१०४

ऋषय ऊचुः -

विश्वास-प्रस्तुतिः

भूयो वद महाभाग रामचारित्रमद्भुतम्
राममाहात्म्यसर्वस्वं भक्तानां प्रीतिदायकम् ॥ १ ॥

मूलम्

सूत उवाच-
अश्वमेधं क्रतुवरं कृत्वा दाशरथिर्यथा ॥ २ ॥

प्रवृत्तो लोककृत्येषु शास्त्रकृत्येषु कोविदः
अयोध्यां गन्तुकामेन शङ्करेण महात्मना ॥ ३ ॥

पार्वत्या सह देवेन उषितः सरयूतटे
मुनयस्तं समभ्येत्य शङ्करं विश्वरूपिणम् ॥ ४ ॥

कश्यपाद्या महात्मानः पप्रच्छुरमितौजसम्
स्वागतं ते मुनिश्रेष्ठ सभार्यः कुत आगतः ॥ ५ ॥

किमागमनकृत्यं ते कं देशं गन्तुमुद्यतः
शङ्कर उवाच-
अहं शम्भुरिति ख्यातो विप्रो हिमगिरिस्थितः ॥ ६ ॥

द्रष्टुं च राघवं गच्छे मम कार्यं महत्ततः
मामाह्वयति राजासौ पुराणश्रवणे रतः ॥ ७ ॥

आगच्छन्तु भवन्तोऽपि राघवः परितुष्यति
ततस्ते मुनयः शम्भुर्ययू रामदिदृक्षया ॥ ८ ॥

तानागतान्वसिष्ठस्तु ज्ञात्वा रामाय चोक्तवान्
ततः सत्वरमुत्थाय निर्ययौ स पुरोहितः ॥ ९ ॥

अर्घ्यपाद्यादिकैस्सर्वान्पूजयामास तानृषीन्
गृहराजं ततः सर्वान्प्रावेशयदरिन्दमः ॥ १० ॥

प्रत्येकमासनं दत्वा स्वागतोक्त्यासनस्थितान्
क्रमेण रघुशार्दूलः पूजयामास तानृषीन् ॥ ११ ॥

वाचा मधुरया प्रीणन्निदमाहासनस्थितान्
श्रीराम उवाच-
अद्य मे सफलं जन्म प्राप्तमद्य तपः फलम् ॥ १२ ॥

अद्याभ्यासस्य विद्यानां फलकालोऽयमागतः
अद्य मे पितरस्तुष्टा राज्यं च सफलं मम ॥ १३ ॥

अद्य मे सफलं वृत्तमद्य मे सफलं श्रुतम्
एवं वदन्तं राजानं ब्राह्मणाः कश्यपादयः ॥ १४ ॥

ऊचुः प्रियतरं वाक्यं रामं राजीवलोचनम्
ऋषय ऊचुः
अयं शम्भुर्द्विजः प्राप्तः सर्वशास्त्रविशारदः ॥ १५ ॥

वेदवेदाङ्गतत्त्वज्ञः सर्वभूतहिते रतः
कैलासवासी सततं तपसे कृतनिश्चयः ॥ १६ ॥

मूलम्

वेदवेदाङ्गतत्त्वज्ञः सर्वभूतहिते रतः
कैलासवासी सततं तपसे कृतनिश्चयः ॥ १६ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणा ब्रह्मवर्चस्के तुल्यो ब्रह्मविदां वरः
हरिणा ब्रह्मवात्सल्ये प्रसादे शङ्करोपमः ॥ १७ ॥

एवंविधो महातेजाः शम्भुर्ब्राह्मणपुङ्गवः
अष्टादशपुराणज्ञो मीमांसा न्यायकोविदः ॥ १८ ॥

त्वद्भाग्यगौरवादेव प्राप्तोऽयं मुनिसत्तमः
त्वयाहूतो मुनिवरः कैलासादागतः प्रभो ॥ १९ ॥

अतः पृच्छ महाभाग पुराणाख्यानमुत्तमम्
श्रोतुकामा वयं प्राप्तास्त्वामद्य रघुनन्दन ॥ २० ॥

अन्तं गतस्य वेदानां सर्वशास्त्रार्थवेदिनः
पुंसोऽश्रुतपुराणस्य न सम्यग्याति दर्शनम् ॥ २१ ॥

एवमुक्तो रघुश्रेष्ठो मुनिभिस्तत्त्वदर्शिभिः
प्रहर्षमतुलं लेभे पुराणश्रवणोत्सुकः ॥ २२ ॥

लिगार्चनप्रकारं च लिङ्गमाहात्म्यमेव च
महेशनाममाहात्म्यं पूजामाहात्म्यमेव च ॥ २३ ॥

नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च
जलदानस्य माहात्म्यं धूपदानस्य सत्तम ॥ २४ ॥

दीपगन्धादिदानस्य पुष्पमाहात्म्यमेव च
नानाख्यानेतिहासानां कथां पापप्रणाशिनीम् ॥ २५ ॥

धर्मार्थकाममोक्षांश्च तदुपायांश्च सुव्रत
तत्सर्वं श्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम ॥ २६ ॥

शम्भुरुवाच-
रामराम महाबाहो पुण्यवानसि राघव
राज्यासक्तस्य ते जाता पुराणश्रवणे रतिः ॥ २७ ॥

स्यान्महत्सेवया राम पुण्यतीर्थनिषेवणात्
सा जिह्वा या शिवं गायेत्तच्चित्तं यत्तदर्प्पितम् ॥ २८ ॥

तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ
सुजन्मदेहमत्यर्थं तदेवाशेषजन्मसु ॥ २९ ॥

मूलम्

तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ
सुजन्मदेहमत्यर्थं तदेवाशेषजन्मसु ॥ २९ ॥

विश्वास-प्रस्तुतिः

यदेवोत्पुलकोभासि हर नामानुकीर्तनात्
कृतार्थोऽसि महाराज तत्प्रश्नानुगता मतिः ॥ ३० ॥

अनन्तरं समाजग्मुर्जाङ्घिकाः सत्वरश्रमाः
तत्करात्पत्रिकां गृह्य पपाठ रघुसत्तमः ॥ ३१ ॥

मनसाऽचिन्तयद्रामः कथमेतदभूदिति
रामं शम्भुस्तदा प्राह देव्या ब्राह्मणवेषवान् ॥ ३२ ॥

किं चिन्तयसि काकुत्स्थ मुनिष्वग्रे वसत्स्वपि
तद्वाक्यं राघवः श्रुत्वा पप्रच्छ मुनिपुङ्गवान् ॥ ३३ ॥

श्रीरामउवाच-
विभीषणः कथमसौ बद्धः शृङ्खलया नृभिः
मत्स्थापितं शिवं लिगं दृष्ट्वा रामेश्वरं त्वहो ॥ ३४ ॥

द्राविडैः कुटिलैर्दुष्टैरात्मना तद्विचार्यताम्
विचार्य मुनिवर्यास्ते नेशास्तज्ज्ञातुमल्पतः ॥ ३५ ॥

न जानीम इति प्राहू रामं रामस्तदाब्रवीत्
पुराणं वीक्ष्य विधिना तत्सर्वं ब्रूत सत्तमाः ॥ ३६ ॥

भवदज्ञानहेतुश्च विचार्यस्तदनन्तरम्
किं किं पुराणं प्रेक्ष्यं स्याद्वर्जनीयं तथैव किम् ॥ ३७ ॥

प्रशस्तः कीदृशः श्लोकस्तदन्यः कीदृशो भवेत्
कीदृशेषु च कार्येषु कीदृशः पूजकस्तथा ॥ ३८ ॥

पूजा च कीदृशैर्भक्तैः कार्या निर्णयदर्शने
इति रामस्य वचनं श्रुत्वा ते द्विजसत्तमाः ॥ ३९ ॥

प्रत्यूचुस्तं रघुश्रेष्ठं चिन्ताव्याकुलमानसम्
न वक्तारो वरं राम वीक्षतां तु पुराणवित् ॥ ४० ॥

तच्छ्रुत्वा राघवः शम्भुं पप्रच्छ विनयान्वितः
सोपि तद्वाक्यमाकर्ण्य प्रत्युवाच महामतिः ॥ ४१ ॥

पुराणजीवी पूजार्हः स्वशाखाध्ययनः शुचिः
मीमांसातत्त्वविज्ञानः श्रोत्रियोऽनृतदूषकः ॥ ४२ ॥

देवेषु च समस्तेषु समदृष्टिः शिवे रतः
शतरुद्रियजापी च साग्निकश्चातिवाचकः ॥ ४३ ॥

यजुर्वेदी विशेषेण पूजयेत्पुस्तकं सुधीः
श्रीतालपत्रलिखितं देवलिप्यन्वितं शुभम् ॥ ४४ ॥

बन्धाद्यतिप्रपञ्चं यद्युगपत्प्रणवाक्षरम्
प्रागूर्द्ध्वंरेखयोः प्रान्ते प्रणवस्याग्रयोजिका ॥ ४५ ॥

रेखा भवेदेवमेका अकारस्तस्यपार्श्वतः
शिरोभागमुपक्रम्य सकोणाधः प्रलम्बिनी ॥ ४६ ॥

आकारः स हि विज्ञेयः पट्टिकादक्षरेखया
वामे षड्वक्रबिन्दूद्वा विकार इति कीर्तितः ॥ ४७ ॥

तस्य वामशिरोरेखा लम्बिन्या ई उदाहृतः
सर्वाक्षरे शिरोरेखा अवक्रा प्रणवं विना ॥ ४८ ॥

तस्यां तु लम्बरेखान्या तदन्ते चलवित्रवत्
उकारः स हि विख्यातो लवित्रद्वयतस्तदू ॥ ४९ ॥

एवमन्यानि सर्वाणि अक्षराण्याह भारती
लिप्यानयैव लिखितं पुराणं तु प्रशस्यस्ते ॥ ५० ॥

ब्राह्मं पाद्मं वैष्णवं च मार्तण्डं नारदेरितम्
मार्कण्डेयमथाग्नेयं कौर्मं वामनमेव च ॥ ५१ ॥

गारुडं लैङ्गमाख्यातं स्कान्दं मात्स्यं नृसिंहकम्
तथैव गदितं राम पुराणं कापिलं तथा ॥ ५२ ॥

वाराहं ब्रह्मवैवर्तं शकुनेषु प्रशस्यते
शैवं भागवतं दौर्गं भविष्योत्तरमेव च ॥ ५३ ॥

भविष्यं चोपसञ्ज्ञानि त्वन्यानि च विवर्जयेत्
विमुच्य पुस्तकं रत्नपीठे निक्षिप्य संस्कृतम् ॥ ५४ ॥

धौतवस्त्रधरः स्नात्वा शुचिरक्रोधनोऽज्वरः
आदावात्मानमभ्यर्च्य कृत्वा सङ्कल्पमेव च ॥ ५५ ॥

अङ्कुशं चाक्षसूत्रं च पाशं पुस्तकमेव च
धारयन्तीं सितां ध्यायेत्प्रसन्नास्यां सरस्वतीम् ॥ ५६ ॥

गोक्षीरसदृशाकारं त्रिनेत्रं वृषवाहनम्
सहासवदनं शान्तं शुक्लाम्बरधरं शिवम् ॥ ५७ ॥

हरिणं चाभयं चोर्द्ध्वबाहुयुग्मं किरीटिनम्
व्याख्यामुद्रा चं दक्षेधो वामहस्ते वरप्रदम् ॥ ५८ ॥

नानारत्नविभूषाढ्यं गिरिजार्द्धाम्बुजासनम्
बहुभिर्मुनिमुख्यैस्तु ध्यायमान पदाम्बुजम् ॥ ५९ ॥

मूर्तिमद्भिस्तथा वेदैः स्तूयमानं पुराणकैः
अन्यैः समस्तलोकैश्च संसेवितपदाम्बुजम् ॥ ६० ॥

ध्यात्वैवं पूजकः सम्यगादौ पूजां समारभेत्
आपो वा इदमित्येतत्कलशस्याभिमन्त्रणम् ॥ ६१ ॥

तज्जलं च गृहीत्वा च पात्रस्थमभिमन्त्रयेत्
तत्सद्ब्रह्मेति मन्त्रेण प्रशस्य प्रणवेन तु ॥ ६२ ॥

आत्मानं सर्वपात्राणि तत आवाहयेदिति
यद्वागिति तृ चेनैव भारती षोडशार्चनम् ॥ ६३ ॥

पुरुषसूक्तेन वा कुर्याद्गायत्र्या वा समर्चयेत्
ॐ नमो भगवते अमुक पुराणेति पुराणमर्चयेत् ॥ ६४ ॥

काण्डादिति हि मन्त्रेण दूर्वामानीय पूजयेत्
ॐ नमो भगवत्यै दूर्वायै इति ॥ ६५ ॥

सलोकपाल पूजा स्यादथ कन्या समर्चनम्
वत्सरात्पञ्चकादूर्द्ध्वं दशवर्षादधः शुभाः ॥ ६६ ॥

अनुत्पन्नऋतुर्वापि तां प्रयत्नेन पूजयेत्
गन्धपुष्पाक्षतैर्धूपैर्दीपताम्बूलभूषणैः ॥ ६७ ॥

पाठयेदप्यमुं मन्त्रं पूजकः कन्यकामिमाम् ॥ ६८ ॥

सत्यं ब्रूहि प्रियं ब्रूहि भगवति सरस्वति नमस्ते नमस्त इति ॥ ६९ ॥

गायत्र्यानुक्रमार्थात्तु दूर्वायुग्मं तु कारयेत्
सन्निधौ पुस्तकस्याधः सहस्रपरमेत्यृचा ॥ ७० ॥

दूर्वायुग्मत्रयं दद्यात्तस्या हस्ते विचक्षणः
सा प्रक्षिपेत्पुस्तसन्धौ शलाकात्रयमन्वनु ॥ ७१ ॥

विसृज्यतां पुनर्दद्याच्छिवाभ्यां नम इत्यथ
पत्रयोर्मध्यमः श्लोकः कार्यसिद्धेर्हि सूचकः ॥ ७२ ॥

पूर्वपत्रे समाप्तिः स्याच्छ्लोकस्य यदि राघव
परपत्रे पठेच्छ्लोकं विविच्यार्थमुदीरयेत् ॥ ७३ ॥

शनैःशनैः पठेत्प्राज्ञो व्याख्यासेच्च शनैःशनैः
त्वरेह न हि कर्तव्या कुप्यति त्वरया तु गीः ॥ ७४ ॥

घटिकायास्तु पादः स्यादत्वरास्यात्ततोधिका
त्वरयेन्न च वक्तारं ज्ञातव्यांशमनुद्विजम् ॥ ७५ ॥

विविच्य पाठं श्लोकस्य निश्चित्यार्थं च मानसे
प्रतीपं तन्न वक्तव्यं विविच्य रघुनन्दन ॥ ७६ ॥

यदि युक्तमयुक्तं वा श्लोकमन्यं पठेदसौ
पुस्तकस्थं च हित्वैव पूजकः स द्विजो यदि ॥ ७७ ॥

तत्तथैव हि विज्ञेयं विसंवादो न शस्यते
दैवागतो हि स श्लोको दैवं हि बलवत्तरम् ॥ ७८ ॥

उपश्रुतिषु यद्वच्च नापराधो द्विजस्य तु
विस्मयो न च कर्तव्यो दैवस्य कुटिला गतिः ॥ ७९ ॥

यत्तत्पदविपर्यासे पत्रे चोपरिवारिणि
तमादेशं तिरस्कृत्य द्वितीयं तु पठेदतः ॥ ८० ॥

ततस्तृतीयं पाठ्यं स्यात्ततः कार्यं विवेचनम्
अविसर्गान्तपूर्वास्ते पवर्गेतरपञ्चमाः ॥ ८१ ॥

स्तुतिलिड्वर्जितः श्लोकः शकुनेषु प्रशस्यते
अध्यायादिः समाप्तिश्च वृथा पत्रं वृथा लिपिः ॥ ८२ ॥

उक्तानुवचनं चैव द्व्युपस्तुतमथैव च
दग्धपत्रं नष्टलिपिः सन्दिग्धाक्षरमेव च ॥ ८३ ॥

एतानि शकुने नित्यं वर्जनीयानि पण्डितैः
प्रश्नो हि द्विविधो ज्ञेयो दीप्तशान्त प्रभेदतः ॥ ८४ ॥

शान्तं च द्विविधं ज्ञेयमुत्पत्तिस्थितिवृद्धितः
तत्र शान्तं प्रशस्तं स्याल्लक्षितं पूर्वलक्षणैः ॥ ८५ ॥

कार्यभेदास्तु वर्ण्यन्ते केचिन्मर्त्योपयोगिनः
कस्यचित्कार्यमादाय कश्चित्प्रष्टा भवत्यपि ॥ ८६ ॥

स करोति तदा प्रश्नं समेत्य स्मरतेऽत्र किम्
स पुनर्धार्य पत्रं तत्तस्मिन्पत्रं प्रशस्यते ॥ ८७ ॥

अथवा तत्क्षमोपेतं वैराग्यं परमेव च
यतः कुतश्चिद्दृष्टस्तु स्तुतिपादकमेव च ॥ ८८ ॥

परिहृत्य परं चापि तस्मिन्नर्थे शुभावहम्
मृतो गृह्णाति वागर्थमिति प्रश्नोऽशुभप्रदः ॥ ८९ ॥

विवादे विजयप्रश्ने जयद्योतकमिष्यते
सृष्टिरप्यत्र शस्ता स्यात्क्रूरायां क्लेशतो जयः ॥ ९० ॥

प्रशान्तायामुपायैस्तु मिश्रायां विड्वरो भवेत्
पुरादिवर्णनं यत्तु मध्यमं यदि चोत्तमम् ॥ ९१ ॥

कलिसम्भावनायास्तु शृङ्गारस्योपवर्णने
राज्यनिर्वाहचिन्तायां राज्यलिङ्गंशुभावहम् ॥ ९२ ॥

यस्यापि यादृशं योग्यं विचार्य तादृशं बुधैः
स्तुतिवैराग्ययोः कार्यं विलयः परिकीर्तितः ॥ ९३ ॥

कार्याल्पसिद्धिः स्खलितेन च निर्वाहमृच्छति
तस्यान्यार्थस्यान्यभावो राम शान्तिविचारणे ॥ ९४ ॥

विसर्गान्तश्च पूर्वार्द्ध विपर्यासो भविष्यतः
सङ्कल्पितान्यथाभावो ह्यध्यायस्य समापने ॥ ९५ ॥

काण्डादेस्तु समाप्तौ तु स्यात्तत्कार्यविनाशनम्
तस्मादेतादृशे दोषे शकुनस्य विपर्ययः ॥ ९६ ॥

क्षुते पुस्तकपाते च त्वाहते मस्तकादिषु
वक्ता वैमाननं याति ततः शकुननाशनम् ॥ ९७ ॥

तस्मादेतादृशे दोषे शकुनं परिवर्जयेत्
उपमायां भवेद्राम कार्याभासो न वस्तुतः ॥ ९८ ॥

सन्तानं भोन्यत्र चोक्ता सृष्टिर्मध्यफलप्रदा
स्तुतिः प्रशस्ता कुत्रापि गुणवत्कार्यनिर्णये ॥ ९९ ॥

विवाहे चौषधे दाने व्यवहारे कृषौ तथा
यथार्था च स्तुती राम निर्वाहेऽपि न दूषणम् १००