अम्बरीष उवाच-
विश्वास-प्रस्तुतिः
पापप्रशमनं स्तोत्रं श्रोतुमिच्छामि तद्विभो
यस्य श्रवणमात्रेण पापराशिर्विलीयते ॥ १ ॥
मूलम्
पापप्रशमनं स्तोत्रं श्रोतुमिच्छामि तद्विभो
यस्य श्रवणमात्रेण पापराशिर्विलीयते ॥ १ ॥
विश्वास-प्रस्तुतिः
धन्योऽस्म्यनुगृहीतोऽस्मि श्रावितोऽस्मि शुभं विधिम्
विकर्मोपार्जितं यस्य श्रवणादेव हीयते ॥ २ ॥
मूलम्
धन्योऽस्म्यनुगृहीतोऽस्मि श्रावितोऽस्मि शुभं विधिम्
विकर्मोपार्जितं यस्य श्रवणादेव हीयते ॥ २ ॥
विश्वास-प्रस्तुतिः
चित्रं किमत्र मधुसूदन दैवतस्य मासस्य पुण्यसवनैरिह माधवस्य
स्नानैरवश्यविहितैरघराशिनाशः स्याद्यस्य नामपठनादपि तस्य लोकः ॥ ३ ॥
मूलम्
चित्रं किमत्र मधुसूदन दैवतस्य मासस्य पुण्यसवनैरिह माधवस्य
स्नानैरवश्यविहितैरघराशिनाशः स्याद्यस्य नामपठनादपि तस्य लोकः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तदेव पुण्यं परमं पवित्रं हृद्यं च लोके सुकृतैकलभ्यम्
यदुच्यते केशवनामधेयं मन्ये मुने माधवमासि भव्यम् ॥ ४ ॥
मूलम्
तदेव पुण्यं परमं पवित्रं हृद्यं च लोके सुकृतैकलभ्यम्
यदुच्यते केशवनामधेयं मन्ये मुने माधवमासि भव्यम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
धन्यास्तु ते माधवमासि नाम स्मरन्ति येऽहो मधुसूदनस्य
तस्यैव मे किञ्चिदहो चरित्रं पुनः पवित्रं वद विश्वजन्यम् ॥ ५ ॥
मूलम्
धन्यास्तु ते माधवमासि नाम स्मरन्ति येऽहो मधुसूदनस्य
तस्यैव मे किञ्चिदहो चरित्रं पुनः पवित्रं वद विश्वजन्यम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
वचः समाकर्ण्य हरिप्रियस्य प्रीतो मुनिस्तस्य नृपोत्तमस्य
स माधवस्नानसमुत्सुकोऽपि कथारसेनाह स माधवस्य ॥ ६ ॥
मूलम्
सूत उवाच-
वचः समाकर्ण्य हरिप्रियस्य प्रीतो मुनिस्तस्य नृपोत्तमस्य
स माधवस्नानसमुत्सुकोऽपि कथारसेनाह स माधवस्य ॥ ६ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
सत्यं महीपाल मिथो मुकुन्दकथारसालापविधिर्विशुद्धः
त्वया समं माधवमासधर्मस्नानाधिकोऽयं हरिदैवतेन ॥ ७ ॥
मूलम्
नारद उवाच-
सत्यं महीपाल मिथो मुकुन्दकथारसालापविधिर्विशुद्धः
त्वया समं माधवमासधर्मस्नानाधिकोऽयं हरिदैवतेन ॥ ७ ॥
विश्वास-प्रस्तुतिः
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च
अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥ ८ ॥
मूलम्
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च
अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥ ८ ॥
विश्वास-प्रस्तुतिः
किञ्चिद्वक्ष्यामि ते राजन्वैशाखस्नानजं फलम्
अस्मत्पितापि नो वक्तुमलं विस्तरतोऽखिलम् ॥ ९ ॥
मूलम्
किञ्चिद्वक्ष्यामि ते राजन्वैशाखस्नानजं फलम्
अस्मत्पितापि नो वक्तुमलं विस्तरतोऽखिलम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
यत्र मज्जनमात्रेण प्रेता मुक्तिमुपागताः
माधवे मासि ते पापा नर्मदासलिले परे ॥ १० ॥
मूलम्
यत्र मज्जनमात्रेण प्रेता मुक्तिमुपागताः
माधवे मासि ते पापा नर्मदासलिले परे ॥ १० ॥
विश्वास-प्रस्तुतिः
पुरातीर्थप्रसङ्गेन भ्रमन्कोपि महीसुरः
मुनिशर्मेति विख्यातो धर्मात्मा सत्यवाञ्छुचिः ॥ ११ ॥
मूलम्
पुरातीर्थप्रसङ्गेन भ्रमन्कोपि महीसुरः
मुनिशर्मेति विख्यातो धर्मात्मा सत्यवाञ्छुचिः ॥ ११ ॥
विश्वास-प्रस्तुतिः
युक्तः शमदमाभ्यां च क्षान्तिसन्तोषसंयुतः
युक्तः स पितृकार्येषु श्रुतिस्मृतिविधानवान् ॥ १२ ॥
मूलम्
युक्तः शमदमाभ्यां च क्षान्तिसन्तोषसंयुतः
युक्तः स पितृकार्येषु श्रुतिस्मृतिविधानवान् ॥ १२ ॥
विश्वास-प्रस्तुतिः
युक्तो मधुरवाक्येषु संयुक्तो हरिपूजने
युक्तो वैष्णवसंसर्गे त्रिकालज्ञानवान्मुनिः ॥ १३ ॥
मूलम्
युक्तो मधुरवाक्येषु संयुक्तो हरिपूजने
युक्तो वैष्णवसंसर्गे त्रिकालज्ञानवान्मुनिः ॥ १३ ॥
विश्वास-प्रस्तुतिः
स्वकर्मणि रतो धीरो हृदयालुः प्रियाप्रियः
दयालुरतिमेधावी तत्त्वविद्ब्राह्मणप्रियः ॥ १४ ॥
मूलम्
स्वकर्मणि रतो धीरो हृदयालुः प्रियाप्रियः
दयालुरतिमेधावी तत्त्वविद्ब्राह्मणप्रियः ॥ १४ ॥
विश्वास-प्रस्तुतिः
माधवे मासि रेवायां स्नानार्थं प्रतिसञ्चरन्
अग्रतः पञ्चपुरुषान्ददर्शातीव दुःखितान् ॥ १५ ॥
मूलम्
माधवे मासि रेवायां स्नानार्थं प्रतिसञ्चरन्
अग्रतः पञ्चपुरुषान्ददर्शातीव दुःखितान् ॥ १५ ॥
विश्वास-प्रस्तुतिः
परस्परमसंसर्गकारिणः कृष्णविग्रहान्
वटच्छायामुपाश्रित्य समासीनानवस्थितान् ॥ १६ ॥
मूलम्
परस्परमसंसर्गकारिणः कृष्णविग्रहान्
वटच्छायामुपाश्रित्य समासीनानवस्थितान् ॥ १६ ॥
विश्वास-प्रस्तुतिः
पश्यन्तो दिक्षु सर्वासु दुरितोद्विग्नचेतसः
तानालोक्य द्विजश्रेष्ठश्चिन्तयामास विस्मितः ॥ १७ ॥
मूलम्
पश्यन्तो दिक्षु सर्वासु दुरितोद्विग्नचेतसः
तानालोक्य द्विजश्रेष्ठश्चिन्तयामास विस्मितः ॥ १७ ॥
विश्वास-प्रस्तुतिः
अत्रैते के नरा भीता विपिने दीनचेष्टिताः
चौरा वा विकृताकारा दृश्यन्ते सङ्गभागिनः ॥ १८ ॥
मूलम्
अत्रैते के नरा भीता विपिने दीनचेष्टिताः
चौरा वा विकृताकारा दृश्यन्ते सङ्गभागिनः ॥ १८ ॥
विश्वास-प्रस्तुतिः
परस्परं च भाषन्तः कृशाः कृष्णवपुः श्रियः
यावदेवं स विप्राग्र्यो विचारयति धीरधीः ॥ १९ ॥
मूलम्
परस्परं च भाषन्तः कृशाः कृष्णवपुः श्रियः
यावदेवं स विप्राग्र्यो विचारयति धीरधीः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तावदागम्यते सर्वे दूरस्था मुनिमादरात्
बद्धाञ्जलिपुटा भूत्वा प्रणम्योचुरिति स्फुटम् ॥ २० ॥
मूलम्
तावदागम्यते सर्वे दूरस्था मुनिमादरात्
बद्धाञ्जलिपुटा भूत्वा प्रणम्योचुरिति स्फुटम् ॥ २० ॥
विश्वास-प्रस्तुतिः
पञ्चपुरुषा ऊचुः -
भव्यं भवन्तं पुरुषोत्तमं वै विभ्राजमानं चरितेन मान्यम्
मन्यामहे विप्र दयालुमुख्यं वाचं समाकर्णय नोसि मैत्रः ॥ २१ ॥
मूलम्
पञ्चपुरुषा ऊचुः -
भव्यं भवन्तं पुरुषोत्तमं वै विभ्राजमानं चरितेन मान्यम्
मन्यामहे विप्र दयालुमुख्यं वाचं समाकर्णय नोसि मैत्रः ॥ २१ ॥
विश्वास-प्रस्तुतिः
सन्तः प्रतिष्ठा दीनानां दैवादुद्भूतपापिनाम्
आर्तानामार्तिहन्तारो दर्शनादेव साधवः ॥ २२ ॥
मूलम्
सन्तः प्रतिष्ठा दीनानां दैवादुद्भूतपापिनाम्
आर्तानामार्तिहन्तारो दर्शनादेव साधवः ॥ २२ ॥
विश्वास-प्रस्तुतिः
अहं पाञ्चालदेशीयः क्षत्रियो वीरवाहनः
ब्राह्मणं हतवान्मोहाच्छरेण शब्दवेधिना ॥ २३ ॥
मूलम्
अहं पाञ्चालदेशीयः क्षत्रियो वीरवाहनः
ब्राह्मणं हतवान्मोहाच्छरेण शब्दवेधिना ॥ २३ ॥
विश्वास-प्रस्तुतिः
शिखासूत्रविहीनस्तु तिलकेन विवर्जितः
अटामि जगतीमेनां ब्रह्मघ्नोऽहमिति ब्रुवन् ॥ २४ ॥
मूलम्
शिखासूत्रविहीनस्तु तिलकेन विवर्जितः
अटामि जगतीमेनां ब्रह्मघ्नोऽहमिति ब्रुवन् ॥ २४ ॥
विश्वास-प्रस्तुतिः
ब्रह्मघ्नायातिपापाय भिक्षा मह्यं प्रदीयताम्
एवं सर्वेषु तीर्थेषु भ्रमन्नत्रास्मि चागतः ॥ २५ ॥
मूलम्
ब्रह्मघ्नायातिपापाय भिक्षा मह्यं प्रदीयताम्
एवं सर्वेषु तीर्थेषु भ्रमन्नत्रास्मि चागतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
ब्रह्महत्या न मेद्यापि प्रयाति मुनिसत्तम
एवं मे वर्षमेकं हि व्यतीतं कुर्वतो विभो ॥ २६ ॥
मूलम्
ब्रह्महत्या न मेद्यापि प्रयाति मुनिसत्तम
एवं मे वर्षमेकं हि व्यतीतं कुर्वतो विभो ॥ २६ ॥
विश्वास-प्रस्तुतिः
दह्यमानस्य पापेन शोकाकुलितचेतसः
चन्द्रशर्मापरो विप्रो योयं संलक्ष्यते द्विज ॥ २७ ॥
मूलम्
दह्यमानस्य पापेन शोकाकुलितचेतसः
चन्द्रशर्मापरो विप्रो योयं संलक्ष्यते द्विज ॥ २७ ॥
विश्वास-प्रस्तुतिः
गुरुघाती स तु ब्रह्मन्मोहाकुलितमानसः
मोहाकुलितचित्तत्वाद्गुरुघातक उच्यते ॥ २८ ॥
मूलम्
गुरुघाती स तु ब्रह्मन्मोहाकुलितमानसः
मोहाकुलितचित्तत्वाद्गुरुघातक उच्यते ॥ २८ ॥
विश्वास-प्रस्तुतिः
निवसन्मागधेदेशे सन्त्यक्तः स्वजनैस्ततः
दैवादसावपि मुने भ्रमन्निह समागतः ॥ २९ ॥
मूलम्
निवसन्मागधेदेशे सन्त्यक्तः स्वजनैस्ततः
दैवादसावपि मुने भ्रमन्निह समागतः ॥ २९ ॥
विश्वास-प्रस्तुतिः
शिखासूत्रविहीनस्तु विप्रलिङ्गविवर्जितः
मया पृष्टस्तु वृत्तान्तं सत्यमेवावदद्द्विजः ॥ ३० ॥
मूलम्
शिखासूत्रविहीनस्तु विप्रलिङ्गविवर्जितः
मया पृष्टस्तु वृत्तान्तं सत्यमेवावदद्द्विजः ॥ ३० ॥
विश्वास-प्रस्तुतिः
वसता यद्गुरोर्गेहे क्रोधाकुलितचेतसा
महामोहगतेनापि यथा वै घातितो गुरुः ॥ ३१ ॥
मूलम्
वसता यद्गुरोर्गेहे क्रोधाकुलितचेतसा
महामोहगतेनापि यथा वै घातितो गुरुः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तेन पापेन दग्धोऽसौ वर्तते शोकपीडितः
तृतीयोऽयं पुनः स्वामिन्वेदशर्मासमाहितः ॥ ३२ ॥
मूलम्
तेन पापेन दग्धोऽसौ वर्तते शोकपीडितः
तृतीयोऽयं पुनः स्वामिन्वेदशर्मासमाहितः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
सुरापो ब्राह्मणो जातो मोहाद्वेश्याप्रसङ्गतः
पृष्टो मयायमपि मे यथावृत्तं तथाब्रवीत् ॥ ३३ ॥
मूलम्
सुरापो ब्राह्मणो जातो मोहाद्वेश्याप्रसङ्गतः
पृष्टो मयायमपि मे यथावृत्तं तथाब्रवीत् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
आत्मनश्चेष्टितं सर्वं मनस्तापेन पीडितः
निरस्तः सर्वलोकैश्च भार्याबन्धुजनैरपि ॥ ३४ ॥
मूलम्
आत्मनश्चेष्टितं सर्वं मनस्तापेन पीडितः
निरस्तः सर्वलोकैश्च भार्याबन्धुजनैरपि ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तेन पापेन संलिप्तो भ्रमन्नत्रायमागतः
चतुर्थो विधुरो नाम वैश्योऽयं गुरुतल्पगः ॥ ३५ ॥
मूलम्
तेन पापेन संलिप्तो भ्रमन्नत्रायमागतः
चतुर्थो विधुरो नाम वैश्योऽयं गुरुतल्पगः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
मोहान्मासत्रयं यावद्वेश्याभूतां च मातरम्
बुभुजे स विदेहस्थां ज्ञाततत्त्वस्ततश्चरन् ॥ ३६ ॥
मूलम्
मोहान्मासत्रयं यावद्वेश्याभूतां च मातरम्
बुभुजे स विदेहस्थां ज्ञाततत्त्वस्ततश्चरन् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
दुःखितोऽभ्यागमद्भूमिं भ्रमन्निह मुने पुनः
पञ्चमोऽयं महापापी पापिसंसर्गकारकः ॥ ३७ ॥
मूलम्
दुःखितोऽभ्यागमद्भूमिं भ्रमन्निह मुने पुनः
पञ्चमोऽयं महापापी पापिसंसर्गकारकः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
प्रत्यहं धनलोभेन स्तेयादिकृतवानघम्
वैश्योतिपातकैः क्रान्तस्ततस्त्यक्तो जनैः स्वयम् ॥ ३८ ॥
मूलम्
प्रत्यहं धनलोभेन स्तेयादिकृतवानघम्
वैश्योतिपातकैः क्रान्तस्ततस्त्यक्तो जनैः स्वयम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
निर्विण्णमानसो दैवान्नन्दनामेह सङ्गतः
एवं पञ्चापि पापिष्ठाः स्थानमेकमुपागताः ॥ ३९ ॥
मूलम्
निर्विण्णमानसो दैवान्नन्दनामेह सङ्गतः
एवं पञ्चापि पापिष्ठाः स्थानमेकमुपागताः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
कः कस्यापि न सम्पर्कं भोजनाच्छादनादिभिः
न करोति महाभाग विना वार्तां द्विजोत्तम ॥ ४० ॥
मूलम्
कः कस्यापि न सम्पर्कं भोजनाच्छादनादिभिः
न करोति महाभाग विना वार्तां द्विजोत्तम ॥ ४० ॥
विश्वास-प्रस्तुतिः
विशन्त्येकासने नैव न स्वपन्त्येकसंस्तरे
एवं दुःखसमाक्रान्ता नानातीर्थेषु वै गताः ॥ ४१ ॥
मूलम्
विशन्त्येकासने नैव न स्वपन्त्येकसंस्तरे
एवं दुःखसमाक्रान्ता नानातीर्थेषु वै गताः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
नास्माकं पातकं घोरं प्रयाति मुनिसत्तम
दृष्ट्वा भवन्तं दीप्यन्तं प्रसन्नानि मनांसि नः ॥ ४२ ॥
मूलम्
नास्माकं पातकं घोरं प्रयाति मुनिसत्तम
दृष्ट्वा भवन्तं दीप्यन्तं प्रसन्नानि मनांसि नः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
वदन्ति दुरितप्रान्तं साधोस्ते पुण्यदर्शनात्
उपायं वद नः स्वामिन्यथा पापक्षयो हि नः ॥ ४३ ॥
मूलम्
वदन्ति दुरितप्रान्तं साधोस्ते पुण्यदर्शनात्
उपायं वद नः स्वामिन्यथा पापक्षयो हि नः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ज्ञायते करुणोऽस्माभिर्विप्र वेदार्थवित्प्रभो
आर्तानां मार्गमाणानां पश्चात्तापमुपेयुषाम् ॥ ४४ ॥
मूलम्
ज्ञायते करुणोऽस्माभिर्विप्र वेदार्थवित्प्रभो
आर्तानां मार्गमाणानां पश्चात्तापमुपेयुषाम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
मोहादवाप्तपापानां त्वमुद्धर्तासि निश्चितम्
नारद उवाच-
तेषामिति वचः श्रुत्वा मुनिशर्मा मुनिस्ततः ॥ ४५ ॥
मूलम्
मोहादवाप्तपापानां त्वमुद्धर्तासि निश्चितम्
नारद उवाच-
तेषामिति वचः श्रुत्वा मुनिशर्मा मुनिस्ततः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
इदमाह विचार्येति करुणावरुणालयः
मुनिशर्मोवाच-
यूयमज्ञानतः प्राप्तपातकाः सत्यभाषिणः ॥ ४६ ॥
मूलम्
इदमाह विचार्येति करुणावरुणालयः
मुनिशर्मोवाच-
यूयमज्ञानतः प्राप्तपातकाः सत्यभाषिणः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अनुतापयुतास्तस्मादनुग्राह्या मयाधुना
शृणुध्वं मे वचः सत्यमूर्ध्वबाहुर्वदाम्यहम् ॥ ४७ ॥
मूलम्
अनुतापयुतास्तस्मादनुग्राह्या मयाधुना
शृणुध्वं मे वचः सत्यमूर्ध्वबाहुर्वदाम्यहम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
यन्मयाङ्गिरसः पूर्वं श्रुतं मुनिसमागमे
दृष्टं वेदेषु शास्त्रेषु श्रुतं गुरुमुखात्तथा ॥ ४८ ॥
मूलम्
यन्मयाङ्गिरसः पूर्वं श्रुतं मुनिसमागमे
दृष्टं वेदेषु शास्त्रेषु श्रुतं गुरुमुखात्तथा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
विष्णुनाराधितेनादौ स्वयमुक्तं च तत्त्वतः
न तृप्तिरशनादन्या न गुरुर्जनकादपि ॥ ४९ ॥
मूलम्
विष्णुनाराधितेनादौ स्वयमुक्तं च तत्त्वतः
न तृप्तिरशनादन्या न गुरुर्जनकादपि ॥ ४९ ॥
विश्वास-प्रस्तुतिः
न पात्रमन्यद्विप्रेभ्यो न देवः केशवात्परः
न गङ्गया समं तीर्थं न दानं सुरभीसमम् ॥ ५० ॥
मूलम्
न पात्रमन्यद्विप्रेभ्यो न देवः केशवात्परः
न गङ्गया समं तीर्थं न दानं सुरभीसमम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
न गायत्र्या समं जाप्यं न द्वादश्यासमं व्रतम्
न भार्यया समं मित्रं न धर्मो दयया समः ॥ ५१ ॥
मूलम्
न गायत्र्या समं जाप्यं न द्वादश्यासमं व्रतम्
न भार्यया समं मित्रं न धर्मो दयया समः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
न स्वातन्त्र्यसमं सौख्यं गार्हस्थ्यान्नाश्रमो वरः
न सत्यात्परआचारो न सन्तोषात्परं सुखम् ॥ ५२ ॥
मूलम्
न स्वातन्त्र्यसमं सौख्यं गार्हस्थ्यान्नाश्रमो वरः
न सत्यात्परआचारो न सन्तोषात्परं सुखम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
न माधवसमो मासो महापापहरः परः
विधिनानुष्ठितो भक्त्या मधुसूदनवल्लभः ॥ ५३ ॥
मूलम्
न माधवसमो मासो महापापहरः परः
विधिनानुष्ठितो भक्त्या मधुसूदनवल्लभः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
गङ्गादिषु च तीर्थेषु विशेषेण सुदुर्लभः
प्रायश्चित्तानि सर्वाणि द्वादशाब्दमुखानि च ॥ ५४ ॥
मूलम्
गङ्गादिषु च तीर्थेषु विशेषेण सुदुर्लभः
प्रायश्चित्तानि सर्वाणि द्वादशाब्दमुखानि च ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तावद्गर्जन्ति पापानि यावन्नायाति माधवः
वैशाखमखिलं मासं यः स्नाति हरितत्परः ॥ ५५ ॥
मूलम्
तावद्गर्जन्ति पापानि यावन्नायाति माधवः
वैशाखमखिलं मासं यः स्नाति हरितत्परः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
हरिपादसमुद्भूते सलिले विमलाशयः
स एव सर्वपापानां हन्ता दृष्टस्तु पापिभिः ॥ ५६ ॥
मूलम्
हरिपादसमुद्भूते सलिले विमलाशयः
स एव सर्वपापानां हन्ता दृष्टस्तु पापिभिः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
निजपापौघनिष्कृत्यै वक्तव्यं तस्य किन्नरैः ॥ ५७ ॥
मूलम्
निजपापौघनिष्कृत्यै वक्तव्यं तस्य किन्नरैः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
मासे तु वै माधवसञ्ज्ञकेऽस्मिन्यः स्नाति पापैः स विमुच्यते हि
मेषस्थिते सम्प्रति नर्मदायाः शर्मप्रदे वारिणि वारिताघे ॥ ५८ ॥
मूलम्
मासे तु वै माधवसञ्ज्ञकेऽस्मिन्यः स्नाति पापैः स विमुच्यते हि
मेषस्थिते सम्प्रति नर्मदायाः शर्मप्रदे वारिणि वारिताघे ॥ ५८ ॥
विश्वास-प्रस्तुतिः
दुर्लभा हि महानद्यो माधवे मासि सर्वशः
ततोऽपि दुर्लभा गङ्गा रेवा च यमुना तथा ॥ ५९ ॥
मूलम्
दुर्लभा हि महानद्यो माधवे मासि सर्वशः
ततोऽपि दुर्लभा गङ्गा रेवा च यमुना तथा ॥ ५९ ॥
विश्वास-प्रस्तुतिः
एतासु तिसृषु प्रायः प्राप्यैकामपि सादरम्
यः स्नाति माधवे मासि विपापः स हरिं व्रजेत् ॥ ६० ॥
मूलम्
एतासु तिसृषु प्रायः प्राप्यैकामपि सादरम्
यः स्नाति माधवे मासि विपापः स हरिं व्रजेत् ॥ ६० ॥
विश्वास-प्रस्तुतिः
तस्मादहो सह मया सुकृतैकसारे वैशाखमासि च भवन्त उपेत्य रेवाम्
मज्जन्तु पातककृतो मुनिवृन्दजुष्टे रेवाजले निखिलपापभयापहत्यै ॥ ६१ ॥
मूलम्
तस्मादहो सह मया सुकृतैकसारे वैशाखमासि च भवन्त उपेत्य रेवाम्
मज्जन्तु पातककृतो मुनिवृन्दजुष्टे रेवाजले निखिलपापभयापहत्यै ॥ ६१ ॥
विश्वास-प्रस्तुतिः
एवमुक्तास्ततः सर्वे मुदिता मुनिना सह
जग्मुस्ते पापिनो रेवां शंसन्तोऽद्भुतकारिणीम् ॥ ६२ ॥
मूलम्
एवमुक्तास्ततः सर्वे मुदिता मुनिना सह
जग्मुस्ते पापिनो रेवां शंसन्तोऽद्भुतकारिणीम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
मुनिशर्मा ततो गच्छंस्तैस्तथानुगतो नरैः
ददर्श पथिसन्त्रस्तान्पिशाचानष्ट भीषणान् ॥ ६३ ॥
मूलम्
मुनिशर्मा ततो गच्छंस्तैस्तथानुगतो नरैः
ददर्श पथिसन्त्रस्तान्पिशाचानष्ट भीषणान् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
कुर्वन्तो विविधाञ्छब्दान्भ्रमन्तोऽपि ततस्ततः
ऊर्द्ध्वकेशोर्द्ध्वरक्तांश्च कृष्णदन्तकृशोदरान् ॥ ६४ ॥
मूलम्
कुर्वन्तो विविधाञ्छब्दान्भ्रमन्तोऽपि ततस्ततः
ऊर्द्ध्वकेशोर्द्ध्वरक्तांश्च कृष्णदन्तकृशोदरान् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
अरण्ये कण्टकाक्रान्ते वृक्षपानीयवर्जिते
सम्मुखं धावतो दृष्ट्वा भयसंविग्नमानसः ॥ ६५ ॥
मूलम्
अरण्ये कण्टकाक्रान्ते वृक्षपानीयवर्जिते
सम्मुखं धावतो दृष्ट्वा भयसंविग्नमानसः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
नमोनारायणायेति रक्षरक्षेति चाब्रवीत् ॥ ६६ ॥
मूलम्
नमोनारायणायेति रक्षरक्षेति चाब्रवीत् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
नारायणायेति नमोभिधानमाकर्ण्य धर्मैकनिधानमुच्चैः
भवान्तरे ते मनसा पिशाचा ययुर्निजादृष्टवशेन लब्धाः ॥ ६७ ॥
मूलम्
नारायणायेति नमोभिधानमाकर्ण्य धर्मैकनिधानमुच्चैः
भवान्तरे ते मनसा पिशाचा ययुर्निजादृष्टवशेन लब्धाः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
विनयान्वितमनसो मुनिशर्मा विलोक्य तान्
उवाच मधुराभाषी के यूयं विकृता नराः ॥ ६८ ॥
मूलम्
विनयान्वितमनसो मुनिशर्मा विलोक्य तान्
उवाच मधुराभाषी के यूयं विकृता नराः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
किं वा केन कृतं कर्म येन प्राप्ता च वैकृतिः
कथमेवं विधाः सर्वे दुःखिनोऽतीव भीषणाः ॥ ६९ ॥
मूलम्
किं वा केन कृतं कर्म येन प्राप्ता च वैकृतिः
कथमेवं विधाः सर्वे दुःखिनोऽतीव भीषणाः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
प्रेता ऊचुः -
क्षुत्पिपासार्दिता नित्यं नानादुःखचयाकुलाः
कृतबुद्धे हृदि क्रूरा नष्टसञ्ज्ञा विचेतसः ॥ ७० ॥
मूलम्
प्रेता ऊचुः -
क्षुत्पिपासार्दिता नित्यं नानादुःखचयाकुलाः
कृतबुद्धे हृदि क्रूरा नष्टसञ्ज्ञा विचेतसः ॥ ७० ॥
विश्वास-प्रस्तुतिः
न जानीमो दिशः क्वापि मूढा मानवघातिनः
तदेतद्दुःखमाख्यातमेतदेवासुखं पुनः ॥ ७१ ॥
मूलम्
न जानीमो दिशः क्वापि मूढा मानवघातिनः
तदेतद्दुःखमाख्यातमेतदेवासुखं पुनः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
प्रभातमिव सम्भाति भास्करोदयदर्शनात्
श्रुत्वा नारायणेत्युच्चैर्भाषितं तव कोमलम् ॥ ७२ ॥
मूलम्
प्रभातमिव सम्भाति भास्करोदयदर्शनात्
श्रुत्वा नारायणेत्युच्चैर्भाषितं तव कोमलम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा च दर्शनं विप्र शुद्धभावं गता वयम्
दर्शनेनैव ते विप्र नामश्रवणतो हरेः ॥ ७३ ॥
मूलम्
दृष्ट्वा च दर्शनं विप्र शुद्धभावं गता वयम्
दर्शनेनैव ते विप्र नामश्रवणतो हरेः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
भवान्तरमनुप्राप्ता वयं प्राप्ता दयालवः
विनाशयत्यपयशो बुद्धिं विशदयत्यपि ॥ ७४ ॥
मूलम्
भवान्तरमनुप्राप्ता वयं प्राप्ता दयालवः
विनाशयत्यपयशो बुद्धिं विशदयत्यपि ॥ ७४ ॥
विश्वास-प्रस्तुतिः
प्रतिष्ठापयति प्रायो नृणां वैष्णवदर्शनम्
अहं पर्युषितो नाम सूचकोऽयं द्वितीयकः ॥ ७५ ॥
मूलम्
प्रतिष्ठापयति प्रायो नृणां वैष्णवदर्शनम्
अहं पर्युषितो नाम सूचकोऽयं द्वितीयकः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
शीघ्रगो रोधकश्चान्यः पञ्चमोयं च लेखकः
षष्ठोयमिति वाग्दुष्टः सप्तमोयं विदैवतः ॥ ७६ ॥
मूलम्
शीघ्रगो रोधकश्चान्यः पञ्चमोयं च लेखकः
षष्ठोयमिति वाग्दुष्टः सप्तमोयं विदैवतः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
नित्यंयाजनकश्चायमष्टमः कष्टदायकः
मुनिशर्मोवाच-
प्रेतानां कर्मजातानां नामानि भवतां कुतः ॥ ७७ ॥
मूलम्
नित्यंयाजनकश्चायमष्टमः कष्टदायकः
मुनिशर्मोवाच-
प्रेतानां कर्मजातानां नामानि भवतां कुतः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
किं तत्कारणमुद्दिश्य येन यूयं सनामकाः
प्रेता ऊचुः -
मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विजे ॥ ७८ ॥
मूलम्
किं तत्कारणमुद्दिश्य येन यूयं सनामकाः
प्रेता ऊचुः -
मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विजे ॥ ७८ ॥
विश्वास-प्रस्तुतिः
आज्ये सति निराज्यं च तेन पर्य्युषितोऽस्म्यहम्
मिथ्यामिथ्यापरच्छिद्र मर्मान्वेषी स्वभावतः ॥ ७९ ॥
मूलम्
आज्ये सति निराज्यं च तेन पर्य्युषितोऽस्म्यहम्
मिथ्यामिथ्यापरच्छिद्र मर्मान्वेषी स्वभावतः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
सूचयामास तेनासौ सूचकोऽशुचिरातुरः
शीघ्रं नश्यति विप्रेण याचितः क्षुभितेन वै ॥ ८० ॥
मूलम्
सूचयामास तेनासौ सूचकोऽशुचिरातुरः
शीघ्रं नश्यति विप्रेण याचितः क्षुभितेन वै ॥ ८० ॥
विश्वास-प्रस्तुतिः
एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम
गृहोपरि सदा स्वादुभुक्तमेतेन पापिना ॥ ८१ ॥
मूलम्
एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम
गृहोपरि सदा स्वादुभुक्तमेतेन पापिना ॥ ८१ ॥
विश्वास-प्रस्तुतिः
एकाकिना कुमनसा तेनासौ रोधकः स्मृतः
मौनेनापि स्थितो नित्यं पादेन लिखते महीम् ॥ ८२ ॥
मूलम्
एकाकिना कुमनसा तेनासौ रोधकः स्मृतः
मौनेनापि स्थितो नित्यं पादेन लिखते महीम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
अस्माकमपि पापिष्ठो लेखको लोकसङ्गतः
गुणिनोयं गुणान्द्वेष्टि निर्गुणे च गुणज्ञताम् ॥ ८३ ॥
मूलम्
अस्माकमपि पापिष्ठो लेखको लोकसङ्गतः
गुणिनोयं गुणान्द्वेष्टि निर्गुणे च गुणज्ञताम् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
असञ्ज्ञे ज्ञानयोगी च वाग्दुष्टोसौ ततः स्मृतः
नास्तिक्यभावादनिशं पितृदैवत मानवान् ॥ ८४ ॥
मूलम्
असञ्ज्ञे ज्ञानयोगी च वाग्दुष्टोसौ ततः स्मृतः
नास्तिक्यभावादनिशं पितृदैवत मानवान् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
न मन्यते च सत्कर्म पापस्तेन विदैवतः
सदा याचनको मिथ्या मिथ्यादौर्गत्यदर्शकः ॥ ८५ ॥
मूलम्
न मन्यते च सत्कर्म पापस्तेन विदैवतः
सदा याचनको मिथ्या मिथ्यादौर्गत्यदर्शकः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
सभूतोद्वेजको लुब्धस्तेन याचनकस्त्वयम्
एभिः पूर्वकृतैः पापैर्भुक्त्वा नरकयातनाम् ॥ ८६ ॥
मूलम्
सभूतोद्वेजको लुब्धस्तेन याचनकस्त्वयम्
एभिः पूर्वकृतैः पापैर्भुक्त्वा नरकयातनाम् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
प्रेतास्ते दर्शनादद्य पुनर्जाताः स्म सुस्थिताः
एतत्ते सर्वमाख्यातमात्मवृत्तान्तसम्भवम् ॥ ८७ ॥
मूलम्
प्रेतास्ते दर्शनादद्य पुनर्जाताः स्म सुस्थिताः
एतत्ते सर्वमाख्यातमात्मवृत्तान्तसम्भवम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
प्रश्नं च यदि ते श्रद्धा पृच्छान्यत्कथयामि ते
ब्राह्मण उवाच-
ये जीवा भुवि तिष्ठन्ति सर्वआहारमूलकाः ॥ ८८ ॥
मूलम्
प्रश्नं च यदि ते श्रद्धा पृच्छान्यत्कथयामि ते
ब्राह्मण उवाच-
ये जीवा भुवि तिष्ठन्ति सर्वआहारमूलकाः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
युष्माकमपि आहारं श्रोतुमिच्छामि तत्त्वतः
प्रेता ऊचुः -
शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम् ॥ ८९ ॥
मूलम्
युष्माकमपि आहारं श्रोतुमिच्छामि तत्त्वतः
प्रेता ऊचुः -
शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
यं श्रुत्वा निन्दसे ब्रह्मन्भूयोभूयश्च नित्यशः
श्लेष्ममूत्रपुरीषेण योषिदङ्गमलेन च ॥ ९० ॥
मूलम्
यं श्रुत्वा निन्दसे ब्रह्मन्भूयोभूयश्च नित्यशः
श्लेष्ममूत्रपुरीषेण योषिदङ्गमलेन च ॥ ९० ॥
विश्वास-प्रस्तुतिः
गृहाणित्यक्तशौचानि तानि भुञ्जन्ति तत्र वै
स्त्रीदग्धानि प्रकीर्णानि प्रकीर्णायस्कराणि च ॥ ९१ ॥
मूलम्
गृहाणित्यक्तशौचानि तानि भुञ्जन्ति तत्र वै
स्त्रीदग्धानि प्रकीर्णानि प्रकीर्णायस्कराणि च ॥ ९१ ॥
विश्वास-प्रस्तुतिः
कुत्सितानि मलेनापि प्रेता वै तत्र भुञ्जते
माधवं यत्र नार्चन्ति स्त्रीजितानि गृहाणि च ॥ ९२ ॥
मूलम्
कुत्सितानि मलेनापि प्रेता वै तत्र भुञ्जते
माधवं यत्र नार्चन्ति स्त्रीजितानि गृहाणि च ॥ ९२ ॥
विश्वास-प्रस्तुतिः
दया क्षान्तिविहीनानि प्रेतास्तत्रैव भुञ्जते
यत्राभद्रा गृहे वाचः शौचहीनाश्च योषितः ॥ ९३ ॥
मूलम्
दया क्षान्तिविहीनानि प्रेतास्तत्रैव भुञ्जते
यत्राभद्रा गृहे वाचः शौचहीनाश्च योषितः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
कलहो यत्र सततं प्रेतास्ते तत्र भुञ्जते
न यत्र जामयो गेहे पूज्यन्ते न वराः स्त्रियः ॥ ९४ ॥
मूलम्
कलहो यत्र सततं प्रेतास्ते तत्र भुञ्जते
न यत्र जामयो गेहे पूज्यन्ते न वराः स्त्रियः ॥ ९४ ॥
विश्वास-प्रस्तुतिः
यत्र दुर्जनसंसर्गस्तत्र भोक्ष्यामहे वयम्
न यत्र हरिसेवा वा न कथा यत्र वैष्णवी ॥ ९५ ॥
मूलम्
यत्र दुर्जनसंसर्गस्तत्र भोक्ष्यामहे वयम्
न यत्र हरिसेवा वा न कथा यत्र वैष्णवी ॥ ९५ ॥
विश्वास-प्रस्तुतिः
न यत्र वैष्णवी प्रीतिः प्रेता वै तत्र भुञ्जते
येषामेवं गृहे प्रीता भुञ्जते तेऽपि सत्वरम् ॥ ९६ ॥
मूलम्
न यत्र वैष्णवी प्रीतिः प्रेता वै तत्र भुञ्जते
येषामेवं गृहे प्रीता भुञ्जते तेऽपि सत्वरम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
प्रेता भवन्ति पापेन निजवंशविनाशकाः
तस्य मे जायते ब्रह्मन्वदतो भोजनं निजम् ॥ ९७ ॥
मूलम्
प्रेता भवन्ति पापेन निजवंशविनाशकाः
तस्य मे जायते ब्रह्मन्वदतो भोजनं निजम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
अस्मात्पापतरं चान्यत्किञ्चिद्वक्तुं न शक्यते
निर्विण्णः प्रेतभावेन पृच्छामि त्वां दृढव्रतम् ॥ ९८ ॥
मूलम्
अस्मात्पापतरं चान्यत्किञ्चिद्वक्तुं न शक्यते
निर्विण्णः प्रेतभावेन पृच्छामि त्वां दृढव्रतम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
यथा न जायते प्रेतो मुक्तिः प्रेतत्वतो यथा
ब्राह्मण उवाच-
एकादश्यादिभिः पुण्यैर्व्रतैरच्युतकीर्तनैः ॥ ९९ ॥
मूलम्
यथा न जायते प्रेतो मुक्तिः प्रेतत्वतो यथा
ब्राह्मण उवाच-
एकादश्यादिभिः पुण्यैर्व्रतैरच्युतकीर्तनैः ॥ ९९ ॥
देवतातिथिपूजाभिर्गुरुपूजादिभिस्तथा
आचारैः साधुचरितैः श्रुतिस्मृत्युदितैर्दिनैः १००
एवं श्राद्धक्रियादानैर्यथाविधिविनिर्मितैः
दयादानदमक्षान्तिशीलशिष्टाभिवादनैः १०१
इत्येवमादिभिर्धर्मैः प्रेता न स्युः कुलेऽपि वै
गोविप्रतीर्थामरपर्वताग्र्य नदीनदाश्वत्थतरूननेकशः १०२
यो वन्दते बन्धुजने विनीतः प्रेतो न लोके भवतीह नूनम्
क्रमादर्च्चयते युक्तो विशेषादपि मानवः १०३
गङ्गादिपुण्यतीर्थेषु तस्य पुण्यमनन्तकम्
नाहं वर्षसहस्रेषु वक्तुं शक्तः स्वयं विभुः १०४
दर्शनादेव तस्यापि मुक्तः प्रेतत्वतो भवेत्
ऊर्जमूर्जस्वलं मासमथ दामोदरप्रियम् १०५
तपसामुत्तमं मासं तपो माधववल्लभम्
वैशाखं माधवं मासं मधुसूदनदैवतम् १०६
उत्तमं सर्वमासानां यमेकं मुनयो विदुः
येनैव साधनेन स्यात्सर्वं कृत्यं हि साधितम् १०७
ब्रह्मविद्यामताभ्येति सा लक्ष्मीर्विश्वकारिणी
तस्या वासो यतो मासो माधवोऽसौ ततः स्मृतः १०८
न माधवसमो देवो यथा देवेषु निश्चितम्
तथा मासेषु सर्वेषु न मासो माधवप्रियः १०९
तस्य माधवमासस्य माहात्म्यमपि भक्तितः
श्रुत्वा विमुच्यते प्रेतयोनितः किं विधानतः ११०
सतां सम्भाषणादेव पुण्यतीर्थनिषेवणात्
नारायणेति पठनात्तन्नामश्रवणादपि १११
मुच्यते पातकैः सर्वैर्जनो भक्तिपरायणः
यतिष्ये तदहं प्रेता भवतामपि मुक्तये ११२
परोपकारजं पुण्यं यतो न स्यान्मखैरपि
प्रेता यामि ततः स्नातुं रेवावारिणि माधवे ११३
मासि मेषस्थिते भानावेतैरनुगतो नरैः
पञ्चैव ते पुनर्मोहाज्जातपातकसञ्चयाः ११४
स्नातुमायान्ति वचसा ममैव करुणावतः ११५
तावद्भवन्तस्तु निदेशतो मे तिष्ठन्तु तत्रैव वने विशोकाः
श्रीनर्मदावारिणि यावदेव गत्वा निजस्नानविधिं विहाय ११६
निर्माय पुरुषानपि नाम तस्मात्कुशस्वरूपानिह नर्मदा के
विधानतो माधवमासि दीनान्निमज्जयामीति दया निबद्धः ११७
एवं दिनत्रयेणैव मुक्तिर्वः प्रेतयोनितः
न दर्भबटुकस्नानमात्रेणैव न संशयः ११८
नारद उवाच-
एवमुक्तस्ततस्तैस्तु प्रतीतैरपि पूजितः
मुनिशर्मा ययावेतैरनुयातस्तु पञ्चभिः ११९
तत्र गत्वा ततः प्रातः स्नात्वा कृत्वा तथाविधिम्
स्नापयामास तान्प्रेतान्नामतो दर्भनिर्मितान् १२०
स्मृताश्च मुनिना तीर्थे स्नापिता नामतस्तथा
प्रेताः पुण्यवता तेन सद्यो मुक्ता दिवं ययुः १२१
ते पापिनः पञ्च यदैव रेवाजले निमग्ना वचसैव तस्य
श्रीमाधवे मासि विवर्णदेहाः सद्यः सुवर्णैकरुचो बभूवुः १२२
पापप्रशमनं स्तोत्रं श्राविता मुनिशर्मणा
समक्षं सर्वलोकानां जातास्ते वरकान्तयः १२३
तत्रस्था मानवास्तांस्तु विरजान्स्नानमात्रतः
न स्पृशन्ति च राजेन्द्र पापिसंसर्गशङ्कथा १२४
मुनिशर्मानुरोधेन ततो धर्मप्रमाणतः
सद्यो दिव्याभवद्वाणी यदेते विगतैनसः १२५
स्नातानां माधवेमासि मुकुन्दहृदयात्मनाम्
पापप्रशमनं स्तोत्रं शृण्वतामिह सादरम् १२६
चित्रं किमत्र या शुद्धिर्जायते पापसञ्चयात्
सर्वेषामेव पापानां प्रायश्चित्तमिदं परम् १२७
यत्प्रातर्माधवे मासि भक्त्या तीर्थेऽवगाहनम्
यतः प्रेतास्तु ते पापाः स्नापिता नाममात्रतः १२८
स्मृताः पुण्यवता तेन मोचिता मुनिशर्मणा १२९
इत्येवमाकर्ण्य गिरं नभःस्थामत्यद्भुतामाशु ततो मनुष्याः
शशंसुरेतानपि पञ्चपुण्यान्वैशाखमासं च मुनिं च रेवाम् १३०
अथ चाकर्ण्य भूपालः स्तवं दुरितनाशनम्
यदाकर्ण्य नरो भक्त्या मुच्यते पापराशिभिः १३१
यस्य श्रवणमात्रेण पापिनः शुद्धिमागताः
अन्येऽपि बहवो मुक्ताः पापादज्ञानसम्भवात् १३२
परदार परद्रव्य जीवहिंसादिके यदा
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा १३३
विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः
नमामि विष्णुं चित्तस्थमहङ्कारगतं हरिम् १३४
चित्तस्थमीशमव्यक्तमनन्तमपराजितम्
विष्णुमीड्यमशेषाणामनादिनिधनं विभुम् १३५
विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत्
यच्चाहङ्कारको विष्णुर्यो विष्णुर्मयि संस्थितः १३६
करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च
तत्पापं नाशमायाति तस्मिन्नेव हि चिन्तिते १३७
ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात्
तमुपेन्द्रम्महं विष्णुं प्रणमामि नतिप्रियम् १३८
जगत्यस्मिन्निरालम्बे मधुसूदनमच्युतम्
हस्तावलम्बनं स्तोत्रं विष्णुं वन्दे परात्परम् १३९
सर्वेश्वरेश्वरविभो परमात्मन्नधोक्षज
हृषीकेश हृषीकेश हृषीकेश नमोस्तु ते १४०
नृसिंहानन्त गोविन्द भूतभावन केशव
दुरुक्तं दुष्कृतं ध्यातं शम पापं नमोस्तु ते १४१
यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना
अकार्य्यमघमत्युग्रं तच्छमं नय केशव १४२
ब्रह्मण्यदेव गोविन्द परमार्थपरायण
जगन्नाथ जगद्धातः पापं शमय मेऽच्युत १४३
यच्चापराह्णे सायाह्ने मध्याह्ने च तथा निशि
कायेन मनसा वाचा कृतं पापमजानता १४४
जानता च हृषीकेश पुण्डरीकाक्ष माधव
नामत्रयोच्चारणतः सर्वे यान्तु मम क्षयम् १४५
शारीरं मे हृषीकेश पुण्डरीकाक्ष मानसम्
पापं प्रशममायातु वाक्कृतं मम माधव १४६
यद्भुञ्जानः पिबंस्तिष्ठन्स्वपञ्जाग्रद्यदास्थितः
अकार्षं पापमर्थार्थं कायेन मनसा गिरा १४७
महदल्पमपि प्रायो दुर्योनि नरकावहम्
तत्पापं प्रशमं यातु वासुदेवस्य कीर्तनात् १४८
परं ब्रह्म परं धाम पवित्रं परमं च यत्
तस्मिन्प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु १४९
यत्प्राप्य न निवर्त्तन्ते गन्धस्पर्शादिवर्जिताः
सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वयम् १५०
पापप्रशमनं स्तोत्रं यः पठेच्छृणुयान्नरः
शारीरैर्मानसैर्वाग्जैः कृतैः पापैः स मुच्यते १५१
मुक्तः पापग्रहादिभ्यो याति विष्णोः परं पदम्
तस्मात्पापे कृतं जप्यं स्तोत्रं सर्वाघमर्दनम् १५२
प्रायश्चित्तमघौघानां पठितव्यं नरोत्तमैः
प्रायश्चित्तैः स्तोत्रवरैर्व्रतैर्नश्यति पातकम् १५३
ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये
पूर्वजन्मार्जितं पापमैहिकं च नरेश्वर १५४
स्तवस्य श्रवणादस्य सद्य एव विलीयते
पापद्रुमकुठारोऽयं पापेन्धनदवानलः १५५
पापराशितमः स्तोम भानुरेष स्तवो नृप
मया प्रकाशितस्तुभ्यं तथा लोकानुकम्पया १५६
स्तवो योऽयं मया प्राप्तो रहस्यं पितुरादरात्
इतिहासमिमं पुण्यं यः शृणोति नराधिप १५७
तस्यापि पुण्यमाहात्म्यं वक्तुं शक्तः स्वयं हरिः
स्वस्ति तेस्तु महाराज गङ्गायामथ सत्वरम् १५८
स्नातुं यामि समायातो मासोऽयं माधवो महान् १५९
इति श्रीपद्मपुराणे पातालखण्डे नारदाम्बरीषसंवादे वैशाखमाहात्म्ये प्रेतो -
पाख्याने पापप्रशमनन्नाम चतुर्नवतितमोऽध्यायः ९४