१०२

यम उवाच-

विश्वास-प्रस्तुतिः

ततस्तु करुणावार्धिस्तेषां शोकेन पीडितः
भूपतिः श्रीहरेर्दूतान्विनयेनाह वाडव ॥ १ ॥

मूलम्

ऐश्वर्यस्याभिजात्यस्य गुणानां सुकृतस्य च
सन्तः फलं हि गण्यन्ते यद्भीतपरिरक्षणम् ॥ २ ॥

यद्यस्ति सुकृतं किञ्चिन्मम तेनैव जन्तवः
स्वर्गे गच्छन्तु मुक्तौघाः स्थाने तेषां वसाम्यहम् ॥ ३ ॥

एवं भूपवचः श्रुत्वा तस्य सत्यवतो हि ते
ध्यायन्तः सत्यमौदार्यमब्रुवंस्ते वचो नृपम् ॥ ४ ॥

दूता ऊचु-
अनेन तव कारुण्यकर्मणा वचसा नृप
बभूव वृद्धिर्धर्मस्य सञ्चितस्य विशेषतः ॥ ५ ॥

स्नानं दानं जपो होमस्तपो देवार्चनादिकम्
कृतं यन्माधवे मासि तदनन्तफलं विदुः ॥ ६ ॥

स्वर्गे यज्वा च दाता च क्रीडते त्रिदशैः सह
वापीषु हेमपद्मासु कल्पवृक्षतलेऽपि च ॥ ७ ॥

गीयमानो मुदं याति गीर्वाणरमणीगणैः
जलान्नदानतो लोकं लभते वारुणं शुभम् ॥ ८ ॥

कुलानि हेलया सप्त सन्तारयति गोप्रदः
हयं दत्वा रवेर्लोकं याति विद्याप्रदो नरः ॥ ९ ॥

ब्रह्मलोकं तथा हेमदानाद्याति सुरालये
यो ददाति तथा कन्यां विष्णुलोकं स गच्छति ॥ १० ॥

माधवेमासि यः स्नात्वा दत्वा सम्पूज्य माधवम्
अवाप्य सकलान्कामान्प्रयाति पदमव्ययम् ॥ ११ ॥

एकतोऽपि तपो दान क्रतु सुत्यादिकाः क्रियाः
एकतो विधिवन्मासो माधवश्चरितो महान् ॥ १२ ॥

तस्य माधवमासस्य दिनैकस्यापि भूपते
कृतं यत्सुकृतं तत्ते सर्वदानाधिकं पुरा ॥ १३ ॥

कारुण्येन दिनैकस्य पुण्यं देहि धरापते
निरये पच्यमानेभ्यो दुःखितेभ्यो दयानिधे ॥ १४ ॥

न दयासदृशो धर्मो न दयासदृशं तपः
न दयासदृशं दानं न दयासदृशः सखा ॥ १५ ॥

मूलम्

न दयासदृशो धर्मो न दयासदृशं तपः
न दयासदृशं दानं न दयासदृशः सखा ॥ १५ ॥

विश्वास-प्रस्तुतिः

पुण्यदः पुण्यमाप्नोति नरो लक्षगुणं सदा
कारुण्येन विशेषात्ते धर्मवृद्धिस्ततो भवेत् ॥ १६ ॥

दुःखितानां हि भूतानां दुःखोद्धर्त्ता नरो हि यः
स एव सुकृती लोके ज्ञेयो नारायणांशजः ॥ १७ ॥

वैशाखे मासि पूर्णायां स्नानदानादिकं त्वया
यत्तीर्थे विहितं वीर सर्वाघविनिषूदनम् ॥ १८ ॥

तदेभ्यो देहि विधिवत्कृत्वा साक्ष्ये हरिं प्रभुम्
त्रिवाचिकं च निरयाद्येनामी स्वर्गमाप्नुयुः ॥ १९ ॥

कपोतार्थं स्वमांसानि कारुण्येन पुरा शिबिः
दत्वा दयानिधिः स्वर्गे राजते कीर्तिवारिधिः ॥ २० ॥

दधीचिरपि राजर्षिर्दत्वास्थि च यमात्मनः
त्रैलोक्यकौमुदीं कीर्तिं लब्धवान्स्वर्गमक्षयम् ॥ २१ ॥

सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥ २२ ॥

न स्वर्गे नापवर्गेऽपि तत्सुखं लभते नरः
यदार्तजन्तुनिर्वाणदानोत्थमिति नो मतिः ॥ २३ ॥

सर्वेषु दातृजातेषु पुरा जातोसि भूपते
कर्मणानेन सङ्ख्यासु धीर धैर्यं नियोज्य च ॥ २४ ॥

दृष्ट्वा तवधियं धर्म दया दानं सुनिश्चलम्
अस्माभिरपि तूत्साहः क्रियते धर्मवादिभिः ॥ २५ ॥

यदि ते रोचते राजन्न विलम्बतया ततः
तदेभ्यो देहि तत्पुण्यं यातनादुःखदाहकम् ॥ २६ ॥

इत्युक्तः स तदा देवं कृत्वा साक्ष्ये गदाधरम्
तेभ्यस्त्रिवाचिकं पुण्यं दयावान्विधिना ददौ ॥ २७ ॥

दत्ते माधवमासस्य तस्मिन्नेकदिनोद्भवे
स्वकृते जन्तवो याम्ययातनापरिवर्जिताः ॥ २८ ॥

विमानवरमारूढाः सर्वे ते त्रिदिवं ययुः
प्रणमन्तः स्तुवन्तश्च पश्यन्तस्तं प्रहर्षिताः ॥ २९ ॥

नृपेण दत्तं तदवाप्य पुण्यं वैशाखमासैकदिनाभिजातम्
सर्वे ययुस्ते नरकाद्विमुक्ता दिवं विमानाधिगता हि चित्रम् ॥ ३० ॥

नूनं विचित्रो भुवि भूतवर्गः सम्भूतभावो बहुधा विचित्रः
तथा विचित्रोऽखिलकर्मयोगस्तत्कर्मशक्तिप्रचयो विचित्रः ॥ ३१ ॥

संस्तूयमानो मुनिदेवसङ्घैर्यस्तद्विशेषाधिकलब्धपुण्यः
परं पदं योगिवरैरलभ्यं ययौ जगन्नाथगणाभिवन्द्यः ॥ ३२ ॥

इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये
द्व्युत्तरशततमोऽध्यायः १०२