०९७

ब्राह्मण उवाच-

विश्वास-प्रस्तुतिः

एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान्
न याति नरकं स्वर्गं तथा पापक्रिया रतः ॥ १ ॥

मूलम्

क्रतुभिर्विविधैरिष्टैर्व्रत दान जपादिभिः
सत्येनाचारकुशलैः स्वर्गसौख्यमवाप्यते ॥ २ ॥

विद्याचारधनोपेतैर्ऋषिभिर्वेदपारगैः
प्राप्यते पुण्ययोगेन यज्ञैर्नाकस्ततः क्वचित् ॥ ३ ॥

वित्तेन च विना दानं बहुदातुं न शक्यते
विद्यमान धनेनापि कुटुम्बासक्तचेतसा ॥ ४ ॥

अग्निहोत्रादयो धर्मा विशेषेण कलौ युगे
दुष्करा दानधर्मोऽपि दुष्करो भगवन्मतः ॥ ५ ॥

अल्पायासेन धर्मेण लभ्यते धर्मसञ्चयः
तन्मे विशेषतो ब्रूहि धर्माधर्मप्रदर्शक ॥ ६ ॥

तदेकं कथ्यतां धर्मं सर्वधर्मोत्तमोत्तमम्
कृतेनैकेन येनेह सर्वपापक्षयो भवेत् ॥ ७ ॥

धनं धान्यं यशो धर्ममायुर्येनाभि वर्त्तते
मर्त्यलोकेऽपि सख्यं स्यात्स्वर्गो येनाक्षयो भवेत् ॥ ८ ॥

साक्षान्नारायणो येन भक्तानामभयप्रदः
तुष्येदस्यप्रसादेन कामः करतले स्थितः ॥ ९ ॥

सर्वयज्ञ तपोदानतीर्थसेवाधिकं फलम्
लभ्यते येन यद्यस्ति वैवस्वत तदादिश ॥ १० ॥

अनुग्राह्यो ह्यहं देव यदि धर्मोपदेशतः
सर्वधर्मक्रियासारं तदेकं कृपया वद ॥ ११ ॥

पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा
तथा तथैव संस्मृत्य कथितानि मनीषिभिः ॥ १२ ॥

कर्तुं तानि न शक्यन्ते देव प्रत्येकशो नरैः
सर्वपापहरं पुण्यमेकं चेदस्ति तद्वद ॥ १३ ॥

सूत उवाच-
इत्युक्त्वा ब्राह्मणश्रेष्ठो यमं धर्मस्वरूपिणम्
तुष्टाव प्रयतो भूत्वा सूक्ष्मधर्माभिकामुकः ॥ १४ ॥

नमस्ते सर्वशमन नमस्ते जगताम्पते
नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदायिने ॥ १५ ॥

धर्मशास्त्रस्वरूपाय धर्मराज नमोस्तुते
त्वया भूः पाल्यते देवाप्यन्तरिक्षं च द्यौर्महः ॥ १६ ॥

जनस्तपस्तथासत्यं सर्वस्वं पाल्यते त्वया
न त्वया रहितं किञ्चिज्जगत्स्थावर जङ्गमम् ॥ १७ ॥

विद्यते त्वद्गृहीतं तु सद्यो नश्यति वै जगत्
त्वमात्मा सर्वभूतानां सतां सत्वस्वरूपवान् ॥ १८ ॥

राजसानां रजस्त्वं च तामसानां तमस्तथा
चतुष्पदां भवान्देव चतुःशृङ्गस्त्रिलोचनः ॥ १९ ॥

सप्तहस्तस्त्रिधा बद्धो वृषरूप नमोस्तु ते
सर्वयज्ञमयो धर्मस्त्वयि विग्रहविग्रहः ॥ २० ॥

साक्षाद्दृष्टोसि लोकेश देव तुभ्यं नमोनमः
हृदिस्थः सर्वभूतानां पुण्यपापेक्षिता भवान् ॥ २१ ॥

तेन शास्ता च भूतानां दाता देव प्रशासिता
प्रवर्त्तको हि धर्मस्य देवदण्डधरो भुवि ॥ २२ ॥

सर्वधर्ममयं सारमेकं वद सुनिश्चितम्
यम उवाच-
परितुष्टोऽस्मि ते विप्र स्तोत्रेण च विशेषतः ॥ २३ ॥

तथाप्यागम धर्मेण मान्योसि मम सत्तम
यन्न कस्यचिदाख्यातं तद्गोप्यं परमं मम ॥ २४ ॥

सारमुद्धृत्य सर्वेषां यदेकं निश्चितं मया
महानिरयसङ्घातान्निर्वासनकरं परम् ॥ २५ ॥

अनाख्येयमपि ब्रह्मन्वक्ष्ये विनयतोषितः ॥ २६ ॥

स्युर्मोहाय चराचरस्य जगतस्ते ते पुराणागमास्तां तामेव हि देवतां परमिकां जल्पन्तु कल्पे विधौ
सिद्धान्ते पुनरेक एव भगवान्विष्णुः समस्तागम-
व्यापारेषु विवेकिनां व्यतिकरं नीतेषु निश्चीयते ॥ २७ ॥

भवो ब्रह्मा च विष्णुश्च त्रयमेव त्रयी मता
दीपोऽग्निर्वर्तिस्नेहैस्तु यथा विप्र तथा हरिः ॥ २८ ॥

समाराध्य हरिं भक्त्या गोलोकान्प्राप्नुयाच्छुभान्
आराधिते हरौ कामाः सर्वे करतले स्थिताः ॥ २९ ॥

दानमेव परं श्रेष्ठं सर्वपुण्येषु वै द्विज
दानेन नश्यते पापं सर्वं दानेन लभ्यते ॥ ३० ॥

नित्यं नैमित्तिकं काम्यमन्यदभ्युदयात्मकम्
अन्यं च परमं दानमिति पञ्चविधं स्मृतम् ॥ ३१ ॥

प्रातर्मध्यापराह्णेषु त्रिषु कालेषु यत्नतः
यत्किञ्चिदपि दातव्यं नित्यमेव प्रकीर्तितम् ॥ ३२ ॥

शून्यं दिनं न कर्तव्यमात्मार्थं हितमिच्छताम्
यस्मिन्कुले तु दत्तं यत्तत्रतत्रोपतिष्ठति ॥ ३३ ॥

यः स्वयं भक्षयेन्मोहाददत्वा बुद्धिवर्जितः
उत्पादयाम्यहं रोगं तस्य भोगनिवारणम् ॥ ३४ ॥

तेषु कार्येषु सन्तुष्टं बहुपीडाप्रदायकम्
मन्दानलेन संयुक्तं द्वारं सन्तापकारकम् ॥ ३५ ॥

त्रिषु कालेषु नो दत्तं ब्राह्मणेषु सुरेषु यैः
स्वयं तु भुञ्जते मिष्टं पापं तैस्तु महत्कृतम् ॥ ३६ ॥

प्रायश्चित्तेन रौद्रेण तानहं परिशोधये
उपवासैर्महीदेव कायशोषकरादिकैः ॥ ३७ ॥

मूलम्

प्रायश्चित्तेन रौद्रेण तानहं परिशोधये
उपवासैर्महीदेव कायशोषकरादिकैः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

चर्मकारो यथा चर्मकुण्डस्योपरि निर्घृणे
शोधयेच्च कशाद्यैश्च कुद्रव्यं स्फोटयेद्यथा ॥ ३८ ॥

तथाहं पापकर्तारं शोधयामि न संशयः
औषधीनां सुयोगैश्च कषायैः कटुकैर्ध्रुवम् ॥ ३९ ॥

उष्णोदकैश्च सन्तापैर्वैद्यरूपेण नान्यथा
अन्ये भुञ्जन्ति तस्याग्रे भोगानन्यान्मनोगतान् ॥ ४० ॥

किं करोमि समर्थश्च न दत्तं दानमुत्तमम्
महता रोगरूपेण तमेनं परिवारयेत् ॥ ४१ ॥

मूलम्

किं करोमि समर्थश्च न दत्तं दानमुत्तमम्
महता रोगरूपेण तमेनं परिवारयेत् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

नित्यकालस्य यद्दानमात्मानं पापिभिर्यथा
न दत्तं च महीदेव श्रद्धया निजशक्तितः ॥ ४२ ॥

तथायातान्प्रधक्ष्येतानुपायैर्दारुणैः किल
नैमित्तिकं प्रवक्ष्यामि दानकालं तवाग्रतः ॥ ४३ ॥

महापर्वणि सम्प्राप्ते तीर्थप्राप्तौ तथैव च
पितुः क्षयाहदिवसे वैशाखादिषु यत्नतः ॥ ४४ ॥

मासेषु पुण्यकालेषु दानं नैमित्तिकं स्मृतम्
काम्यकालं प्रवक्ष्यामि यद्दानं फलदायकम् ॥ ४५ ॥

व्रतादिकं समुद्दिश्य कामनाफलकल्पितम्
यत्कामं कथितं सम्यक्सर्वाङ्गैरेव सङ्गतम् ॥ ४६ ॥

तस्य दानप्रभावेण भावनापरिभावितः
तादृक्फलं समश्नाति मानुषस्तत्प्रसादनात् ॥ ४७ ॥

आभ्युदयं प्रवक्ष्यामि यच्च यज्ञादिषु स्मृतम्
जातकर्मादिकार्येषु मौञ्ज्याद्युद्वाहकर्मसु ॥ ४८ ॥

प्रासादध्वजदेवानां प्रतिष्ठासु प्रयत्नतः
इत्यादिकं महीदेव दानमभ्युदयात्मकम् ॥ ४९ ॥

प्रजावृद्धिकरं भोगयशःस्वर्गसुखप्रदम्
अन्त्यं चैव प्रवक्ष्यामि शृणु दानं द्विजोत्तम ॥ ५० ॥

कामस्य सङ्क्षयं ज्ञात्वा जरया परिपीडितः
दद्याद्दानानि यत्नेन कुर्यादाशां न कस्यचित् ॥ ५१ ॥

मृते च मयि मे पुत्रा जायाबान्धवसोदराः
कथमेते भविष्यन्ति मां विना सुहृदो मम ॥ ५२ ॥

अहं वित्तविहीनो वा कथं जीवन्पुनस्तथा
भविष्यामीति विज्ञाय न ददाति हि किञ्चन ॥ ५३ ॥

आशापाशशतैर्बद्धो भाग्यादेव कुमायया
मृत्युं प्रयाति मूढात्मा रुदन्ति च ततः सुताः ॥ ५४ ॥

दुःखेन पीडिताः किचिन्न्मोहेनाकुलचेतसः
स्वल्पमल्पं च वा दानं कथञ्चित्कल्पयन्ति ते ॥ ५५ ॥

न तत्रास्मिन्गते काले महादुःखगते सति
विस्मरन्ति तदा दानं लोभाद्वा न ददत्यपि ॥ ५६ ॥

मृतोऽयं च पिता ज्ञात्वा स्नेहपाशो निवर्त्तते
योऽसौ मृतो महीदेव मम पाशैर्नियन्त्रितः ॥ ५७ ॥

तृष्णा क्षुधा समाक्रान्तो बहुदुःखैः प्रपीडितः
पच्यते नरके घोरे चिरकालं न संशयः ॥ ५८ ॥

तस्माद्दानं प्रदातव्यं स्वयमेव न संशयः
कस्य पुत्राश्च पौत्राश्च कस्य भार्या धनं च वा ॥ ५९ ॥

संसारे नास्तिकः कस्य स्वयं तस्मात्प्रदीयते
पानमन्नं च ताम्बूलमुदकं काञ्चनं तथा ॥ ६० ॥

वसनं गां च भूमिं च च्छत्रपात्राण्यनेकधा
फलानि भूमिदानानि विविधानि स्वशक्तितः ॥ ६१ ॥

दातव्यानि महीदेव नात्र कार्या विचारणा
तीर्थानां लक्षणं विप्र प्रवक्ष्यामि तवाग्रतः ॥ ६२ ॥

सुतीर्थानि इयं गङ्गा भाति पुण्या सरस्वती
रेवा च यमुना तापी नदी चर्मण्वती तथा ॥ ६३ ॥

सरयू च वरा वेणी पूर्णा पापप्रणाशिनी
कावेरी कपिला चान्या विशल्या विश्वतारिणी ॥ ६४ ॥

गोदावरी समाख्याता तुङ्गभद्रा च गण्डकी
पापानां भीतिदा नित्यं नदी भीमरथी स्मृता ॥ ६५ ॥

देविका कृष्णगङ्गा च अन्या याः सरितांवराः
एतास्तु पुण्यकालेषु सन्ति तीर्थान्यनेकशः ॥ ६६ ॥

ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः
तत्र तत्रैव कर्त्तव्याः स्नानदानादिकाः क्रियाः ॥ ६७ ॥

यदा न ज्ञायते नाम तस्य तीर्थस्य भो द्विज
तत्रेत्युच्चारणं कार्यं विष्णुतीर्थमिदं महत् ॥ ६८ ॥

तीर्थस्य देवता विष्णुःस र्वत्रापि न संशयः
नारायणेति यन्नाम स्मरेत्तीर्थेषु साधकः ॥ ६९ ॥

तस्य तीर्थफलं सम्यग्विष्णुनाम्नैव जायते
अज्ञातानां च तीर्थानां देवतानां न संशयः ॥ ७० ॥

विष्णुनाम्नैव नामानि मानवः परिकीर्तयेत्
सर्वास्तु सिद्धयः पुण्यास्तीर्थभूतास्तु सागरः ॥ ७१ ॥

सरांसि मानसादीनि निर्झराः पल्वलादयः
स्वल्पा नद्योऽपि सर्वास्तास्तीर्थानि हरिनामतः ॥ ७२ ॥

पर्वतास्तीर्थरूपाश्च यज्ञो यज्ञमही तथा
ब्राह्मणा यत्र विद्वांसः कौतुकेनाप्यवस्थिताः ॥ ७३ ॥

तदेव तीर्थं सुमहत्सर्वपापहरं स्मृतम्
श्राद्धं च श्राद्धभूमिश्च देवशाला च होमभूः ॥ ७४ ॥

यत्र वेदध्वनिः सम्यग्यत्र विष्णुकथाः शुभाः
स्वगृहं पुण्यसंयुक्तं गोस्थानमपि पावनम् ॥ ७५ ॥

यत्राश्वत्थ तरु वने यत्रागारोपि पावनः
एवमादीनि तीर्थानि पिता माता तथैव च ॥ ७६ ॥

पच्यते यत्र धर्मार्थं स्वयं तत्र गुरुः स्थितः
साध्वी यत्रास्ति वै भार्या तत्र तीर्थं न संशयः ॥ ७७ ॥

यत्र धर्मरतिर्नित्यं विद्वान्पुत्रः प्रवर्तते
तत्र तस्य हि तत्तीर्थं तारणाय प्रतिष्ठितम् ॥ ७८ ॥

इत्येवमादि तीर्थानि राजवेश्म तथैव च
एवमादिषु तीर्थेषु पर्वयोगाद्विशेषतः ॥ ७९ ॥

अनाराध्य हृषीकेशं सर्वदं सर्वदेहिनाम्
कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम् ॥ ८० ॥

अपत्यं द्रविणं दारास्तारहर्म्यं हया गजाः
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥ ८१ ॥

नारायणः परो देवः सत्यरूपो जनार्दनः
त्रिधात्मानंसभगवान्ससर्जपरमेश्वरः ॥ ८२ ॥

रजस्तमोभ्यांयुक्तोऽभूद्रजःसत्वाधिकंविभुः
ससर्जनाभिकमलेब्रह्माणङ्कमलासनम् ॥ ८३ ॥

रजसा तमसा जुष्टं स रुद्रमसृजद्विभुः
सत्वं रजस्तमश्चैव त्रितयं चैतदुच्यते ॥ ८४ ॥

सत्वेन मुच्यते जन्तुः सत्वं नारायणात्मकम्
रजसा सत्वयुक्तेन भवेच्छ्रीमान्यशोधिकः ॥ ८५ ॥

यद्वेदवाक्यं धर्मस्य समुद्दिश्योपसेवते
तद्रुद्रमिति विख्यातं विशिष्टं गदितं नृणाम् ॥ ८६ ॥

तेन राजा भवेल्लोके रजसा तमसा पुनः
यद्धीनं रजसा धर्मं केवलं तामसं च यत् ॥ ८७ ॥

तच्च दुर्गतिदं नॄणामिहलोके परत्र च
यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा स स्वयं हरः ॥ ८८ ॥

देवास्त्रयोपि यज्ञेऽस्मिन्निज्या देवेषु नित्यशः
यो भेदं कुरुते तेषां त्रयाणां द्विजसत्तमः ॥ ८९ ॥

स पापकारी पापात्मा अनिष्टां गतिमाप्नुयात्
विष्णुरेव परं ब्रह्म विष्णुरेव जगद्द्विज ॥ ९० ॥

तस्यायं माधवो मासः प्रियः सर्वेषु कर्मसु
कीर्त्यते हयमेधादि महाक्रतुफलप्रदः ॥ ९१ ॥

तीर्थस्नान तपो दान जप यज्ञफलाधिकः ॥ ९२ ॥

स्नानं विभाते नियमेन नद्यामनारतं मेषगते रवौ ये
कुर्वन्ति येऽस्मिन्नपि विप्रपूजां मद्दण्डभाजो न हि ते भवन्ति ॥ ९३ ॥

हत्वा हत्वा किङ्करौघं पुरो मे लुप्त्वा लुप्त्वा चित्रगुप्तस्य लेख्यम्
स्नात्वा स्नात्वा माधवे मासि तीर्थे पूर्वान्पूर्वानुद्धरन्तीह पापात् ॥ ९४ ॥

इदं भयच्छेदकरं न तस्मात्प्रकाशनीयं परमं रहस्यम्
निर्वासहेतुर्नरकालयस्य ममाधिकारक्षयकारणं तत् ॥ ९५ ॥

भागीरथीनर्मदा च यमुना च सरस्वती
विशोका च वितस्ता च विन्ध्यस्योत्तरतः स्थिताः ॥ ९६ ॥

गोदावरी भीमरथी तुङ्गभद्रा च देविका
तापी पयोष्णी विन्ध्यस्य दक्षिणास्तु प्रकीर्तिताः ॥ ९७ ॥

द्वादशैता महानद्यो नित्यं तेनावगाहिताः
वैशाखे विधिना स्नानं नद्यां यः प्रातराचरेत् ॥ ९८ ॥

सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः
सर्वे चायतनाः पुण्याः सर्वे पुण्या वनाश्रयाः ॥ ९९ ॥

तेनावगाहिता दृष्टाः प्रणता बहुसेविताः
स्नानमर्द्धोदिते सूर्ये वैशाखे नियतश्चरेत् १००
तस्य पुण्यं महीदेव कश्चिद्वक्तुं न शक्यते
यदि वक्त्रसहस्राणां सहस्राणि भवन्ति हि १०१
आयुश्च ब्रह्मणा स्वल्पं यदि स्याद्द्विजसत्तम
तदा माधवमासस्य फलं कथयितुं भवेत् १०२
महानिरयकर्षाग्नि माधवो माधवो यथा
ब्रह्महत्यादिकं पापमगम्यागमनादिकम् १०३
कामाकामकृतं पापमेति पातकमेव च
उपपापरहस्यं च सङ्करीकरणं परम् १०४
जातिभ्रंशकरं घोरमपात्रीकरणं तथा
मलावहं प्रकीर्णं च वाङ्मनः काय सम्भवम् १०५
माधवो निर्दहेन्मासो विधिना समुपासितः
कल्पकोटिसहस्राणि कल्पकोटि शतानि च १०६
वसेद्विष्णुपुरे श्रीमान्माधवे योऽर्चयेद्धरिम् १०७
इति श्रीपद्मपुराणे पातालखण्डे वैशाखमाहात्म्ये
सप्तनवतितमोऽध्यायः ९७