सूत उवाच-
विश्वास-प्रस्तुतिः
यातुं तमुद्यतं नत्वा मुनिं राजा ततो मुदा
विधिं पप्रच्छ सङ्क्षिप्तं स्नानदानक्रियोचितम् ॥ १ ॥
मूलम्
यातुं तमुद्यतं नत्वा मुनिं राजा ततो मुदा
विधिं पप्रच्छ सङ्क्षिप्तं स्नानदानक्रियोचितम् ॥ १ ॥
विश्वास-प्रस्तुतिः
अम्बरीष उवाच-
मुने वैशाखमासेऽस्मिन्को विधिः किं तपोऽधिकम्
किं च दानं कथं स्नानं कथं केशवपूजनम् ॥ २ ॥
मूलम्
अम्बरीष उवाच-
मुने वैशाखमासेऽस्मिन्को विधिः किं तपोऽधिकम्
किं च दानं कथं स्नानं कथं केशवपूजनम् ॥ २ ॥
विश्वास-प्रस्तुतिः
कृपया वद विप्रर्षे सर्वज्ञस्त्वं हरिप्रियः
विशेषतोऽपि पूजाया विधिं तीर्थपदे वद ॥ ३ ॥
मूलम्
कृपया वद विप्रर्षे सर्वज्ञस्त्वं हरिप्रियः
विशेषतोऽपि पूजाया विधिं तीर्थपदे वद ॥ ३ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
मेषसङ्क्रमणे भानोर्माधवे मासि सत्तम
महानद्यां नदीतीरे नदे सरसि निर्झरे ॥ ४ ॥
मूलम्
नारद उवाच-
मेषसङ्क्रमणे भानोर्माधवे मासि सत्तम
महानद्यां नदीतीरे नदे सरसि निर्झरे ॥ ४ ॥
विश्वास-प्रस्तुतिः
देवखातेऽथवा स्नायाद्यथाप्राप्ते जलाशये
दीर्घिका कूप वापीषु नियतात्मा हरिं स्मरन् ॥ ५ ॥
मूलम्
देवखातेऽथवा स्नायाद्यथाप्राप्ते जलाशये
दीर्घिका कूप वापीषु नियतात्मा हरिं स्मरन् ॥ ५ ॥
विश्वास-प्रस्तुतिः
मधुमासस्य शुक्लायामेकादश्यामुपोषितः
पञ्चदश्यां च वा वीर मेषसङ्क्रमणेऽपि वा ॥ ६ ॥
मूलम्
मधुमासस्य शुक्लायामेकादश्यामुपोषितः
पञ्चदश्यां च वा वीर मेषसङ्क्रमणेऽपि वा ॥ ६ ॥
विश्वास-प्रस्तुतिः
वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया
मधुसूदनमभ्यर्च्य कुर्यात्सुस्नानपूर्वकम् ॥ ७ ॥
मूलम्
वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया
मधुसूदनमभ्यर्च्य कुर्यात्सुस्नानपूर्वकम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
वैशाखं सकलं मासं मेषसङ्क्रमणे रवेः
प्रातः सनियमः स्नास्ये प्रीयतां मधुसूदनः ॥ ८ ॥
मूलम्
वैशाखं सकलं मासं मेषसङ्क्रमणे रवेः
प्रातः सनियमः स्नास्ये प्रीयतां मधुसूदनः ॥ ८ ॥
विश्वास-प्रस्तुतिः
मधुहन्तुः प्रसादेन ब्राह्मणानामनुग्रहात्
निर्विघ्नमस्तु मे पुण्यंवैशाखस्नानमन्वहम् ॥ ९ ॥
मूलम्
मधुहन्तुः प्रसादेन ब्राह्मणानामनुग्रहात्
निर्विघ्नमस्तु मे पुण्यंवैशाखस्नानमन्वहम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
माधवे मेषगे भानौ मुरारे मधुसूदन
प्रातःस्नानेन मे नाथ यथोक्तफलदो भव ॥ १० ॥
मूलम्
माधवे मेषगे भानौ मुरारे मधुसूदन
प्रातःस्नानेन मे नाथ यथोक्तफलदो भव ॥ १० ॥
विश्वास-प्रस्तुतिः
यथा ते माधवो मासो वल्लभो मधुसूदन
प्रातःस्नानेन मे तस्मिन्फलदः पापहा भव ॥ ११ ॥
मूलम्
यथा ते माधवो मासो वल्लभो मधुसूदन
प्रातःस्नानेन मे तस्मिन्फलदः पापहा भव ॥ ११ ॥
विश्वास-प्रस्तुतिः
एवमुच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः
स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः ॥ १२ ॥
मूलम्
एवमुच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः
स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः ॥ १२ ॥
विश्वास-प्रस्तुतिः
तीर्थं प्रकल्पयेद्धीमान्मूलमन्त्रमिमं पठन्
ॐनमोनारायणायमूलमन्त्र उदाहृतः ॥ १३ ॥
मूलम्
तीर्थं प्रकल्पयेद्धीमान्मूलमन्त्रमिमं पठन्
ॐनमोनारायणायमूलमन्त्र उदाहृतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
दर्भपाणिस्तु विधिवदाचान्तः प्रणतो भुवि
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ॥ १४ ॥
मूलम्
दर्भपाणिस्तु विधिवदाचान्तः प्रणतो भुवि
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ॥ १४ ॥
विश्वास-प्रस्तुतिः
प्रकल्प्यावाहयेद्गङ्गां मन्त्रेणानेन मानवः
विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता ॥ १५ ॥
मूलम्
प्रकल्प्यावाहयेद्गङ्गां मन्त्रेणानेन मानवः
विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता ॥ १५ ॥
विश्वास-प्रस्तुतिः
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात्
तिस्रःकोट्योर्द्धकोटी च तीर्थानां वायुरब्रवीत् ॥ १६ ॥
मूलम्
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात्
तिस्रःकोट्योर्द्धकोटी च तीर्थानां वायुरब्रवीत् ॥ १६ ॥
विश्वास-प्रस्तुतिः
दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि
नन्दिनीत्येव ते नाम वेदेषु नलिनीति च ॥ १७ ॥
मूलम्
दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि
नन्दिनीत्येव ते नाम वेदेषु नलिनीति च ॥ १७ ॥
विश्वास-प्रस्तुतिः
दक्षा पृथ्वी च विहगा विश्वगाथा शिवप्रिया
विद्याधरी महादेवी तथा लोकप्रसादिनी ॥ १८ ॥
मूलम्
दक्षा पृथ्वी च विहगा विश्वगाथा शिवप्रिया
विद्याधरी महादेवी तथा लोकप्रसादिनी ॥ १८ ॥
विश्वास-प्रस्तुतिः
क्षेमङ्करी जाह्नवी च शान्ता शान्तिप्रदायिनी
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ॥ १९ ॥
मूलम्
क्षेमङ्करी जाह्नवी च शान्ता शान्तिप्रदायिनी
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ॥ १९ ॥
विश्वास-प्रस्तुतिः
भवेत्सन्निहिता तत्र गङ्गा त्रिपथगामिनी
सप्तवाराभि जप्तेन करसम्पुटयोजिते ॥ २० ॥
मूलम्
भवेत्सन्निहिता तत्र गङ्गा त्रिपथगामिनी
सप्तवाराभि जप्तेन करसम्पुटयोजिते ॥ २० ॥
विश्वास-प्रस्तुतिः
मूर्ध्नि कृत्वा जलं भूपश्चतुर्वा पञ्च सप्त वा
स्नानं कृत्वा मृदा तद्वदामन्त्र्य तु विधानतः ॥ २१ ॥
मूलम्
मूर्ध्नि कृत्वा जलं भूपश्चतुर्वा पञ्च सप्त वा
स्नानं कृत्वा मृदा तद्वदामन्त्र्य तु विधानतः ॥ २१ ॥
विश्वास-प्रस्तुतिः
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥ २२ ॥
मूलम्
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
उद्धृतासि वराहेण विष्णुना शतबाहुना
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥ २३ ॥
मूलम्
उद्धृतासि वराहेण विष्णुना शतबाहुना
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥ २३ ॥
विश्वास-प्रस्तुतिः
एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः
उत्थाय वाससी शुक्ले शुद्धे तु परिधापयेत् ॥ २४ ॥
मूलम्
एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः
उत्थाय वाससी शुक्ले शुद्धे तु परिधापयेत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
ततस्तु तर्प्पणं कुर्य्यात्त्रैलोक्याप्यायनाय वै
ब्रह्माणं तर्प्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतिम् ॥ २५ ॥
मूलम्
ततस्तु तर्प्पणं कुर्य्यात्त्रैलोक्याप्यायनाय वै
ब्रह्माणं तर्प्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतिम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
देवान्यक्षांस्तथा नागान्गन्धर्वाप्सरसोसुरान्
क्रूरान्सर्पान्सुपर्णांश्च तरून्वै जन्तुकान्खगान् ॥ २६ ॥
मूलम्
देवान्यक्षांस्तथा नागान्गन्धर्वाप्सरसोसुरान्
क्रूरान्सर्पान्सुपर्णांश्च तरून्वै जन्तुकान्खगान् ॥ २६ ॥
विश्वास-प्रस्तुतिः
विद्याधराञ्जलधरांस्तथैवाकाशगामिनः
निराधाराश्च ये जीवाः पापकर्मरताश्च ये ॥ २७ ॥
मूलम्
विद्याधराञ्जलधरांस्तथैवाकाशगामिनः
निराधाराश्च ये जीवाः पापकर्मरताश्च ये ॥ २७ ॥
विश्वास-प्रस्तुतिः
तेषामाप्यायनार्थाय दीयते सलिलं मया
कृतोपवीती देवेषु निवीती च भवेन्नरः ॥ २८ ॥
मूलम्
तेषामाप्यायनार्थाय दीयते सलिलं मया
कृतोपवीती देवेषु निवीती च भवेन्नरः ॥ २८ ॥
विश्वास-प्रस्तुतिः
मनुष्यांस्तर्प्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा
सनकः सनन्दनश्चैव तृतीयश्च सनातनः ॥ २९ ॥
मूलम्
मनुष्यांस्तर्प्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा
सनकः सनन्दनश्चैव तृतीयश्च सनातनः ॥ २९ ॥
विश्वास-प्रस्तुतिः
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा
ते सर्वे तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥ ३० ॥
मूलम्
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा
ते सर्वे तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥ ३० ॥
विश्वास-प्रस्तुतिः
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ३१ ॥
मूलम्
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ३१ ॥
विश्वास-प्रस्तुतिः
देवब्रह्मऋषीन्सर्वांस्तर्पयेदक्षतोदकैः
अपसव्यं ततः कुर्यात्सव्यं जान्वाच्य भूतले ॥ ३२ ॥
मूलम्
देवब्रह्मऋषीन्सर्वांस्तर्पयेदक्षतोदकैः
अपसव्यं ततः कुर्यात्सव्यं जान्वाच्य भूतले ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्तथोष्मपाः
कव्यानलान्बर्हिषदस्तथा वै चाज्यपाः पुनः ॥ ३३ ॥
मूलम्
अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्तथोष्मपाः
कव्यानलान्बर्हिषदस्तथा वै चाज्यपाः पुनः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सन्तर्पयेत्पितॄन्भक्त्या सतिलोदकचन्दनैः
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ ३४ ॥
मूलम्
सन्तर्पयेत्पितॄन्भक्त्या सतिलोदकचन्दनैः
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ ३४ ॥
विश्वास-प्रस्तुतिः
वैवस्वताय कालाय सर्वभूतक्षयाय च
उदुम्बराय दध्नाय नीलाय परमेष्ठिने ॥ ३५ ॥
मूलम्
वैवस्वताय कालाय सर्वभूतक्षयाय च
उदुम्बराय दध्नाय नीलाय परमेष्ठिने ॥ ३५ ॥
विश्वास-प्रस्तुतिः
वृकोदराय चित्राय चित्रगुप्ताय वै नमः
दर्भपाणिस्तु विधिवत्पितॄन्सन्तर्पयेत्ततः ॥ ३६ ॥
मूलम्
वृकोदराय चित्राय चित्रगुप्ताय वै नमः
दर्भपाणिस्तु विधिवत्पितॄन्सन्तर्पयेत्ततः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
पित्रादीन्नामगोत्रेण तथा मातामहानपि
सन्तर्प्य विधिना सर्वानिमं मन्त्रमुदीरयेत् ॥ ३७ ॥
मूलम्
पित्रादीन्नामगोत्रेण तथा मातामहानपि
सन्तर्प्य विधिना सर्वानिमं मन्त्रमुदीरयेत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
ये बान्धवा बान्धवा ये येऽन्यजन्मनि बान्धवाः
ते तृप्तिमखिलां यान्तु येऽस्मत्तस्तोयकाङ्क्षिणः ॥ ३८ ॥
मूलम्
ये बान्धवा बान्धवा ये येऽन्यजन्मनि बान्धवाः
ते तृप्तिमखिलां यान्तु येऽस्मत्तस्तोयकाङ्क्षिणः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
आचम्य विधिवत्सम्यगालिखेत्पद्ममग्रतः
साक्षतैश्च सपुष्पैश्च सलिलारुणचन्दनैः ॥ ३९ ॥
मूलम्
आचम्य विधिवत्सम्यगालिखेत्पद्ममग्रतः
साक्षतैश्च सपुष्पैश्च सलिलारुणचन्दनैः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
अर्घं दद्यात्प्रयत्नेन सूर्य्यनामानुकीर्त्तनैः
नमस्ते विष्णुरूपाय नमस्ते ब्रह्मरूपिणे ॥ ४० ॥
मूलम्
अर्घं दद्यात्प्रयत्नेन सूर्य्यनामानुकीर्त्तनैः
नमस्ते विष्णुरूपाय नमस्ते ब्रह्मरूपिणे ॥ ४० ॥
विश्वास-प्रस्तुतिः
सहस्ररश्मये सूर्य नमस्ते सर्वतेजसे
नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल ॥ ४१ ॥
मूलम्
सहस्ररश्मये सूर्य नमस्ते सर्वतेजसे
नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल ॥ ४१ ॥
विश्वास-प्रस्तुतिः
पद्मनाभ नमस्तेऽस्तु कुण्डलाङ्गदभूषित
नमस्ते सर्वलोकेश सुप्तानामुपबोधन ॥ ४२ ॥
मूलम्
पद्मनाभ नमस्तेऽस्तु कुण्डलाङ्गदभूषित
नमस्ते सर्वलोकेश सुप्तानामुपबोधन ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वदा
सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर ॥ ४३ ॥
मूलम्
सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वदा
सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर ॥ ४३ ॥
विश्वास-प्रस्तुतिः
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते
एवं सूर्यं नमस्कृत्य सप्त कृत्वा प्रदक्षिणम् ॥ ४४ ॥
मूलम्
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते
एवं सूर्यं नमस्कृत्य सप्त कृत्वा प्रदक्षिणम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
द्विजं गां काञ्चनं स्पृष्ट्वा पश्चाच्च स्वगृहं व्रजेत्
आश्रमस्थांस्ततः पूज्य प्रतिमां चापि पूजयेत् ॥ ४५ ॥
मूलम्
द्विजं गां काञ्चनं स्पृष्ट्वा पश्चाच्च स्वगृहं व्रजेत्
आश्रमस्थांस्ततः पूज्य प्रतिमां चापि पूजयेत् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पूर्वं भक्त्यैव गोविन्दं गृही च नियतात्मवान्
पूजयेद्भक्तितो राजन्नुभयत्र यथाविधि ॥ ४६ ॥
मूलम्
पूर्वं भक्त्यैव गोविन्दं गृही च नियतात्मवान्
पूजयेद्भक्तितो राजन्नुभयत्र यथाविधि ॥ ४६ ॥
विश्वास-प्रस्तुतिः
विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनम्
सर्वं संवत्सरं यावदर्चितस्तेन माधवः ॥ ४७ ॥
मूलम्
विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनम्
सर्वं संवत्सरं यावदर्चितस्तेन माधवः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
माधवे मासि सम्प्राप्ते मेषस्थे कर्मसाक्षिणि
केशवप्रीतये कुर्यात्केशवव्रतसञ्चयम् ॥ ४८ ॥
मूलम्
माधवे मासि सम्प्राप्ते मेषस्थे कर्मसाक्षिणि
केशवप्रीतये कुर्यात्केशवव्रतसञ्चयम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
दद्यादनेकदानानि तिलाज्यप्रभृतीन्यपि
जन्मकोटिसमुद्भूत पातकान्तकराणि च ॥ ४९ ॥
मूलम्
दद्यादनेकदानानि तिलाज्यप्रभृतीन्यपि
जन्मकोटिसमुद्भूत पातकान्तकराणि च ॥ ४९ ॥
विश्वास-प्रस्तुतिः
जलान्नशर्कराधेनुतिलधेनुमुखानि च
वित्तमानेन देयानि दानानीप्सितसिद्धये ॥ ५० ॥
मूलम्
जलान्नशर्कराधेनुतिलधेनुमुखानि च
वित्तमानेन देयानि दानानीप्सितसिद्धये ॥ ५० ॥
विश्वास-प्रस्तुतिः
वैशाखं सकलं मासं नित्यस्नायी जितेन्द्रियः
जपन्हविष्यं भुञ्जानः सर्वपापैः प्रमुच्यते ॥ ५१ ॥
मूलम्
वैशाखं सकलं मासं नित्यस्नायी जितेन्द्रियः
जपन्हविष्यं भुञ्जानः सर्वपापैः प्रमुच्यते ॥ ५१ ॥
विश्वास-प्रस्तुतिः
एकभुक्तमथो नक्तमयाचितमतन्द्रितः
माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम् ॥ ५२ ॥
मूलम्
एकभुक्तमथो नक्तमयाचितमतन्द्रितः
माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
वैशाखे विधिना स्नानद्वयं नद्यादिके बहिः
हविष्यं ब्रह्मचर्यं च भूशय्या नियमस्थितिः ॥ ५३ ॥
मूलम्
वैशाखे विधिना स्नानद्वयं नद्यादिके बहिः
हविष्यं ब्रह्मचर्यं च भूशय्या नियमस्थितिः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
व्रतं दानं जपो होमो मधुसूदनपूजनम्
अपि जन्मसहस्रोत्थं पापं दहति दारुणम् ॥ ५४ ॥
मूलम्
व्रतं दानं जपो होमो मधुसूदनपूजनम्
अपि जन्मसहस्रोत्थं पापं दहति दारुणम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
यथैव माधवो ध्यातो विनाशयति किल्बिषम्
तथैव माधवे स्नानं नियमेन विनिर्मितम् ॥ ५५ ॥
मूलम्
यथैव माधवो ध्यातो विनाशयति किल्बिषम्
तथैव माधवे स्नानं नियमेन विनिर्मितम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तीर्थे चानुदिनं स्नानं तिलैश्च पितृतर्पणम्
दानं धर्मघटादीनां मधुसूदनपूजनम् ॥ ५६ ॥
मूलम्
तीर्थे चानुदिनं स्नानं तिलैश्च पितृतर्पणम्
दानं धर्मघटादीनां मधुसूदनपूजनम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
माधवे मासि कुर्वीत मधुसूदनतुष्टिदम्
तिलोदकसुवर्णान्न शर्कराम्बरभूषणम् ॥ ५७ ॥
मूलम्
माधवे मासि कुर्वीत मधुसूदनतुष्टिदम्
तिलोदकसुवर्णान्न शर्कराम्बरभूषणम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पादत्राणातपत्राम्बु कुम्भान्दद्याद्द्विजातिषु
त्रिसन्ध्यं पूजयेदीशं भक्तितो मधुसूदनम् ॥ ५८ ॥
मूलम्
पादत्राणातपत्राम्बु कुम्भान्दद्याद्द्विजातिषु
त्रिसन्ध्यं पूजयेदीशं भक्तितो मधुसूदनम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः
सुवर्णतिलपात्रैश्च ब्राह्मणाञ्छक्तितो बहून् ॥ ५९ ॥
मूलम्
साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः
सुवर्णतिलपात्रैश्च ब्राह्मणाञ्छक्तितो बहून् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तर्पयेदुदपात्रैर्यो ब्रह्महत्यां व्यपोहति
वैशाखे मासि यः स्नात्वा प्रातर्नद्यां समाहितः ॥ ६० ॥
मूलम्
तर्पयेदुदपात्रैर्यो ब्रह्महत्यां व्यपोहति
वैशाखे मासि यः स्नात्वा प्रातर्नद्यां समाहितः ॥ ६० ॥
विश्वास-प्रस्तुतिः
पूजयित्वा हरिं भक्त्या पुष्पैः कालोद्भवैः फलैः
पूजयेद्ब्राह्मणं शक्त्या पाखण्डालापवर्जितः ॥ ६१ ॥
मूलम्
पूजयित्वा हरिं भक्त्या पुष्पैः कालोद्भवैः फलैः
पूजयेद्ब्राह्मणं शक्त्या पाखण्डालापवर्जितः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तर्पयेद्वस्त्रगोदानै रत्नाद्यैर्धनसञ्चयैः
अन्यद्वित्तं यथाशक्ति स्तोकं स्तोकं समाचरेत् ॥ ६२ ॥
मूलम्
तर्पयेद्वस्त्रगोदानै रत्नाद्यैर्धनसञ्चयैः
अन्यद्वित्तं यथाशक्ति स्तोकं स्तोकं समाचरेत् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
पश्चाद्विनिःस्वः पुरुषो माधवे मासि माधवम्
पुष्पार्चनविधानेन पूजयेन्मधुसूदनम् ॥ ६३ ॥
मूलम्
पश्चाद्विनिःस्वः पुरुषो माधवे मासि माधवम्
पुष्पार्चनविधानेन पूजयेन्मधुसूदनम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
सर्वपापविनिर्मुक्तः पितॄणां तारयेच्छतम्
सजन्मशतसाहस्रं न शोकफलभाग्भवेत् ॥ ६४ ॥
मूलम्
सर्वपापविनिर्मुक्तः पितॄणां तारयेच्छतम्
सजन्मशतसाहस्रं न शोकफलभाग्भवेत् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
न च व्याधिभयं तस्य न दारिद्र्यं न बन्धनम्
स विष्णुभक्तो जायेत धन्यो जन्मनिजन्मनि ॥ ६५ ॥
मूलम्
न च व्याधिभयं तस्य न दारिद्र्यं न बन्धनम्
स विष्णुभक्तो जायेत धन्यो जन्मनिजन्मनि ॥ ६५ ॥
विश्वास-प्रस्तुतिः
यावद्युगसहस्राणि शतमष्टोत्तरं भवेत्
तावत्स्वर्गे वसेद्वीर भूपतिश्च पुनर्भवेत् ॥ ६६ ॥
मूलम्
यावद्युगसहस्राणि शतमष्टोत्तरं भवेत्
तावत्स्वर्गे वसेद्वीर भूपतिश्च पुनर्भवेत् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
भूपतेर्विविधान्भोगान्भुक्त्वा चैव यथासुखम्
माधवस्य प्रसादेन माधवे लीयते ततः ॥ ६७ ॥
मूलम्
भूपतेर्विविधान्भोगान्भुक्त्वा चैव यथासुखम्
माधवस्य प्रसादेन माधवे लीयते ततः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
शृणु राजन्प्रवक्ष्यामि समासान्माधवार्चनम्
वैदिकं तान्त्रिकं वापि मिश्रकं पापनाशनम् ॥ ६८ ॥
मूलम्
शृणु राजन्प्रवक्ष्यामि समासान्माधवार्चनम्
वैदिकं तान्त्रिकं वापि मिश्रकं पापनाशनम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
नह्यन्तोऽनन्तपारस्य नान्तः पूजाविधेर्नृप
अथ सङ्क्षिप्य चोच्येत यथावदनुपूर्वशः ॥ ६९ ॥
मूलम्
नह्यन्तोऽनन्तपारस्य नान्तः पूजाविधेर्नृप
अथ सङ्क्षिप्य चोच्येत यथावदनुपूर्वशः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
वैदिकस्तान्त्रिको मिश्रः श्रीविष्णोस्त्रिविधो मखः
त्रयाणामीप्सितेनैव विधिना हरिमर्चयेत् ॥ ७० ॥
मूलम्
वैदिकस्तान्त्रिको मिश्रः श्रीविष्णोस्त्रिविधो मखः
त्रयाणामीप्सितेनैव विधिना हरिमर्चयेत् ॥ ७० ॥
विश्वास-प्रस्तुतिः
वैदिको मिश्रको वापि विप्रादीनां विधीयते
तान्त्रिको विष्णुभक्तस्य शूद्रस्यापि प्रकीर्तितः ॥ ७१ ॥
मूलम्
वैदिको मिश्रको वापि विप्रादीनां विधीयते
तान्त्रिको विष्णुभक्तस्य शूद्रस्यापि प्रकीर्तितः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
यथा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः
यजेच्च विधिवद्विष्णुं ब्रह्मचारी समाहितः ॥ ७२ ॥
मूलम्
यथा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः
यजेच्च विधिवद्विष्णुं ब्रह्मचारी समाहितः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
अर्चयेत्स्थण्डिलेऽग्नौ वा सूर्येऽप्सु हृदि वा द्विजे
द्रव्येण भक्तियुक्तेन स्वगुरुं तदनुज्ञया ॥ ७३ ॥
मूलम्
अर्चयेत्स्थण्डिलेऽग्नौ वा सूर्येऽप्सु हृदि वा द्विजे
द्रव्येण भक्तियुक्तेन स्वगुरुं तदनुज्ञया ॥ ७३ ॥
विश्वास-प्रस्तुतिः
पूर्वं स्नानं प्रकुर्वीत धौतदन्तोंऽगशुद्धये
उभयोरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिना ॥ ७४ ॥
मूलम्
पूर्वं स्नानं प्रकुर्वीत धौतदन्तोंऽगशुद्धये
उभयोरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिना ॥ ७४ ॥
विश्वास-प्रस्तुतिः
सन्ध्योपास्त्यादिकर्माणि वेदतन्त्रोदितानि वै
पूजान्ते कल्पयेत्सम्यक्सङ्कल्पं कर्मपावनम् ॥ ७५ ॥
मूलम्
सन्ध्योपास्त्यादिकर्माणि वेदतन्त्रोदितानि वै
पूजान्ते कल्पयेत्सम्यक्सङ्कल्पं कर्मपावनम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
शैली दारुमयी लौही लेप्या लेख्या च सैकती
मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ ७६ ॥
मूलम्
शैली दारुमयी लौही लेप्या लेख्या च सैकती
मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ ७६ ॥
विश्वास-प्रस्तुतिः
चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम्
उद्वासा वाहनेन स्तः स्थिरायां माधवार्चने ॥ ७७ ॥
मूलम्
चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम्
उद्वासा वाहनेन स्तः स्थिरायां माधवार्चने ॥ ७७ ॥
विश्वास-प्रस्तुतिः
अस्थिरायां विकल्पः स्यात्स्थण्डिले तु भवेद्द्वयम्
स्नापनं त्वविलेप्यायामन्यत्र परिमार्जनम् ॥ ७८ ॥
मूलम्
अस्थिरायां विकल्पः स्यात्स्थण्डिले तु भवेद्द्वयम्
स्नापनं त्वविलेप्यायामन्यत्र परिमार्जनम् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
द्रव्यैः प्रसिद्धैर्देवेज्या प्रतिमादिष्वमायिनः
भक्तस्य च यथालब्धैर्भक्तिभावेन चैव हि ॥ ७९ ॥
मूलम्
द्रव्यैः प्रसिद्धैर्देवेज्या प्रतिमादिष्वमायिनः
भक्तस्य च यथालब्धैर्भक्तिभावेन चैव हि ॥ ७९ ॥
विश्वास-प्रस्तुतिः
स्नानालङ्करणं श्रेष्ठमर्चायामेव भूपते
स्थण्डिलेष्वपि विन्यासो वह्नावाज्यहुतं हविः ॥ ८० ॥
मूलम्
स्नानालङ्करणं श्रेष्ठमर्चायामेव भूपते
स्थण्डिलेष्वपि विन्यासो वह्नावाज्यहुतं हविः ॥ ८० ॥
विश्वास-प्रस्तुतिः
सूर्ये चाभ्यर्हणं श्रेष्ठं स्थण्डिले सलिलादिभिः
श्रद्धयोपहृतं श्रेष्ठं हरौ भक्तेन वार्यपि ॥ ८१ ॥
मूलम्
सूर्ये चाभ्यर्हणं श्रेष्ठं स्थण्डिले सलिलादिभिः
श्रद्धयोपहृतं श्रेष्ठं हरौ भक्तेन वार्यपि ॥ ८१ ॥
विश्वास-प्रस्तुतिः
गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः
शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः ॥ ८२ ॥
मूलम्
गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः
शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
आसीनः प्रागुदग्वक्त्रो ह्यर्चायामथ सम्मुखः
कृतन्यासः कृतन्यासां हर्यर्चां पाणिना स्पृशेत् ॥ ८३ ॥
मूलम्
आसीनः प्रागुदग्वक्त्रो ह्यर्चायामथ सम्मुखः
कृतन्यासः कृतन्यासां हर्यर्चां पाणिना स्पृशेत् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
कलशं प्रोक्षणीयं च यथावदुपसाधयेत्
तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च ॥ ८४ ॥
मूलम्
कलशं प्रोक्षणीयं च यथावदुपसाधयेत्
तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च ॥ ८४ ॥
विश्वास-प्रस्तुतिः
प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैस्तु सादयेत्
पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दापयेत् ॥ ८५ ॥
मूलम्
प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैस्तु सादयेत्
पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दापयेत् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
हृतशीर्ष्णा च शिखया गायत्र्या चाभिमन्त्रयेत्
पिण्डे वाय्वग्निसंसिद्धे हृत्पद्मस्थां परां विभोः ॥ ८६ ॥
मूलम्
हृतशीर्ष्णा च शिखया गायत्र्या चाभिमन्त्रयेत्
पिण्डे वाय्वग्निसंसिद्धे हृत्पद्मस्थां परां विभोः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धिभाविताम्
तयात्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः ॥ ८७ ॥
मूलम्
अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धिभाविताम्
तयात्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
आवाह्यार्चादिषु स्थाप्य न्यस्तां गां तां प्रपूजयेत्
पाद्यार्घ्यस्नानार्हणादीनुपचारान्प्रकल्पयेत् ॥ ८८ ॥
मूलम्
आवाह्यार्चादिषु स्थाप्य न्यस्तां गां तां प्रपूजयेत्
पाद्यार्घ्यस्नानार्हणादीनुपचारान्प्रकल्पयेत् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
धर्मादिभिश्च नवभिः कल्पयित्वासनं हरेः
पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् ॥ ८९ ॥
मूलम्
धर्मादिभिश्च नवभिः कल्पयित्वासनं हरेः
पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
उभाभ्यां वेदतन्त्राभ्यां हरेरुभयसिद्धये
सुदर्शनं पाञ्चजन्यं गदासीषु धनुर्हलम् ॥ ९० ॥
मूलम्
उभाभ्यां वेदतन्त्राभ्यां हरेरुभयसिद्धये
सुदर्शनं पाञ्चजन्यं गदासीषु धनुर्हलम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
मुशलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत्
नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च ॥ ९१ ॥
मूलम्
मुशलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत्
नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च ॥ ९१ ॥
विश्वास-प्रस्तुतिः
महाबलं बलं चैव कुमुदं कुमुदेक्षणम्
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून्सुरान् ॥ ९२ ॥
मूलम्
महाबलं बलं चैव कुमुदं कुमुदेक्षणम्
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून्सुरान् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
स्वेस्वे स्थानेष्वभिमुखान्पूजयेत्प्रोक्षणादिभिः
चन्दनोशीरकर्पूर कुङ्कुमागुरुवासितैः ॥ ९३ ॥
मूलम्
स्वेस्वे स्थानेष्वभिमुखान्पूजयेत्प्रोक्षणादिभिः
चन्दनोशीरकर्पूर कुङ्कुमागुरुवासितैः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
सलिलै स्नापयेन्मन्त्रैर्नित्यं वा विभवे सति
स्वर्णघर्मानुवाकेन महापुरुषविद्यया ॥ ९४ ॥
मूलम्
सलिलै स्नापयेन्मन्त्रैर्नित्यं वा विभवे सति
स्वर्णघर्मानुवाकेन महापुरुषविद्यया ॥ ९४ ॥
विश्वास-प्रस्तुतिः
पौरुषेणापि सूक्तेन सामनीराजनादिभिः
वस्त्रोपवीताभरण पत्रस्रग्गन्धलेपनैः ॥ ९५ ॥
मूलम्
पौरुषेणापि सूक्तेन सामनीराजनादिभिः
वस्त्रोपवीताभरण पत्रस्रग्गन्धलेपनैः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
अलङ्कुर्वीत सप्रेम विष्णुभक्तो यथोचितम्
पाद्यमाचमनीयं च गन्धं सुमनसोक्षतान् ॥ ९६ ॥
मूलम्
अलङ्कुर्वीत सप्रेम विष्णुभक्तो यथोचितम्
पाद्यमाचमनीयं च गन्धं सुमनसोक्षतान् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
गन्धधूपोपहार्याणि दद्याद्वै श्रद्धयार्चकः
गुडपायससर्पींषि शष्कुल्यापूपमोदकान् ॥ ९७ ॥
मूलम्
गन्धधूपोपहार्याणि दद्याद्वै श्रद्धयार्चकः
गुडपायससर्पींषि शष्कुल्यापूपमोदकान् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
पायसं दधिसर्पिश्च नैवेद्यं स विकल्पयेत्
अभ्यङ्गोन्मर्दनादर्श दन्तधावाभिषेचनम् ॥ ९८ ॥
मूलम्
पायसं दधिसर्पिश्च नैवेद्यं स विकल्पयेत्
अभ्यङ्गोन्मर्दनादर्श दन्तधावाभिषेचनम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
अन्नाद्यं नृत्यगीतानि सर्वाणि स्युरथान्वहम्
विधिना विहिते कुण्डे मेखलावर्तवेदिभिः ॥ ९९ ॥
मूलम्
अन्नाद्यं नृत्यगीतानि सर्वाणि स्युरथान्वहम्
विधिना विहिते कुण्डे मेखलावर्तवेदिभिः ॥ ९९ ॥
अग्निमाधाय परितः समूहेत्पाणिनोदकम्
परिस्तीर्याथ पर्युक्ष्य दत्वा इध्मं यथाविधि १००
प्रोक्षण्यासाद्य द्रव्याणि प्रोक्षण्यैवाज्यसेचनम्
तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः १०१
लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम्
स्फुरत्किरीटकटककटिसूत्रवराङ्गदम् १०२
श्रीवत्सवक्षसम्भ्राजत्कौस्तुभं वनमालिनम्
ध्यायन्नभ्यर्च्य दारूणि हविषा सघृतानि च १०३
प्रास्याज्यभागावाघारौ दत्वा चाज्यप्लुतं हविः
अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् १०४
मूलमन्त्रं जपेद्ब्रह्मन्स्मरन्नारायणात्मकम्
दत्वाचमनमुच्छिष्टं विष्वक्सेनाय कल्पयेत् १०५
मुखवासं तु सुरभिं ताम्बूलाद्यमुपाहरेत्
उपगायन्गृणन्नित्यं कर्माण्यभिरवाक्षरैः १०६
सत्कथां श्रावयञ्छृण्वन्मुहूर्तं क्षणिको भवेत्
स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि १०७
स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत्
शिरस्तत्पादयोः कृत्वा बाहुभ्यां च परस्परम् १०८
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात्
इति शेषान्हरेर्दत्ताञ्छिरस्याधाय सादरम् १०९
उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि चात्मनः
अर्चादिषु पदं यत्र श्रद्धावांस्तत्र चार्चयेत् ११०
सर्वभूतेष्वात्मनि च सर्वात्मानमवस्थितम्
एवं क्रियायोगपथैः पुमान्वैदिकतान्त्रिकैः १११
अर्च्चयेच्च यतः सिद्धिं हरेर्विन्दत्यभीप्सिताम्
तामर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद्दृढम् ११२
पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवादिकम्
पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् ११३
क्षेत्रापणपुरग्रामान्दत्वा सायुज्यतामियात्
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ११४
पूजादिना ब्रह्मलोकं त्रिभिस्तत्साम्यतामियात्
तमेव नैरपेक्षेण भक्तियोगेन विन्दते ११५
भक्तियोगं स लभते एवं यः पूजयेद्धरिम् ११६
यत्कृष्णप्रणिपातधूलिधवलं तद्वर्ष्म तद्वच्छुभं
ते नेत्रे तपसार्जिते सुरुचिरे याभ्यां हरिर्दृश्यते
सा बुद्धिर्विमलेन्दु शङ्खधवला या माधवव्यापिनी
सा जिह्वा मृदुभाषिणी नृप मुहुर्या स्तौति नारायणम् ११७
मूलमन्त्रेण कर्तव्यं स्त्रीशूद्रैरपि पूजनम्
श्रद्धया स्वगुरूद्दिष्टमार्गेणान्यैश्च वैष्णवः ११८
इदं ते सर्वमाख्यातं पावनं माधवार्चनम्
विशेषान्माधवे मासि त्वमेतत्कुरु भूपते ११९
सूत उवाच-
इत्येवमाकर्ण्य वचो विचित्रं पुण्यं पवित्रं विधिनन्दनस्य
प्रणम्य बद्धाञ्जलिराह राजा सकौतुकी भागवतप्रधानः १२०
अम्बरीष उवाच-
समस्तभूमीवलयेश्वरोऽहमव्याहताज्ञो विबुधप्रसेवी
गोविन्दपादाम्बुजदत्तचित्तः स्वचित्तसन्तोषितभूमिदेवः १२१
विख्यातराजोचितवंशरत्नं निरन्तरं धर्मरुचिर्यशस्वी
सौन्दर्यशौर्योदयदानशीलः सुपुत्रवानस्मि जितारिवर्गः १२२
केनापि पुण्येन पवित्रबुद्धिर्जातोहमीदृग्गुणसन्तश्रीः
इयं पुनः श्रीरिव पुण्यमूर्तिर्लब्धा कुतः कान्तिमती च कान्ता १२३
इदं मे सुकृतं सर्वं पुराजन्मनि चेष्टितम्
समादिश मुने सम्यक्सर्वज्ञोसि दयानिधे १२४
नारद उवाच-
इयं रूपवती नाम वेश्यासीदन्यजन्मनि
साम्प्रतं तव भार्या या सत्याचारातिसुन्दरी १२५
वेश्याधर्मेण वर्तेत यथोद्दिष्टेन भाविनी
कुर्वती किल कर्माणि शुभानि द्विजशासनात् १२६
देवदास इति ख्यातो हेमकारो भवानभूत्
पूर्वजन्मनि वै तस्या रुचेर्भर्ता भुजङ्गमः १२७
इयं भवन्तं भजते रुची रूपवती पुनः
व्ययार्थमयनं धर्मं स्थिता विज्ञानमुत्तमम् १२८
आकर्ण्य चैकदा धर्मं वैशाखस्नानसम्भवम्
चक्रे धर्मवती तोये स्नानं मेषगते रवौ १२९
दानं दत्तवती दक्षा वेश्या रूपवती सदा
ब्राह्मणाय नमस्कारं भक्त्यादरपुरःसरम् १३०
स तया देवदासस्त्वं बोधितः स्नेहयन्त्रितः
कृतवान्बुद्धितः स्नानं माधवे मासि सादरम् १३१
तत्र त्रेतायुगस्यादौ तृतीयामाप्यनिर्मलाम्
सुवर्णकारं सोवाच देवदासं तमादरात् १३२
वेश्योवाच-
उत्तमं कुरु सौवर्णं मधुसूदनमच्युतम्
पूजयित्वा यवैर्देवमेतैः सन्तर्प्य चानलम् १३३
ब्राह्मणाय च दास्यामि ब्राह्मणानामनुज्ञया
दानमेतत्पुराणेषु कथ्यते तत्र चाक्षयम् १३४
अक्षयेति तृतीयासौ ब्राह्मणेभ्यः श्रुतं मया
शुक्ला वैशाखमासस्य तदक्षयफलप्रदम् १३५
अस्यां दास्यामि तं हैमं मधुसूदनमव्ययम्
नारद उवाच-
इति तस्य वचः श्रुत्वा मधुरं हेमकारकः १३६
चक्रे सुवर्णप्रतिमामच्युतस्यापि सुन्दरीम्
सत्यभावेन धर्मार्थमिति चौर्यविवर्जितः १३७
यथोद्दिष्टस्य चन्द्रस्य प्रतिमां लक्षणान्विताम्
ददौ सा च विधानेन स्नात्वा विप्राय सुन्दरीम् १३८
पूजयित्वा ततस्तस्यामक्षयायां तिथौ नृप १३९
कालेन कियता वेश्या सा मृता धर्मनिष्ठिता
देवदासोऽपि स ततो मृतः स्वीयायुषक्षये १४०
तेन पुण्येन भूपाल हेमकारोऽन्य जन्मनि
स त्वं प्राप्तो महीं राजन्नशेषगुणसंयुतः १४१
सापि रूपवती वेश्या तेन धर्मेण तेऽभवत्
नाम्ना कान्तिमती कान्ता प्रणयेन परिप्लुता १४२
विविधा वासना वीर कर्मणां पूर्वसम्भवाः
विचित्रा गतयस्तात ज्ञायन्ते न बुधैरपि १४३
तमेनं माधवं मासं प्रतिकार्यं न संशयः
गोपितं तेन देवेन ब्रह्मणा माधवेन च १४४
असाधुसङ्गैरनवाप्तविद्यैरसंयतैराश्रमधर्महीनैः
अभूततीर्थैरकृतव्रतैस्तैर्न लभ्यते माधवमासधर्मः १४५
गोविन्दकेशवमुकुन्दहरे मुरारे लक्ष्मीनिवास मधुसूदन कृष्ण विष्णो
वाणी वरा न वदने वसतीति येषां वैशाखमासनियमो भवते न तेषाम् १४६
ये साधुसाधु वचनानि हिताधिकानि नाकर्णयन्ति च हरेश्चरितामृतानि
पश्यन्ति ये न कमलापतिकेतनानि वैशाखमासनियमं न हि ते लभन्ते १४७
शुश्रूषिता न गुरवो न वराय कन्या दत्ता समाय समये समलङ्कृता यैः
अध्यापिता न तनया विनयादि धर्मं वैशाखमासनियमं न हि ते लभन्ते १४८
सूत उवाच-
इत्येवमादिश्य मुनिर्नरेश मामन्त्र्य तं मन्त्रविदग्रगण्यः
स्नातुं ययौ माधवमासि गङ्गामभ्यर्चितस्तेन तदा स विप्राः १४९
विधिं स राजापि ततश्चकार वैशाखमासस्य मुनिप्रणीतम्
पत्न्यासमं पुण्यधिया तमेव सञ्चिन्तयल्ँलोकपवित्रकीर्तिः १५०
इति श्रीपद्मपुराणे पातालखण्डे वैशाखमाहात्म्ये नारदाम्बरीष -
संवादे पञ्चनवतितमोऽध्यायः ९५