे मुनिहरीश्वराः
शम्भोर्वक्षःस्थितं रामं दृष्ट्वा दीप्ताकृतिं शुभम् ११३
तूष्णीं बभूवुर्यामार्द्धमथ राममुदैक्षत
स्वप्रश्नमनुसन्धाय प्राह सर्वं वदेति च ११४
शम्भुरुवाच-
अचले या सदा पूजा चले वापि यथेच्छया
लिङ्गसम्पूजनं मुख्यमलाभे प्रतिमादिषु ११५
अधिकारविशेषेण तत्रतत्रापि पूजनम्
विगुणं सगुणं वापि सफलं लिङ्गपूजनम् ११६
प्रतिमादिकृतापूजा विगुणा सफला नहि
अचले वा चले वापि पूजा लिङ्गे प्रशस्यते ११७
चलस्य पूजनं वक्ष्ये स्थापनोद्वासने तथा
ते उभेन विजानाति कश्चिन्मुनिरपि क्वचित् ११८
स्थापयन्ति हृदब्जे वै गोपयन्ति यजन्ति च
उद्वासयन्ति देवेशं शङ्करं योगिनः सदा ११९
क्रिया चातीव होतॄणां वह्नौ देवं त्रियम्बकम्
पूजकानामशेषाणां शिवलिङ्गे महेश्वरम् १२०
लिङ्गस्य स्थापनं पूजा उद्वासनमथैव च
धारणं शङ्करस्यैव लिङ्गमेव महेश्वरम् १२१
सज्जिकं परमोत्कृष्टं स्वर्णं चैव विनिर्मितम्
राजतैर्वा दलैः कार्यं राजतैर्वैणवैस्तु यत् १२२
लतासूत्रैरथो वापि रचितं दारुणाथवा
वस्त्रेण वाथ रचितं मृदाविरचितं भवेत् १२३
तत्र संवेष्ट्य वस्त्रेण सुगन्धेन समन्विते
धौतवस्त्रयुगे शुद्धे मृद्वासन समन्विते १२४
शीतोष्णरहिते पादचतुष्टयसमन्विते
प्रावृतिच्छेदनोपेते क्रिमिकीटविवर्जिते १२५
धौतेन मृदुवस्त्रेण सर्वतो वेष्ट्य तं शिवम्
विन्यस्य सज्जिकामध्ये प्रावृत्य च पुनर्विभुम् १२६
एषा हि सज्जिका राम देवस्याग्रेति कीर्तिता
तस्य च स्थापनं पाठो रहस्ये च महेशितुः १२७
अथवा भित्तिमूले स्याद्देववेद्यामथापि वा
सुरक्षिते तथा देशे रक्षकं च नियोजयेत् १२८
प्राणादेरविनाभावं कुर्वीत नियमैः सह
एतद्धि राजसं प्रोक्तं स्थापनं परमात्मनः १२९
सात्विकं स्वसमीपस्थं धारणं तामसं पुनः
धारणं गात्रसंस्पर्शमशेषदेहगोपनम् १३०
मस्तके धारणं मुख्यं ब्रह्मणा च तथा कृतम्
विन्यस्य मुकुटस्यान्ते धारणं शुभमुच्यते १३१
ललाटे धारणं शस्तं यथा लक्ष्म्या धृतं शुभम्
बाणेन च धृतं मूर्ध्नि दक्षिणोरसि वा पुनः १३२
कर्णे च हरकर्णेन मुनिना परमर्षिणा
विनिर्भिद्य तथा गात्रं लोहस्थानं प्रकल्प्य च १३३
धारयन्ति तथा लिङ्गं राक्षसाः केचिदुत्तमाः
अनिकेतन मर्त्यानामशक्तानां शिरोधृतिः १३४
अधमाधममाख्यातं नीवीबन्धादिधारणम्
तेषु तूच्छिष्टसम्प्राप्तौ मस्तके धारणं भवेत् १३५
अधमाधमवृत्तीनां सदा वै लिङ्गधारणम्
पापिनामपि चाश्चर्यं यमलोके न विद्यते १३६
श्रीराम उवाच-
चित्रगुप्तेन लिखिता ललाटे या लिपिर्दृढा
तया तु लिप्या नियतं नरकं कथमन्यथा १३७
करोति पूजनं शम्भोः पापं नाशयते कथम्
शम्भुरुवाच-
पापं नाशयते कृत्स्नमपि जन्मशतार्जितम् १३८
भर्त्सनात्सर्वपापानां स्मरणाच्च महेशितुः
भस्मेति पदमाख्यातं तस्य धारणमुत्तमम् १३९
यथाविधि ललाटे वै वह्निवीर्यप्रधारणात्
नाशयेल्लिखितां यामीं पटस्थामिव हव्यभुक् १४०
कर्णोपरिकृतं पापं नष्टं स्यान्मुखधारणे
कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् १४१
बाह्वोर्बाहुकृतं पापं वक्षसि मनसा कृतम्
नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा १४२
पार्श्वयोर्धारणाद्राम परस्त्र्यालिङ्गनादिजम्
तद्भस्मधारणं शस्तं सर्वत्रैव त्रिपुण्ड्रकम् १४३
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम्
गुप्त्यै लोकत्रयाणां च धारणं तेन वै कृतम् १४४
धृतं पञ्चदशस्थाने शुद्धं भस्माभिमन्त्रितम्
कोष्ठयुग्मे बाहुयुग्मे कोष्ठोपरि युगे तथा १४५
धारणं सर्वदेहानां पूजायै धर्मसम्मतम्
भस्माशना भस्मशय्या भस्मोद्धूलितविग्रहाः १४६
भस्मस्नानाः सदापापैर्मुच्यन्ते नात्र संशयः
आदौ ब्राह्मणदीक्षायां त्रियायुषमिति स्मृतम् १४७
प्रसवे च मनुष्याणां भूतावेशेऽपि रक्षकम्
सर्पादिविषहान्यर्थं सर्वेषां साधनं त्विदम् १४८
अपि वा वैष्णवो मर्त्य अथवापीतरो जनः
भस्मस्नायी भस्मयुक्तः कर्मस्वधिकरोति वै १४९
श्रीराम उवाच-
भस्ममाहात्म्यमादौ मे भस्मायुष्यं हि कस्य वै
कथं हि रक्षते ह्येतत्सर्वमेतद्वदस्व मे १५०
शम्भुरुवाच-
आयुष्यवर्द्धने हेतुस्त्रिविधस्यापि देहिनः
पापघ्नं शीतमुष्णं च स्पर्शाच्छिवपदप्रदम् १५१
अत्र ते कीर्तयिष्यामि चेतिहासं पुरातनम्
आसीद्वासिष्ठवंश्यस्तु धनञ्जय इति द्विजः १५२
तस्य भार्याशतं चासीद्रूपलावण्यसंयुतम्
तासामेका तु सुषुवे शामाकाकरुणं मुने १५३
भार्याणां सङ्ख्यया राम सुताश्चासंस्तपस्विनः
पित्रा विभागस्तेषां च विषमः परिकल्पितः १५४
भ्रातॄणां च तदा ह्येव वैरबन्धो महानभूत्
नराणामेकजातीनां वैरं नियतमेव तु १५५
अथासौ करुणो गत्वा भवनाशिनिका तटे
नानामुनिगणैः सार्द्धं नरसिंहदिदृक्षया १५६
नृसिंहदर्शनार्थं तु ब्राह्मणेन तु केनचित्
उत्कृष्टफलितंवीरमानीतं रूपगन्धवत् १५७
करुणस्तु तदादाय व्यजिघ्रत्फलमुत्तमम्
तत्रस्थिता द्विजगणाः शापेन तमयोजयन् १५८
मक्षिका भव पापात्मन्वर्षाणां शतमप्यतः
शापावसानं भविता दधीचेन महात्मना १५९
अथ मक्षिकतां प्राप्तो भार्यामिदमभाषत
मक्षिकात्वमहं प्राप्तो मां शुभे पालयस्व भोः १६०
इत्युक्त्वा स तथा भूतो बभ्राम च ततस्ततः
अथैवंविधमाज्ञाय ज्ञातयः पापनिश्चयाः १६१
तद्वधे यत्नमास्थाय तैलमध्ये ह्यपातयन्
मृतं पतिमथादाय दुःखिता सा कृशोदरी १६२
तद्दुःखशमनार्थाय प्राह देवीत्वरुन्धती
अमुं सञ्जीवयाम्यद्य भस्मनैव शुचिस्मिते १६३
अथाग्निहोत्रजं भस्म अरुन्धत्यै न्यवेदयत्
मृत्युञ्जयेन मन्त्रेण मृतजं तौ तथाक्षिपत् १६४
मन्दवायुं तथा चक्रे व्यजनेन शुचिस्मिता
उदतिष्ठत्ततो जन्तुर्भस्मनोऽस्य प्रभावतः १६५
ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत्
मृते भर्तरि सा साध्वी दुःखिता च शुचिस्मिता १६६
दधीचं नाम विप्रेन्द्रं महामाहेश्वरं मुनिम्
जगाम शरणं साध्वी प्राह विप्रस्तपोधनः १६७
त्रियायुषा विहीनं तु जमदग्निं तपोनिधिम्
भस्मैव जीवयामास कश्यपं च तथाविधम् १६८
देवानपि तथाभूतान्मामप्येतादृशं पुरा
तस्मात्तु भस्मना जन्तुं जीवयामि तवानघे १६९
इत्येवमुक्त्वा भगवान्दधीचो महेश्वरं वै शरणं जगाम
भस्माभिमन्त्र्याथ करे गृहीत्वा सञ्जीवयामास धवं सुसाध्व्याः १७०
महेशस्य करस्पर्शाद्विशापः करुणोऽभवत्
स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययौ १७१
दधीचमपि सा साध्वी गृहमानीय भोजने
प्रार्थयामास विप्रर्षिं भुक्तवानथ स द्विजः १७२
भुक्तवत्यथ विप्रेन्द्रे कोटिशिष्याः समागताः
अथ देवाः समायाता भस्मोद्धूलितविग्रहाः १७३
नमस्कृत्य दधीचं तु पप्रच्छुः शिवकाङ्क्षया
देवा ऊचुः -
अस्माकं तु पुरा ज्ञानं नष्टमासीन्महामते १७४
गौतमस्य तु भार्यां वै दृष्ट्वा कामातुरा वयम्
तथा च धर्षिता देवी विवाहकृतमङ्गला १७५
तां वै कामयमानानां नष्टं ज्ञानमभूच्च नः
ततः सर्वे वयं भूता गता दुर्वाससं मुनिम् १७६
स उवाचाधुना सर्वमपनेष्यामि वोमलम्
शतरुद्रियमन्त्रेण मन्त्रितं शम्भुना स्वयम् १७७
ममापि दत्तं तेनैव ब्रह्महत्यादिशान्तये
इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्मचोत्तमम् १७८
अथ तद्वचनात्सर्वे वयं विकृतचेतनाः
शतरुद्रियमन्त्रेण भस्मोद्धूलितविग्रहाः १७९
निर्धूतपातकाः सर्वे संवृत्तास्तत्क्षणेन हि
आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् १८०
दधीच उवाच-
शैवस्य भस्मनः शक्तिं सङ्क्षेपेण वदामि वः
विस्तरेण न शक्येत वक्तुं वर्षशतैरपि १८१
अत्र वः कीर्तयिष्यामि पुरावृत्तं तु देवयोः
हरिशङ्करयोः सर्वे ब्रह्महत्यादिनाशनम् १८२
पुरा चैकार्णवे घोरे ब्रह्मणः प्रलये सति
महाविष्णुस्तु भगवाञ्छेते स्म प्रलयाम्भसि १८३
तस्य पार्श्वद्वयं प्राप्य ब्रह्माण्डानां शतद्वयम्
विंशतिः पादयोः पार्श्वे विंशतिर्मस्तकान्तरे १८४
नासामौक्तिकभावेन ब्रह्माण्डमदधात्प्रभुः
तन्नाभिमण्डले केचिल्लोमशाद्या मुनीश्वराः १८५
तपस्तपन्तः सुमहदीश्वरं पर्युपासते
अथ विष्णुर्महातेजाश्चिन्तामाप सिसृक्षया १८६
ध्यानयोगपरो भूत्वा न किञ्चित्पर्यपश्यत
अथ दुःखेन महता रुरोदोच्चैः पुनः पुनः १८७
एतस्मिन्नन्तरे दीप्तिः काचिल्लोकविलक्षणा
दृष्ट्वा च हरिणा भीत्या लोचने च निमीलिते १८८
आगम्यमानो गोक्षीरसमतेजाः स गात्रवान्
सङ्ग्रथ्य कोटिब्रह्माण्डदामयुग्मं करद्वये १८९
दधानमुरसा धामकोटिब्रह्माण्डकल्पितम्
ब्रह्माण्डमेकं निपतदुत्पतच्च करद्वये १९०
सर्वाभरणसंयुक्तं तथाभूतं तमव्ययम्
विष्णुस्तुष्टाव चादृष्ट्वा दर्शनाय च तस्य वै १९१
विष्णुरुवाच-
नमस्ते देवदेवेश नमस्ते शाश्वताव्यय
न जानेऽहं भवन्तं भोस्त्वं च वेत्सि नमोनमः १९२
जानामि न च ते भावं दुर्निरीक्ष्या च ते द्युतिः
माणिक्यकुण्डलं हेमदामजालविभूषितम् १९३
रत्नाङ्गुलीयं सुभगं बाहुकोष्ठविभूषणम्
तनुरक्तोत्तमाकीर्ण दीप्तायतविलोचनम् १९४
बाणलोचनसङ्काशं भाललोचनमव्ययम्
कन्दर्पकार्मुकभ्रान्तिजनक भ्रुवमीश्वरम् १९५
स्निग्धाधोन्नतचार्वङ्ग नासमच्छकपोलकम्
मन्दस्मितं प्रसन्नास्यं विभुं बालेन्दुदर्शनम् १९६
विज्ञानरक्तवसनं वेदकल्पितभूषणम्
शरणं त्वां प्रपन्नोऽस्मि चक्षुर्मे दीयतां विभो १९७
दीनान्धकृपणाज्ञाननष्टस्य शरणं भव
अथ दिव्यं ददौ चक्षुः स्वात्मदर्शनशक्तिमत् १९८
अथ दृष्ट्वा हरिः शम्भुं त्रिनेत्रं पुरतः स्थितम्
को भवानित्युवाचाथ न जाने त्वां महायशः १९९
प्रणामं केवलं कर्तुं शक्तोऽस्मि न हि वेदितुम्
सदाशिव उवाच-
तव ज्ञानं प्रदास्यामि कुरु स्नानं च वारुणम् २००
भस्मस्नानं ततः पश्चात्ततो ज्ञानं वदाम्यहम्
श्रीभगवानुवाच-
मत्स्नानयोग्यं सलिलं न चतिष्ठति कुत्रचित् २०१
इत्युक्तोथ निषण्णस्तु ब्रह्माण्डासक्तविग्रहः
ऊरुदघ्नजले स्नातुं न योग्यमभवद्धरेः २०२
शम्भुर्जहास स्नानाय जलमत्यधिकं त्वहो
दधीच उवाच-
अथ देवः शिवो विष्णुं भालाक्षेण व्यलोकयत् २०३
विलीनसूक्ष्मावयवं वामाक्षेण व्यलोकयत्
ततः सूक्ष्मतनुर्विष्णुः शीतदेहश्च शम्भुना २०४
उक्तश्च स्नाहि भो विष्णो ह्रद एष विकल्पितः
ततो ह्रदे हरिः स्नातुं हराङ्के कल्पिते तदा २०५
प्रवेष्टुं न शशाकाथ गम्भीरे तद्ध्रदस्य तु
हरिराह च नो पन्था ह्रदस्यास्य प्रवेशने २०६
मार्गो मे दीयतां देव तमथो शम्भुरब्रवीत्
कोटियोजनगम्भीरं जलमेतन्महत्पुरा २०७
निविष्टस्यैव भवत ऊरुदघ्नं जलं विभो
इदानीं तिष्ठतश्चापि न प्रवेशो ह्रदे कथम् २०८
अष्टाङ्गुलप्रमाणोऽयमूरुस्तस्मिन्ह्रदे च मे
पश्यामि प्रविश त्वं च पादस्पर्शं ददामि ते २०९
वाक्यमेकं तु सोपानं वेदं मद्वाक्यनिस्सृतम्
हरिरुवाच-
शब्दारोहणसामर्थ्यं कस्यापीह न विद्यते २१०
मूर्तस्य ग्रहणं शक्यं ग्रहणं वा कथं श्रुतेः
शम्भुरुवाच-
पुंसः शक्तिर्न वस्तूनां धारणारोहणादिषु २११
गृहाणेमं महावेदं जग्राह हरिरप्यथ
नम्रकरश्चाशक्तेर्हि पतन्निव जनार्द्दनः २१२
न च शक्यं मया धर्तुमिति प्राह शिवं हरिः
शिवः प्रहस्य निपती पात्यतीव महाह्रदे २१३
तत्सोपानमथारुह्य स्नातुमर्हसि केशव
दधीच उवाच-
वेदे सोपानभूते हि ऊरुदघ्नोपलब्धिनि २१४
तत्र स्नात्वा स विधिना बहिरुत्तीर्य चोक्तवान्
स्नातोऽस्मि किमतः कार्यं शम्भुराह हरिं ततः २१५
ध्यायसे हृदये किं त्वं न च किञ्चिद्वदस्व मे
हरिर्न किञ्चिदित्याह तमथो शम्भुरुक्तवान् २१६
भस्मस्नानेन संशुद्धो वेत्स्यसे परमं शुभम्
दीक्षितस्य हि तच्छस्तं तद्रक्षां करवाण्यहम् २१७
दधीच उवाच-
स्ववक्षः स्थितभस्मैकं नखेनादाय शङ्करः
प्रणवेनाभिमन्त्र्याथ गायत्र्या ब्रह्मभूतया २१८
अङ्गुलिभ्यामुपादाय शिवः पञ्चाक्षरेण वै
हरिमस्तकगात्रेषु सर्वेष्वपि समाक्षिपत् २१९
शान्तदृष्ट्या निरीक्ष्याथ जीवेत्याह हरिं हरः
ध्यायस्व किं ते हृदये स च ध्यानपरोऽभवत् २२०
अपश्यद्धृदये दीपं दीर्घाकारमतिप्रभम्
हरिराह शिवं साक्षाद्दीपो दृष्टो मयेति च २२१
शिवः प्राह न ते ज्ञानं परिपक्वमथो हरे
भस्म भक्षय ते ज्ञानं समग्रं सम्भविष्यति २२२
हरिरुवाच-
भक्षयिष्ये शुभं भस्म स्नातोऽहं भस्मना पुरा
दृष्ट्वेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः २२३
तत्राश्चर्यमतीवासीत्पक्वबिम्बसमद्युतिः
वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात् २२४
ततःप्रभृति शुक्लोऽसौ वासुदेवः प्रसन्नवान्
पुनर्ध्यानपरो भूत्वा दीपमध्ये च पूरुषम् २२५
शुद्धस्फटिकसङ्काशं त्रिनेत्रं द्विभुजं शिवम्
वरदं दक्षिणे हस्ते वामे चाभयदं विभुम् २२६
पञ्चवर्षीयवपुषं शरच्चन्द्रायुतद्युतिम्
माणिक्यकुण्डलं हेम दामजालविभूषितम् २२७
रत्नाङ्गुलीयसुभगं बाहुकोष्ठसुभूषणम्
तनुरक्तोष्ठमाकर्ण दीर्घायतविलोचनम् २२८
बाणलोचनसङ्काशं भाललोचनमव्ययम्
कन्दर्पकार्मुकभ्रान्तिजनकभ्रुवमीश्वरम् २२९
स्निग्धोन्नत सुचार्वङ्ग नासमच्छकपोलकम्
मन्दस्मितं प्रसन्नास्यं बालेन्दुदर्शनं विभुम् २३०
विज्ञानरक्तवसनं वेदकल्पितनूपुरम्
वामाङ्गुलीयमध्यस्थमतिप्रणवमव्ययम् २३१
दृष्टवानथ तं विष्णुः कृतकृत्योऽभवत्तदा
अथाह शम्भुर्भो विष्णो हृदि दृष्टं त्वया किमु २३२
हरिराह पुरा दृष्टः पुरुषः शान्तविग्रहः
इत्युदीर्य महाविष्णुः शिवपादे पपात ह २३३
हरिरुवाच-
न शक्तिं भस्मनो जाने प्रभावं वा कुतस्तव
नमस्तेऽस्तु नमस्तेऽस्तु त्वामेव शरणं गतः २३४
सदाशिव उवाच-
वरं वृणु महाभाग मनसा यं त्वमिच्छसि
शिववाचमथाकर्ण्य हरिर्वव्रे वरोत्तमम् २३५
हरिरुवाच-
त्वत्पादयुगले शम्भो भक्तिरस्तु सदा मम
अथ दत्वा वरं शम्भुरिदमाह वचो हरिम् २३६
भस्मधारणसम्पन्नो मम भक्तो भविष्यसि
दधीच उवाच-
इत्थमुक्तं महाज्ञानं भस्मसम्भवमादितः २३७
तस्माद्यूयं सुराः सर्वे धारयध्वं तदादरात्
विस्मयोत्फुल्लनयना देवाश्चासंस्तदस्त्विति २३८
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्
विमुक्तः सर्वपापेभ्यो यात्यसौ शाङ्करं पदम् २३९
इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे भस्ममाहात्म्ये
पञ्चोत्तरशततमोऽध्यायः १०५