१००

श्रीराजोवाच-

विश्वास-प्रस्तुतिः

क्षीरोदजलतुल्याभिः शीतलामलदृष्टिभिः
तथ्याभिश्च विचित्राभिस्त्वया गीर्भिः प्रबोधितः ॥ १ ॥

मूलम्

क्षीरोदजलतुल्याभिः शीतलामलदृष्टिभिः
तथ्याभिश्च विचित्राभिस्त्वया गीर्भिः प्रबोधितः ॥ १ ॥

विश्वास-प्रस्तुतिः

असागरोत्थं पीयूषमद्रव्यं व्यसनौषधम्
त्वयाहं पायितः सौम्य भवरोगनिवारणम् ॥ २ ॥

मूलम्

असागरोत्थं पीयूषमद्रव्यं व्यसनौषधम्
त्वयाहं पायितः सौम्य भवरोगनिवारणम् ॥ २ ॥

विश्वास-प्रस्तुतिः

हर्षप्रदो नृणां पापहानिकृज्जीवनौषधम्
जरामृत्युहरो विप्र सद्भिः किल समागमः ॥ ३ ॥

मूलम्

हर्षप्रदो नृणां पापहानिकृज्जीवनौषधम्
जरामृत्युहरो विप्र सद्भिः किल समागमः ॥ ३ ॥

विश्वास-प्रस्तुतिः

यानि यानि दुरापानि वाञ्छितानि महीतले
प्राप्यन्ते तानि तान्येव साधूनामेव सङ्गमात् ॥ ४ ॥

मूलम्

यानि यानि दुरापानि वाञ्छितानि महीतले
प्राप्यन्ते तानि तान्येव साधूनामेव सङ्गमात् ॥ ४ ॥

विश्वास-प्रस्तुतिः

यः स्नातः पापहरया साधुसङ्गम गङ्गया
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ ५ ॥

मूलम्

यः स्नातः पापहरया साधुसङ्गम गङ्गया
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ ५ ॥

विश्वास-प्रस्तुतिः

निमज्ज्योन्मज्जतान्नॄणां भवाब्धौ परमायनम्
सन्तो धर्मविदः शान्ता नौर्दृढे वाप्सुमज्जताम् ॥ ६ ॥

मूलम्

निमज्ज्योन्मज्जतान्नॄणां भवाब्धौ परमायनम्
सन्तो धर्मविदः शान्ता नौर्दृढे वाप्सुमज्जताम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

यो मे भावःपुरा ह्यासीत्कामैकसुखलालसः
दर्शनाद्वचनात्तेऽद्य विपरीतोऽभवद्विभो ॥ ७ ॥

मूलम्

यो मे भावःपुरा ह्यासीत्कामैकसुखलालसः
दर्शनाद्वचनात्तेऽद्य विपरीतोऽभवद्विभो ॥ ७ ॥

विश्वास-प्रस्तुतिः

एकजन्मसुखस्यार्थे सहस्राणि विलोपयेत्
प्राज्ञो जन्मसहस्राणि सञ्चिनोत्येकजन्मना ॥ ८ ॥

मूलम्

एकजन्मसुखस्यार्थे सहस्राणि विलोपयेत्
प्राज्ञो जन्मसहस्राणि सञ्चिनोत्येकजन्मना ॥ ८ ॥

विश्वास-प्रस्तुतिः

हाहा कामरसास्वाद सुखलालसचेतसा
मया मूढेन न कृतं किञ्चिदात्महितं द्विज ॥ ९ ॥

मूलम्

हाहा कामरसास्वाद सुखलालसचेतसा
मया मूढेन न कृतं किञ्चिदात्महितं द्विज ॥ ९ ॥

विश्वास-प्रस्तुतिः

अहो मे मनसो मोहो येनात्मा योषितां कृते
पातितो व्यसने घोरे दुःखोदर्के दुरत्यये ॥ १० ॥

मूलम्

अहो मे मनसो मोहो येनात्मा योषितां कृते
पातितो व्यसने घोरे दुःखोदर्के दुरत्यये ॥ १० ॥

विश्वास-प्रस्तुतिः

भगवन्परितुष्टोऽस्मि बोधितो वचनेन ते
उपदेशप्रदानेन मामुद्धर्तुमिहार्हसि ॥ ११ ॥

मूलम्

भगवन्परितुष्टोऽस्मि बोधितो वचनेन ते
उपदेशप्रदानेन मामुद्धर्तुमिहार्हसि ॥ ११ ॥

विश्वास-प्रस्तुतिः

पुरा चरितपुण्योऽहं भवता बोधितोऽस्मि यत्
त्वत्पादरजसा वापि विशेषादपि पावितः ॥ १२ ॥

मूलम्

पुरा चरितपुण्योऽहं भवता बोधितोऽस्मि यत्
त्वत्पादरजसा वापि विशेषादपि पावितः ॥ १२ ॥

विश्वास-प्रस्तुतिः

विधिं माधवमासस्य ब्रूहि मे वदतां वर
सर्वपापक्षयकरो यस्त्वया परिकीर्तितः ॥ १३ ॥

मूलम्

विधिं माधवमासस्य ब्रूहि मे वदतां वर
सर्वपापक्षयकरो यस्त्वया परिकीर्तितः ॥ १३ ॥

विश्वास-प्रस्तुतिः

किं दानं तत्र किं स्नानं को देवो नियमास्तु के
एतदाचक्ष्व विप्रर्षे दुरितोत्तारणाय मे ॥ १४ ॥

मूलम्

किं दानं तत्र किं स्नानं को देवो नियमास्तु के
एतदाचक्ष्व विप्रर्षे दुरितोत्तारणाय मे ॥ १४ ॥

विश्वास-प्रस्तुतिः

यम उवाच-
इत्येवमुक्तो भगवान्कश्यपः स दयानिधिः
प्रोवाच वचनं विप्र धर्म्यं विश्वहितं शुभम् ॥ १५ ॥

मूलम्

यम उवाच-
इत्येवमुक्तो भगवान्कश्यपः स दयानिधिः
प्रोवाच वचनं विप्र धर्म्यं विश्वहितं शुभम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

कश्यप उवाच-
पूर्वापरसमाधान क्षमबुद्ध्या च ते नृप
पृष्टं प्राज्ञे न वक्तव्यं नाधमे पापमानसे ॥ १६ ॥

मूलम्

कश्यप उवाच-
पूर्वापरसमाधान क्षमबुद्ध्या च ते नृप
पृष्टं प्राज्ञे न वक्तव्यं नाधमे पापमानसे ॥ १६ ॥

विश्वास-प्रस्तुतिः

पापप्रवृत्तस्य तथा दत्वा भूप शुभां मतिम्
विद्यादानफलं सम्यक्प्राप्यते नात्र संशयः ॥ १७ ॥

मूलम्

पापप्रवृत्तस्य तथा दत्वा भूप शुभां मतिम्
विद्यादानफलं सम्यक्प्राप्यते नात्र संशयः ॥ १७ ॥

विश्वास-प्रस्तुतिः

नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् ॥ १८ ॥

मूलम्

नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

विदुषामपि शिष्याणां पुत्राणां च क्रियावताम्
अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम् ॥ १९ ॥

मूलम्

विदुषामपि शिष्याणां पुत्राणां च क्रियावताम्
अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

साम्प्रतं शुद्धहृदयो जातस्त्वं वचनान्मम
पुराचरितपुण्येन केनापि च महीपते ॥ २० ॥

मूलम्

साम्प्रतं शुद्धहृदयो जातस्त्वं वचनान्मम
पुराचरितपुण्येन केनापि च महीपते ॥ २० ॥

विश्वास-प्रस्तुतिः

पापावस्थं शरीरं तद्गतं तव ममाश्रयात्
श्रवणाद्धर्मशास्त्रस्य धर्मावस्थं तु तेऽभवत् ॥ २१ ॥

मूलम्

पापावस्थं शरीरं तद्गतं तव ममाश्रयात्
श्रवणाद्धर्मशास्त्रस्य धर्मावस्थं तु तेऽभवत् ॥ २१ ॥

विश्वास-प्रस्तुतिः

पापावस्थमधर्माख्यं धर्मज्ञानविवर्जितम्
अपरं सद्व्रतं यद्धि विज्ञेयं तद्धि धार्मिकम् ॥ २२ ॥

मूलम्

पापावस्थमधर्माख्यं धर्मज्ञानविवर्जितम्
अपरं सद्व्रतं यद्धि विज्ञेयं तद्धि धार्मिकम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

धर्माधर्मोपभोगाय तत्तृतीयमतीन्द्रियम्
तत्त्रिभेदं शरीरं हि धर्मविद्भिरिहोच्यते ॥ २३ ॥

मूलम्

धर्माधर्मोपभोगाय तत्तृतीयमतीन्द्रियम्
तत्त्रिभेदं शरीरं हि धर्मविद्भिरिहोच्यते ॥ २३ ॥

विश्वास-प्रस्तुतिः

यावता धर्मभोगश्च मुक्तिश्चैतत्त्रिभेदकम्
पापावस्थं शरीरं तत्पापसञ्ज्ञं तदुच्यते ॥ २४ ॥

मूलम्

यावता धर्मभोगश्च मुक्तिश्चैतत्त्रिभेदकम्
पापावस्थं शरीरं तत्पापसञ्ज्ञं तदुच्यते ॥ २४ ॥

विश्वास-प्रस्तुतिः

इदानीं गुरुभक्तिं च कुर्वतश्च वचो मम
शृण्वतो धर्मरूपं तु शरीरं ते व्यवस्थितम् ॥ २५ ॥

मूलम्

इदानीं गुरुभक्तिं च कुर्वतश्च वचो मम
शृण्वतो धर्मरूपं तु शरीरं ते व्यवस्थितम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

तेनैव शुद्धिरमला जाता धर्मक्रियोचिता
दैवेन देहिनां नाम चेतांसि चरितानि च ॥ २६ ॥

मूलम्

तेनैव शुद्धिरमला जाता धर्मक्रियोचिता
दैवेन देहिनां नाम चेतांसि चरितानि च ॥ २६ ॥

विश्वास-प्रस्तुतिः

शरीराणि च पुष्यन्ति कालेकाले विपर्ययम्
साम्प्रतं भवतश्चेतो नूनं धर्मे प्रवर्तते ॥ २७ ॥

मूलम्

शरीराणि च पुष्यन्ति कालेकाले विपर्ययम्
साम्प्रतं भवतश्चेतो नूनं धर्मे प्रवर्तते ॥ २७ ॥

विश्वास-प्रस्तुतिः

तेन त्वां कारयिष्यामि माधवस्नानमुत्तमम्
यम उवाच-
ततस्तु कारितस्तेन कश्यपेन पुरोधसा ॥ २८ ॥

मूलम्

तेन त्वां कारयिष्यामि माधवस्नानमुत्तमम्
यम उवाच-
ततस्तु कारितस्तेन कश्यपेन पुरोधसा ॥ २८ ॥

विश्वास-प्रस्तुतिः

स नृपो माधवे मासि स्नानं दानं च पूजनम्
यथादृष्टं पुरा शास्त्रे वैशाखस्नानजं विधिम् ॥ २९ ॥

मूलम्

स नृपो माधवे मासि स्नानं दानं च पूजनम्
यथादृष्टं पुरा शास्त्रे वैशाखस्नानजं विधिम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

स मुनिः प्रत्युवाचासौ भूपाय च यथोदितम्
श्रावितः स्तोत्रसारं च पाठितो हरिमेधसः ॥ ३० ॥

मूलम्

स मुनिः प्रत्युवाचासौ भूपाय च यथोदितम्
श्रावितः स्तोत्रसारं च पाठितो हरिमेधसः ॥ ३० ॥

विश्वास-प्रस्तुतिः

श्रुते यस्मिन्नधीते च स सम्यक्फलमाप्नुयात् ॥ ३१ ॥

मूलम्

श्रुते यस्मिन्नधीते च स सम्यक्फलमाप्नुयात् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

स कारितस्तेन विशुद्धभावो राजापि चक्रे विधिवत्तदानीम्
श्रीमाधवेमासि विधानमीड्यं ततो यथाकर्णितमादरेण ॥ ३२ ॥

मूलम्

स कारितस्तेन विशुद्धभावो राजापि चक्रे विधिवत्तदानीम्
श्रीमाधवेमासि विधानमीड्यं ततो यथाकर्णितमादरेण ॥ ३२ ॥

विश्वास-प्रस्तुतिः

प्रातःस्नानं च पाद्यं च ह्यर्घं च हरिपूजनम्
नैवेद्यं भक्तिभावेन चकार स नृपोत्तमः ॥ ३३ ॥

मूलम्

प्रातःस्नानं च पाद्यं च ह्यर्घं च हरिपूजनम्
नैवेद्यं भक्तिभावेन चकार स नृपोत्तमः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

दानं यथा नियमपालनमादरेण वैशाखमादिविदधाति विधानमेवम्
यो भक्तितोऽन्वहमसौ प्रतिवर्षमेवं कृत्वा प्रयाति हरिधाम महीसुराग्र्यः ॥ ३४ ॥

मूलम्

दानं यथा नियमपालनमादरेण वैशाखमादिविदधाति विधानमेवम्
यो भक्तितोऽन्वहमसौ प्रतिवर्षमेवं कृत्वा प्रयाति हरिधाम महीसुराग्र्यः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

अथेतरेषु मासेषु कामिनीकुचकेलिवान्
भोगैकलालसो भूयो भवत्येवं यथारुचि ॥ ३५ ॥

मूलम्

अथेतरेषु मासेषु कामिनीकुचकेलिवान्
भोगैकलालसो भूयो भवत्येवं यथारुचि ॥ ३५ ॥

विश्वास-प्रस्तुतिः

न धर्मनियमं राजकार्येषु न विचारणम्
करोति कामवशगो हित्वा मासं स माधवम् ॥ ३६ ॥

मूलम्

न धर्मनियमं राजकार्येषु न विचारणम्
करोति कामवशगो हित्वा मासं स माधवम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

महतामपि विप्राग्र्य दुर्निवार्यो मनोभवः
शरीरसहजो नूनमनादिर्वासनाक्रमः ॥ ३७ ॥

मूलम्

महतामपि विप्राग्र्य दुर्निवार्यो मनोभवः
शरीरसहजो नूनमनादिर्वासनाक्रमः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

केशकज्जलशालिन्यो दुःस्पर्शा लोचनप्रियाः
यस्मादग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ३८ ॥

मूलम्

केशकज्जलशालिन्यो दुःस्पर्शा लोचनप्रियाः
यस्मादग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

घोरः शत्रुः शरीरस्थः पुंसां कामो यथोचितम्
मोहधूममयः पापो न केषामन्धकारितम् ॥ ३९ ॥

मूलम्

घोरः शत्रुः शरीरस्थः पुंसां कामो यथोचितम्
मोहधूममयः पापो न केषामन्धकारितम् ॥ ३९ ॥

इति श्रीपद्मपुराणेपातालखण्डे वैशाखमासमाहात्म्ये शततमोऽध्यायः १००