सूत उवाच-
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य भूसुरः
पुनः पप्रच्छ मासस्य माधवस्य विधिं शुभम् ॥ १ ॥
मूलम्
एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य भूसुरः
पुनः पप्रच्छ मासस्य माधवस्य विधिं शुभम् ॥ १ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच-
धर्मराज महाभाग सम्यग्गुह्यं प्रकाशितम्
माधवस्नानजम्पुण्यं नराणां मुक्तिदं परम् ॥ २ ॥
मूलम्
ब्राह्मण उवाच-
धर्मराज महाभाग सम्यग्गुह्यं प्रकाशितम्
माधवस्नानजम्पुण्यं नराणां मुक्तिदं परम् ॥ २ ॥
विश्वास-प्रस्तुतिः
माधवं माधवे मासि स्नात्वा प्रातः समाहितः
कथं सम्पूजयेद्देवं कैः पुष्पैस्तद्विधिं वद ॥ ३ ॥
मूलम्
माधवं माधवे मासि स्नात्वा प्रातः समाहितः
कथं सम्पूजयेद्देवं कैः पुष्पैस्तद्विधिं वद ॥ ३ ॥
विश्वास-प्रस्तुतिः
धर्मराज उवाच-
सर्वेषां पत्रजातीनां तुलसी केशवप्रिया
पुष्करादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ॥ ४ ॥
मूलम्
धर्मराज उवाच-
सर्वेषां पत्रजातीनां तुलसी केशवप्रिया
पुष्करादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ॥ ४ ॥
विश्वास-प्रस्तुतिः
वासुदेवादयो देवा वसन्ति तुलसीदले
सर्वदा सर्वकालेषु तुलसी विष्णुवल्लभा ॥ ५ ॥
मूलम्
वासुदेवादयो देवा वसन्ति तुलसीदले
सर्वदा सर्वकालेषु तुलसी विष्णुवल्लभा ॥ ५ ॥
विश्वास-प्रस्तुतिः
त्यक्त्वा तु मालती पुष्पं मुक्त्वा च सरसीरुहम्
गृहीत्वा तुलसीपत्रं भक्त्या माधवमर्चयेत् ॥ ६ ॥
मूलम्
त्यक्त्वा तु मालती पुष्पं मुक्त्वा च सरसीरुहम्
गृहीत्वा तुलसीपत्रं भक्त्या माधवमर्चयेत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
तस्य पुण्यफलं वक्तुमलं शेषोऽपि नो भवेत्
अस्नात्वा तुलसीं छित्त्वा देवार्थम्पि तृकर्मणि ॥ ७ ॥
मूलम्
तस्य पुण्यफलं वक्तुमलं शेषोऽपि नो भवेत्
अस्नात्वा तुलसीं छित्त्वा देवार्थम्पि तृकर्मणि ॥ ७ ॥
विश्वास-प्रस्तुतिः
तत्सर्वं निष्फलं याति पञ्चगव्येन शुध्यति
दारिद्र्यदुःखभोगादि पापानि सुबहून्यपि ॥ ८ ॥
मूलम्
तत्सर्वं निष्फलं याति पञ्चगव्येन शुध्यति
दारिद्र्यदुःखभोगादि पापानि सुबहून्यपि ॥ ८ ॥
विश्वास-प्रस्तुतिः
तुलसी हरते क्षिप्रं रोगानिव हरीतकी
तुलसी कृष्णगौराख्या तयाभ्यर्च्य मधुद्विषम् ॥ ९ ॥
मूलम्
तुलसी हरते क्षिप्रं रोगानिव हरीतकी
तुलसी कृष्णगौराख्या तयाभ्यर्च्य मधुद्विषम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
विशेषेण हरेर्भक्तो नरो नारायणो भवेत्
माधवं सकलं मासं तुलस्या योऽर्चयेद्यतः ॥ १० ॥
मूलम्
विशेषेण हरेर्भक्तो नरो नारायणो भवेत्
माधवं सकलं मासं तुलस्या योऽर्चयेद्यतः ॥ १० ॥
विश्वास-प्रस्तुतिः
त्रिसन्ध्यं मधुहन्तारं नास्ति तस्य पुनर्भवः
अलाभे पुष्पपत्राणामन्नाद्येनापि पूजयेत् ॥ ११ ॥
मूलम्
त्रिसन्ध्यं मधुहन्तारं नास्ति तस्य पुनर्भवः
अलाभे पुष्पपत्राणामन्नाद्येनापि पूजयेत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
शालितण्डुल गोधूमैर्यवैर्वापि हरिं सदा
प्रातः स्नात्वा विधानेन माधवे माधवप्रिये ॥ १२ ॥
मूलम्
शालितण्डुल गोधूमैर्यवैर्वापि हरिं सदा
प्रातः स्नात्वा विधानेन माधवे माधवप्रिये ॥ १२ ॥
विश्वास-प्रस्तुतिः
पितृदेवमनुष्यांश्च तर्प्पयेत्सचराचरम्
योऽश्वत्थमूलं वै सिञ्चेत्तोयेन बहुना सदा ॥ १३ ॥
मूलम्
पितृदेवमनुष्यांश्च तर्प्पयेत्सचराचरम्
योऽश्वत्थमूलं वै सिञ्चेत्तोयेन बहुना सदा ॥ १३ ॥
विश्वास-प्रस्तुतिः
कुर्यात्प्रदक्षिणां तं तु सर्वदेवमयं ततः
योऽश्वत्थमर्चयेद्देवमुदकेन समन्ततः
कुलानामयुतं तेन तारितं स्यान्नसंशयः ॥ १४ ॥
मूलम्
कुर्यात्प्रदक्षिणां तं तु सर्वदेवमयं ततः
योऽश्वत्थमर्चयेद्देवमुदकेन समन्ततः
कुलानामयुतं तेन तारितं स्यान्नसंशयः ॥ १४ ॥
विश्वास-प्रस्तुतिः
अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिन्तितम्
अश्वत्थ तर्प्पणात्तात सर्वदुःखं विलीयते ॥ १५ ॥
मूलम्
अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिन्तितम्
अश्वत्थ तर्प्पणात्तात सर्वदुःखं विलीयते ॥ १५ ॥
विश्वास-प्रस्तुतिः
तर्पिताः पितरस्तेन तेन विष्णुः समर्चितः
योऽश्वत्थमर्चयेद्वीरो ग्रहास्तेनैव पूजिताः ॥ १६ ॥
मूलम्
तर्पिताः पितरस्तेन तेन विष्णुः समर्चितः
योऽश्वत्थमर्चयेद्वीरो ग्रहास्तेनैव पूजिताः ॥ १६ ॥
विश्वास-प्रस्तुतिः
श्वेताश्वपुष्पाणि तथा शमीं च हुताशनं चन्दनमर्कबिम्बम्
अश्वत्थवृक्षं च समालभेत ततश्च कुर्यान्निज जातिधर्मान् ॥ १७ ॥
मूलम्
श्वेताश्वपुष्पाणि तथा शमीं च हुताशनं चन्दनमर्कबिम्बम्
अश्वत्थवृक्षं च समालभेत ततश्च कुर्यान्निज जातिधर्मान् ॥ १७ ॥
विश्वास-प्रस्तुतिः
कण्डूयनं च गोग्रासं स्नात्वा पिप्पलतर्प्पणम्
कृत्वा गोविन्दपूजां च न स दुर्गतिमाप्नुयात् ॥ १८ ॥
मूलम्
कण्डूयनं च गोग्रासं स्नात्वा पिप्पलतर्प्पणम्
कृत्वा गोविन्दपूजां च न स दुर्गतिमाप्नुयात् ॥ १८ ॥
विश्वास-प्रस्तुतिः
त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम्
सर्वाशक्तोपि विधिना नारी वा पुरुषोपि वा ॥ १९ ॥
मूलम्
त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम्
सर्वाशक्तोपि विधिना नारी वा पुरुषोपि वा ॥ १९ ॥
विश्वास-प्रस्तुतिः
पूर्वोक्तनियमैर्युक्तः प्रातः स्नात्वा च शक्तितः
विमुक्तः पातकैः सर्वैः स्वर्गमक्षयमश्नुते ॥ २० ॥
मूलम्
पूर्वोक्तनियमैर्युक्तः प्रातः स्नात्वा च शक्तितः
विमुक्तः पातकैः सर्वैः स्वर्गमक्षयमश्नुते ॥ २० ॥
विश्वास-प्रस्तुतिः
वैशाख्यामपि शक्त्या वा भोजयेद्ब्राह्मणान्दश
त्रिरात्रमुत्थितः स्नात्वा सकृच्च प्रयतः शुचिः ॥ २१ ॥
मूलम्
वैशाख्यामपि शक्त्या वा भोजयेद्ब्राह्मणान्दश
त्रिरात्रमुत्थितः स्नात्वा सकृच्च प्रयतः शुचिः ॥ २१ ॥
विश्वास-प्रस्तुतिः
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान्
दत्वा द्वादशविप्रेभ्यस्तेनैव स्वस्ति वाचयेत् ॥ २२ ॥
मूलम्
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान्
दत्वा द्वादशविप्रेभ्यस्तेनैव स्वस्ति वाचयेत् ॥ २२ ॥
विश्वास-प्रस्तुतिः
प्रीयतां धर्मराजो मे पितॄन्देवांश्च तर्प्पयेत्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ २३ ॥
मूलम्
प्रीयतां धर्मराजो मे पितॄन्देवांश्च तर्प्पयेत्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ २३ ॥
विश्वास-प्रस्तुतिः
अयुतायुतं च तिष्ठेत्स स्वर्गलोके यथासुखम्
मामेव तु न पश्येत्स पूजितोऽखिल दैवतैः ॥ २४ ॥
मूलम्
अयुतायुतं च तिष्ठेत्स स्वर्गलोके यथासुखम्
मामेव तु न पश्येत्स पूजितोऽखिल दैवतैः ॥ २४ ॥
विश्वास-प्रस्तुतिः
पाकान्नोदक कुम्भादि पितृदैवत तुष्टये
त्रयोदश्यां चतुर्दश्यां पूर्णायां च दिनत्रयम् ॥ २५ ॥
मूलम्
पाकान्नोदक कुम्भादि पितृदैवत तुष्टये
त्रयोदश्यां चतुर्दश्यां पूर्णायां च दिनत्रयम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
यो दद्याद्भक्तितो विप्र महापापैः प्रमुच्यते
सुवर्णतिलपात्रैस्तु ब्राह्मणाञ्छक्तितोऽन्वहम् ॥ २६ ॥
मूलम्
यो दद्याद्भक्तितो विप्र महापापैः प्रमुच्यते
सुवर्णतिलपात्रैस्तु ब्राह्मणाञ्छक्तितोऽन्वहम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
तर्प्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना ॥ २७ ॥
मूलम्
तर्प्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना ॥ २७ ॥
विश्वास-प्रस्तुतिः
तिला देयाश्च भक्त्या च श्रेयः सन्तति हेतवे
इहार्थे च पुरावृत्तं तदाकर्णय सुव्रत ॥ २८ ॥
मूलम्
तिला देयाश्च भक्त्या च श्रेयः सन्तति हेतवे
इहार्थे च पुरावृत्तं तदाकर्णय सुव्रत ॥ २८ ॥
विश्वास-प्रस्तुतिः
फलं माधवमासस्य पूर्णायां परमाद्भुतम्
मेषसङ्क्रममारभ्य तिथयस्त्रिंशदुत्तमाः ॥ २९ ॥
मूलम्
फलं माधवमासस्य पूर्णायां परमाद्भुतम्
मेषसङ्क्रममारभ्य तिथयस्त्रिंशदुत्तमाः ॥ २९ ॥
विश्वास-प्रस्तुतिः
सर्वयज्ञाधिकाः पुण्याः पुराणेषु प्रकीर्तिताः
विशेषतोऽपि तास्तिस्रः पवित्राः पापिदुर्लभाः ॥ ३० ॥
मूलम्
सर्वयज्ञाधिकाः पुण्याः पुराणेषु प्रकीर्तिताः
विशेषतोऽपि तास्तिस्रः पवित्राः पापिदुर्लभाः ॥ ३० ॥
विश्वास-प्रस्तुतिः
ततोपि पूर्णिमा पुण्या माधवी माधवप्रिया
एषा वाराहकल्पादि तिथिराद्या महाफला ॥ ३१ ॥
मूलम्
ततोपि पूर्णिमा पुण्या माधवी माधवप्रिया
एषा वाराहकल्पादि तिथिराद्या महाफला ॥ ३१ ॥
विश्वास-प्रस्तुतिः
पुरा नारायणेनास्यामादिदैत्यौ विमोहितौ
हिरण्याक्ष मधू विप्र पृथिवी च समुद्धृता ॥ ३२ ॥
मूलम्
पुरा नारायणेनास्यामादिदैत्यौ विमोहितौ
हिरण्याक्ष मधू विप्र पृथिवी च समुद्धृता ॥ ३२ ॥
विश्वास-प्रस्तुतिः
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यामयं विभुः
क्रमादेतत्त्रयं चक्रे शुक्लेऽस्मिन्मासि माधवे ॥ ३३ ॥
मूलम्
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यामयं विभुः
क्रमादेतत्त्रयं चक्रे शुक्लेऽस्मिन्मासि माधवे ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ततः प्रभृति विप्रेन्द्र विशेषादेव पूर्णिमा
कल्पादिः पावना ख्याता कर्मणः कल्पसाक्षिणी ॥ ३४ ॥
मूलम्
ततः प्रभृति विप्रेन्द्र विशेषादेव पूर्णिमा
कल्पादिः पावना ख्याता कर्मणः कल्पसाक्षिणी ॥ ३४ ॥
विश्वास-प्रस्तुतिः
येन स्नानं न वैशाखे प्रातर्नियमशालिना
किं तस्य जन्मना विप्र नूनमात्मापकारिणा ॥ ३५ ॥
मूलम्
येन स्नानं न वैशाखे प्रातर्नियमशालिना
किं तस्य जन्मना विप्र नूनमात्मापकारिणा ॥ ३५ ॥
विश्वास-प्रस्तुतिः
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां विशेषतः
अपिसम्यग्विधानेन नारी वा पुरुषोऽपि च ॥ ३६ ॥
मूलम्
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां विशेषतः
अपिसम्यग्विधानेन नारी वा पुरुषोऽपि च ॥ ३६ ॥
विश्वास-प्रस्तुतिः
प्रातः स्नातः सनियमः सर्वपापैः प्रमुच्यते
स्नानदानार्चनश्राद्धक्रियापुण्यादिवर्जिता ॥ ३७ ॥
मूलम्
प्रातः स्नातः सनियमः सर्वपापैः प्रमुच्यते
स्नानदानार्चनश्राद्धक्रियापुण्यादिवर्जिता ॥ ३७ ॥
विश्वास-प्रस्तुतिः
यस्यातीता च वैशाखी स नूनं निरयालयः
न वेदेन समं शास्त्रं न तीर्थं गङ्गया समम् ॥ ३८ ॥
मूलम्
यस्यातीता च वैशाखी स नूनं निरयालयः
न वेदेन समं शास्त्रं न तीर्थं गङ्गया समम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
न दानं जलगोतुल्यं न वैशाखी समा तिथिः
जलधेनुं च यो दद्याद्वैशाख्यां विष्णुतत्परः ॥ ३९ ॥
मूलम्
न दानं जलगोतुल्यं न वैशाखी समा तिथिः
जलधेनुं च यो दद्याद्वैशाख्यां विष्णुतत्परः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
त्रयाणामपि देवानां चतुर्थोऽयं विशेषतः
मातृहा पितृहा चैव भ्रूणहा गुरुतल्पगः ॥ ४० ॥
मूलम्
त्रयाणामपि देवानां चतुर्थोऽयं विशेषतः
मातृहा पितृहा चैव भ्रूणहा गुरुतल्पगः ॥ ४० ॥
विश्वास-प्रस्तुतिः
जलधेनुं समालोक्य मुच्यते सर्वपातकैः
दशपूर्वान्परान्वंश्यान्नरकात्तारयन्तिते ॥ ४१ ॥
मूलम्
जलधेनुं समालोक्य मुच्यते सर्वपातकैः
दशपूर्वान्परान्वंश्यान्नरकात्तारयन्तिते ॥ ४१ ॥
विश्वास-प्रस्तुतिः
जलधेनुं प्रयच्छन्ति वैशाख्यां विधिनात्र ये
शर्करा फल ताम्बूलमुपानत्करपत्रिकाः ॥ ४२ ॥
मूलम्
जलधेनुं प्रयच्छन्ति वैशाख्यां विधिनात्र ये
शर्करा फल ताम्बूलमुपानत्करपत्रिकाः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
प्रयच्छन्ति द्विजाग्र्येभ्यो धन्यास्ते चात्र कीर्तिताः
मणिकोदककुम्भांश्च पक्वान्नं हैमदक्षिणाम् ॥ ४३ ॥
मूलम्
प्रयच्छन्ति द्विजाग्र्येभ्यो धन्यास्ते चात्र कीर्तिताः
मणिकोदककुम्भांश्च पक्वान्नं हैमदक्षिणाम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
यः प्रयच्छति वैशाख्यां सोऽश्वमेधफलं लभेत्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ ४४ ॥
मूलम्
यः प्रयच्छति वैशाख्यां सोऽश्वमेधफलं लभेत्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणस्य च संवादं प्रेतैः सार्द्धं महावने
ब्राह्मणो धनशर्मासीन्मध्यदेशे पुरानघ ॥ ४५ ॥
मूलम्
ब्राह्मणस्य च संवादं प्रेतैः सार्द्धं महावने
ब्राह्मणो धनशर्मासीन्मध्यदेशे पुरानघ ॥ ४५ ॥
विश्वास-प्रस्तुतिः
कुशाद्यर्थं वनं यातो ददर्शेदमथाद्भुतम्
भीतोऽपश्यदसौ प्रेतान्दुष्टांस्त्रीनति दारुणान् ॥ ४६ ॥
मूलम्
कुशाद्यर्थं वनं यातो ददर्शेदमथाद्भुतम्
भीतोऽपश्यदसौ प्रेतान्दुष्टांस्त्रीनति दारुणान् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वकेशान्सरक्ताक्षान्कृष्णदन्तान्कृशोदरान्
कुर्वतो विविधा रावान्धावतोपि यतस्ततः ॥ ४७ ॥
मूलम्
ऊर्ध्वकेशान्सरक्ताक्षान्कृष्णदन्तान्कृशोदरान्
कुर्वतो विविधा रावान्धावतोपि यतस्ततः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
तान्दृष्ट्वा भयसन्त्रस्तो ब्राह्मणो विद्रुतो जवात्
क्रन्दमानास्ततस्तेपि तमेवानु ययुस्तदा ॥ ४८ ॥
मूलम्
तान्दृष्ट्वा भयसन्त्रस्तो ब्राह्मणो विद्रुतो जवात्
क्रन्दमानास्ततस्तेपि तमेवानु ययुस्तदा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
सधर्ष्यमाणस्तैः प्रेतैरुवाच मधुरं वचः
धनशर्मोवाच-
के यूयं वः कुतोऽवस्था जातेति निरयोचिता ॥ ४९ ॥
मूलम्
सधर्ष्यमाणस्तैः प्रेतैरुवाच मधुरं वचः
धनशर्मोवाच-
के यूयं वः कुतोऽवस्था जातेति निरयोचिता ॥ ४९ ॥
विश्वास-प्रस्तुतिः
भयार्त्तमनुकम्प्यं मां दुःखितं त्रातुमर्हथ
वैष्णवं बहुभृत्यं च निःस्वं विप्रं वनागतम् ॥ ५० ॥
मूलम्
भयार्त्तमनुकम्प्यं मां दुःखितं त्रातुमर्हथ
वैष्णवं बहुभृत्यं च निःस्वं विप्रं वनागतम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
भवतामपि सश्रेयो नूनं दास्यति केशवः
ब्रह्मण्यो भगवान्विष्णुस्तुष्टोमय्यनुकम्पया ॥ ५१ ॥
मूलम्
भवतामपि सश्रेयो नूनं दास्यति केशवः
ब्रह्मण्यो भगवान्विष्णुस्तुष्टोमय्यनुकम्पया ॥ ५१ ॥
विश्वास-प्रस्तुतिः
अतसीपुष्पसङ्काशो विष्णुः पीताम्बरो हरिः
यस्य श्रवणमात्रेण नाम्नो याति महा तमः ॥ ५२ ॥
मूलम्
अतसीपुष्पसङ्काशो विष्णुः पीताम्बरो हरिः
यस्य श्रवणमात्रेण नाम्नो याति महा तमः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
अनादिनिधनो देवः शङ्ख चक्र गदाधरः
अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदायकः ॥ ५३ ॥
मूलम्
अनादिनिधनो देवः शङ्ख चक्र गदाधरः
अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदायकः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
यम उवाच-
नामश्रवण मात्रेण विष्णोस्ते परितोषिताः
पिशाचाः पुण्यभावस्था दया दाक्षिण्य यन्त्रिताः ॥ ५४ ॥
मूलम्
यम उवाच-
नामश्रवण मात्रेण विष्णोस्ते परितोषिताः
पिशाचाः पुण्यभावस्था दया दाक्षिण्य यन्त्रिताः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
प्रीणितास्तस्यवचसा तदादिष्टेन नोदिताः
इदमूचुर्द्विजं प्रेताः क्षुत्तृष्णापूरपीडिताः ॥ ५५ ॥
मूलम्
प्रीणितास्तस्यवचसा तदादिष्टेन नोदिताः
इदमूचुर्द्विजं प्रेताः क्षुत्तृष्णापूरपीडिताः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
प्रेता ऊचु-
दर्शनेनैव ते विप्र नामश्रवणतो हरेः
भावमन्यमनुप्राप्ता वयं जाता दयालवः ॥ ५६ ॥
मूलम्
प्रेता ऊचु-
दर्शनेनैव ते विप्र नामश्रवणतो हरेः
भावमन्यमनुप्राप्ता वयं जाता दयालवः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
अपाकरोति दुरितं श्रेयश्च योजयत्यपि
यशो विस्तारयत्याशु नूनं वैष्णवसङ्गमः ॥ ५७ ॥
मूलम्
अपाकरोति दुरितं श्रेयश्च योजयत्यपि
यशो विस्तारयत्याशु नूनं वैष्णवसङ्गमः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
रसायनमयी शीता परमानन्ददायिनी
नानन्दयति कं नाम वैष्णवामृतचन्द्रिका ॥ ५८ ॥
मूलम्
रसायनमयी शीता परमानन्ददायिनी
नानन्दयति कं नाम वैष्णवामृतचन्द्रिका ॥ ५८ ॥
विश्वास-प्रस्तुतिः
अयं कृतघ्न नामास्ति द्वितीयोऽयं विदैवतः
अवैशाखस्तृतीयोऽयं त्रयाणामपि पापकृत् ॥ ५९ ॥
मूलम्
अयं कृतघ्न नामास्ति द्वितीयोऽयं विदैवतः
अवैशाखस्तृतीयोऽयं त्रयाणामपि पापकृत् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
सदैवानुष्ठितानेन पापेनाति कृतघ्नता
तेनास्य कर्मजं नाम कृतघ्नाख्यं व्यवस्थितम् ॥ ६० ॥
मूलम्
सदैवानुष्ठितानेन पापेनाति कृतघ्नता
तेनास्य कर्मजं नाम कृतघ्नाख्यं व्यवस्थितम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
सुदास इति नाम्नायं शूद्रो ऽभूत्पूर्वजन्मनि
कृतघ्नस्तेन पापेन प्राप्तोऽवस्थामिमां द्विज ॥ ६१ ॥
मूलम्
सुदास इति नाम्नायं शूद्रो ऽभूत्पूर्वजन्मनि
कृतघ्नस्तेन पापेन प्राप्तोऽवस्थामिमां द्विज ॥ ६१ ॥
विश्वास-प्रस्तुतिः
अतिपापिनि धूर्ते च गुरुस्वाम्यहितेऽपि च
निष्कृतिर्विद्यते विप्र कृतघ्ने नास्ति निष्कृतिः ॥ ६२ ॥
मूलम्
अतिपापिनि धूर्ते च गुरुस्वाम्यहितेऽपि च
निष्कृतिर्विद्यते विप्र कृतघ्ने नास्ति निष्कृतिः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
नानानिरयसङ्घातं शरीरैर्यातना क्षमैः
अनुभूयतान्त्ववस्थामन्त्यामेतां गतो द्विज ॥ ६३ ॥
मूलम्
नानानिरयसङ्घातं शरीरैर्यातना क्षमैः
अनुभूयतान्त्ववस्थामन्त्यामेतां गतो द्विज ॥ ६३ ॥
विश्वास-प्रस्तुतिः
अनेनान्नं सदा भुक्तमकृत्वा देवतार्चनम्
अदत्वा गुरुविप्रेभ्यस्तेनैवायं विदैवतः ॥ ६४ ॥
मूलम्
अनेनान्नं सदा भुक्तमकृत्वा देवतार्चनम्
अदत्वा गुरुविप्रेभ्यस्तेनैवायं विदैवतः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
अयं दशसहस्राणां ग्रामाणामीश्वरो नृपः
हरिवीर इति ख्यातो नाम्नासीत्पूर्वजन्मनि ॥ ६५ ॥
मूलम्
अयं दशसहस्राणां ग्रामाणामीश्वरो नृपः
हरिवीर इति ख्यातो नाम्नासीत्पूर्वजन्मनि ॥ ६५ ॥
विश्वास-प्रस्तुतिः
रोषाहङ्कारनास्तिक्यैर्गुर्वाज्ञालङ्घनोद्यतः
अकृत्वैव महायज्ञान्भुक्तवान्विप्र निन्दकः ॥ ६६ ॥
मूलम्
रोषाहङ्कारनास्तिक्यैर्गुर्वाज्ञालङ्घनोद्यतः
अकृत्वैव महायज्ञान्भुक्तवान्विप्र निन्दकः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
कर्मणा तेन पापेन महानरकसङ्कटम्
अनुभूय ततः प्रेतो जातो नाम्ना विदैवतः ॥ ६७ ॥
मूलम्
कर्मणा तेन पापेन महानरकसङ्कटम्
अनुभूय ततः प्रेतो जातो नाम्ना विदैवतः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
अवैशाखस्तृतीयोऽहं त्रयाणामपि पापकृत्
तेन मे कर्मजं नाम ब्राह्मणोऽहं व्यवस्थितः ॥ ६८ ॥
मूलम्
अवैशाखस्तृतीयोऽहं त्रयाणामपि पापकृत्
तेन मे कर्मजं नाम ब्राह्मणोऽहं व्यवस्थितः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
मध्यदेशे भवं नाम्ना गौतमो गोत्रतोऽप्यहम्
विप्रो वासपुरेवासी यज्वाऽऽसं पूर्वजन्मनि ॥ ६९ ॥
मूलम्
मध्यदेशे भवं नाम्ना गौतमो गोत्रतोऽप्यहम्
विप्रो वासपुरेवासी यज्वाऽऽसं पूर्वजन्मनि ॥ ६९ ॥
विश्वास-प्रस्तुतिः
मया केवलमेवैकं श्रौतमार्गानुसारिणा
उद्दिश्य माधवं देवं न स्नातं मासि माधवे ॥ ७० ॥
मूलम्
मया केवलमेवैकं श्रौतमार्गानुसारिणा
उद्दिश्य माधवं देवं न स्नातं मासि माधवे ॥ ७० ॥
विश्वास-प्रस्तुतिः
न दत्तं न हुतं किञ्चिद्वैशाख्यां चाविशेषतः
नार्चितो मधुहा तत्र तोषिता न मनीषिणः ॥ ७१ ॥
मूलम्
न दत्तं न हुतं किञ्चिद्वैशाख्यां चाविशेषतः
नार्चितो मधुहा तत्र तोषिता न मनीषिणः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
मणिकोदककुम्भैश्च न दानैः पितृदेवताः
तर्पिता न तिला दत्ताः सक्षौद्राः श्रोत्रियेषु च ॥ ७२ ॥
मूलम्
मणिकोदककुम्भैश्च न दानैः पितृदेवताः
तर्पिता न तिला दत्ताः सक्षौद्राः श्रोत्रियेषु च ॥ ७२ ॥
विश्वास-प्रस्तुतिः
न पुष्पफलताम्बूल चन्दन व्यजनाम्बरैः
विद्वांसो नार्चितास्तत्र पितृदैवततुष्टये ॥ ७३ ॥
मूलम्
न पुष्पफलताम्बूल चन्दन व्यजनाम्बरैः
विद्वांसो नार्चितास्तत्र पितृदैवततुष्टये ॥ ७३ ॥
विश्वास-प्रस्तुतिः
मया नैकापि वैशाखी पूर्णा पूर्णफल प्रदा
स्नानदानक्रियापूजासुकृतैःपरिपालिता ॥ ७४ ॥
मूलम्
मया नैकापि वैशाखी पूर्णा पूर्णफल प्रदा
स्नानदानक्रियापूजासुकृतैःपरिपालिता ॥ ७४ ॥
विश्वास-प्रस्तुतिः
तनेमेवैदिकङ्कर्मसर्वञ्चैवतुनिष्फलम्
ततोऽवैशाखनामाहं प्रेतो जातोऽस्मि सर्वतः ॥ ७५ ॥
मूलम्
तनेमेवैदिकङ्कर्मसर्वञ्चैवतुनिष्फलम्
ततोऽवैशाखनामाहं प्रेतो जातोऽस्मि सर्वतः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं त्रयाणामपिकारणम्
त्वं नो भव समुद्धर्ता पापाद्विप्रोसि वै यतः ॥ ७६ ॥
मूलम्
एतत्ते सर्वमाख्यातं त्रयाणामपिकारणम्
त्वं नो भव समुद्धर्ता पापाद्विप्रोसि वै यतः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
विमुक्तं ब्रह्मतीर्थं च साधवः परमं यतः
तारयन्ति महापापान्निरयेभ्योऽपि संश्रितान् ॥ ७७ ॥
मूलम्
विमुक्तं ब्रह्मतीर्थं च साधवः परमं यतः
तारयन्ति महापापान्निरयेभ्योऽपि संश्रितान् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
गङ्गादि पुण्यतीर्थेषु यो नरः स्नाति सर्वदा
यः करोति सतां सङ्गं तयोः सत्सङ्गमो वरः ॥ ७८ ॥
मूलम्
गङ्गादि पुण्यतीर्थेषु यो नरः स्नाति सर्वदा
यः करोति सतां सङ्गं तयोः सत्सङ्गमो वरः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
अथवा मम पुत्रोऽस्ति धनशर्मेति विश्रुतः
तं गत्वा बोधय स्वामिन्नस्मदर्थे कृतोद्यमः ॥ ७९ ॥
मूलम्
अथवा मम पुत्रोऽस्ति धनशर्मेति विश्रुतः
तं गत्वा बोधय स्वामिन्नस्मदर्थे कृतोद्यमः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते
पुष्कलं फलमाप्नोति यज्ञदानक्रियाधिकम् ॥ ८० ॥
मूलम्
कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते
पुष्कलं फलमाप्नोति यज्ञदानक्रियाधिकम् ॥ ८० ॥
विश्वास-प्रस्तुतिः
यम उवाच-
प्रेतवाक्यं तदाकर्ण्य धनशर्माति दुःखितः
स तं जनकमाज्ञाय पतितं निरये निजम् ॥ ८१ ॥
मूलम्
यम उवाच-
प्रेतवाक्यं तदाकर्ण्य धनशर्माति दुःखितः
स तं जनकमाज्ञाय पतितं निरये निजम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
आत्मानमभितो निन्दन्निदं वचनमब्रवीत्
धनशर्मोवाच-
अहं तव सुतः स्वामिन्गौतमस्य निरर्थकः ॥ ८२ ॥
मूलम्
आत्मानमभितो निन्दन्निदं वचनमब्रवीत्
धनशर्मोवाच-
अहं तव सुतः स्वामिन्गौतमस्य निरर्थकः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
यस्तु पुत्रो न निस्तारं पितुः कुर्यादतन्द्रितः
आत्मानं पावयेन्नासावदाता द्रव्यवानिति ॥ ८३ ॥
मूलम्
यस्तु पुत्रो न निस्तारं पितुः कुर्यादतन्द्रितः
आत्मानं पावयेन्नासावदाता द्रव्यवानिति ॥ ८३ ॥
विश्वास-प्रस्तुतिः
धर्मो हि गहनो ज्ञेयः प्रयत्नेनापि धीमता
यथा मम पिता च त्वमिमां प्राप्तोसि दुर्गतिम् ॥ ८४ ॥
मूलम्
धर्मो हि गहनो ज्ञेयः प्रयत्नेनापि धीमता
यथा मम पिता च त्वमिमां प्राप्तोसि दुर्गतिम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
यदा च सुखसन्तानं न मत्तः प्राप्तवानसि
लोकयोः सुखसन्ताने तथा स तनयो मतः ॥ ८५ ॥
मूलम्
यदा च सुखसन्तानं न मत्तः प्राप्तवानसि
लोकयोः सुखसन्ताने तथा स तनयो मतः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः
तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् ॥ ८६ ॥
मूलम्
द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः
तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
किं करोमि क्व गच्छामि कथं तातगतिस्तव
धर्मतत्त्वं न जानामि संश्रयामि भवद्वचः ॥ ८७ ॥
मूलम्
किं करोमि क्व गच्छामि कथं तातगतिस्तव
धर्मतत्त्वं न जानामि संश्रयामि भवद्वचः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
प्रेत उवाच-
शृणु पुत्र वचः सत्यं भाविनोऽर्थस्य मे बलात्
अथ पुण्येन केनापि भवित्री सुगतिर्मम ॥ ८८ ॥
मूलम्
प्रेत उवाच-
शृणु पुत्र वचः सत्यं भाविनोऽर्थस्य मे बलात्
अथ पुण्येन केनापि भवित्री सुगतिर्मम ॥ ८८ ॥
विश्वास-प्रस्तुतिः
मया श्रौतानि कर्माणि कुर्वता किल गर्वतः
अनादृतं गुरुवचो गुरुस्तत्रावमानितः ॥ ८९ ॥
मूलम्
मया श्रौतानि कर्माणि कुर्वता किल गर्वतः
अनादृतं गुरुवचो गुरुस्तत्रावमानितः ॥ ८९ ॥
विश्वास-प्रस्तुतिः
गुरूणामपमानेन प्रहर्षक्रोधविस्मयैः
पुण्यानि क्षयमायान्ति यशांसीव हि दुर्नयैः ॥ ९० ॥
मूलम्
गुरूणामपमानेन प्रहर्षक्रोधविस्मयैः
पुण्यानि क्षयमायान्ति यशांसीव हि दुर्नयैः ॥ ९० ॥
विश्वास-प्रस्तुतिः
पौराणिक विधानेन कर्म श्रौताविरोधि यत्
केवलं वैदिकं कर्म कृतमज्ञानतो मया ॥ ९१ ॥
मूलम्
पौराणिक विधानेन कर्म श्रौताविरोधि यत्
केवलं वैदिकं कर्म कृतमज्ञानतो मया ॥ ९१ ॥
विश्वास-प्रस्तुतिः
पापेन्धन दवज्वाला पापद्रुमकुठारिका
कृता नैकापि वैशाखी विधिना पुत्र पूर्णिमा ॥ ९२ ॥
मूलम्
पापेन्धन दवज्वाला पापद्रुमकुठारिका
कृता नैकापि वैशाखी विधिना पुत्र पूर्णिमा ॥ ९२ ॥
विश्वास-प्रस्तुतिः
अव्रता यस्य वैशाखी सोऽवैशाखो भवेन्नरः
दशजन्मानि च ततस्तिर्यग्योनिषु जायते ॥ ९३ ॥
मूलम्
अव्रता यस्य वैशाखी सोऽवैशाखो भवेन्नरः
दशजन्मानि च ततस्तिर्यग्योनिषु जायते ॥ ९३ ॥
विश्वास-प्रस्तुतिः
चिरं भुक्त्वा दुःखमन्ते प्रेतः पर्यायतो भवेत्
लभते मानुषं जन्म कथञ्चिदपि दुर्लभम् ॥ ९४ ॥
मूलम्
चिरं भुक्त्वा दुःखमन्ते प्रेतः पर्यायतो भवेत्
लभते मानुषं जन्म कथञ्चिदपि दुर्लभम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
उपायं ते वदिष्यामि प्रेतमोक्षकरं परम्
श्रुतवान्यदहम्पूर्वजन्मनिस्वगुरोर्मुखात् ॥ ९५ ॥
मूलम्
उपायं ते वदिष्यामि प्रेतमोक्षकरं परम्
श्रुतवान्यदहम्पूर्वजन्मनिस्वगुरोर्मुखात् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
गच्छ पुत्र गृहं स्नात्वा यमुनायां विधानतः
अद्यतः सर्वगतिदा कल्पाद्या साप्युपागता
पश्चिमेऽहनि वैशाखी पितृदेवार्चने हिता ॥ ९६ ॥
मूलम्
गच्छ पुत्र गृहं स्नात्वा यमुनायां विधानतः
अद्यतः सर्वगतिदा कल्पाद्या साप्युपागता
पश्चिमेऽहनि वैशाखी पितृदेवार्चने हिता ॥ ९६ ॥
विश्वास-प्रस्तुतिः
पानीयमप्यत्र तिलैर्विमिश्रं सहोदकुम्भान्नफलानि भक्त्या
दद्यात्पितृभ्यो भवतीह दत्तं श्राद्धं सदा तेन समा सहस्रम् ॥ ९७ ॥
मूलम्
पानीयमप्यत्र तिलैर्विमिश्रं सहोदकुम्भान्नफलानि भक्त्या
दद्यात्पितृभ्यो भवतीह दत्तं श्राद्धं सदा तेन समा सहस्रम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
वैशाख्यां पौर्णमास्यां यो भोजयेद्भूमिदेवताः
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसङ्ख्यया ॥ ९८ ॥
मूलम्
वैशाख्यां पौर्णमास्यां यो भोजयेद्भूमिदेवताः
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसङ्ख्यया ॥ ९८ ॥
विश्वास-प्रस्तुतिः
वैशाख्यां विधिना स्नात्वा भोजयेद्ब्राह्मणान्दश
पायसं सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ९९ ॥
मूलम्
वैशाख्यां विधिना स्नात्वा भोजयेद्ब्राह्मणान्दश
पायसं सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ९९ ॥
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान्
दत्वा दशभ्यो विप्रेभ्यस्तेनैव स्वस्ति वाचयेत् १००
प्रीयतां धर्मराजेति पितॄन्देवांश्च तर्पयेत्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति १०१
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना
तिला देयाश्च भक्त्या च स्पृश्याः सर्वाङ्गतो द्विज १०२
यस्तिलैर्यवसम्मिश्रैः स्नाति सर्वाङ्गतस्तदा
तस्य ब्रह्मा च धर्मोऽत्र ददाति वरमीप्सितम् १०३
प्रीतये धर्मराजस्य यो दद्यादुदकुम्भकान्
सप्तसप्त कुलं तेन तारितं स्यान्न संशयः १०४
त्रयोदश्यां चतुर्दश्यां पूर्णायां भक्तितत्परः
स्नात्वा जप्त्वा तथा हुत्वा दत्वा सम्पूज्य माधवम् १०५
यत्फलं जायते पुत्र तदस्माकं प्रयच्छ भोः
नैतौ परिचितौ प्रेतौ हित्वा स्वर्गतिमाश्रये १०६
एतयोरपिपापस्य ह्यं तोयं समुपस्थितः
यम उवाच-
तथेत्युक्त्वा गतः सर्वं ततश्चक्रे स वै द्विजः १०७
प्रीतः परमया भक्त्या वैशाख्यां स्नानदानकृत्
स्नातः समुदितो भक्त्या प्राप्य माधवपूर्णिमाम् १०८
दत्वा बहूनि दानानि तेभ्यः पुण्यं ददौ पृथक्
तत्क्षणादेव ते सर्वे विमानस्था दिवं ययुः १०९
तत्पुण्यदानयोगेन मुदिता द्विजसत्तम
धनशर्मापि विप्रेन्द्र श्रुःतिस्मृतिपुराणवित् ११०
भुक्त्वा भोगांश्चिरं कालं ब्रह्मलोकमवाप्तवान्
एषा पुण्यतमा तस्माद्वैशाखी विश्वपावनी १११
कथ्यते तु मया विप्र समासेनातिगौरवात् ११२
धन्यास्त एव कृतिनश्च त एव जाता लोके त एव पुरुषाः पुरुषार्थभाजः
ये माधवे मधुनिषूदनमर्चयन्ति प्रातर्निमज्ज्य नियमेन विशुद्धचित्ताः ११३
यो माधवे मासि नरः प्रभाते स्नातः समाराधयते रमेशम्
यमैरुपेतो नियमैरशेषैर्वृतोऽपि नूनं स निहन्ति पापम् ११४
तैरेवकालो विजितस्त एव नरेषु धन्या विगतैनसस्ते
त एव गर्भे न विशन्ति भूयो मज्जन्ति ये माधवमासि युक्ताः ११५
स माधवो गर्जति यज्ञयोगात्तपः क्रिया दानविधान योगात्
यस्मिन्कृतं मासि कथञ्चिदल्पं पुण्यं पुनः स्यादिह कल्पतुल्यम् ११६
मज्जतो हि मनुजस्य माधवे माधवार्चनकृते दिनोदये
तामसोपि जलबिन्दुसङ्गमादङ्गमावहति पावनं यतः ११७
तानि देहमधिरुह्य देहिनस्तावदेव विचरन्त्यघानि च
यावदेति न स माधवाह्वयः श्रीरमारमणवल्लभो विराट् ११९
मेरुमन्दरतुल्यानि पापान्युग्राण्यनेकशः
दहते माधवो मासः स्नातो माधववल्लभः १२०
इदं सङ्क्षेपतः प्रोक्तं मया तेऽनुग्रहाद्द्विज
वैशाखस्नानमाहात्म्यं श्रोतुः पापक्षयं करम् १२१
यस्तु श्रोष्यति भक्त्यैनमितिहासं मयोदितम्
सोऽपि पापविनिर्मुक्तो न मामालोकयिष्यति १२२
ब्रह्महत्यादि पापानि बहुशोऽपि कृतान्यपि
वैशाखस्य विधानेन तानि नश्यन्ति निश्चितम् १२३
त्रिंशत्पूर्वान्परांस्त्रिंशत्त्रिंशच्चैव परावरान्
वैशाखे विधिना स्नातो नरकादुद्धरेत्पितॄन् १२४
एकतः सर्वतीर्थानि सर्वेयज्ञाः सदक्षिणाः
एकतो माधवो मासो नियमादनुपालितः १२५
यतो भगवतस्तस्य हरेरुत्कृष्टकर्मणः
प्रियोऽसौ माधवोमासः सर्वेभ्यः प्रवरोऽधिकः १२६
संशयं नो विधेहीति महीदेव कथञ्चन
वैशाखं प्रति वै मासं समासाद्यन्मयोदितम् १२७
इहार्थे यत्पुरावृत्तं तदाकर्णय चाद्भुतम्
अनाख्येयमपीदं ते कथयिष्ये कथानकम् १२८
इति श्रीपद्मपुराणे पातालखण्डे वैशाखमाहात्म्ये अष्टनवतितमोऽध्यायः ९८