०९६

ऋषय ऊचुः -

विश्वास-प्रस्तुतिः

सूतसूतमहाप्राज्ञ जीवजीव शतंसमाः
यद्वयं पुण्यसमयं श्राविता जगतो हितम् ॥ १ ॥

मूलम्

सूतसूतमहाप्राज्ञ जीवजीव शतंसमाः
यद्वयं पुण्यसमयं श्राविता जगतो हितम् ॥ १ ॥

विश्वास-प्रस्तुतिः

वद भूयोऽपि भूयिष्ठं पिबामस्तावकं वचः
पायम्पायं न तृप्यामो वयं सूत तदुत्तमम् ॥ २ ॥

मूलम्

वद भूयोऽपि भूयिष्ठं पिबामस्तावकं वचः
पायम्पायं न तृप्यामो वयं सूत तदुत्तमम् ॥ २ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादमादिलोकस्य जगतां जगदीशितुः ॥ ३ ॥

मूलम्

सूत उवाच-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादमादिलोकस्य जगतां जगदीशितुः ॥ ३ ॥

विश्वास-प्रस्तुतिः

षट्सहस्राणिचोच्छ्रायो विस्तारेण पुनस्त्रयम्
एवं नवसहस्राणि योजनानां विधाय च ॥ ४ ॥

मूलम्

षट्सहस्राणिचोच्छ्रायो विस्तारेण पुनस्त्रयम्
एवं नवसहस्राणि योजनानां विधाय च ॥ ४ ॥

विश्वास-प्रस्तुतिः

वामया दंष्ट्रया गृह्य उद्धृतादौ वसुन्धरा
दिव्यवर्षसहस्रं वै दंष्ट्रया धारिता मही ॥ ५ ॥

मूलम्

वामया दंष्ट्रया गृह्य उद्धृतादौ वसुन्धरा
दिव्यवर्षसहस्रं वै दंष्ट्रया धारिता मही ॥ ५ ॥

विश्वास-प्रस्तुतिः

धर्माख्यानप्रसङ्गेन सोवाच विनयाद्विभुम्
पृथिव्युवाच-
एते द्वादश मासा वै षष्टिर्दिनशतत्रयम् ॥ ६ ॥

मूलम्

धर्माख्यानप्रसङ्गेन सोवाच विनयाद्विभुम्
पृथिव्युवाच-
एते द्वादश मासा वै षष्टिर्दिनशतत्रयम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

एषां किमुत्तमं पुण्यं प्रियं च तव केशव
पवित्रः कार्तिको मासस्तुलासंस्थे दिवाकरे ॥ ७ ॥

मूलम्

एषां किमुत्तमं पुण्यं प्रियं च तव केशव
पवित्रः कार्तिको मासस्तुलासंस्थे दिवाकरे ॥ ७ ॥

विश्वास-प्रस्तुतिः

मकरस्थे रवौ मासः पुराणे पावनः स्मृतः
मेषस्थे माधवो मासो भास्करे पठ्यते बुधैः ॥ ८ ॥

मूलम्

मकरस्थे रवौ मासः पुराणे पावनः स्मृतः
मेषस्थे माधवो मासो भास्करे पठ्यते बुधैः ॥ ८ ॥

विश्वास-प्रस्तुतिः

मार्गशीर्षोऽपि मासानां पावनः परिकीर्तितः
एवं मासाः पवित्रास्ते वासराः केपि कीर्तिताः ॥ ९ ॥

मूलम्

मार्गशीर्षोऽपि मासानां पावनः परिकीर्तितः
एवं मासाः पवित्रास्ते वासराः केपि कीर्तिताः ॥ ९ ॥

विश्वास-प्रस्तुतिः

युगादयो युगान्ताश्च तथा कल्पादयोऽपि च
सर्वेभ्योऽप्यधिकं मासमेतेभ्यो वद पावनम् ॥ १० ॥

मूलम्

युगादयो युगान्ताश्च तथा कल्पादयोऽपि च
सर्वेभ्योऽप्यधिकं मासमेतेभ्यो वद पावनम् ॥ १० ॥

विश्वास-प्रस्तुतिः

सर्वयज्ञमय श्रीमन्नेकं निश्चित्य मे वद
वराह उवाच-
विधिनाविधिनाचैव ये यजन्ति नराधमाः ॥ ११ ॥

मूलम्

सर्वयज्ञमय श्रीमन्नेकं निश्चित्य मे वद
वराह उवाच-
विधिनाविधिनाचैव ये यजन्ति नराधमाः ॥ ११ ॥

विश्वास-प्रस्तुतिः

माधवे मासि मां भक्त्या तैश्च पूज्योऽस्म्यहं सदा
हिरण्याक्षो वरारोहे माधवे तु मधुर्हत ॥ १२ ॥

मूलम्

माधवे मासि मां भक्त्या तैश्च पूज्योऽस्म्यहं सदा
हिरण्याक्षो वरारोहे माधवे तु मधुर्हत ॥ १२ ॥

विश्वास-प्रस्तुतिः

आदिदैत्यावुभावेतौ हत्वा त्वं तु समुद्धृता
त्रेतायुगे त्रयी धर्मो ज्ञानवर्णव्यवस्थितिः ॥ १३ ॥

मूलम्

आदिदैत्यावुभावेतौ हत्वा त्वं तु समुद्धृता
त्रेतायुगे त्रयी धर्मो ज्ञानवर्णव्यवस्थितिः ॥ १३ ॥

विश्वास-प्रस्तुतिः

माधवे मासि सम्भूता तेन मे माधवःप्रियः
त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे ॥ १४ ॥

मूलम्

माधवे मासि सम्भूता तेन मे माधवःप्रियः
त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे ॥ १४ ॥

विश्वास-प्रस्तुतिः

प्रवृत्तं च त्रयी धर्माः प्रवृत्तास्ते प्रवर्द्धिताः
अक्षया सोच्यते लोके तृतीया हरिवल्लभा ॥ १५ ॥

मूलम्

प्रवृत्तं च त्रयी धर्माः प्रवृत्तास्ते प्रवर्द्धिताः
अक्षया सोच्यते लोके तृतीया हरिवल्लभा ॥ १५ ॥

विश्वास-प्रस्तुतिः

स्नाने दानार्चने श्राद्धे जपे पूर्वजतर्प्पणे
येऽर्चयन्ति यवैर्विष्णुं श्राद्धं कुर्वन्ति यत्नतः ॥ १६ ॥

मूलम्

स्नाने दानार्चने श्राद्धे जपे पूर्वजतर्प्पणे
येऽर्चयन्ति यवैर्विष्णुं श्राद्धं कुर्वन्ति यत्नतः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तेषां ददाम्यहं सर्वं यन्मनोऽभीष्टमुत्तमम्
ये ददन्त्यपि दानानि धन्यास्ते धार्मिका नराः ॥ १७ ॥

मूलम्

तेषां ददाम्यहं सर्वं यन्मनोऽभीष्टमुत्तमम्
ये ददन्त्यपि दानानि धन्यास्ते धार्मिका नराः ॥ १७ ॥

विश्वास-प्रस्तुतिः

ये यजन्ति हरेर्नित्यमध्वरैर्विविधैरपि
माधवे यजते यो मां तेभ्यस्तदधिकं फलम् ॥ १८ ॥

मूलम्

ये यजन्ति हरेर्नित्यमध्वरैर्विविधैरपि
माधवे यजते यो मां तेभ्यस्तदधिकं फलम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

स्नानं दानं जपो होमस्तपो यज्ञ व्रतादिकम्
वैशाखे यत्कृतं देवि तस्य पुण्यफलं शृणु ॥ १९ ॥

मूलम्

स्नानं दानं जपो होमस्तपो यज्ञ व्रतादिकम्
वैशाखे यत्कृतं देवि तस्य पुण्यफलं शृणु ॥ १९ ॥

विश्वास-प्रस्तुतिः

मन्वन्तराणां कोट्यस्तु दशपञ्च च सप्त च
मत्सान्निध्यगतास्तेपि तिष्ठन्ति भयवर्जिताः ॥ २० ॥

मूलम्

मन्वन्तराणां कोट्यस्तु दशपञ्च च सप्त च
मत्सान्निध्यगतास्तेपि तिष्ठन्ति भयवर्जिताः ॥ २० ॥

विश्वास-प्रस्तुतिः

यद्यपि स्युर्ग्रहाः सर्वे क्रूरा जन्मव्ययाष्टकाः
प्रातःस्नानेन वैशाखे सर्वे सौम्या भवन्ति ते ॥ २१ ॥

मूलम्

यद्यपि स्युर्ग्रहाः सर्वे क्रूरा जन्मव्ययाष्टकाः
प्रातःस्नानेन वैशाखे सर्वे सौम्या भवन्ति ते ॥ २१ ॥

विश्वास-प्रस्तुतिः

वैशाखे मासि यो विप्रान्भोजयेद्भक्तितत्परः
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसङ्ख्यया ॥ २२ ॥

मूलम्

वैशाखे मासि यो विप्रान्भोजयेद्भक्तितत्परः
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसङ्ख्यया ॥ २२ ॥

विश्वास-प्रस्तुतिः

यच्छन्ति तत्र मधुराधिकभोजनानि ये वायवाशन तिलोदक भोजनानि
छत्राम्बराणि चरणोचितरक्षणानि धन्यास्त एव परितोषकराहि विष्णोः ॥ २३ ॥

मूलम्

यच्छन्ति तत्र मधुराधिकभोजनानि ये वायवाशन तिलोदक भोजनानि
छत्राम्बराणि चरणोचितरक्षणानि धन्यास्त एव परितोषकराहि विष्णोः ॥ २३ ॥

विश्वास-प्रस्तुतिः

विशेषादिह दातव्यास्तिला मधुसमन्विताः
धर्माय बृहते दीर्घ दुरितक्षय हेतवे ॥ २४ ॥

मूलम्

विशेषादिह दातव्यास्तिला मधुसमन्विताः
धर्माय बृहते दीर्घ दुरितक्षय हेतवे ॥ २४ ॥

विश्वास-प्रस्तुतिः

एवङ्कृते तु यत्पुण्यं प्राप्यते मनुजैश्च तैः
तत्कैर्गणयितुं शक्यं वर्षकोटिशतैरपि ॥ २५ ॥

मूलम्

एवङ्कृते तु यत्पुण्यं प्राप्यते मनुजैश्च तैः
तत्कैर्गणयितुं शक्यं वर्षकोटिशतैरपि ॥ २५ ॥

विश्वास-प्रस्तुतिः

पुत्रपौत्रादिसम्पत्ति दीर्घायूंषि यथेप्सितम्
इहाप्नोति परत्रापि मामेव प्रतिपद्यते ॥ २६ ॥

मूलम्

पुत्रपौत्रादिसम्पत्ति दीर्घायूंषि यथेप्सितम्
इहाप्नोति परत्रापि मामेव प्रतिपद्यते ॥ २६ ॥

विश्वास-प्रस्तुतिः

अनेकजन्मार्जित पातकावली विलीयते माधव मज्जनेन
जनस्य तत्रोषसि पुण्यतीर्थे यथाविधानं श्रयते तथा वा ॥ २७ ॥

मूलम्

अनेकजन्मार्जित पातकावली विलीयते माधव मज्जनेन
जनस्य तत्रोषसि पुण्यतीर्थे यथाविधानं श्रयते तथा वा ॥ २७ ॥

विश्वास-प्रस्तुतिः

यः परित्यज्य वैशाखं व्रतमन्यदुपाचरेत्
स करस्थं महारत्नं हित्वा लोष्टं हि याचते ॥ २८ ॥

मूलम्

यः परित्यज्य वैशाखं व्रतमन्यदुपाचरेत्
स करस्थं महारत्नं हित्वा लोष्टं हि याचते ॥ २८ ॥

विश्वास-प्रस्तुतिः

सूतउवाच-
एवं स भगवान्पूर्वमादिदेवो वदद्विभुः
माधवं मासमुद्दिश्य जगत्यां जगतीधरः ॥ २९ ॥

मूलम्

सूतउवाच-
एवं स भगवान्पूर्वमादिदेवो वदद्विभुः
माधवं मासमुद्दिश्य जगत्यां जगतीधरः ॥ २९ ॥

विश्वास-प्रस्तुतिः

किमत्र बहुनोक्तेन न तदस्ति महीसुराः
यदप्राप्यं भवेन्मासि माधवे माधवार्चनात् ॥ ३० ॥

मूलम्

किमत्र बहुनोक्तेन न तदस्ति महीसुराः
यदप्राप्यं भवेन्मासि माधवे माधवार्चनात् ॥ ३० ॥

विश्वास-प्रस्तुतिः

शृणुध्वं च पुरावृत्तमिहार्थे परमाद्भुतम्
ब्राह्मणस्य च संवादं यमस्य च महात्मनः ॥ ३१ ॥

मूलम्

शृणुध्वं च पुरावृत्तमिहार्थे परमाद्भुतम्
ब्राह्मणस्य च संवादं यमस्य च महात्मनः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

मध्यदेशे महाग्रामो ब्राह्मणानां बभूव ह
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥ ३२ ॥

मूलम्

मध्यदेशे महाग्रामो ब्राह्मणानां बभूव ह
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा
अथ प्राह यमः कञ्चित्पुरुषं कृष्णपिङ्गलम् ॥ ३३ ॥

मूलम्

विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा
अथ प्राह यमः कञ्चित्पुरुषं कृष्णपिङ्गलम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

रक्ताक्षमूर्द्ध्वरोमाणं काकजङ्घाक्षिनासिकम्
गच्छ त्वं भो महाग्रामं गत्वा ब्राह्मणमानय ॥ ३४ ॥

मूलम्

रक्ताक्षमूर्द्ध्वरोमाणं काकजङ्घाक्षिनासिकम्
गच्छ त्वं भो महाग्रामं गत्वा ब्राह्मणमानय ॥ ३४ ॥

विश्वास-प्रस्तुतिः

वसिष्ठगोत्रसम्भूतं नामतो यज्ञदत्तकम्
शमे निविष्टं विद्वांसं यज्ञकर्मविशारदम् ॥ ३५ ॥

मूलम्

वसिष्ठगोत्रसम्भूतं नामतो यज्ञदत्तकम्
शमे निविष्टं विद्वांसं यज्ञकर्मविशारदम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

नचान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः
सहितादृग्गुणस्तेन तुल्योऽध्ययन जन्मना ॥ ३६ ॥

मूलम्

नचान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः
सहितादृग्गुणस्तेन तुल्योऽध्ययन जन्मना ॥ ३६ ॥

विश्वास-प्रस्तुतिः

आकृत्या च तथा चिह्नैः समस्तेनैव सत्तमः
तमानय यथोद्दिष्टा पूजा कार्या हि तस्य मे ॥ ३७ ॥

मूलम्

आकृत्या च तथा चिह्नैः समस्तेनैव सत्तमः
तमानय यथोद्दिष्टा पूजा कार्या हि तस्य मे ॥ ३७ ॥

विश्वास-प्रस्तुतिः

स गत्वा प्रतिकूलं तु चकार यमशासनम्
तमेव मानयामास प्रतिषिद्धो यमेन यः ॥ ३८ ॥

मूलम्

स गत्वा प्रतिकूलं तु चकार यमशासनम्
तमेव मानयामास प्रतिषिद्धो यमेन यः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तस्मै यमः समुत्थाय पूजां कृत्वा च धर्मवित्
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥ ३९ ॥

मूलम्

तस्मै यमः समुत्थाय पूजां कृत्वा च धर्मवित्
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥ ३९ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
एवमुक्ते तु वचने धर्मराजेन स द्विजः
उवाच धर्मराजं तं निर्विण्णो गमनाय वै ॥ ४० ॥

मूलम्

सूत उवाच-
एवमुक्ते तु वचने धर्मराजेन स द्विजः
उवाच धर्मराजं तं निर्विण्णो गमनाय वै ॥ ४० ॥

विश्वास-प्रस्तुतिः

ब्राह्मण उवाच-
कस्मादहमिहानीतः कस्मात्प्रेरयसे पुनः
गन्तुं नैवोत्सहे तत्र मर्त्यलोकं पुनः प्रभो ॥ ४१ ॥

मूलम्

ब्राह्मण उवाच-
कस्मादहमिहानीतः कस्मात्प्रेरयसे पुनः
गन्तुं नैवोत्सहे तत्र मर्त्यलोकं पुनः प्रभो ॥ ४१ ॥

विश्वास-प्रस्तुतिः

यम उवाच-
इह क्षीणायुषां पुंसां वासः पुण्यवतां भवेत्
अयं वै धर्मराजस्य लोको धर्मः प्रकीर्तितः ॥ ४२ ॥

मूलम्

यम उवाच-
इह क्षीणायुषां पुंसां वासः पुण्यवतां भवेत्
अयं वै धर्मराजस्य लोको धर्मः प्रकीर्तितः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सौख्यभूमिरियं सर्वा धर्मराजोऽहमीश्वरः
पुण्यापुण्यानुसारेण जन्तूनां सुखदुःखदः ॥ ४३ ॥

मूलम्

सौख्यभूमिरियं सर्वा धर्मराजोऽहमीश्वरः
पुण्यापुण्यानुसारेण जन्तूनां सुखदुःखदः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

पापिनां यमरूपोऽस्मि नृणां निरयदायकः
तथा पुण्यवतां सौख्य स्वर्गदो धर्म मूर्तिमान् ॥ ४४ ॥

मूलम्

पापिनां यमरूपोऽस्मि नृणां निरयदायकः
तथा पुण्यवतां सौख्य स्वर्गदो धर्म मूर्तिमान् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

गच्छ विप्र त्वमद्यैव निलयं स्वं यथागतः
अद्यापि दशवर्षाणामायुस्ते परिवर्तते ॥ ४५ ॥

मूलम्

गच्छ विप्र त्वमद्यैव निलयं स्वं यथागतः
अद्यापि दशवर्षाणामायुस्ते परिवर्तते ॥ ४५ ॥

विश्वास-प्रस्तुतिः

क्षये तवायुषः प्राप्तिर्लोकस्यास्य भविष्यति
प्रष्टव्यं च त्वया ह्यन्यत्पृच्छस्व प्रब्रवीमि ते ॥ ४६ ॥

मूलम्

क्षये तवायुषः प्राप्तिर्लोकस्यास्य भविष्यति
प्रष्टव्यं च त्वया ह्यन्यत्पृच्छस्व प्रब्रवीमि ते ॥ ४६ ॥

विश्वास-प्रस्तुतिः

ब्राह्मण उवाच-
यत्कृत्वा सुमहत्पुण्यं स्वर्गः स्याद्ब्रूहि तन्मम
सर्वस्य हि प्रमाणन्त्वं धर्माधर्मविनिश्चये ॥ ४७ ॥

मूलम्

ब्राह्मण उवाच-
यत्कृत्वा सुमहत्पुण्यं स्वर्गः स्याद्ब्रूहि तन्मम
सर्वस्य हि प्रमाणन्त्वं धर्माधर्मविनिश्चये ॥ ४७ ॥

विश्वास-प्रस्तुतिः

यदि देव मया सम्यग्गन्तव्यं निजमन्दिरे
तद्ब्रूहि कर्मणा केन पतन्ति नरके नराः ॥ ४८ ॥

मूलम्

यदि देव मया सम्यग्गन्तव्यं निजमन्दिरे
तद्ब्रूहि कर्मणा केन पतन्ति नरके नराः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

व्रजन्ति केन वै स्वर्गं तत्सर्वं कृपया वद
यम उवाच-
कर्मणा मनसा वाचा ये धर्मविमुखा नराः ॥ ४९ ॥

मूलम्

व्रजन्ति केन वै स्वर्गं तत्सर्वं कृपया वद
यम उवाच-
कर्मणा मनसा वाचा ये धर्मविमुखा नराः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

विष्णुभक्तिविहीना ये ते वै निरयगामिनः
पश्यन्ति भेदबुद्ध्या ये ब्रह्माणं शङ्करं हरिम् ॥ ५० ॥

मूलम्

विष्णुभक्तिविहीना ये ते वै निरयगामिनः
पश्यन्ति भेदबुद्ध्या ये ब्रह्माणं शङ्करं हरिम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

विरक्ता विष्णुविद्यासु नरा निरयगामिनः
कुलदेशोचितं कर्म यस्त्यक्त्वान्यत्समाचरेत् ॥ ५१ ॥

मूलम्

विरक्ता विष्णुविद्यासु नरा निरयगामिनः
कुलदेशोचितं कर्म यस्त्यक्त्वान्यत्समाचरेत् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

कामाद्वा यदि वा मोहात्स याति नरकं नरः
अयाज्ययाजकश्चैव याज्यानां च विवर्जकः ॥ ५२ ॥

मूलम्

कामाद्वा यदि वा मोहात्स याति नरकं नरः
अयाज्ययाजकश्चैव याज्यानां च विवर्जकः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

विरतो विष्णुविद्यासु स भुङ्क्ते नरकान्बहून्
अदत्वा पितृदेवेभ्यो विप्रेभ्यो मर्त्यबन्धुषु ॥ ५३ ॥

मूलम्

विरतो विष्णुविद्यासु स भुङ्क्ते नरकान्बहून्
अदत्वा पितृदेवेभ्यो विप्रेभ्यो मर्त्यबन्धुषु ॥ ५३ ॥

विश्वास-प्रस्तुतिः

सधनो म्रियते पापः स याति नरकान्बहून्
सर्वाण्यन्नानि सिद्धानि पाकभेदं करोति यः ॥ ५४ ॥

मूलम्

सधनो म्रियते पापः स याति नरकान्बहून्
सर्वाण्यन्नानि सिद्धानि पाकभेदं करोति यः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

अवैश्वदेवं भुञ्जीत स याति नरकं चिरम्
बहुद्रोहेण भूतानां येऽजयन्ति धनं द्विज ॥ ५५ ॥

मूलम्

अवैश्वदेवं भुञ्जीत स याति नरकं चिरम्
बहुद्रोहेण भूतानां येऽजयन्ति धनं द्विज ॥ ५५ ॥

विश्वास-प्रस्तुतिः

धनवन्तो निरयगा दाम्भिका दुःखभागिनः
नास्तिक्यादथ वा लोभान्मोहात्काले यथोदिते ॥ ५६ ॥

मूलम्

धनवन्तो निरयगा दाम्भिका दुःखभागिनः
नास्तिक्यादथ वा लोभान्मोहात्काले यथोदिते ॥ ५६ ॥

विश्वास-प्रस्तुतिः

भक्त्या न श्राद्धदा ये स्युः पच्यन्ते नरकेषु ते
दीयमानस्य वित्तस्य ब्राह्मणेभ्यस्तु पापकृत् ॥ ५७ ॥

मूलम्

भक्त्या न श्राद्धदा ये स्युः पच्यन्ते नरकेषु ते
दीयमानस्य वित्तस्य ब्राह्मणेभ्यस्तु पापकृत् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

विघ्नमाचरते योऽसौ नरो निरयगो भवेत्
सामान्य दक्षिणां लब्ध्वा गृह्णात्येको विमोहतः ॥ ५८ ॥

मूलम्

विघ्नमाचरते योऽसौ नरो निरयगो भवेत्
सामान्य दक्षिणां लब्ध्वा गृह्णात्येको विमोहतः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

नास्तिक्यभावनिरतो नरः स्यान्नरकालये
असहिष्णुतया तस्य गुणानां कारणं भवेत् ॥ ५९ ॥

मूलम्

नास्तिक्यभावनिरतो नरः स्यान्नरकालये
असहिष्णुतया तस्य गुणानां कारणं भवेत् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

महत्पापं समुत्पन्नं कारणं नरकस्य तत्
निर्दोषां सुहृदां भार्यां त्यजन्कालेन याति यः ॥ ६० ॥

मूलम्

महत्पापं समुत्पन्नं कारणं नरकस्य तत्
निर्दोषां सुहृदां भार्यां त्यजन्कालेन याति यः ॥ ६० ॥

विश्वास-प्रस्तुतिः

न वहेत यशस्तेषां स नरो नरके पतेत्
अधर्मं धर्ममिति यो वदन्मोहवशं गतः ॥ ६१ ॥

मूलम्

न वहेत यशस्तेषां स नरो नरके पतेत्
अधर्मं धर्ममिति यो वदन्मोहवशं गतः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

हैतुको नास्तिको यस्तु स नरो निरयालयः
मनसा योऽन्यभावेन वचसा चान्यथा वदेत् ॥ ६२ ॥

मूलम्

हैतुको नास्तिको यस्तु स नरो निरयालयः
मनसा योऽन्यभावेन वचसा चान्यथा वदेत् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

हृदयं कलुषं कुर्यात्स नरो नरके वसेत्
अवमन्य च ये यान्ति भगवत्कीर्तनं नराः ॥ ६३ ॥

मूलम्

हृदयं कलुषं कुर्यात्स नरो नरके वसेत्
अवमन्य च ये यान्ति भगवत्कीर्तनं नराः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

ते यान्ति नरकं घोरं तेन पापेन कर्मणा
पश्यन्तो भगवद्द्वारं नामशास्त्र परिच्छदम् ॥ ६४ ॥

मूलम्

ते यान्ति नरकं घोरं तेन पापेन कर्मणा
पश्यन्तो भगवद्द्वारं नामशास्त्र परिच्छदम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

अकृत्वा तत्प्रणामादि ते यान्ति नरकौकसः
विनापराधेन नराः कृत्वा पत्न्यधिवेदनम् ॥ ६५ ॥

मूलम्

अकृत्वा तत्प्रणामादि ते यान्ति नरकौकसः
विनापराधेन नराः कृत्वा पत्न्यधिवेदनम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

त्यजन्ति सुकलत्रं ये ते यान्ति नरके नराः
न शृणोति गुरोर्वाक्यं धर्मशास्त्रं च यो नरः ॥ ६६ ॥

मूलम्

त्यजन्ति सुकलत्रं ये ते यान्ति नरके नराः
न शृणोति गुरोर्वाक्यं धर्मशास्त्रं च यो नरः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

परेषां चेतसः क्लेशकारी निरयगो भवेत्
पश्यतां बन्धु बालानां प्रकर्षी मिष्टमश्नुते ॥ ६७ ॥

मूलम्

परेषां चेतसः क्लेशकारी निरयगो भवेत्
पश्यतां बन्धु बालानां प्रकर्षी मिष्टमश्नुते ॥ ६७ ॥

विश्वास-प्रस्तुतिः

स याति नरकं घोरं केवलोदरपूरकः
तुला मकर मेषेषु प्रातः स्नानं न यश्चरेत् ॥ ६८ ॥

मूलम्

स याति नरकं घोरं केवलोदरपूरकः
तुला मकर मेषेषु प्रातः स्नानं न यश्चरेत् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

नद्यादिषु च नास्तिक्यस्तस्य स्यान्नरकालयः
वैष्णवं जनमालोक्य नाभ्युत्थानं करोति यः ॥ ६९ ॥

मूलम्

नद्यादिषु च नास्तिक्यस्तस्य स्यान्नरकालयः
वैष्णवं जनमालोक्य नाभ्युत्थानं करोति यः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

प्रणयादरतो विप्र स नरो नरकातिथिः
काष्ठैर्वा शङ्कुभिर्वापि शूलैरश्मभिरेव च ॥ ७० ॥

मूलम्

प्रणयादरतो विप्र स नरो नरकातिथिः
काष्ठैर्वा शङ्कुभिर्वापि शूलैरश्मभिरेव च ॥ ७० ॥

विश्वास-प्रस्तुतिः

ये मार्गांश्चैव रुन्धन्ति ते वै निरयगामिनः
आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम् ॥ ७१ ॥

मूलम्

ये मार्गांश्चैव रुन्धन्ति ते वै निरयगामिनः
आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

न चिन्तयन्ति ये विष्णुं ते वै निरयगामिनः
क्षेत्रवृत्ति गृहच्छेदं प्रीतिच्छेदं च ये नराः ॥ ७२ ॥

मूलम्

न चिन्तयन्ति ये विष्णुं ते वै निरयगामिनः
क्षेत्रवृत्ति गृहच्छेदं प्रीतिच्छेदं च ये नराः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

आशाच्छेदं च कुर्वन्ति ते नरा नरकौकसः
आगतान्भोजनार्थं च ब्राह्मणान्वृत्तिकर्शितान् ॥ ७३ ॥

मूलम्

आशाच्छेदं च कुर्वन्ति ते नरा नरकौकसः
आगतान्भोजनार्थं च ब्राह्मणान्वृत्तिकर्शितान् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

यः परीक्षेत मूढात्मा स ज्ञेयो नरकातिथिः
अनाथं वैष्णवं दीनं रोगार्तं वृद्धमेव च ॥ ७४ ॥

मूलम्

यः परीक्षेत मूढात्मा स ज्ञेयो नरकातिथिः
अनाथं वैष्णवं दीनं रोगार्तं वृद्धमेव च ॥ ७४ ॥

विश्वास-प्रस्तुतिः

नानुकम्पन्ति ये मूढास्ते वै निरयगामिनः
नियमांस्तु समादाय ये पश्चादजितेन्द्रियाः ॥ ७५ ॥

मूलम्

नानुकम्पन्ति ये मूढास्ते वै निरयगामिनः
नियमांस्तु समादाय ये पश्चादजितेन्द्रियाः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

विलोपयन्ति तान्भूयस्ते वै निरयगामिनः
शृणु विप्र यथा यान्ति नराः स्वर्गं दयालवः ॥ ७६ ॥

मूलम्

विलोपयन्ति तान्भूयस्ते वै निरयगामिनः
शृणु विप्र यथा यान्ति नराः स्वर्गं दयालवः ॥ ७६ ॥

विश्वास-प्रस्तुतिः

समासेनैव वक्ष्यामि किञ्चित्ते गौरवादहम्
येऽर्चयन्ति हरिं देवञ्जिष्णुं विष्णुं सनातनम् ॥ ७७ ॥

मूलम्

समासेनैव वक्ष्यामि किञ्चित्ते गौरवादहम्
येऽर्चयन्ति हरिं देवञ्जिष्णुं विष्णुं सनातनम् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

नारायणमजं कृष्णं विष्वक्सेनं चतुर्भुजम्
ध्यायन्ति पुरुषं दिव्यमच्युतं ये स्मरन्ति च ॥ ७८ ॥

मूलम्

नारायणमजं कृष्णं विष्वक्सेनं चतुर्भुजम्
ध्यायन्ति पुरुषं दिव्यमच्युतं ये स्मरन्ति च ॥ ७८ ॥

विश्वास-प्रस्तुतिः

लभन्ते तेऽच्युतस्थानं श्रुतिरेषा पुरातनी
इदमेवहि माङ्गल्यमिदमेव धनार्जनम् ॥ ७९ ॥

मूलम्

लभन्ते तेऽच्युतस्थानं श्रुतिरेषा पुरातनी
इदमेवहि माङ्गल्यमिदमेव धनार्जनम् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम्
कीर्तनाद्देवदेवस्य विष्णोरमिततेजसः ॥ ८० ॥

मूलम्

जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम्
कीर्तनाद्देवदेवस्य विष्णोरमिततेजसः ॥ ८० ॥

विश्वास-प्रस्तुतिः

दुरितानि विलीयन्ते तमांसीव दिनोदये
गाथां गायन्ति ये नित्यं वैष्णवीं श्रद्धयान्विताः ॥ ८१ ॥

मूलम्

दुरितानि विलीयन्ते तमांसीव दिनोदये
गाथां गायन्ति ये नित्यं वैष्णवीं श्रद्धयान्विताः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

स्वाध्यायनिरता नित्यं ते नराः स्वर्गगामिनः
सर्वान्क्लेशान्परित्यज्य विष्णुमेव स्तुवन्ति ये ॥ ८२ ॥

मूलम्

स्वाध्यायनिरता नित्यं ते नराः स्वर्गगामिनः
सर्वान्क्लेशान्परित्यज्य विष्णुमेव स्तुवन्ति ये ॥ ८२ ॥

विश्वास-प्रस्तुतिः

स्वधर्मनिरता धीरास्ते नराः स्वर्गगामिनः
वासुदेवजपासक्तानपि पापकृतो जनान् ॥ ८३ ॥

मूलम्

स्वधर्मनिरता धीरास्ते नराः स्वर्गगामिनः
वासुदेवजपासक्तानपि पापकृतो जनान् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

नोपसर्पन्ति तान्विप्र यमदूताश्च दारुणाः
नान्यत्पश्यन्ति जन्तूनां विहाय हरिकीर्तनम् ॥ ८४ ॥

मूलम्

नोपसर्पन्ति तान्विप्र यमदूताश्च दारुणाः
नान्यत्पश्यन्ति जन्तूनां विहाय हरिकीर्तनम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

सर्वपापप्रशमनं प्रायश्चित्तं द्विजोत्तम
ये याचिताः प्रहृष्यन्ति प्रियं दत्वा वदन्ति च ॥ ८५ ॥

मूलम्

सर्वपापप्रशमनं प्रायश्चित्तं द्विजोत्तम
ये याचिताः प्रहृष्यन्ति प्रियं दत्वा वदन्ति च ॥ ८५ ॥

विश्वास-प्रस्तुतिः

त्यक्तदानफला ये च ते नराःस्वर्गगामिनः
वर्जयन्ति दिवास्वापं नराः सर्वसहाश्च ये ॥ ८६ ॥

मूलम्

त्यक्तदानफला ये च ते नराःस्वर्गगामिनः
वर्जयन्ति दिवास्वापं नराः सर्वसहाश्च ये ॥ ८६ ॥

विश्वास-प्रस्तुतिः

पर्वण्याश्रयभूता ये ते मर्त्याः स्वर्गगामिनः
द्विषतामपि ये दोषान्न वदन्ति कदाचन ॥ ८७ ॥

मूलम्

पर्वण्याश्रयभूता ये ते मर्त्याः स्वर्गगामिनः
द्विषतामपि ये दोषान्न वदन्ति कदाचन ॥ ८७ ॥

विश्वास-प्रस्तुतिः

कीर्तयन्ति गुणांश्चैव ते नराः स्वर्गगामिनः
ये परेषां श्रियं दृष्ट्वा न वितप्यन्ति मत्सरात् ॥ ८८ ॥

मूलम्

कीर्तयन्ति गुणांश्चैव ते नराः स्वर्गगामिनः
ये परेषां श्रियं दृष्ट्वा न वितप्यन्ति मत्सरात् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

प्रहृष्टाश्चाभिनन्दन्ति ते नराः स्वर्गगामिनः
प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च ॥ ८९ ॥

मूलम्

प्रहृष्टाश्चाभिनन्दन्ति ते नराः स्वर्गगामिनः
प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च ॥ ८९ ॥

विश्वास-प्रस्तुतिः

आदरन्ति प्रतीता ये ते नराः स्वर्गगामिनः
यस्मिन्कस्मिन्कुले जाता दयावन्तो यशस्विनः ॥ ९० ॥

मूलम्

आदरन्ति प्रतीता ये ते नराः स्वर्गगामिनः
यस्मिन्कस्मिन्कुले जाता दयावन्तो यशस्विनः ॥ ९० ॥

विश्वास-प्रस्तुतिः

सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः
ये पूताः परदारांश्च कर्मणा मनसा गिरा ॥ ९१ ॥

मूलम्

सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः
ये पूताः परदारांश्च कर्मणा मनसा गिरा ॥ ९१ ॥

विश्वास-प्रस्तुतिः

रमयन्ति न सत्वस्थास्तेनराः स्वर्गगामिनः
सदा कर्मयथोक्तेन कुर्वन्ति विहितानि च ॥ ९२ ॥

मूलम्

रमयन्ति न सत्वस्थास्तेनराः स्वर्गगामिनः
सदा कर्मयथोक्तेन कुर्वन्ति विहितानि च ॥ ९२ ॥

विश्वास-प्रस्तुतिः

आत्मशक्तिं च विज्ञाय ते नराः स्वर्गगामिनः
मनो वाक्कायिके धर्मे श्रद्धां यः कुरुते सदा ॥ ९३ ॥

मूलम्

आत्मशक्तिं च विज्ञाय ते नराः स्वर्गगामिनः
मनो वाक्कायिके धर्मे श्रद्धां यः कुरुते सदा ॥ ९३ ॥

विश्वास-प्रस्तुतिः

साधूनां सम्मतो यश्च स भवेद्देवतातिथिः
वचोवेगं मनोवेगं यो वेगमुदरोद्भवम् ॥ ९४ ॥

मूलम्

साधूनां सम्मतो यश्च स भवेद्देवतातिथिः
वचोवेगं मनोवेगं यो वेगमुदरोद्भवम् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

उपस्थवेगं सहते स स्वर्गी जायते नरः
येषां गुणेषु सन्तोषो वाणी येषां श्रुतं प्रति ॥ ९५ ॥

मूलम्

उपस्थवेगं सहते स स्वर्गी जायते नरः
येषां गुणेषु सन्तोषो वाणी येषां श्रुतं प्रति ॥ ९५ ॥

विश्वास-प्रस्तुतिः

परमार्थे मतिर्येषां ते शिष्टाः स्वर्गगामिनः
व्रतं रक्षन्ति ये कोपाच्छ्रियं रक्षन्ति मत्सरात् ॥ ९६ ॥

मूलम्

परमार्थे मतिर्येषां ते शिष्टाः स्वर्गगामिनः
व्रतं रक्षन्ति ये कोपाच्छ्रियं रक्षन्ति मत्सरात् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः
मतिं रक्षन्ति ये लोभान्मनो रक्षन्ति कामतः ॥ ९७ ॥

मूलम्

विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः
मतिं रक्षन्ति ये लोभान्मनो रक्षन्ति कामतः ॥ ९७ ॥

विश्वास-प्रस्तुतिः

धर्मं रक्षन्ति दुःसङ्गात्ते नराः स्वर्गगामिनः
एकादश्यां च विधिवदुपवासपरायणाः ॥ ९८ ॥

मूलम्

धर्मं रक्षन्ति दुःसङ्गात्ते नराः स्वर्गगामिनः
एकादश्यां च विधिवदुपवासपरायणाः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

शुक्लेऽसिते च ये विप्र ते नराः स्वर्गगामिनः
मातेव सर्वबालानामौषधं रोगिणा मिव ॥ ९९ ॥

मूलम्

शुक्लेऽसिते च ये विप्र ते नराः स्वर्गगामिनः
मातेव सर्वबालानामौषधं रोगिणा मिव ॥ ९९ ॥

रक्षार्थं सर्वलोकानां निर्मितैकादशी तिथिः
एकादशी समं किञ्चित्पादत्राणं न विद्यते 5.96.१००
तामुपोष्य विधानेन पुरुषाः स्वर्गगामिनः
एकादशेन्द्रियैः पापं यत्कृतं भवति द्विज १०१
नरो निर्द्धूय तत्तूर्णं प्रीतः स्वर्गतिमान्भवेत्
अश्वमेधसहस्राणि राजसूयशतानि च १०२
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्
एकतः क्रतवः सर्वे सर्वतीर्थतपांसि च १०३
महादानादिदानानि व्रतं वैष्णवमेकतः
वैष्णवव्रतजो धर्मो धर्मो यज्ञादिसम्भवः १०४
एकत्र तुलितौ धात्रा तत्र पूर्वो भवेद्गुरुः
हरिवासर भक्तानामच्युतानन्तभाषिणाम् १०५
नाहं शास्ता विशेषेण तेभ्यो विप्र बिभेम्यहम्
येषां पुत्रश्च पौत्रश्च एकादश्यामुपोषितः १०६
सहात्मना स पुरुषाञ्छतमुद्धरते बलात्
उपोषणं ततः कुर्यात्पक्षयोरुभयोरपि १०७
एकादश्यां स पुरुषो भुक्तिमुक्त्येकभाजनम्
जया च विजया चैव जयन्ती पापनाशिनी १०८
त्रिस्पृशा वञ्जुली चैव पक्षसंवर्धिनी वरा
तिलदुग्धा परा ज्ञेया अखण्डद्वादशी तथा १०९
मनोरथाख्या च परा भीमद्वादशिका तथा
इत्येवमादयो भेदा द्वादश्याः सन्त्यनेकशः ११०
व्रतेष्वेतेषु ये शक्ता ज्ञेयास्ते ब्रह्मणि स्थिताः
श्रोतारो धर्मशास्त्राणां धर्मप्रत्यय सङ्गताः १११
प्रियङ्कराश्च बालानां स्वर्गलोकं व्रजन्ति ते
मासिमास्येकदिवसे दर्शे श्राद्धव्रता नराः ११२
तृप्यन्ति पितरो येषां ते धन्याः स्वर्गगामिनः
भोजनेषूपपन्नेषु भोज्यं यच्छन्ति सादरात् ११३
अभिन्नमुखरागेण शिष्टास्ते स्वर्गगामिनः ११४
ये भक्तिमन्तो मधुसूदनस्य नारायणस्याखिलनायकस्य
सत्येन हीना रजसापि युक्ता गच्छन्ति ते नाकमनन्तपुण्याः ११५
वितस्तां यमुनां सीतां पुण्यां गोदावरीं नदीम्
सेवन्ते ये शुभाचाराः स्नानदानपरायणाः ११६
न ते पश्यन्ति पन्थानं नरकस्य कदाचन
ये नर्मदायामिह शर्मदायां मज्जन्ति तुष्यन्त्यपि दर्शनेन ११७
विधूय पापानि महेशलोकं गच्छन्ति ते तत्र चिरं रमन्ते ११८
स्नाताश्चर्मनदी तीरे त्रिरात्रं नियता नराः
व्यासाश्रमे विशेषेण ते नरा नाकिनः स्मृताः ११९
गङ्गाजले प्रयागे च केदारे पुष्करे तथा
व्यासाश्रमे प्रभासे च मृतास्ते विष्णुगामिनः १२०
द्वारवत्यां कुरुक्षेत्रे योगाभ्यासेन वा मृताः
हरिरित्यक्षरं वक्त्रे येषां ते न पुनर्भवाः १२१
त्रिरात्रमपि ये विप्र द्वारवत्यां पुरि स्थिताः
मज्जन्ति गोमती तीरे धन्यास्ते केशवप्रियाः १२२
नरनारायणावासे त्रिरात्रं ये समाश्रिताः
मर्त्यलोके च नन्दायां धन्यास्ते केशवप्रियाः १२३
षण्मासमुषिता विप्र पुरुषोत्तमसन्निधौ
ते नूनमच्युतात्मानो दृष्ट्वा स्युरघहारिणः १२४
अनेक जन्मार्जितपुण्यतोये मज्जन्ति तोये मणिकर्णिकायाः
नमन्ति विश्वेशमवाप्यकाशीं ते वै मयापीह भवन्ति वन्द्याः १२५
पूजयित्वा हरिं ये तु भूमौ दर्भ तिलैः सह
तिलान्विकीर्य लोहं च दत्वा धेनुं पयस्विनीम् १२६
ये मृता विधिवद्विप्र ते नराः स्वर्गगामिनः
उत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे १२७
निर्ममा निरहङ्कारा ये मृतास्तेऽपि नाकिनः
स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च १२८
स्वभाग्येनोपजीवन्ति ते नराः स्वर्गगामिनः
श्लक्ष्णां वाणीं निराबाधां मधुरोपाय वर्जिताम् १२९
स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः
शुभानामशुभानां च कर्मणां फलसञ्चये १३०
विपाकज्ञाश्च ये विप्र ते नराः स्वर्गगामिनः
धनधर्मप्रवृत्तानां धर्ममार्गानुयायिनाम् १३१
प्रोत्साहं वर्धयन्ते ये मोदन्ते दिवि ते नराः
हेमन्ते वह्निदो यश्च तथा ग्रीष्मे जलप्रदः १३२
वर्षा स्वाश्रमदाता च स स्वर्गे मोदते चिरम्
पुण्यकालेषु सर्वेषु नित्य नैमित्तिकादिषु १३३
भक्त्या यः कुरुते श्राद्धं स नूनं सुरलोकभाक् १३४
दानं दरिद्रस्य विभोः क्षमित्वं यूनां तपो ज्ञानवतां च मौनम्
इच्छानिवृत्तिश्च सुखोचितानां दया च भूतेषु दिवं नयन्ति १३५
द्विविधः कर्मसम्बन्धः पापपुण्यसमुद्भवः
सत्यमेव समाश्रित्य क्रियते ह्यत्र निर्णयः १३६
तपोध्यानसमायुक्तं तारणाय भवाम्बुधेः
पापं तु पतनायोक्तं सत्यमेव न संशयः १३७
बलेन परिचारेण शौर्येणाभियुतस्य च
पुण्यहीनस्य वै पुंसस्तद्बलादिव लीयते १३८
उन्नता गिरि दुर्गेषु वृक्षाः सन्ति सुपुष्टकाः
पतन्ति वातवेगेन समूलास्तु घना अपि १३९
सत्यधर्मविहीनास्ते तथा यान्ति यमालयम्
सामान्यं सर्वजन्तून्नां बलं धर्मस्तु केवलः १४०
येन सन्तरते जन्तुरिहलोके परत्र च
मया सर्वमिदं सम्यक्स्वर्गमार्ग प्रदायकम् १४१
समासेन समाख्यातं किं भूयः श्रोतुमिच्छसि १४२
इति श्रीपद्मपुराणे पातालखण्डे वैशाखमाहात्म्ये
षण्णवतितमोऽध्यायः ९६