यम उवाच-
विश्वास-प्रस्तुतिः
बभूव भूपतिः पूर्वं ख्यातो नाम्ना महीरथः
पूर्वपुण्यफलावाप्त प्रभूतैश्वर्यसम्पदः ॥ १ ॥
मूलम्
बभूव भूपतिः पूर्वं ख्यातो नाम्ना महीरथः
पूर्वपुण्यफलावाप्त प्रभूतैश्वर्यसम्पदः ॥ १ ॥
विश्वास-प्रस्तुतिः
केवलं कामकलना ललना ललितस्थितः
तदेकव्यसनासक्तिर्न धर्मार्थ व्यवस्थितः ॥ २ ॥
मूलम्
केवलं कामकलना ललना ललितस्थितः
तदेकव्यसनासक्तिर्न धर्मार्थ व्यवस्थितः ॥ २ ॥
विश्वास-प्रस्तुतिः
मन्त्रिणि न्यस्य राज्यश्रीर्बुभुजे विषयान्नृपः
स कामिनी सहचरो राज्यकार्यपराङ्मुखः ॥ ३ ॥
मूलम्
मन्त्रिणि न्यस्य राज्यश्रीर्बुभुजे विषयान्नृपः
स कामिनी सहचरो राज्यकार्यपराङ्मुखः ॥ ३ ॥
विश्वास-प्रस्तुतिः
न प्रजा न धनं धर्मं नार्थं कार्यं च पश्यति
केवलं कामिनीकेलि कलनोचितवासनः ॥ ४ ॥
मूलम्
न प्रजा न धनं धर्मं नार्थं कार्यं च पश्यति
केवलं कामिनीकेलि कलनोचितवासनः ॥ ४ ॥
विश्वास-प्रस्तुतिः
अथ कालेन महता पुरोधास्तस्य कश्यपः
वचः प्रोवाच तं धर्म्यमिति चेतस्यचिन्तयत् ॥ ५ ॥
मूलम्
अथ कालेन महता पुरोधास्तस्य कश्यपः
वचः प्रोवाच तं धर्म्यमिति चेतस्यचिन्तयत् ॥ ५ ॥
विश्वास-प्रस्तुतिः
न वारयति यो मोहादधर्मान्नृपतिं गुरुः
सोपि तत्पापभुक्तस्माद्बोधनीयः पुरोधसा ॥ ६ ॥
मूलम्
न वारयति यो मोहादधर्मान्नृपतिं गुरुः
सोपि तत्पापभुक्तस्माद्बोधनीयः पुरोधसा ॥ ६ ॥
विश्वास-प्रस्तुतिः
बोधितोऽप्यवजानाति स चेद्वाक्यं पुरोधसः
पुरोधास्तत्र निर्दोषो राजा स्यात्सर्वदोषभाक् ॥ ७ ॥
मूलम्
बोधितोऽप्यवजानाति स चेद्वाक्यं पुरोधसः
पुरोधास्तत्र निर्दोषो राजा स्यात्सर्वदोषभाक् ॥ ७ ॥
विश्वास-प्रस्तुतिः
शृणु राजन्मम गुरोर्वचो धर्मार्थसंहितम्
अभिन्नार्थमुपेतार्थमिच्छारागादि वर्जितम् ॥ ८ ॥
मूलम्
शृणु राजन्मम गुरोर्वचो धर्मार्थसंहितम्
अभिन्नार्थमुपेतार्थमिच्छारागादि वर्जितम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
अयमेव परो धर्मो यद्गुरोर्वचसि स्थितिः
गुर्वाज्ञायालवो राज्ञामायुः श्री सौख्यवर्द्धनः ॥ ९ ॥
मूलम्
अयमेव परो धर्मो यद्गुरोर्वचसि स्थितिः
गुर्वाज्ञायालवो राज्ञामायुः श्री सौख्यवर्द्धनः ॥ ९ ॥
विश्वास-प्रस्तुतिः
न विप्रास्तर्पिता दानैर्विष्णुर्नाराधितस्त्वया
न व्रतं न तपः किञ्चिन्न तीर्थं हि कृतं त्वया ॥ १० ॥
मूलम्
न विप्रास्तर्पिता दानैर्विष्णुर्नाराधितस्त्वया
न व्रतं न तपः किञ्चिन्न तीर्थं हि कृतं त्वया ॥ १० ॥
विश्वास-प्रस्तुतिः
हरिनाम त्वया कामवशगेन न चिन्तितम्
हा त्वया भीरुसङ्गत्या न विद्वत्सङ्गतिः कृता ॥ ११ ॥
मूलम्
हरिनाम त्वया कामवशगेन न चिन्तितम्
हा त्वया भीरुसङ्गत्या न विद्वत्सङ्गतिः कृता ॥ ११ ॥
विश्वास-प्रस्तुतिः
स्मरचामरवाहिन्यो वल्लभाः कस्य न प्रियाः
किन्तु ताः पवनोल्लोलकदलीदलवच्चलाः ॥ १२ ॥
मूलम्
स्मरचामरवाहिन्यो वल्लभाः कस्य न प्रियाः
किन्तु ताः पवनोल्लोलकदलीदलवच्चलाः ॥ १२ ॥
विश्वास-प्रस्तुतिः
तरङ्गतरलैरर्थैर्भोगैर्भ्रूभङ्गभङ्गुरैः
मुहूर्तपेयैस्तारुण्यैर्न तृप्यन्ते महाशयाः ॥ १३ ॥
मूलम्
तरङ्गतरलैरर्थैर्भोगैर्भ्रूभङ्गभङ्गुरैः
मुहूर्तपेयैस्तारुण्यैर्न तृप्यन्ते महाशयाः ॥ १३ ॥
विश्वास-प्रस्तुतिः
किं विद्यया च तपसा किं त्यागेन नयेन वा
किं विविक्तेन मनसा स्त्रीभिर्यस्य हृतं मनः ॥ १४ ॥
मूलम्
किं विद्यया च तपसा किं त्यागेन नयेन वा
किं विविक्तेन मनसा स्त्रीभिर्यस्य हृतं मनः ॥ १४ ॥
विश्वास-प्रस्तुतिः
एक एव सुहृद्धर्मो निधनेष्वनुयाति यः
सर्वमन्यच्छरीरेण समं नाशं गमिष्यति ॥ १५ ॥
मूलम्
एक एव सुहृद्धर्मो निधनेष्वनुयाति यः
सर्वमन्यच्छरीरेण समं नाशं गमिष्यति ॥ १५ ॥
विश्वास-प्रस्तुतिः
धर्मं शनैः सञ्चिनुयाद्वल्मीकमिव पुत्तिकाः
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ १६ ॥
मूलम्
धर्मं शनैः सञ्चिनुयाद्वल्मीकमिव पुत्तिकाः
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
अनिलोल्लासितोत्ताल जलकल्लोल चञ्चलम्
किं न जानासि राजेन्द्र नृणां जीवित विभ्रमम् ॥ १७ ॥
मूलम्
अनिलोल्लासितोत्ताल जलकल्लोल चञ्चलम्
किं न जानासि राजेन्द्र नृणां जीवित विभ्रमम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
विनयो रत्नमुकुटः सत्यधर्मौ च कुण्डले
त्यागश्च कङ्कणो येषां किं तेषां जडमण्डनैः ॥ १८ ॥
मूलम्
विनयो रत्नमुकुटः सत्यधर्मौ च कुण्डले
त्यागश्च कङ्कणो येषां किं तेषां जडमण्डनैः ॥ १८ ॥
विश्वास-प्रस्तुतिः
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं भुवि
विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ १९ ॥
मूलम्
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं भुवि
विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ १९ ॥
विश्वास-प्रस्तुतिः
गम्यमानेषु सर्वेषु क्षीयमाणे तथायुषि
जीविते लुप्यमाने च किमुत्थाय न धावसि ॥ २० ॥
मूलम्
गम्यमानेषु सर्वेषु क्षीयमाणे तथायुषि
जीविते लुप्यमाने च किमुत्थाय न धावसि ॥ २० ॥
विश्वास-प्रस्तुतिः
कुटुम्बं पुत्रदारादि शरीरं द्रव्यसञ्चयः
पारक्यमध्रुवं किन्तु स्वीये सुकृतदुष्कृते ॥ २१ ॥
मूलम्
कुटुम्बं पुत्रदारादि शरीरं द्रव्यसञ्चयः
पारक्यमध्रुवं किन्तु स्वीये सुकृतदुष्कृते ॥ २१ ॥
विश्वास-प्रस्तुतिः
यदा सर्वं परित्यज्य गन्तव्यमवशेन ते
अनर्थे किं प्रसक्तस्त्वं स्वधर्मं नानुतिष्ठसि ॥ २२ ॥
मूलम्
यदा सर्वं परित्यज्य गन्तव्यमवशेन ते
अनर्थे किं प्रसक्तस्त्वं स्वधर्मं नानुतिष्ठसि ॥ २२ ॥
विश्वास-प्रस्तुतिः
अविश्राममनालम्बमपाथेयमदेशिकम्
मृतः कान्तारमध्वानं कथमेको गमिष्यसि ॥ २३ ॥
मूलम्
अविश्राममनालम्बमपाथेयमदेशिकम्
मृतः कान्तारमध्वानं कथमेको गमिष्यसि ॥ २३ ॥
विश्वास-प्रस्तुतिः
न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति
सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यति ॥ २४ ॥
मूलम्
न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति
सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यति ॥ २४ ॥
विश्वास-प्रस्तुतिः
श्रुतिस्मृत्युदितं कर्म कुलदेशोचितं हितम्
धर्ममूलं निषेवस्व सदाचारमतन्द्रितः ॥ २५ ॥
मूलम्
श्रुतिस्मृत्युदितं कर्म कुलदेशोचितं हितम्
धर्ममूलं निषेवस्व सदाचारमतन्द्रितः ॥ २५ ॥
विश्वास-प्रस्तुतिः
परित्यजेदर्थकामौ स्यातां चेद्धर्मवर्जितौ
धर्मेण प्राप्यते सर्वमर्थकामादिकं सुखम् ॥ २६ ॥
मूलम्
परित्यजेदर्थकामौ स्यातां चेद्धर्मवर्जितौ
धर्मेण प्राप्यते सर्वमर्थकामादिकं सुखम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
इन्द्रियाणां जयं योगं समातिष्ठेद्दिवानिशम्
जितेन्द्रियो हि शक्नोति पथि स्थापयितुं प्रजाः ॥ २७ ॥
मूलम्
इन्द्रियाणां जयं योगं समातिष्ठेद्दिवानिशम्
जितेन्द्रियो हि शक्नोति पथि स्थापयितुं प्रजाः ॥ २७ ॥
विश्वास-प्रस्तुतिः
अतिप्रगल्भ ललना कटाक्ष चपलाश्रियः
विनये प्रणिधानेन चिरं तिष्ठन्ति भूभुजाम् ॥ २८ ॥
मूलम्
अतिप्रगल्भ ललना कटाक्ष चपलाश्रियः
विनये प्रणिधानेन चिरं तिष्ठन्ति भूभुजाम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
कामदर्पादिशीलानामविचारित कारिणाम्
आयुषा सह नश्यन्ति सम्पदो मूढचेतसाम् ॥ २९ ॥
मूलम्
कामदर्पादिशीलानामविचारित कारिणाम्
आयुषा सह नश्यन्ति सम्पदो मूढचेतसाम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
भूतिभिर्नष्टदृष्टाभिर्नृत्यन्ते न महाशयाः
नागताभिर्न याताभिर्नदीभिश्चीयतेम्बुधिः ॥ ३० ॥
मूलम्
भूतिभिर्नष्टदृष्टाभिर्नृत्यन्ते न महाशयाः
नागताभिर्न याताभिर्नदीभिश्चीयतेम्बुधिः ॥ ३० ॥
विश्वास-प्रस्तुतिः
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते
व्यसन्यधोधो व्रजति स्वर्गाम्यव्यसनी नृपः ॥ ३१ ॥
मूलम्
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते
व्यसन्यधोधो व्रजति स्वर्गाम्यव्यसनी नृपः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
व्यसनानि दुरन्तानि कामजानि विशेषतः
त्यज तस्मान्महाराज कामं धर्मविरोधिनम् ॥ ३२ ॥
मूलम्
व्यसनानि दुरन्तानि कामजानि विशेषतः
त्यज तस्मान्महाराज कामं धर्मविरोधिनम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
जडानामविवेकानामसुराणां दुरात्मनाम्
भाग्यभोग्यानि राज्यानि सन्त्यनीतिमतामपि ॥ ३३ ॥
मूलम्
जडानामविवेकानामसुराणां दुरात्मनाम्
भाग्यभोग्यानि राज्यानि सन्त्यनीतिमतामपि ॥ ३३ ॥
विश्वास-प्रस्तुतिः
नैव स्थिराणि तानीह दुरितैरनुसेवितैः
विलीयन्ते यथा वह्निसंसर्गेणेन्धनानि च ॥ ३४ ॥
मूलम्
नैव स्थिराणि तानीह दुरितैरनुसेवितैः
विलीयन्ते यथा वह्निसंसर्गेणेन्धनानि च ॥ ३४ ॥
विश्वास-प्रस्तुतिः
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा
न विचारपरं चेतो यस्यासौ मृत एव सः ॥ ३५ ॥
मूलम्
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा
न विचारपरं चेतो यस्यासौ मृत एव सः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
उपदेष्टा श्रुतवतां गुरुरित्युच्यते यतः
किन्तु त्वासन्नविपदामुपदेशाः शिरोरुहाः ॥ ३६ ॥
मूलम्
उपदेष्टा श्रुतवतां गुरुरित्युच्यते यतः
किन्तु त्वासन्नविपदामुपदेशाः शिरोरुहाः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
विषयज्वरमुत्सृज्य समया स्वस्थया धिया
युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते ॥ ३७ ॥
मूलम्
विषयज्वरमुत्सृज्य समया स्वस्थया धिया
युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते ॥ ३७ ॥
विश्वास-प्रस्तुतिः
अशुभाच्चलितं याति शुभं तस्मादपीतरम्
जन्तोश्चित्तं च शिशुवत्तस्मात्तच्चालयेद्बलात् ॥ ३८ ॥
मूलम्
अशुभाच्चलितं याति शुभं तस्मादपीतरम्
जन्तोश्चित्तं च शिशुवत्तस्मात्तच्चालयेद्बलात् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
उपधार्य मतिं राजन्वृद्धानां धर्मदर्शिनाम्
नियच्छेत्परया बुद्ध्या चित्तमुत्पथगामि यत् ॥ ३९ ॥
मूलम्
उपधार्य मतिं राजन्वृद्धानां धर्मदर्शिनाम्
नियच्छेत्परया बुद्ध्या चित्तमुत्पथगामि यत् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः
न हस्तपादचलनं न देशान्तरसङ्गतम् ॥ ४० ॥
मूलम्
न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः
न हस्तपादचलनं न देशान्तरसङ्गतम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः
केवलं तन्मनस्कस्य जपेनासाद्यते पदम् ॥ ४१ ॥
मूलम्
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः
केवलं तन्मनस्कस्य जपेनासाद्यते पदम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
विषये वर्तमानस्य तस्माच्चित्तस्य संयमे
यत्नं कुर्याद्बुधो राजन्ध्रुवं यन्तेव वाजिनाम् ॥ ४२ ॥
मूलम्
विषये वर्तमानस्य तस्माच्चित्तस्य संयमे
यत्नं कुर्याद्बुधो राजन्ध्रुवं यन्तेव वाजिनाम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तत्तत्कुर्याद्यतो राजन्भवता येन वञ्चितः
मुनिभिश्च फलैस्तैस्तैरतोप्याकर्णयाधुना ॥ ४३ ॥
मूलम्
तत्तत्कुर्याद्यतो राजन्भवता येन वञ्चितः
मुनिभिश्च फलैस्तैस्तैरतोप्याकर्णयाधुना ॥ ४३ ॥
विश्वास-प्रस्तुतिः
मुह्यतापि मनुष्येण प्रष्टव्याः सुहृदो बुधाः
ते च पृष्टा यथा ब्रूयुस्तत्कर्त्तव्यं यथोचितम् ॥ ४४ ॥
मूलम्
मुह्यतापि मनुष्येण प्रष्टव्याः सुहृदो बुधाः
ते च पृष्टा यथा ब्रूयुस्तत्कर्त्तव्यं यथोचितम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
सर्वोपायेन कर्त्तव्यो निग्रहः कामकोपयोः
श्रेयोऽर्थिना यतस्तौ हि श्रेयोघातार्थमुद्यतौ ॥ ४५ ॥
मूलम्
सर्वोपायेन कर्त्तव्यो निग्रहः कामकोपयोः
श्रेयोऽर्थिना यतस्तौ हि श्रेयोघातार्थमुद्यतौ ॥ ४५ ॥
विश्वास-प्रस्तुतिः
कामो हि बलवान्राजञ्छरीरस्थो रिपुर्महान्
न तस्य वशगो भूयाज्जनः श्रेयोभिलाषुकः ॥ ४६ ॥
मूलम्
कामो हि बलवान्राजञ्छरीरस्थो रिपुर्महान्
न तस्य वशगो भूयाज्जनः श्रेयोभिलाषुकः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
यः कामो देवदेवेन पुरा तेनैव शूलिना
ललाटवह्निना दग्धः कृतोनङ्ग इति स्थितिः ॥ ४७ ॥
मूलम्
यः कामो देवदेवेन पुरा तेनैव शूलिना
ललाटवह्निना दग्धः कृतोनङ्ग इति स्थितिः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
यदा वाञ्छत्यसौ नारीं निहन्तुं समनोभवः
पुंसां कायं समाश्रित्य स्वरूपं दर्शयत्यसौ ॥ ४८ ॥
मूलम्
यदा वाञ्छत्यसौ नारीं निहन्तुं समनोभवः
पुंसां कायं समाश्रित्य स्वरूपं दर्शयत्यसौ ॥ ४८ ॥
विश्वास-प्रस्तुतिः
चिन्त्यमानस्य वै पुंसो नार्या रूपं पुनःपुनः
तमदृष्टं समाश्रित्य नरमुन्मादयत्यसौ ॥ ४९ ॥
मूलम्
चिन्त्यमानस्य वै पुंसो नार्या रूपं पुनःपुनः
तमदृष्टं समाश्रित्य नरमुन्मादयत्यसौ ॥ ४९ ॥
विश्वास-प्रस्तुतिः
तथैवोन्मादयत्येष योषिदङ्गं न संशयः
स्मरः संस्मरणान्नाम जातं तस्य ततो नृप ॥ ५० ॥
मूलम्
तथैवोन्मादयत्येष योषिदङ्गं न संशयः
स्मरः संस्मरणान्नाम जातं तस्य ततो नृप ॥ ५० ॥
विश्वास-प्रस्तुतिः
यादृशस्तादृशो रङ्गो वस्त्रं वीरसमाश्रयेत्
आत्मतेजः प्रकाशात्सोऽश्रुधारा पेयतां व्रजेत् ॥ ५१ ॥
मूलम्
यादृशस्तादृशो रङ्गो वस्त्रं वीरसमाश्रयेत्
आत्मतेजः प्रकाशात्सोऽश्रुधारा पेयतां व्रजेत् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
नार्यारूपं समारुह्य धीरं तमपि मोहयेत्
पुरुषं तु समाश्रित्य द्रावयत्येष योषितम् ॥ ५२ ॥
मूलम्
नार्यारूपं समारुह्य धीरं तमपि मोहयेत्
पुरुषं तु समाश्रित्य द्रावयत्येष योषितम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
स एव सहजो राजन्नशरीरी शरीरगः
शरीरकस्यापि विभो कथं पापं विधीयते ॥ ५३ ॥
मूलम्
स एव सहजो राजन्नशरीरी शरीरगः
शरीरकस्यापि विभो कथं पापं विधीयते ॥ ५३ ॥
विश्वास-प्रस्तुतिः
यं प्राप्यातिपवित्राणि पञ्चगव्यहवींषि च
अशुचित्वं क्षणं यान्ति कोऽन्य स्यादशुचिस्ततः ॥ ५४ ॥
मूलम्
यं प्राप्यातिपवित्राणि पञ्चगव्यहवींषि च
अशुचित्वं क्षणं यान्ति कोऽन्य स्यादशुचिस्ततः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
जिघ्रन्नपि स्वदुर्गन्धं पश्यन्नपि मलं स्वकम्
न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम् ॥ ५५ ॥
मूलम्
जिघ्रन्नपि स्वदुर्गन्धं पश्यन्नपि मलं स्वकम्
न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
हृद्यान्नमन्नपानानि यं प्राप्य सुरभीणि च
अशुचित्वं प्रयान्त्याशु कोऽन्यस्यादशुचिस्ततः ॥ ५६ ॥
मूलम्
हृद्यान्नमन्नपानानि यं प्राप्य सुरभीणि च
अशुचित्वं प्रयान्त्याशु कोऽन्यस्यादशुचिस्ततः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
यस्योदरगतं चान्नं स्वं हि रूपं परित्यजेत्
कृमिमिश्रममेध्यत्वं शीघ्रं प्रज्ञायते किल ॥ ५७ ॥
मूलम्
यस्योदरगतं चान्नं स्वं हि रूपं परित्यजेत्
कृमिमिश्रममेध्यत्वं शीघ्रं प्रज्ञायते किल ॥ ५७ ॥
विश्वास-प्रस्तुतिः
तथापि देहे भूपाल निजरूपं परित्यजेत्
शुनतां याति वै पश्चात्कृमिदुर्गन्धिसङ्कुले ॥ ५८ ॥
मूलम्
तथापि देहे भूपाल निजरूपं परित्यजेत्
शुनतां याति वै पश्चात्कृमिदुर्गन्धिसङ्कुले ॥ ५८ ॥
विश्वास-प्रस्तुतिः
जायन्ते तत्र वै यूकाः कृमयो वा न संशयः
सकृमिः कुरुते स्फोटं कण्डूश्च परिदारुणः ॥ ५९ ॥
मूलम्
जायन्ते तत्र वै यूकाः कृमयो वा न संशयः
सकृमिः कुरुते स्फोटं कण्डूश्च परिदारुणः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
व्यथामुत्पादयेद्भूयः सर्वाङ्गं परिचालयेत्
नखाग्रैर्घृष्यमाणा सा कण्डूः शान्ता प्रजायते ॥ ६० ॥
मूलम्
व्यथामुत्पादयेद्भूयः सर्वाङ्गं परिचालयेत्
नखाग्रैर्घृष्यमाणा सा कण्डूः शान्ता प्रजायते ॥ ६० ॥
विश्वास-प्रस्तुतिः
तद्वत्सुखं भवत्येव सुरतस्य न संशयः
भुञ्जत्येवं रसान्मर्त्यः सुभक्षान्पिबते पुनः ॥ ६१ ॥
मूलम्
तद्वत्सुखं भवत्येव सुरतस्य न संशयः
भुञ्जत्येवं रसान्मर्त्यः सुभक्षान्पिबते पुनः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तत्रस्थं पचते वह्निरपाने पातयेन्मलम्
सारभूतो रसस्तत्र उद्रिक्तस्तु प्रजायते ॥ ६२ ॥
मूलम्
तत्रस्थं पचते वह्निरपाने पातयेन्मलम्
सारभूतो रसस्तत्र उद्रिक्तस्तु प्रजायते ॥ ६२ ॥
विश्वास-प्रस्तुतिः
निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च
आकृष्टः स समानेन नीतस्तेनापि वायुना ॥ ६३ ॥
मूलम्
निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च
आकृष्टः स समानेन नीतस्तेनापि वायुना ॥ ६३ ॥
विश्वास-प्रस्तुतिः
स्थानं न लभते वीर्यं चञ्चलत्वेन वर्तते
प्राणिनां हि कपालेषु कृमयः सन्ति पञ्च वै ॥ ६४ ॥
मूलम्
स्थानं न लभते वीर्यं चञ्चलत्वेन वर्तते
प्राणिनां हि कपालेषु कृमयः सन्ति पञ्च वै ॥ ६४ ॥
विश्वास-प्रस्तुतिः
द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः
कनिष्ठाङ्गुलिमानेन रक्तपुच्छाश्च भूपते ॥ ६५ ॥
मूलम्
द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः
कनिष्ठाङ्गुलिमानेन रक्तपुच्छाश्च भूपते ॥ ६५ ॥
विश्वास-प्रस्तुतिः
नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः
तेषां नामानि भद्रं ते मत्तो निगदतः शृणु ॥ ६६ ॥
मूलम्
नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः
तेषां नामानि भद्रं ते मत्तो निगदतः शृणु ॥ ६६ ॥
विश्वास-प्रस्तुतिः
पिङ्गली शृङ्गली नाम द्वौ कृमी कर्णमूलयोः
शृङ्गली जङ्गली चान्यौ नेत्रयोरन्तरस्थितौ ॥ ६७ ॥
मूलम्
पिङ्गली शृङ्गली नाम द्वौ कृमी कर्णमूलयोः
शृङ्गली जङ्गली चान्यौ नेत्रयोरन्तरस्थितौ ॥ ६७ ॥
विश्वास-प्रस्तुतिः
कृमीणां शतपञ्चाशत्तादृग्भूता न संशयः
ललाटान्तः स्थिताः सर्वे राजिकायाः प्रमाणतः ॥ ६८ ॥
मूलम्
कृमीणां शतपञ्चाशत्तादृग्भूता न संशयः
ललाटान्तः स्थिताः सर्वे राजिकायाः प्रमाणतः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
कपालरोगिणः सर्वे कुर्वन्ति न संशयः
अन्यमेवं प्रवक्ष्यामि प्राजापत्यो महाकृमिः ॥ ६९ ॥
मूलम्
कपालरोगिणः सर्वे कुर्वन्ति न संशयः
अन्यमेवं प्रवक्ष्यामि प्राजापत्यो महाकृमिः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
सतण्डुलप्रमाणेन तद्वद्वर्णेन संशयः
केशद्वयं मुखे तस्य विद्यते शृणु भूपते ॥ ७० ॥
मूलम्
सतण्डुलप्रमाणेन तद्वद्वर्णेन संशयः
केशद्वयं मुखे तस्य विद्यते शृणु भूपते ॥ ७० ॥
विश्वास-प्रस्तुतिः
प्राणिनां सङ्क्षयाबुद्धिस्तत्क्षणाद्धि न संशयः
स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे ॥ ७१ ॥
मूलम्
प्राणिनां सङ्क्षयाबुद्धिस्तत्क्षणाद्धि न संशयः
स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे ॥ ७१ ॥
विश्वास-प्रस्तुतिः
तद्वीर्यं रसरूपेण पतते नात्र संशयः
सुखेन पिबते वीर्यं तेन मत्तः प्रजायते ॥ ७२ ॥
मूलम्
तद्वीर्यं रसरूपेण पतते नात्र संशयः
सुखेन पिबते वीर्यं तेन मत्तः प्रजायते ॥ ७२ ॥
विश्वास-प्रस्तुतिः
तालुस्थानं प्रभेद्यैव चञ्चलत्वेन वर्त्तते
इडा च पिङ्गला नाडी सुषुम्ना तत्र संस्थिताः ॥ ७३ ॥
मूलम्
तालुस्थानं प्रभेद्यैव चञ्चलत्वेन वर्त्तते
इडा च पिङ्गला नाडी सुषुम्ना तत्र संस्थिताः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
स्वबलेनापि तस्यैव कम्पिता नाडिका क्षणम्
कामकण्डूर्भवेद्राजन्सर्वेषां प्राणिनां किल ॥ ७४ ॥
मूलम्
स्वबलेनापि तस्यैव कम्पिता नाडिका क्षणम्
कामकण्डूर्भवेद्राजन्सर्वेषां प्राणिनां किल ॥ ७४ ॥
विश्वास-प्रस्तुतिः
नरस्य स्फुटते लिगं नार्या योनिश्च भूपते
स्त्रीनरौ च प्रमत्तौ तौ गच्छतः सङ्गमं ततः ॥ ७५ ॥
मूलम्
नरस्य स्फुटते लिगं नार्या योनिश्च भूपते
स्त्रीनरौ च प्रमत्तौ तौ गच्छतः सङ्गमं ततः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
कायेन कायं सङ्घृष्य मैथुनेन हि जायते
क्षणमात्रं सुखं तत्र पुनः कण्डूश्च तादृशी ॥ ७६ ॥
मूलम्
कायेन कायं सङ्घृष्य मैथुनेन हि जायते
क्षणमात्रं सुखं तत्र पुनः कण्डूश्च तादृशी ॥ ७६ ॥
विश्वास-प्रस्तुतिः
सर्वत्र दृश्यते वीर भाव एवंविधः किल
विरसः परिपाकोऽयं विषयस्य न संशयः ॥ ७७ ॥
मूलम्
सर्वत्र दृश्यते वीर भाव एवंविधः किल
विरसः परिपाकोऽयं विषयस्य न संशयः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
धर्म एव पुनः श्रेयान्विधिना समनुष्ठितः
धैर्यमालम्ब्य च ततो धर्ममेव समाचर ॥ ७८ ॥
मूलम्
धर्म एव पुनः श्रेयान्विधिना समनुष्ठितः
धैर्यमालम्ब्य च ततो धर्ममेव समाचर ॥ ७८ ॥
विश्वास-प्रस्तुतिः
श्वास एष चपलः क्षणमध्ये यो गतागत शतानि विधत्ते
जीवितं तनुभृतां तदधीनं कः समाचरति धर्मविलम्बम् ॥ ७९ ॥
मूलम्
श्वास एष चपलः क्षणमध्ये यो गतागत शतानि विधत्ते
जीवितं तनुभृतां तदधीनं कः समाचरति धर्मविलम्बम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
दशमीमपि यातस्य चेतो नाद्यापि भूपते
विषयेभ्यो निषिद्धेभ्यो हाहा न विरमेच्चलम् ॥ ८० ॥
मूलम्
दशमीमपि यातस्य चेतो नाद्यापि भूपते
विषयेभ्यो निषिद्धेभ्यो हाहा न विरमेच्चलम् ॥ ८० ॥
विश्वास-प्रस्तुतिः
न जातुकामः कामानामुपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥ ८१ ॥
मूलम्
न जातुकामः कामानामुपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥ ८१ ॥
विश्वास-प्रस्तुतिः
पुंश्चल्यापहृतं चित्तं कश्चान्यो मोचितुं क्षमः
आत्मारामेश्वरमृते भगवन्तं च माधवम् ॥ ८२ ॥
मूलम्
पुंश्चल्यापहृतं चित्तं कश्चान्यो मोचितुं क्षमः
आत्मारामेश्वरमृते भगवन्तं च माधवम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
तस्मात्सर्वं निष्फलत्वं प्रयातं कामकश्मलात्
वयस्तेऽप्यधुना भूप समाचर हितं निजम् ॥ ८३ ॥
मूलम्
तस्मात्सर्वं निष्फलत्वं प्रयातं कामकश्मलात्
वयस्तेऽप्यधुना भूप समाचर हितं निजम् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
वदाम्यहं तव नृपहितं सर्वोत्तमोत्तमम्
पुरोहितो यतस्तेऽहं सदसत्कर्मभागपि ॥ ८४ ॥
मूलम्
वदाम्यहं तव नृपहितं सर्वोत्तमोत्तमम्
पुरोहितो यतस्तेऽहं सदसत्कर्मभागपि ॥ ८४ ॥
विश्वास-प्रस्तुतिः
एकतः सर्वपुण्यानि पापनाशाय पापिनाम्
एकतो माधवे मासो माधवस्यप्रियः सदा ॥ ८५ ॥
मूलम्
एकतः सर्वपुण्यानि पापनाशाय पापिनाम्
एकतो माधवे मासो माधवस्यप्रियः सदा ॥ ८५ ॥
विश्वास-प्रस्तुतिः
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः
महान्ति पातकान्येव कीर्तितानि मुनीश्वरैः ॥ ८६ ॥
मूलम्
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः
महान्ति पातकान्येव कीर्तितानि मुनीश्वरैः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
तत्र यन्मनसा काये व्रतेनापि कृतं नरैः
नाशयेन्माधवो मासः सर्वं पापतमो महत् ॥ ८७ ॥
मूलम्
तत्र यन्मनसा काये व्रतेनापि कृतं नरैः
नाशयेन्माधवो मासः सर्वं पापतमो महत् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
दिवाकर इव ध्वान्तं नाशयेन्नृपसर्वशः
तथा श्री माधवोमासस्तमाचर विधानतः ॥ ८८ ॥
मूलम्
दिवाकर इव ध्वान्तं नाशयेन्नृपसर्वशः
तथा श्री माधवोमासस्तमाचर विधानतः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
आजन्मनोऽपि विहितानि महान्ति राजन्घोराणि तानि दुरितानि विहाय मर्त्याः
वैशाखमासविहिताचरणप्रभाव पुण्येन ते हरिपुरं मुदिता लभन्ते ॥ ८९ ॥
मूलम्
आजन्मनोऽपि विहितानि महान्ति राजन्घोराणि तानि दुरितानि विहाय मर्त्याः
वैशाखमासविहिताचरणप्रभाव पुण्येन ते हरिपुरं मुदिता लभन्ते ॥ ८९ ॥
विश्वास-प्रस्तुतिः
यद्येकमपि वैशाखमाचरन्ति विधानतः
भावतः पापिनोऽप्यन्ते प्रयान्ति हरिमन्दिरम् ॥ ९० ॥
मूलम्
यद्येकमपि वैशाखमाचरन्ति विधानतः
भावतः पापिनोऽप्यन्ते प्रयान्ति हरिमन्दिरम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
तस्मात्त्वमपि राजेन्द्र मासेऽस्मिन्माधवेधुना
प्रातःस्नात्वा विधानेन समर्चय मधुद्विषम् ॥ ९१ ॥
मूलम्
तस्मात्त्वमपि राजेन्द्र मासेऽस्मिन्माधवेधुना
प्रातःस्नात्वा विधानेन समर्चय मधुद्विषम् ॥ ९१ ॥
विश्वास-प्रस्तुतिः
तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा
नश्यन्ति क्रियया वीर पुरुषस्य तथा मलः ॥ ९२ ॥
मूलम्
तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा
नश्यन्ति क्रियया वीर पुरुषस्य तथा मलः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
जीवस्य तण्डुलस्येव सहजोऽपि मलो महान्
नश्यत्येव न सन्देहस्तस्मात्कर्मोदितं कुरु ॥ ९३ ॥
मूलम्
जीवस्य तण्डुलस्येव सहजोऽपि मलो महान्
नश्यत्येव न सन्देहस्तस्मात्कर्मोदितं कुरु ॥ ९३ ॥