यम उवाच-
विश्वास-प्रस्तुतिः
अथ कालकटाक्षेण लक्षितो नृपतिस्तदा
मृतोऽतिरतिसेवोत्थ क्षयक्षीणकलेवरः ॥ १ ॥
मूलम्
अथ कालकटाक्षेण लक्षितो नृपतिस्तदा
मृतोऽतिरतिसेवोत्थ क्षयक्षीणकलेवरः ॥ १ ॥
विश्वास-प्रस्तुतिः
नीयमानो यमगणैस्ताड्यमानो मुहुर्मुहुः
क्रन्दमानो महारावान्स स्मरन्निजपातकम् ॥ २ ॥
मूलम्
नीयमानो यमगणैस्ताड्यमानो मुहुर्मुहुः
क्रन्दमानो महारावान्स स्मरन्निजपातकम् ॥ २ ॥
विश्वास-प्रस्तुतिः
विष्णुदूतैः समागम्य ताडयित्वा ममानुगान्
धर्मवानयमित्युक्त्वा विमानमथ रोपितः ॥ ३ ॥
मूलम्
विष्णुदूतैः समागम्य ताडयित्वा ममानुगान्
धर्मवानयमित्युक्त्वा विमानमथ रोपितः ॥ ३ ॥
विश्वास-प्रस्तुतिः
नीतो हरिपुरं भूपः स्तूयमानोऽप्सरोगणैः
प्रातःस्नानेन वैशाखमासस्य क्षीणपातकः ॥ ४ ॥
मूलम्
नीतो हरिपुरं भूपः स्तूयमानोऽप्सरोगणैः
प्रातःस्नानेन वैशाखमासस्य क्षीणपातकः ॥ ४ ॥
विश्वास-प्रस्तुतिः
अथ धर्मविहीनोऽयमिति मत्वा च तैः पुनः
देवदूतैर्निदेशेन विष्णोर्भूमिपतिस्तदा
अदूरादेव निरयवर्त्मना स समाहितः ॥ ५ ॥
मूलम्
अथ धर्मविहीनोऽयमिति मत्वा च तैः पुनः
देवदूतैर्निदेशेन विष्णोर्भूमिपतिस्तदा
अदूरादेव निरयवर्त्मना स समाहितः ॥ ५ ॥
विश्वास-प्रस्तुतिः
स गच्छन्नपि शुश्राव जीवानां क्रन्दतां पुनः
निरये पच्यमानानामारावं विविधं तदा ॥ ६ ॥
मूलम्
स गच्छन्नपि शुश्राव जीवानां क्रन्दतां पुनः
निरये पच्यमानानामारावं विविधं तदा ॥ ६ ॥
विश्वास-प्रस्तुतिः
पापिनां क्वथ्यमानानामाक्रन्दमतिदारुणम्
श्रुत्वा विस्मयवान्विप्र राजाभूदतिदुःखितः ॥ ७ ॥
मूलम्
पापिनां क्वथ्यमानानामाक्रन्दमतिदारुणम्
श्रुत्वा विस्मयवान्विप्र राजाभूदतिदुःखितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
प्रोवाच दूताः किमयमाक्रन्दो दारुणः श्रुतः
पुनर्न श्रूयते तन्मे कारणं वक्तुमर्हथ ॥ ८ ॥
मूलम्
प्रोवाच दूताः किमयमाक्रन्दो दारुणः श्रुतः
पुनर्न श्रूयते तन्मे कारणं वक्तुमर्हथ ॥ ८ ॥
विश्वास-प्रस्तुतिः
दूता ऊचु-
जन्तवस्त्यक्तमर्यादाः पापास्त्वाचारवर्जिताः
निरयेषु च घोरेषु तामिस्रादिषु पातिताः ॥ ९ ॥
मूलम्
दूता ऊचु-
जन्तवस्त्यक्तमर्यादाः पापास्त्वाचारवर्जिताः
निरयेषु च घोरेषु तामिस्रादिषु पातिताः ॥ ९ ॥
विश्वास-प्रस्तुतिः
कृतपातकिनस्त्वत्र प्राणत्यागादनन्तरम्
याम्यं पन्थानमाश्रित्य दुःखमश्नन्ति दारुणम् ॥ १० ॥
मूलम्
कृतपातकिनस्त्वत्र प्राणत्यागादनन्तरम्
याम्यं पन्थानमाश्रित्य दुःखमश्नन्ति दारुणम् ॥ १० ॥
विश्वास-प्रस्तुतिः
यमस्य पुरुषैर्घोरैः कृष्यमाणा इतस्ततः
अन्धकारे निपतिता भक्ष्यन्ते ह्यतिदारुणैः ॥ ११ ॥
मूलम्
यमस्य पुरुषैर्घोरैः कृष्यमाणा इतस्ततः
अन्धकारे निपतिता भक्ष्यन्ते ह्यतिदारुणैः ॥ ११ ॥
विश्वास-प्रस्तुतिः
श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः
अग्नितुण्डैर्वृकव्याघ्रैर्भुजगैर्वृश्चिकादिभिः ॥ १२ ॥
मूलम्
श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः
अग्नितुण्डैर्वृकव्याघ्रैर्भुजगैर्वृश्चिकादिभिः ॥ १२ ॥
विश्वास-प्रस्तुतिः
अग्निना दाह्यमानाश्च तुद्यमानाश्च कण्टकैः
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥ १३ ॥
मूलम्
अग्निना दाह्यमानाश्च तुद्यमानाश्च कण्टकैः
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥ १३ ॥
विश्वास-प्रस्तुतिः
क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा
पूयशोणितगन्धेन मूर्छ्यमानाः पदेपदे ॥ १४ ॥
मूलम्
क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा
पूयशोणितगन्धेन मूर्छ्यमानाः पदेपदे ॥ १४ ॥
विश्वास-प्रस्तुतिः
क्वाथ्यन्ते च क्वचित्तैलैस्ताड्यन्ते मुशलैः क्वचित्
आयसीषु प्रपच्यन्ते शिलासु क्वचिदेव च ॥ १५ ॥
मूलम्
क्वाथ्यन्ते च क्वचित्तैलैस्ताड्यन्ते मुशलैः क्वचित्
आयसीषु प्रपच्यन्ते शिलासु क्वचिदेव च ॥ १५ ॥
विश्वास-प्रस्तुतिः
क्वचिद्वान्तमथाश्नन्ति क्वचित्पूयमसृक्क्वचित्
क्वचिद्विष्ठां क्वचिन्मांसं पूतिगन्धिषु दारुणम् ॥ १६ ॥
मूलम्
क्वचिद्वान्तमथाश्नन्ति क्वचित्पूयमसृक्क्वचित्
क्वचिद्विष्ठां क्वचिन्मांसं पूतिगन्धिषु दारुणम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
कृमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैः क्वचित्क्वचित्
केशशोणितमांसासृग्वसास्थिनिकरेषु च ॥ १७ ॥
मूलम्
कृमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैः क्वचित्क्वचित्
केशशोणितमांसासृग्वसास्थिनिकरेषु च ॥ १७ ॥
विश्वास-प्रस्तुतिः
अस्थिताः कुणपाः कीर्णाः कृमिभिर्भक्षिताः स्फुटम्
काककङ्कमहागृध्रवदनैर्ध्वंसितेषु च ॥ १८ ॥
मूलम्
अस्थिताः कुणपाः कीर्णाः कृमिभिर्भक्षिताः स्फुटम्
काककङ्कमहागृध्रवदनैर्ध्वंसितेषु च ॥ १८ ॥
विश्वास-प्रस्तुतिः
शिवदुर्गन्धनीरन्ध्र सङ्घट्टशतकोटिषु
करपत्रशिलापत्रतप्त निस्तैलकेषु च ॥ १९ ॥
मूलम्
शिवदुर्गन्धनीरन्ध्र सङ्घट्टशतकोटिषु
करपत्रशिलापत्रतप्त निस्तैलकेषु च ॥ १९ ॥
विश्वास-प्रस्तुतिः
लोहतैलवसास्तम्भ कूटशाल्मलसद्मसु
क्षुरकण्टककीलोग्र ज्वालास्तम्भविभातिषु ॥ २० ॥
मूलम्
लोहतैलवसास्तम्भ कूटशाल्मलसद्मसु
क्षुरकण्टककीलोग्र ज्वालास्तम्भविभातिषु ॥ २० ॥
विश्वास-प्रस्तुतिः
तप्तं वैतरणीपूयपूरितेषु पृथक्पृथक्
असिपत्रवनोत्कृत्त नरनारीस्तनेषु च ॥ २१ ॥
मूलम्
तप्तं वैतरणीपूयपूरितेषु पृथक्पृथक्
असिपत्रवनोत्कृत्त नरनारीस्तनेषु च ॥ २१ ॥
विश्वास-प्रस्तुतिः
घोरान्धकारग्रहणदारुणेषु मुहुर्मुहुः
पापच्यमानाः क्रन्दन्तो दारुणैर्विविधैर्वधैः ॥ २२ ॥
मूलम्
घोरान्धकारग्रहणदारुणेषु मुहुर्मुहुः
पापच्यमानाः क्रन्दन्तो दारुणैर्विविधैर्वधैः ॥ २२ ॥
विश्वास-प्रस्तुतिः
कण्ठेषु बद्धपाशाश्च भुजगावेष्टिताः क्वचित्
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ॥ २३ ॥
मूलम्
कण्ठेषु बद्धपाशाश्च भुजगावेष्टिताः क्वचित्
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ॥ २३ ॥
विश्वास-प्रस्तुतिः
भग्नपृष्ठशिरोग्रीवाः स्तब्धकण्ठाः सुदारुणाः
कूटागारे भ्राम्यमाणाः शरीरैर्यातनाक्षमैः ॥ २४ ॥
मूलम्
भग्नपृष्ठशिरोग्रीवाः स्तब्धकण्ठाः सुदारुणाः
कूटागारे भ्राम्यमाणाः शरीरैर्यातनाक्षमैः ॥ २४ ॥
विश्वास-प्रस्तुतिः
पीड्यन्ते पापिनो राजन्क्रन्दमाना विकर्मिणः
सहितं विषयास्वादैः क्रन्दनं तैर्विधीयते ॥ २५ ॥
मूलम्
पीड्यन्ते पापिनो राजन्क्रन्दमाना विकर्मिणः
सहितं विषयास्वादैः क्रन्दनं तैर्विधीयते ॥ २५ ॥
विश्वास-प्रस्तुतिः
भुज्यते च कृतं पूर्वमेतत्सर्वैश्च जन्तुभिः
परस्त्रीषु कृतः सङ्गः प्रीतये दुःखदो हि सः ॥ २६ ॥
मूलम्
भुज्यते च कृतं पूर्वमेतत्सर्वैश्च जन्तुभिः
परस्त्रीषु कृतः सङ्गः प्रीतये दुःखदो हि सः ॥ २६ ॥
विश्वास-प्रस्तुतिः
मुहूर्तविषयास्वादो जातोऽनेकाब्ददुःखदः
वपुषस्तव राजेन्द्र प्रातःस्नानस्य माधवे ॥ २७ ॥
मूलम्
मुहूर्तविषयास्वादो जातोऽनेकाब्ददुःखदः
वपुषस्तव राजेन्द्र प्रातःस्नानस्य माधवे ॥ २७ ॥
विश्वास-प्रस्तुतिः
विधिना पावनस्यैते प्राप्य स्पर्शं च मारुतः
लब्धसौख्याः क्षणं जाता महसाप्यायितास्तव ॥ २८ ॥
मूलम्
विधिना पावनस्यैते प्राप्य स्पर्शं च मारुतः
लब्धसौख्याः क्षणं जाता महसाप्यायितास्तव ॥ २८ ॥
विश्वास-प्रस्तुतिः
आक्रन्दरहितास्तेन जातास्ते निरये स्थिताः
नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तितम् ॥ २९ ॥
मूलम्
आक्रन्दरहितास्तेन जातास्ते निरये स्थिताः
नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तितम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
जायते तद्वपुस्पर्शवायुस्पर्शः सुखावहः
यम उवाच-
इति दूतवचः श्रुत्वा स राजा करुणानिधिः ॥ ३० ॥
मूलम्
जायते तद्वपुस्पर्शवायुस्पर्शः सुखावहः
यम उवाच-
इति दूतवचः श्रुत्वा स राजा करुणानिधिः ॥ ३० ॥
विश्वास-प्रस्तुतिः
प्रत्युवाच हतान्दूतान्विष्णोरद्भुतकर्मणः
कोमलं हृदयं नूनं साधूनां नवनीतवत् ॥ ३१ ॥
मूलम्
प्रत्युवाच हतान्दूतान्विष्णोरद्भुतकर्मणः
कोमलं हृदयं नूनं साधूनां नवनीतवत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
वह्निसन्तापसन्तप्तं तद्यथा द्रवति स्फुटम्
राजोवाच-
नार्तं जन्तुमहं हित्वा पीडितुं गन्तुमुत्सहे ॥ ३२ ॥
मूलम्
वह्निसन्तापसन्तप्तं तद्यथा द्रवति स्फुटम्
राजोवाच-
नार्तं जन्तुमहं हित्वा पीडितुं गन्तुमुत्सहे ॥ ३२ ॥
विश्वास-प्रस्तुतिः
तं पापिष्ठं धिगार्तानामार्तिं शक्तो न हन्ति यः
मदङ्गसङ्गमोच्छिष्टवायुस्पर्शेन ते यदि ॥ ३३ ॥
मूलम्
तं पापिष्ठं धिगार्तानामार्तिं शक्तो न हन्ति यः
मदङ्गसङ्गमोच्छिष्टवायुस्पर्शेन ते यदि ॥ ३३ ॥
विश्वास-प्रस्तुतिः
जन्तवः सुखिनो जातास्तस्मात्तत्र नयन्तु माम्
पवित्रयन्ति जननीमवनीमपि ते नराः ॥ ३४ ॥
मूलम्
जन्तवः सुखिनो जातास्तस्मात्तत्र नयन्तु माम्
पवित्रयन्ति जननीमवनीमपि ते नराः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
परतापच्छिदो ये तु चन्दना इव चन्दनम्
परोपकृतये ये तु पीड्यन्ते कृतिनो हि ते ॥ ३५ ॥
मूलम्
परतापच्छिदो ये तु चन्दना इव चन्दनम्
परोपकृतये ये तु पीड्यन्ते कृतिनो हि ते ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सन्तस्त एव ये लोके परदुःखविदारणाः
आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः ॥ ३६ ॥
मूलम्
सन्तस्त एव ये लोके परदुःखविदारणाः
आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः
मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः ॥ ३७ ॥
मूलम्
तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः
मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तस्मात्परसुखेनैव सुखिनः साधवः सदा
वरं निरयपातोऽत्र वरं प्राणवियोजनम् ॥ ३८ ॥
मूलम्
तस्मात्परसुखेनैव सुखिनः साधवः सदा
वरं निरयपातोऽत्र वरं प्राणवियोजनम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
न पुनः क्षणमार्तानामार्तिनाशमृते सुखम्
दूता ऊचु-
जन्तवो निरये घोरे पच्यन्ते तेत्र पापिनः ॥ ३९ ॥
मूलम्
न पुनः क्षणमार्तानामार्तिनाशमृते सुखम्
दूता ऊचु-
जन्तवो निरये घोरे पच्यन्ते तेत्र पापिनः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
स्वकर्मैवोपजीवन्ति मोहस्थानं न विद्यते
यैर्न दत्तं न च हुतं तीर्थे स्नानं न वा कृतम् ॥ ४० ॥
मूलम्
स्वकर्मैवोपजीवन्ति मोहस्थानं न विद्यते
यैर्न दत्तं न च हुतं तीर्थे स्नानं न वा कृतम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परम्
नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप ॥ ४१ ॥
मूलम्
पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परम्
नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप ॥ ४१ ॥
विश्वास-प्रस्तुतिः
परस्मिन्निह घोरेषु पच्यन्ते निरयेषु ते
दुःशीला ये दुराचारा विहाराहारनिन्दिताः ॥ ४२ ॥
मूलम्
परस्मिन्निह घोरेषु पच्यन्ते निरयेषु ते
दुःशीला ये दुराचारा विहाराहारनिन्दिताः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
परापकारिणः पापकारिणो दुर्विहारिणः
विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये ॥ ४३ ॥
मूलम्
परापकारिणः पापकारिणो दुर्विहारिणः
विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये ॥ ४३ ॥
विश्वास-प्रस्तुतिः
निरये ते विपच्यन्ते ये परस्त्रीविहारिणः
एहि नूनं महीपाल गच्छामो हरिमन्दिरम् ॥ ४४ ॥
मूलम्
निरये ते विपच्यन्ते ये परस्त्रीविहारिणः
एहि नूनं महीपाल गच्छामो हरिमन्दिरम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
न ते पुण्यवता युक्तमिहस्था तु मतः परम्
राजोवाच-
यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये ॥ ४५ ॥
मूलम्
न ते पुण्यवता युक्तमिहस्था तु मतः परम्
राजोवाच-
यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये ॥ ४५ ॥
विश्वास-प्रस्तुतिः
नारके पथि वा नीतः किं वा मे सुकृतं परम्
मयापि न कृतं तादृक्सुकृतं कामशालिना ॥ ४६ ॥
मूलम्
नारके पथि वा नीतः किं वा मे सुकृतं परम्
मयापि न कृतं तादृक्सुकृतं कामशालिना ॥ ४६ ॥
विश्वास-प्रस्तुतिः
कथं पुरि हरेर्गन्ता संशयानोऽहमस्मि वै
दूता ऊचु-
सुकृतं न कृतं सत्यं त्वया कामवशात्मना ॥ ४७ ॥
मूलम्
कथं पुरि हरेर्गन्ता संशयानोऽहमस्मि वै
दूता ऊचु-
सुकृतं न कृतं सत्यं त्वया कामवशात्मना ॥ ४७ ॥
विश्वास-प्रस्तुतिः
नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताशितम्
किन्तु माधवमासे यद्विधिना वत्सरत्रयम् ॥ ४८ ॥
मूलम्
नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताशितम्
किन्तु माधवमासे यद्विधिना वत्सरत्रयम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
प्रातः स्नात्वा गुरुवचः प्रेरितेन पुरा त्वया
भक्त्या सम्पूजितो विष्णुर्विश्वेशो मधुसूदनः ॥ ४९ ॥
मूलम्
प्रातः स्नात्वा गुरुवचः प्रेरितेन पुरा त्वया
भक्त्या सम्पूजितो विष्णुर्विश्वेशो मधुसूदनः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
महापापातिपापौघ निहन्ता भक्तवत्सलः
सर्वधर्मैकसारेण तेनैकेन नरेश्वर ॥ ५० ॥
मूलम्
महापापातिपापौघ निहन्ता भक्तवत्सलः
सर्वधर्मैकसारेण तेनैकेन नरेश्वर ॥ ५० ॥
विश्वास-प्रस्तुतिः
नीयते पुण्यभवनं पूज्यमानो मरुद्गणैः
महतामपि पापानां निहन्ता माधवोऽर्चितः ॥ ५१ ॥
मूलम्
नीयते पुण्यभवनं पूज्यमानो मरुद्गणैः
महतामपि पापानां निहन्ता माधवोऽर्चितः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तथैव माधवो मासो मर्त्यानां विधिनोदितः
यथैव विस्फुलिङ्गेन ज्वाल्यते तृणसञ्चयः ॥ ५२ ॥
मूलम्
तथैव माधवो मासो मर्त्यानां विधिनोदितः
यथैव विस्फुलिङ्गेन ज्वाल्यते तृणसञ्चयः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
प्रातःस्नानेन वैशाखे तथाघौघोऽपि दह्यते
तावद्वपुषि पापानि प्रभवन्ति महान्त्यपि ॥ ५३ ॥
मूलम्
प्रातःस्नानेन वैशाखे तथाघौघोऽपि दह्यते
तावद्वपुषि पापानि प्रभवन्ति महान्त्यपि ॥ ५३ ॥
विश्वास-प्रस्तुतिः
यावन्न माधवे मासि तीर्थे मज्जति चोषसि
वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः ॥ ५४ ॥
मूलम्
यावन्न माधवे मासि तीर्थे मज्जति चोषसि
वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
हरिभक्त्यैव पापौघैर्मुक्तोऽच्युतगृहं व्रजेत्
आजन्मनो हि सुकृतं यत्त्वया न पुरा कृतम् ॥ ५५ ॥
मूलम्
हरिभक्त्यैव पापौघैर्मुक्तोऽच्युतगृहं व्रजेत्
आजन्मनो हि सुकृतं यत्त्वया न पुरा कृतम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तेन त्वं निरयस्थानमार्गं नीतो नरेश्वर
अथ भूमिपते तूर्णमस्माभिस्तु मरुद्गणैः ॥ ५६ ॥
मूलम्
तेन त्वं निरयस्थानमार्गं नीतो नरेश्वर
अथ भूमिपते तूर्णमस्माभिस्तु मरुद्गणैः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
स्तूयमानो विमानेन गच्छ गोविन्दमन्दिरम् ॥ ५७ ॥
मूलम्
स्तूयमानो विमानेन गच्छ गोविन्दमन्दिरम् ॥ ५७ ॥
इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये
एकोत्तरशततमोऽध्यायः १०१