१०३

यम उवाच-

विश्वास-प्रस्तुतिः

एतन्माधवमासस्य समासात्किञ्चिदीरितम्
माहात्म्यं पूर्णिमायाश्च विशेषाद्द्विजसत्तम ॥ १ ॥

मूलम्

वैशाखमासे मधुसूदनस्य प्रियं य एनं पठतीतिहासम्
स याति कृष्णालयमाशुपूतः कल्पाननेकानिह मोदते च ॥ २ ॥

धन्यं यशस्यमायुष्यमिदं स्वस्त्ययनं महत्
स्वर्ग्यं श्रीदं सौमनस्यं प्रशस्यमघमर्षणम् ॥ ३ ॥

इदं माधवमासस्य माहात्म्यं माधवप्रियम्
चरित्रं भूपतेस्तस्य संवादं चावयोरपि ॥ ४ ॥

श्रुत्वा पठित्वा विधिवदनुमोद्य मनःप्रियम्
भवेद्भक्तिर्भगवति यया स्यात्पापसङ्क्षयः ॥ ५ ॥

अथ गच्छ महीदेव देवलोकाद्यथेच्छया
निपात्य भुवि वैदेहं रुदन्त्यद्यापि बान्धवाः ॥ ६ ॥

विलप्यमानैरपि बन्धुभिस्तैर्न यावदग्नौ तव तच्छरीरम्
प्रक्षिप्यते हन्त जवैर्न तावद्याहि स्वयं सुप्त इव प्रबुद्धः ॥ ७ ॥

ममप्रसादादिह पुण्ययोगः श्रुतो यथावत्तमिमं विधेहि
विधानतो वै समये समन्ते समागमोंऽते भविता सुरैश्च ॥ ८ ॥

सूत उवाच-
इति देववचः श्रुत्वा नत्वा धर्माधिपं ततः
पुनः पपात स इह परितुष्टमना द्विजः ॥ ९ ॥

मूलम्

सूत उवाच-
इति देववचः श्रुत्वा नत्वा धर्माधिपं ततः
पुनः पपात स इह परितुष्टमना द्विजः ॥ ९ ॥

विश्वास-प्रस्तुतिः

धर्मराजप्रसादेन ततस्तत्र महीतले
संसुप्तइव चोत्तस्थौ बन्धुवर्गसमन्वितः ॥ १० ॥

विधिमेनं द्विजो भूमौ वर्षेवर्षे च स स्वयम्
स्वयं च कारयामास माधवस्नापनं जनम् ॥ ११ ॥

यमब्राह्मणसंवादो मयायं परिकीर्तितः
तस्य माधवमासस्य पुण्यस्नानप्रसङ्गतः ॥ १२ ॥

वैशाखमासे सततं हरिप्रिये स्नानं विदध्याच्च ददाति भक्त्या
दानं च होमं सुकृतं तथा बुधो हरेःपदं तस्य नदुर्ल्लभं कदा ॥ १३ ॥

यःशृणोत्येकचित्तेनमाहात्म्यम्मेषसूर्यजम्
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥ १४ ॥

ऋषय ऊचुः -
सूतसूत महाप्राज्ञ त्वयाऽतिकरुणात्मना
वैशाखमासमाहात्म्यं कीर्तितं पापनाशनम् ॥ १५ ॥

नियमा मधुहन्तुर्ये माधवे कथितास्त्वया
पूजनं स्नानदानाद्यं श्रौतस्मार्तविधानतः ॥ १६ ॥

यथा च माधवो देवः प्रीयते पापनाशनः
अधुना श्रोतुमिच्छामो ध्यानं तस्य महात्मनः ॥ १७ ॥

कृष्णस्य भक्तवृन्दानां प्रियस्य भवतारणम् ॥ १८ ॥

मूलम्

कृष्णस्य भक्तवृन्दानां प्रियस्य भवतारणम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
शृणुध्वं मुनयः सर्वे कृष्णस्य जगदात्मनः
गोगोपगोपीप्राणस्य वृन्दावनचरस्य च ॥ १९ ॥

एकदा नारदः पृष्टो गौतमेन द्विजोत्तमाः
स तस्मै प्राह यद्ध्यानं तद्वक्ष्ये पापनाशनम् ॥ २० ॥

नारद उवाच-
सुमप्रकरसौरभोद्गलितमाध्विकाद्युल्लसत्सुशाखिनवपल्लवप्रकरनम्र शोभायुतम्
प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितं स्मरेत सततं शिवं शितमतिः सुवृन्दावनम् ॥ २१ ॥

विकाशि सुमनोरसास्वदनमञ्जुलैः सञ्चरच्छिलीमुखमुखोद्गतैर्मुखरितान्तरं झङ्कृतैः
कपोतशुकसारिकापरभृतादिभिः पत्रिभिर्विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् ॥ २२ ॥

कलिन्ददुहितुश्च लल्लहरिविप्लुषां वाहिभिर्विनिद्र सरसीरुहोदररजश्च योद्धूसरैः
प्रदीपित मनोभवव्रजविलासिनी वाससां विलोलनपरैर्निषेवितमनारतं मारुतैः ॥ २३ ॥

प्रवालनवपल्लवं मरकतच्छदं मौक्तिकप्रभाप्रकरकोरकं कमलरागनानाफलम्
स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं तदन्तरपिकल्पकाङ्घ्रिपमुदञ्चितं-
चिन्तयेत् ॥ २४ ॥

सुहेमशिखराचलेउदितभानुवद्भासुरामधोऽस्य कनकस्थलीममृतशीकरासारिणः
प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां स्मरेत्पुनरतन्द्रितो विगतषट्तरङ्गाम्बुधः ॥ २५ ॥

तद्रत्नकुट्टिमनिविष्टमहिष्ठयोगपीठेऽष्टपत्रमरुणं कमलं विचिन्त्य
उद्यद्विरोचनसरोचिरमुष्यमध्ये सञ्चिन्तयेत्सुखनिविष्टमथोमुकुन्दम् ॥ २६ ॥

सुत्रामहेति दलिताञ्जनमेघपुञ्जप्रत्यग्रनीलजलजन्मसमानभासम्
सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥ २७ ॥

रोलम्बलालितसुरद्रुमसूनुसम्पद्युक्तं समुत्कचनवोत्पलकर्णपूरम्
लोलालिभिः स्फुरितभालतलप्रदीप्तगोरोचनातिलकमुज्ज्वलचिल्लिचापम् ॥ २८ ॥

आपूर्णशारदगताङ्क शशाङ्कबिम्बकान्ताननं कमलपत्रविशालनेत्रम्
रत्नस्फुरन्मकरकुण्डलरश्मिदीप्तगण्डस्थलीमुकुरमुन्नतचारुनासम् ॥ २९ ॥

सिन्दूरसुन्दरतराधरमिन्दुकुन्दमन्दारमन्दहसितद्युतिदीपिताशम्
वन्यप्रवालकुसुमप्रचयावकॢप्तग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ॥ ३० ॥

मत्तभ्रमद्भ्रमरघुष्टविलम्बमानं सन्तानकप्रसरदामपरिष्कृतांसम्
हारावलीभगणराजितपीवरोरुव्योमस्थलीलसितकौस्तुभभानुमन्तम् ॥ ३१ ॥

श्रीवत्सलक्षणसुलक्षितमुन्नतांसमाजानुपीनपरिवृत्तसुजातबाहुम्
आबन्धुरोदरमुदारगभीरनाभिं भृङ्गाङ्गनानि करमञ्जुलरोमराजिम् ॥ ३२ ॥

नानामणिप्रघटिताङ्गदकङ्कणोर्मि ग्रैवेयसारसननूपुरतुन्दबन्धम्
दिव्याङ्गरागपरिपिञ्जरिताङ्गयष्टिमापीतवस्त्रपरिवीतनितम्बबिम्बम् ॥ ३३ ॥

चारूरुजानुमनुवृत्तमनोज्ञजङ्घं कान्तोन्नतप्रपदनिन्दित कूर्मकान्तिम्
माणिक्यदर्पणलसन्नखराजराजद्रक्ताङ्गुलिच्छदनुसुन्दरपादपद्मम् ॥ ३४ ॥

मत्स्याङ्कुशारिदरकेतुयवाब्जवज्रैः संलक्षितारुणकराङ्घ्रितलाभिरामम्
लावण्यसारसमुदायविनिर्मिताङ्गं सौन्दर्यनिन्दितमनोभव देहकान्तिम् ॥ ३५ ॥

आस्यारविन्दपरिपूरितवेणुरन्ध्रलोलत्कराङ्गुलिसमीरितदिव्यरागैः
शश्वद्भवैः कृतनिविष्टसमस्तजन्तुसन्तानसन्नतिमनन्तसुखाम्बुराशिम् ॥ ३६ ॥

गोभिर्मुखाम्बुजविलीनविलोचनाभिरूधोभरस्खलितमन्थरमन्दगाभिः
दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभिरालम्बिवालधिलताभिरथाभिवीतम् ॥ ३७ ॥

सम्प्रस्नुतस्तनविभूषणपूर्णनिश्चलास्याद्दृढक्षरितफेनिलदुग्धमुग्धैः
वेणुप्रवर्तितमनोहरमन्दगीतदत्तोच्चकर्णयुगलैरपितर्णकैश्च ॥ ३८ ॥

प्रत्यग्रशृङ्गमृदुमस्तकसम्प्रहारसंरम्भभावनविलोलखुराग्रपातैः
आमेदुरैर्बहुलसास्नगलैरुदग्रपुच्छैश्च वत्सतरवत्सतरीनिकायैः ॥ ३९ ॥

हम्भारवक्षुभितदिग्वलयैर्महद्भिरध्युक्षभिः पृथुककुद्भरभारखिन्नैः
उत्तम्भितश्रुतिपुटीपरिपीतवंशध्वानामृतोद्धतविकासिविशालघोणैः ॥ ४० ॥

गोपैः समानगुणशीलवयोविलासवेशैश्च मूर्छितकलस्वनवेणुवीणैः
मन्दोच्चतारपटुगानपरैर्विलोलदोर्वल्लरीललितलास्यविधानदक्षैः ॥ ४१ ॥

जङ्घान्तपीवरकटीरतटीनिबद्धव्यालोलकिङ्किणिघटारणितैरटद्भिः
मुग्धैस्तरक्षुनखकल्पितकान्तभूषैरव्यक्तमञ्जुवचनैः पृथुकैः परीतम् ॥ ४२ ॥

अथ सुललितगोपसुन्दरीणां पृथुकबरीषनितम्बमन्थराणाम्
गुरुकुचभरभङ्गुरावलग्नत्रिवलिविजृम्भितरोमराजिभाजाम् ॥ ४३ ॥

तदतिरुचिरचारुवेणुवाद्यामृतरसपल्लविताङ्गजाङ्घ्रिपस्य
मुकुलविमलरम्यरूढरोमोद्गमसमलङ्कृतगात्रवल्लरीणाम् ॥ ४४ ॥

तदतिरुचिर मन्दहासचन्द्रातपपरिजृम्भितरागवारिराशेः
तरलतरतरङ्गभङ्गविप्रुट्प्रकरघनश्रमबिन्दुसन्ततानाम् ॥ ४५ ॥

तदतिललितमन्दचिल्लिचापच्युतनिशितेक्षणमारबाणवृष्ट्या
दलितसकलमर्मविह्वलाङ्गप्रविसृतदुःसहवेपथुव्यथानाम् ॥ ४६ ॥

तदतिरुचिरवेषरूपशोभामृतरसपानविधानलालसानाम्
प्रणयसलिलपूरवाहिनीनामलसविलोलविलोचनाम्बुजानाम् ॥ ४७ ॥

विस्रंसत्कबरीकलापविगलत्फुल्लत्प्रसूनास्रवन्
माध्वीलम्पटचञ्चरीकघटयासंसेवितानां मुहुः
मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्युल्लस-
न्नीवीविश्लथमानचीनसिचयान्तार्चिर्नितम्बत्विषाम् ॥ ४८ ॥

स्खलितलसितपादाम्भोजमन्दाभिघात-
च्छुरितमणितुलाकोट्याकुलाशामुखानाम्
चलदधरदलानाङ्कुड्मलापक्ष्मलाक्षि-
द्वयसरसिरुहाणामुल्लसत्कुण्डलानाम् ॥ ४९ ॥

द्राघिष्ठश्वसनसमीरणाभितापप्रम्लानीभवदरुणौष्ठपल्लवानाम्
नानोपायनविलसत्कराम्बुजानामालीभिः सततनिषेवितं समन्तात् ॥ ५० ॥

तासामायतलोलनीलनयनव्याकोशलीनाम्बुज-
स्रग्भिः सम्परिपूजिताखिलतनुं नानाविलासास्पदम्
तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादिनीं-
बिभ्राणं प्रणयान्मदाक्षिमधुहृन्मालां मनोहारिणीम् ॥ ५१ ॥

गोपीगोपपशूनां बहिः स्मरेदग्रतोऽस्य गीर्वाणघटांवित्तार्थिनीं विरिञ्चित्रिनयनशतमन्युपूर्विकां स्तोत्रपराम् ॥ ५२ ॥

तद्वद्दक्षिणतो मुनिनिकरं दृढधर्मवाञ्छया समाम्नायपरम्
योगीन्द्रानथ पृष्ठे मुमुक्षमाणान्समाधिना तु सनकाद्यान् ॥ ५३ ॥

सव्ये सकान्तानथ यक्षसिद्धगन्धर्वविद्याधरचारणांश्च
सकिन्नरानप्सरसश्च मुख्याः कामार्थिनीर्नर्तनगीतवाद्यैः ॥ ५४ ॥

शङ्खेन्दुकुन्दधवलं सकलागमज्ञं सौदामिनीततिपिशङ्गजटाकलापम्
तत्पादपङ्कजगताममलां च भक्तिं वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ॥ ५५ ॥

नानाविध श्रुतिगुणान्वितसप्तरागग्रामत्रयीगतमनोहरमूर्छनाभिः
सम्प्रीणयन्तमुदिताभिरपि प्रभक्त्या सञ्चिन्तयन्नभसि मां द्रुहिणप्रसूतम् ॥ ५६ ॥

इति ध्यात्वाऽत्मानं पटुविशदधीर्नन्दतनयं नरो बुद्ध्यैवाऽर्घप्रभृतिभिरनिन्द्योपहृतिभिः
यजेद्भूयो भक्त्या स्ववपुषि बहिष्ठैश्च विभवैरिति प्रोक्तं सर्वं यदभिलषितं भूसुरवराः ॥ ५७ ॥

इति श्रीपद्मपुराणे पातालखण्डे वैशाखमाहात्म्ये त्र्युत्तरशततमोऽध्यायः १०३