सूत उवाच-
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः
प्रणम्य विस्मितः प्राहचिन्तयन्मनसा हरिम् ॥ १ ॥
मूलम्
इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः
प्रणम्य विस्मितः प्राहचिन्तयन्मनसा हरिम् ॥ १ ॥
विश्वास-प्रस्तुतिः
अम्बरीष उवाच-
कथमेतद्विमुह्यामः स्वल्पायासेन यन्मुने
शूद्रः पापसमाचारो लेभे ब्राह्मण्यमुत्तमम् ॥ २ ॥
मूलम्
अम्बरीष उवाच-
कथमेतद्विमुह्यामः स्वल्पायासेन यन्मुने
शूद्रः पापसमाचारो लेभे ब्राह्मण्यमुत्तमम् ॥ २ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण्यं दुर्ल्लभं तात सुकृतैर्विविधैरपि
कथं माधवमासस्य स्नानेनैवाप सोऽधमः ॥ ३ ॥
मूलम्
ब्राह्मण्यं दुर्ल्लभं तात सुकृतैर्विविधैरपि
कथं माधवमासस्य स्नानेनैवाप सोऽधमः ॥ ३ ॥
विश्वास-प्रस्तुतिः
न यज्ञदानैर्न तपोभिरुग्रैर्न पुण्यसञ्ज्ञैरपरैरपीश
अस्मादृशो भूपतयोऽर्थवन्तो न ते लभन्तेऽवनिदैवतत्वम् ॥ ४ ॥
मूलम्
न यज्ञदानैर्न तपोभिरुग्रैर्न पुण्यसञ्ज्ञैरपरैरपीश
अस्मादृशो भूपतयोऽर्थवन्तो न ते लभन्तेऽवनिदैवतत्वम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
स गाधिसूनुर्विविधं तपोऽपि चिरंविधायानिशमेव घोरम्
कृच्छ्रेण लेभे शतवर्षपूर्णैरहो कथञ्चिद्बहुभिः प्रयत्नैः ॥ ५ ॥
मूलम्
स गाधिसूनुर्विविधं तपोऽपि चिरंविधायानिशमेव घोरम्
कृच्छ्रेण लेभे शतवर्षपूर्णैरहो कथञ्चिद्बहुभिः प्रयत्नैः ॥ ५ ॥
विश्वास-प्रस्तुतिः
कथं स वर्णाधम एष पापः स्वधर्महीनो धनवान दाता
पुण्यादनायासकृतादमुष्मादल्पादिहावाप स रामतत्त्वम् ॥ ६ ॥
मूलम्
कथं स वर्णाधम एष पापः स्वधर्महीनो धनवान दाता
पुण्यादनायासकृतादमुष्मादल्पादिहावाप स रामतत्त्वम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
सत्यमुक्तं त्वया राजन्ब्राह्मण्यमतिदुर्ल्लभम्
तथापि गतयः सूक्ष्मा दुर्ज्ञेया धर्मतत्त्वतः ॥ ७ ॥
मूलम्
नारद उवाच-
सत्यमुक्तं त्वया राजन्ब्राह्मण्यमतिदुर्ल्लभम्
तथापि गतयः सूक्ष्मा दुर्ज्ञेया धर्मतत्त्वतः ॥ ७ ॥
विश्वास-प्रस्तुतिः
विचित्राणि च कर्माणि विचित्रा भूतभावना
विचित्राणि च भूतानि विचित्राः कर्मशक्तयः ॥ ८ ॥
मूलम्
विचित्राणि च कर्माणि विचित्रा भूतभावना
विचित्राणि च भूतानि विचित्राः कर्मशक्तयः ॥ ८ ॥
विश्वास-प्रस्तुतिः
कदाचित्सुकृतं कर्म कूटस्थं यदवापि तम्
केनचित्कर्मणा भूप शुभेन परिवर्धते ॥ ९ ॥
मूलम्
कदाचित्सुकृतं कर्म कूटस्थं यदवापि तम्
केनचित्कर्मणा भूप शुभेन परिवर्धते ॥ ९ ॥
विश्वास-प्रस्तुतिः
फलं ददाति सुमहत्तस्मिन्नपि च जन्मनि
धर्मो गहनसूक्ष्मोऽयं नीयते न यथा तथा ॥ १० ॥
मूलम्
फलं ददाति सुमहत्तस्मिन्नपि च जन्मनि
धर्मो गहनसूक्ष्मोऽयं नीयते न यथा तथा ॥ १० ॥
विश्वास-प्रस्तुतिः
न तस्य फलदानस्य श्रूयते कालनिश्चयः
यत्किञ्चित्सुकृतं कर्मच्छन्नं पापान्तरैरपि ॥ ११ ॥
मूलम्
न तस्य फलदानस्य श्रूयते कालनिश्चयः
यत्किञ्चित्सुकृतं कर्मच्छन्नं पापान्तरैरपि ॥ ११ ॥
विश्वास-प्रस्तुतिः
तदागत्य कुतः क्वापि सुफलं च प्रयच्छति
कृतस्य नेह नाशोस्ति पुण्यस्य दुरितस्य च ॥ १२ ॥
मूलम्
तदागत्य कुतः क्वापि सुफलं च प्रयच्छति
कृतस्य नेह नाशोस्ति पुण्यस्य दुरितस्य च ॥ १२ ॥
विश्वास-प्रस्तुतिः
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम्
यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् ॥ १३ ॥
मूलम्
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम्
यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तत्फलं तत्र तत्रापि शृणु सत्यं मयोदितम्
अनायासमहायासौ यद्यल्पत्व महत्त्वयोः ॥ १४ ॥
मूलम्
तत्फलं तत्र तत्रापि शृणु सत्यं मयोदितम्
अनायासमहायासौ यद्यल्पत्व महत्त्वयोः ॥ १४ ॥
विश्वास-प्रस्तुतिः
महाव्रतास्ततस्ते स्युः सततं कर्मकादयः
सिंहव्याघ्रादिमूत्रादौ प्रयासा बहुलास्ततः ॥ १५ ॥
मूलम्
महाव्रतास्ततस्ते स्युः सततं कर्मकादयः
सिंहव्याघ्रादिमूत्रादौ प्रयासा बहुलास्ततः ॥ १५ ॥
विश्वास-प्रस्तुतिः
पञ्चगव्यप्रशस्तत्वं व्रतमध्ये ततो भवेत्
इति कर्तव्यबाहुल्यं महत्त्वं चेत्तदल्पता ॥ १६ ॥
मूलम्
पञ्चगव्यप्रशस्तत्वं व्रतमध्ये ततो भवेत्
इति कर्तव्यबाहुल्यं महत्त्वं चेत्तदल्पता ॥ १६ ॥
विश्वास-प्रस्तुतिः
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतान्तरात्
इदमल्पं महत्त्वं तदिति नैव नियामकः ॥ १७ ॥
मूलम्
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतान्तरात्
इदमल्पं महत्त्वं तदिति नैव नियामकः ॥ १७ ॥
विश्वास-प्रस्तुतिः
फलं यथोदितं शास्त्रे तदेव स्यान्महोदयम्
यथाल्पनाशो महता महन्नाशस्तथाल्पतः ॥ १८ ॥
मूलम्
फलं यथोदितं शास्त्रे तदेव स्यान्महोदयम्
यथाल्पनाशो महता महन्नाशस्तथाल्पतः ॥ १८ ॥
विश्वास-प्रस्तुतिः
किन्त्वल्पविस्फुलिङ्गेन तृणनाशः प्रदृश्यते
अजामिलोऽपि भूपाल दास्याः पतिरिति स्मृतः ॥ १९ ॥
मूलम्
किन्त्वल्पविस्फुलिङ्गेन तृणनाशः प्रदृश्यते
अजामिलोऽपि भूपाल दास्याः पतिरिति स्मृतः ॥ १९ ॥
विश्वास-प्रस्तुतिः
धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः
म्रियमाणः सुताह्वानं चक्रे नारायणेति च ॥ २० ॥
मूलम्
धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः
म्रियमाणः सुताह्वानं चक्रे नारायणेति च ॥ २० ॥
विश्वास-प्रस्तुतिः
तथा यन्नामग्रहणात्पदं लेभे सुदुर्ल्लभम्
अनिच्छयापि दहति स्पृष्टो हुतवहो यथा ॥ २१ ॥
मूलम्
तथा यन्नामग्रहणात्पदं लेभे सुदुर्ल्लभम्
अनिच्छयापि दहति स्पृष्टो हुतवहो यथा ॥ २१ ॥
विश्वास-प्रस्तुतिः
तथा दहति गोविन्दनामव्याजादपीरितम् ॥ २२ ॥
मूलम्
तथा दहति गोविन्दनामव्याजादपीरितम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
हत्यायुतं शपनहा सहस्रमुग्रं गुर्वङ्गनाकोटिनिषेवणं च
स्तेयान्यशेषाणि हरेः प्रियेण गोविन्दनाम्ना निहतानि सद्यः ॥ २३ ॥
मूलम्
हत्यायुतं शपनहा सहस्रमुग्रं गुर्वङ्गनाकोटिनिषेवणं च
स्तेयान्यशेषाणि हरेः प्रियेण गोविन्दनाम्ना निहतानि सद्यः ॥ २३ ॥
विश्वास-प्रस्तुतिः
विष्णुभक्तिमयं वीर यत्किञ्चित्क्रियतेऽल्पकम्
सुकृतं साधु विदुषा तदक्षयफलं भवेत् ॥ २४ ॥
मूलम्
विष्णुभक्तिमयं वीर यत्किञ्चित्क्रियतेऽल्पकम्
सुकृतं साधु विदुषा तदक्षयफलं भवेत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
सन्देहो न च कर्तव्यो माधवे मासि माधवम्
समाराध्य जनो भक्त्या तत्तद्वाञ्छितमाप्नुयात् ॥ २५ ॥
मूलम्
सन्देहो न च कर्तव्यो माधवे मासि माधवम्
समाराध्य जनो भक्त्या तत्तद्वाञ्छितमाप्नुयात् ॥ २५ ॥
विश्वास-प्रस्तुतिः
अपत्यं द्रविणं दारा धरा हर्म्यं हया गजाः
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥ २६ ॥
मूलम्
अपत्यं द्रविणं दारा धरा हर्म्यं हया गजाः
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥ २६ ॥
विश्वास-प्रस्तुतिः
एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः
पापस्य महतोऽपि स्यात्क्षयः सम्यग्विधानतः ॥ २७ ॥
मूलम्
एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः
पापस्य महतोऽपि स्यात्क्षयः सम्यग्विधानतः ॥ २७ ॥
विश्वास-प्रस्तुतिः
फलाधिक्यं भवेद्विद्वन्नाधिक्याद्भावकर्मणोः
सूक्ष्मा धर्मस्य गतयो दुर्ज्ञेया विबुधैरपि ॥ २८ ॥
मूलम्
फलाधिक्यं भवेद्विद्वन्नाधिक्याद्भावकर्मणोः
सूक्ष्मा धर्मस्य गतयो दुर्ज्ञेया विबुधैरपि ॥ २८ ॥
विश्वास-प्रस्तुतिः
प्रियो माधवमासोऽयं माधवस्य महात्मनः
एकोऽपि त्रिषु लोकेषु समग्रेप्सितदायकः ॥ २९ ॥
मूलम्
प्रियो माधवमासोऽयं माधवस्य महात्मनः
एकोऽपि त्रिषु लोकेषु समग्रेप्सितदायकः ॥ २९ ॥
विश्वास-प्रस्तुतिः
पुण्येन गाङ्गेन जलेन काले देशे बुधः स्नानपरः कथञ्चित्
आजन्मनो भावहतोऽपि दाता न शुध्यतीत्येव मतं ममैतत् ॥ ३० ॥
मूलम्
पुण्येन गाङ्गेन जलेन काले देशे बुधः स्नानपरः कथञ्चित्
आजन्मनो भावहतोऽपि दाता न शुध्यतीत्येव मतं ममैतत् ॥ ३० ॥
विश्वास-प्रस्तुतिः
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले
प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ॥ ३१ ॥
मूलम्
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले
प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
गङ्गादितीर्थेषु वसन्ति देवा देवालये यक्षगणाश्च नित्यम्
विनाशनं यान्ति कृतोपवासा भावोज्झितास्तेन फलं लभन्ते ॥ ३२ ॥
मूलम्
गङ्गादितीर्थेषु वसन्ति देवा देवालये यक्षगणाश्च नित्यम्
विनाशनं यान्ति कृतोपवासा भावोज्झितास्तेन फलं लभन्ते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या
यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ॥ ३३ ॥
मूलम्
भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या
यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
इहार्थेऽपि पुरावृत्तमाकर्णय महीपते
विचित्रं कथयिष्यामि फलं किमपि कर्मणाम् ॥ ३४ ॥
मूलम्
इहार्थेऽपि पुरावृत्तमाकर्णय महीपते
विचित्रं कथयिष्यामि फलं किमपि कर्मणाम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तस्य माधवमासस्य प्रसादान्माधवस्य च
यथापि ब्राह्मणी काचित्स्वैरिण्याप शुभं फलम् ॥ ३५ ॥
मूलम्
तस्य माधवमासस्य प्रसादान्माधवस्य च
यथापि ब्राह्मणी काचित्स्वैरिण्याप शुभं फलम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
दिवोदासेति विख्यातः पुरा कान्तीश्वरोऽभवत्
तस्यापत्यं महारत्नं नारीणामुत्तमं सदा ॥ ३६ ॥
मूलम्
दिवोदासेति विख्यातः पुरा कान्तीश्वरोऽभवत्
तस्यापत्यं महारत्नं नारीणामुत्तमं सदा ॥ ३६ ॥
विश्वास-प्रस्तुतिः
गुणरूपसमायुक्ता सुशीला चारुमङ्गला
दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ३७ (द्र. पद्मपुराण भूमिखण्ड, अध्यायः ८५.५४)
पित्रा त्वालोकिता सा तु रूपलावण्यसंयुता
स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा ॥ ३८ ॥

कस्मै च दीयते कन्या सुवराय महात्मने
इति चिन्तापरो भूत्वा समालोक्य नरोत्तमः ॥ ३९ ॥
मूलम्
कस्मै च दीयते कन्या सुवराय महात्मने
इति चिन्तापरो भूत्वा समालोक्य नरोत्तमः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
रूपदेशस्य राजानं सम्यग्ज्ञात्वा महीपतिः
चित्रसेनं महात्मानं समाहूय ततो नृपः ॥ ४० ॥
मूलम्
रूपदेशस्य राजानं सम्यग्ज्ञात्वा महीपतिः
चित्रसेनं महात्मानं समाहूय ततो नृपः ॥ ४० ॥
विश्वास-प्रस्तुतिः
कन्यां ददौ दिवोदासश्चित्रसेनाय धीमते
तस्या विवाहकालस्य सम्प्राप्ते समये नृप ॥ ४१ ॥
मूलम्
कन्यां ददौ दिवोदासश्चित्रसेनाय धीमते
तस्या विवाहकालस्य सम्प्राप्ते समये नृप ॥ ४१ ॥
विश्वास-प्रस्तुतिः
मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल
दिवोदासश्च धर्मात्मा चिन्तयामास भूपतिः ॥ ४२ ॥
मूलम्
मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल
दिवोदासश्च धर्मात्मा चिन्तयामास भूपतिः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणांश्च समाहूय पप्रच्छ नृपनन्दन
अस्या विवाहकाले तु चित्रसेनो दिवं गतः ॥ ४३ ॥
मूलम्
ब्राह्मणांश्च समाहूय पप्रच्छ नृपनन्दन
अस्या विवाहकाले तु चित्रसेनो दिवं गतः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अस्यास्तु कीदृशं कर्म भविष्यति ब्रुवन्तु मे
ब्राह्मण उवाच-
विवाहो जायते राजन्कन्यायास्तु विधानतः ॥ ४४ ॥
मूलम्
अस्यास्तु कीदृशं कर्म भविष्यति ब्रुवन्तु मे
ब्राह्मण उवाच-
विवाहो जायते राजन्कन्यायास्तु विधानतः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
पतिर्मृत्युं प्रयात्येव यो वा त्यागं करोति च
महाधिव्याधिना भीतस्त्यागं कृत्वा प्रयाति च ॥ ४५ ॥
मूलम्
पतिर्मृत्युं प्रयात्येव यो वा त्यागं करोति च
महाधिव्याधिना भीतस्त्यागं कृत्वा प्रयाति च ॥ ४५ ॥
विश्वास-प्रस्तुतिः
प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते
तस्यां रजस्वलायां च अन्यः पतिर्विधीयते ॥ ४६ ॥
मूलम्
प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते
तस्यां रजस्वलायां च अन्यः पतिर्विधीयते ॥ ४६ ॥
विश्वास-प्रस्तुतिः
विवाहं तु प्रधानेन पिता कुर्यान्न संशयः
एवं राजन्समादिष्टं धर्मशास्त्रे शुभैर्जनैः ॥ ४७ ॥
मूलम्
विवाहं तु प्रधानेन पिता कुर्यान्न संशयः
एवं राजन्समादिष्टं धर्मशास्त्रे शुभैर्जनैः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः
दिवोदासश्च धर्मात्मा ब्राह्मणैस्तु प्रणोदितः ॥ ४८ ॥
मूलम्
विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः
दिवोदासश्च धर्मात्मा ब्राह्मणैस्तु प्रणोदितः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
विवाहार्थं महाराज मानसं कृतवान्नृप
पुनर्दत्ता प्रदानेन दिव्यादेवी नृपोत्तम ॥ ४९ ॥
मूलम्
विवाहार्थं महाराज मानसं कृतवान्नृप
पुनर्दत्ता प्रदानेन दिव्यादेवी नृपोत्तम ॥ ४९ ॥
विश्वास-प्रस्तुतिः
पुष्पसेनाय पुण्याय तस्मै राज्ञे महात्मने
मृत्युधर्मं गतो राजा विवाहसमयेऽपि सः ॥ ५० ॥
मूलम्
पुष्पसेनाय पुण्याय तस्मै राज्ञे महात्मने
मृत्युधर्मं गतो राजा विवाहसमयेऽपि सः ॥ ५० ॥
विश्वास-प्रस्तुतिः
यदा यदा महाभागो दिव्यादेव्याश्च भूपतिः
करोति स पितोद्योगं विवाहस्यातिदुःखितः ॥ ५१ ॥
मूलम्
यदा यदा महाभागो दिव्यादेव्याश्च भूपतिः
करोति स पितोद्योगं विवाहस्यातिदुःखितः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
भर्तापि म्रियते काले प्राप्तलग्नस्तदा तदा
एकविंशतिभर्तारः कालेकाले मृतास्ततः ॥ ५२ ॥
मूलम्
भर्तापि म्रियते काले प्राप्तलग्नस्तदा तदा
एकविंशतिभर्तारः कालेकाले मृतास्ततः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
ततो राजा महादुःखी सञ्जातः ख्यातविक्रमः
समालोक्य तमाहूय मन्त्रिभिः सह निश्चलः ॥ ५३ ॥
मूलम्
ततो राजा महादुःखी सञ्जातः ख्यातविक्रमः
समालोक्य तमाहूय मन्त्रिभिः सह निश्चलः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः
अथ तेन समाहूता राजानो विविधा नृपाः ॥ ५४ ॥
मूलम्
स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः
अथ तेन समाहूता राजानो विविधा नृपाः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
स्वयंवरार्थं वै तस्या बहवो धर्मतत्पराः
तस्यास्तु रूपसङ्क्षुब्धा मृत्युना प्रेषिता नृपाः ॥ ५५ ॥
मूलम्
स्वयंवरार्थं वै तस्या बहवो धर्मतत्पराः
तस्यास्तु रूपसङ्क्षुब्धा मृत्युना प्रेषिता नृपाः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सङ्ग्रामं चक्रिरे मूढा मृतास्तेऽथ परस्परम्
एवं तेषां क्षयो जातः क्षत्त्रियाणां नरेश्वर ॥ ५६ ॥
मूलम्
सङ्ग्रामं चक्रिरे मूढा मृतास्तेऽथ परस्परम्
एवं तेषां क्षयो जातः क्षत्त्रियाणां नरेश्वर ॥ ५६ ॥
विश्वास-प्रस्तुतिः
दिव्यादेवी च दुःखार्ता रुरोद करुणं ततः
बालामालोक्य तां राजा रुदन्तीं चातिदुःखिताम् ॥ ५७ ॥
मूलम्
दिव्यादेवी च दुःखार्ता रुरोद करुणं ततः
बालामालोक्य तां राजा रुदन्तीं चातिदुःखिताम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पुरोधसं च धर्मज्ञं ज्ञानवन्तं तपस्विनम्
जातूकर्णं प्रणम्यादौ विनयान्वितकन्धरः ॥ ५८ ॥
मूलम्
पुरोधसं च धर्मज्ञं ज्ञानवन्तं तपस्विनम्
जातूकर्णं प्रणम्यादौ विनयान्वितकन्धरः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
दिवोदास उवाच-
कथयस्व प्रसादेन किमेतस्याहि पातकम्
दिव्यादेव्यास्तु मे पुत्र्या यदेतच्चेष्टितं कृतम् ॥ ५९ ॥
मूलम्
दिवोदास उवाच-
कथयस्व प्रसादेन किमेतस्याहि पातकम्
दिव्यादेव्यास्तु मे पुत्र्या यदेतच्चेष्टितं कृतम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
जातूकर्ण उवाच-
तस्यास्तु चेष्टितं वीर दिव्यादेव्या वदाम्यहम्
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥ ६० ॥
मूलम्
जातूकर्ण उवाच-
तस्यास्तु चेष्टितं वीर दिव्यादेव्या वदाम्यहम्
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥ ६० ॥
विश्वास-प्रस्तुतिः
आस्ते वाराणसी पुण्या नगरी पापनाशिनी
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥ ६१ ॥
मूलम्
आस्ते वाराणसी पुण्या नगरी पापनाशिनी
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः
तस्य भार्या महाप्राज्ञ चित्रानाम सुविस्मृता ॥ ६२ ॥
मूलम्
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः
तस्य भार्या महाप्राज्ञ चित्रानाम सुविस्मृता ॥ ६२ ॥
विश्वास-प्रस्तुतिः
कुलाचारं परित्यज्य दुराचारेण वर्तते
न मन्यते हि भर्तारं रौद्रकृत्ये च वर्तते ॥ ६३ ॥
मूलम्
कुलाचारं परित्यज्य दुराचारेण वर्तते
न मन्यते हि भर्तारं रौद्रकृत्ये च वर्तते ॥ ६३ ॥
विश्वास-प्रस्तुतिः
पुण्यकार्यविहीना तु पापं चरति दुर्मतिः
भर्तारं भर्त्सते नित्यं स्वैरिणी कलहप्रिया ॥ ६४ ॥
मूलम्
पुण्यकार्यविहीना तु पापं चरति दुर्मतिः
भर्तारं भर्त्सते नित्यं स्वैरिणी कलहप्रिया ॥ ६४ ॥
विश्वास-प्रस्तुतिः
नित्यं परगृहे वास निरता भ्रमतेऽधिकम्
परच्छिद्रं समापश्येद्दुष्टाभूतेषु सर्वदा ॥ ६५ ॥
मूलम्
नित्यं परगृहे वास निरता भ्रमतेऽधिकम्
परच्छिद्रं समापश्येद्दुष्टाभूतेषु सर्वदा ॥ ६५ ॥
विश्वास-प्रस्तुतिः
साधुनिन्दारता पापा बहुहास्यकरी सदा
कुसङ्गतिरता वाचा दुराचारजनप्रिया ॥ ६६ ॥
मूलम्
साधुनिन्दारता पापा बहुहास्यकरी सदा
कुसङ्गतिरता वाचा दुराचारजनप्रिया ॥ ६६ ॥
विश्वास-प्रस्तुतिः
धूर्ताधर्मजनद्वेषकरी चानृतभाषिणी
विज्ञायैवं सुवीरोऽस्या उपयेमे ततोऽपराम् ॥ ६७ ॥
मूलम्
धूर्ताधर्मजनद्वेषकरी चानृतभाषिणी
विज्ञायैवं सुवीरोऽस्या उपयेमे ततोऽपराम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तया नवीनया वीरो भार्यया सहितोऽनिशम्
यथासुखं स बुभुजे विषयान्मनसः प्रियान् ॥ ६८ ॥
मूलम्
तया नवीनया वीरो भार्यया सहितोऽनिशम्
यथासुखं स बुभुजे विषयान्मनसः प्रियान् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
धर्माचारेण पुण्यात्मा सत्यपुण्यमतिः सदा
सत्ययामितया सत्या सुमत्याराधितो बभौ ॥ ६९ ॥
मूलम्
धर्माचारेण पुण्यात्मा सत्यपुण्यमतिः सदा
सत्ययामितया सत्या सुमत्याराधितो बभौ ॥ ६९ ॥
विश्वास-प्रस्तुतिः
निरस्ता तेन सा चित्रा विचित्रा वरवर्णिनी
स्वैरिणी गुणसंसर्गधर्मविद्वेषिणी ततः ॥ ७० ॥
मूलम्
निरस्ता तेन सा चित्रा विचित्रा वरवर्णिनी
स्वैरिणी गुणसंसर्गधर्मविद्वेषिणी ततः ॥ ७० ॥
विश्वास-प्रस्तुतिः
भ्रमते जारसंयुक्ता मुक्ताचारा गतत्रपा
सा पापरतसंयुक्ता रक्ता दूती विकर्मणि ॥ ७१ ॥
मूलम्
भ्रमते जारसंयुक्ता मुक्ताचारा गतत्रपा
सा पापरतसंयुक्ता रक्ता दूती विकर्मणि ॥ ७१ ॥
विश्वास-प्रस्तुतिः
कुशला कुट्टिनीकर्म कलासु त्वन्ययोषिताम्
गृहभङ्गमसौ चक्रे वक्रेण मनसा हिता ॥ ७२ ॥
मूलम्
कुशला कुट्टिनीकर्म कलासु त्वन्ययोषिताम्
गृहभङ्गमसौ चक्रे वक्रेण मनसा हिता ॥ ७२ ॥
विश्वास-प्रस्तुतिः
साध्वीं नारीं समाहूय पापवाक्यैश्च नोदयेत्
नर्मलोभकथाकेलि प्रत्ययोत्पत्तिहेतुभिः ॥ ७३ ॥
मूलम्
साध्वीं नारीं समाहूय पापवाक्यैश्च नोदयेत्
नर्मलोभकथाकेलि प्रत्ययोत्पत्तिहेतुभिः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
मनांसि चालयेत्पापा पुरुषाणां च योषिताम्
साधूनां सा स्त्रियो भव्याः परेभ्यः प्रतिपादयेत् ॥ ७४ ॥
मूलम्
मनांसि चालयेत्पापा पुरुषाणां च योषिताम्
साधूनां सा स्त्रियो भव्याः परेभ्यः प्रतिपादयेत् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
कारयत्येव कपटं धर्मग्रामविवर्जनम्
एवं वर्षशतं भुक्त्वा पश्चाद्वेश्याविधिस्थिता ॥ ७५ ॥
मूलम्
कारयत्येव कपटं धर्मग्रामविवर्जनम्
एवं वर्षशतं भुक्त्वा पश्चाद्वेश्याविधिस्थिता ॥ ७५ ॥
विश्वास-प्रस्तुतिः
कालेन निधनं प्राप्ता सततं पापनिश्चया
जाता तव गृहे पुत्री दिव्यादेवीति सा सुता ॥ ७६ ॥
मूलम्
कालेन निधनं प्राप्ता सततं पापनिश्चया
जाता तव गृहे पुत्री दिव्यादेवीति सा सुता ॥ ७६ ॥
विश्वास-प्रस्तुतिः
सुन्दरी रूपसम्पन्ना पुरा दृष्टेन नोदिता
नारद उवाच-
इति तस्य वचः श्रुत्वा दिवोदासोऽतिविस्मितः
उवाच राजा मधुरं जातूकर्णं मुनिं वचः ॥ ७७ ॥
मूलम्
सुन्दरी रूपसम्पन्ना पुरा दृष्टेन नोदिता
नारद उवाच-
इति तस्य वचः श्रुत्वा दिवोदासोऽतिविस्मितः
उवाच राजा मधुरं जातूकर्णं मुनिं वचः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
दिवोदास उवाच-
यदीदृशी सा दुरितप्रचारा सदा दुराचाररता प्रयाता
कथं ममश्रीपतिदैवतस्य महाकुलीनस्य सुतानुरूपा ॥ ७८ ॥
मूलम्
दिवोदास उवाच-
यदीदृशी सा दुरितप्रचारा सदा दुराचाररता प्रयाता
कथं ममश्रीपतिदैवतस्य महाकुलीनस्य सुतानुरूपा ॥ ७८ ॥
विश्वास-प्रस्तुतिः
सुदुर्ल्लभं राजकुले विशाले लेभे च सा श्रीमतिजन्मधन्यम्
पुण्येन केनापि मुने पवित्रे चित्रा विचित्रेण च कर्मकर्त्री ॥ ७९ ॥
मूलम्
सुदुर्ल्लभं राजकुले विशाले लेभे च सा श्रीमतिजन्मधन्यम्
पुण्येन केनापि मुने पवित्रे चित्रा विचित्रेण च कर्मकर्त्री ॥ ७९ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
इति तस्य वचः श्रुत्वा भूमिपस्य मुनिस्ततः
किञ्चिद्विहस्य तु प्राज्ञो वचः सूनृतमब्रवीत् ॥ ८० ॥
मूलम्
नारद उवाच-
इति तस्य वचः श्रुत्वा भूमिपस्य मुनिस्ततः
किञ्चिद्विहस्य तु प्राज्ञो वचः सूनृतमब्रवीत् ॥ ८० ॥
विश्वास-प्रस्तुतिः
जातूकर्ण उवाच-
चित्रा विचित्रसुरतैरथ वञ्चयन्ती प्रच्छन्नकामुकविटान्धनधीविहीनान्
वेश्या बभूव विषपानमितश्चरित्वा कालेन नागनगरे महति प्रसिद्धे ॥ ८१ ॥
मूलम्
जातूकर्ण उवाच-
चित्रा विचित्रसुरतैरथ वञ्चयन्ती प्रच्छन्नकामुकविटान्धनधीविहीनान्
वेश्या बभूव विषपानमितश्चरित्वा कालेन नागनगरे महति प्रसिद्धे ॥ ८१ ॥
विश्वास-प्रस्तुतिः
कोऽपि तत्र समायातः सायं विप्रः समार्दितः
अर्दमानो विशुद्धात्मा नगरे नागसञ्ज्ञके ॥ ८२ ॥
मूलम्
कोऽपि तत्र समायातः सायं विप्रः समार्दितः
अर्दमानो विशुद्धात्मा नगरे नागसञ्ज्ञके ॥ ८२ ॥
विश्वास-प्रस्तुतिः
अपश्यन्नपरं स्थानं मूढश्चित्रागृहं ययौ
तया सम्मोहितोऽत्यर्थं वेश्यया दृष्टियोगतः ॥ ८३ ॥
मूलम्
अपश्यन्नपरं स्थानं मूढश्चित्रागृहं ययौ
तया सम्मोहितोऽत्यर्थं वेश्यया दृष्टियोगतः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
पादसंवाहनस्नानताम्बूलासनभोजनैः
विलासैस्तोषितः सोऽपि खेदहीनोऽभवत्तदा ॥ ८४ ॥
मूलम्
पादसंवाहनस्नानताम्बूलासनभोजनैः
विलासैस्तोषितः सोऽपि खेदहीनोऽभवत्तदा ॥ ८४ ॥
विश्वास-प्रस्तुतिः
ततो विचित्रैः सुरतोपचारैरदृष्टबुद्ध्यैव तया स विप्रः
संसेवितोऽयं रजनीमशेषामवाहयद्भावविशेषलुब्धः ॥ ८५ ॥
मूलम्
ततो विचित्रैः सुरतोपचारैरदृष्टबुद्ध्यैव तया स विप्रः
संसेवितोऽयं रजनीमशेषामवाहयद्भावविशेषलुब्धः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
प्रातः प्रयाणाभिमुखः कथञ्चिदुवाच चित्रामनुरक्तचित्तः
सन्तोषितः स्वैश्चरितैः स्वकृत्यैर्वचस्तयाचैकधिया तदानीम् ॥ ८६ ॥
मूलम्
प्रातः प्रयाणाभिमुखः कथञ्चिदुवाच चित्रामनुरक्तचित्तः
सन्तोषितः स्वैश्चरितैः स्वकृत्यैर्वचस्तयाचैकधिया तदानीम् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच-
कार्यः प्रत्युपकारस्ते तोषितेन मया प्रिये
स्वदृढं च निजं दुःखं कथयाम्यविशेषतः ॥ ८७ ॥
मूलम्
ब्राह्मण उवाच-
कार्यः प्रत्युपकारस्ते तोषितेन मया प्रिये
स्वदृढं च निजं दुःखं कथयाम्यविशेषतः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
पुरा कथां हि वदतां विप्राणां नर्मदातटे
शुभं यत्सर्वपापघ्नं तदाकर्णय सादरम् ॥ ८८ ॥
मूलम्
पुरा कथां हि वदतां विप्राणां नर्मदातटे
शुभं यत्सर्वपापघ्नं तदाकर्णय सादरम् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
यो दिनत्रयमपि प्रयत्नतः स्नाति मेषउपयादि भास्करे
भास्करेऽनुदित एव माधवे मासि सोऽघनिचयैर्विमुच्यते ॥ ८९ ॥
मूलम्
यो दिनत्रयमपि प्रयत्नतः स्नाति मेषउपयादि भास्करे
भास्करेऽनुदित एव माधवे मासि सोऽघनिचयैर्विमुच्यते ॥ ८९ ॥
विश्वास-प्रस्तुतिः
सम्पूर्णमपि वैशाखे यो बहिः स्नानमाचरेत्
विधिना माधवं देवमर्चयेत्सोपि पापहा ॥ ९० ॥
मूलम्
सम्पूर्णमपि वैशाखे यो बहिः स्नानमाचरेत्
विधिना माधवं देवमर्चयेत्सोपि पापहा ॥ ९० ॥
विश्वास-प्रस्तुतिः
पुण्यतीर्थे विशेषेण स्नानदानक्रियादिभिः
महापापैर्विमुच्येत मानवो मासि माधवे ॥ ९१ ॥
मूलम्
पुण्यतीर्थे विशेषेण स्नानदानक्रियादिभिः
महापापैर्विमुच्येत मानवो मासि माधवे ॥ ९१ ॥
विश्वास-प्रस्तुतिः
तावन्महापापचयः शरीरे शरीरिणस्तिष्ठति निर्विशङ्कः
यावन्मुदा चोषसि मेषराशिमुपागते मज्जति नो दिनेशे ॥ ९२ ॥
मूलम्
तावन्महापापचयः शरीरे शरीरिणस्तिष्ठति निर्विशङ्कः
यावन्मुदा चोषसि मेषराशिमुपागते मज्जति नो दिनेशे ॥ ९२ ॥
विश्वास-प्रस्तुतिः
एवमाकर्णितस्तेषां विप्राणां वदतां मया
अनेकदुरिताम्भोधि तरणे पोत उत्तमः ॥ ९३ ॥
मूलम्
एवमाकर्णितस्तेषां विप्राणां वदतां मया
अनेकदुरिताम्भोधि तरणे पोत उत्तमः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
अदूरे शिवदेहा च वर्ततेऽसौ सरिद्वरा
तत्र स्नातुं गमिष्येऽहं तदाघौघवधाय च ॥ ९४ ॥
मूलम्
अदूरे शिवदेहा च वर्ततेऽसौ सरिद्वरा
तत्र स्नातुं गमिष्येऽहं तदाघौघवधाय च ॥ ९४ ॥
विश्वास-प्रस्तुतिः
यदि ते रोचते कान्ते विरक्तं वामनो भवेत्
तन्मया त्वं समागच्छ वैशाखस्नानहेतवे ॥ ९५ ॥
मूलम्
यदि ते रोचते कान्ते विरक्तं वामनो भवेत्
तन्मया त्वं समागच्छ वैशाखस्नानहेतवे ॥ ९५ ॥
विश्वास-प्रस्तुतिः
अनित्यं जीवितमिदं यौवनं चातिसुन्दरम्
हेतुर्नरकवासस्य दुर्वारश्च स नो भवेत् ॥ ९६ ॥
मूलम्
अनित्यं जीवितमिदं यौवनं चातिसुन्दरम्
हेतुर्नरकवासस्य दुर्वारश्च स नो भवेत् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
आराधितस्त्वयाहं च पातितो दुरितार्णवे
महतामपि यत्सत्यं दुष्टस्थितशरीरिणाम् ॥ ९७ ॥
मूलम्
आराधितस्त्वयाहं च पातितो दुरितार्णवे
महतामपि यत्सत्यं दुष्टस्थितशरीरिणाम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
किमत्र बहुनोक्तेन न विलम्बोचितः क्षणः
उद्धरिष्येऽपि भवतीं विरक्तिर्यदि ते हृदि ॥ ९८ ॥
मूलम्
किमत्र बहुनोक्तेन न विलम्बोचितः क्षणः
उद्धरिष्येऽपि भवतीं विरक्तिर्यदि ते हृदि ॥ ९८ ॥
विश्वास-प्रस्तुतिः
चित्रोवाच-
स्वामिन्न दृष्टयोगेन तव सङ्गतिधर्मतः
ध्रुवं विरक्तं मच्चेतो निन्द्यमेतद्भवं प्रति ॥ ९९ ॥
मूलम्
चित्रोवाच-
स्वामिन्न दृष्टयोगेन तव सङ्गतिधर्मतः
ध्रुवं विरक्तं मच्चेतो निन्द्यमेतद्भवं प्रति ॥ ९९ ॥
नूनमेवं मया शास्त्रे श्रुतं यत्साधुसङ्गमः
अचिन्त्यायै नमस्तस्यै ततो नियतायै पुनः १००
जातूकर्ण उवाच-
इति भाष्यततस्तेन समं चित्रा ययौ तदा
विद्यमानं धनं किञ्चिदादाय मुनिनोदिता १०१
ततः परं सोऽपि पुनर्द्विजन्मा वैशाखमासे शिवदेहदेहम्
अवाप सस्नौ च दिनेशमस्यै स्नानाय सद्योऽथ ददौ दयालुः १०२
हृदयालुरयं विप्रः स्नापयामास तां तदा
यथोचितविधानेन चित्रामुच्चित्रभाषिणीम् १०३
वैशाखस्नानमाहात्म्यं तत्र शुश्राव सा मुदा
पठमानेषु विप्रेषु पुराणानि पृथक्पृथक् १०४
यस्य श्रवणमात्रेण क्षीयते दुरितान्धकः
यथा सूर्योदये नैव तिमिरौघः प्रणश्यति १०५
सा शिवे शिवतनूजले पुनः स्नानतोऽजनिकरे विधानतः
स्नानतो विमलमानसोदया सूर्यकान्तिरिव निर्मला बभौ १०६
तत्र मज्जन्ति रेवायां सेवायां निरता हरेः
वैशाखे विविधा लोका लोकानन्त्यमभीप्सवः १०७
ये नर्मदायामिह शर्मदायामशुद्धकायानपि शोधयन्ति
विशेषतो माधवमासि मर्त्या भवन्ति मर्त्याधिपलोकलीलाः १०८
आजन्मनोऽघस्मरणेन रेवा निहन्ति दृष्टा दशजन्मजं पुनः
स्नाता कथं चिच्छतयोनिजातं संसेविता यच्छति रुद्रलोकम् १०९
सकलं माधवं मासं सा चित्रा नर्मदाजले
सस्नौ किञ्चिद्ददौ दानं शक्त्या विप्रेषु नित्यशः ११०
सर्वपापहरं स्तोत्रं शृणोति श्रद्धया हरेः
विप्राणां तत्र पठतां सङ्गादस्य द्विजन्मनः १११
निमज्ज्य सा माधवमासि पूर्णे रेवाजले तत्र महीसुरेभ्यः
अच्छिद्रमासाद्य यथाविधानं तत्रापि चित्रापि चकार मासम् ११२
कुटीरकं तं तु नवं विधाय सुदेवनामापि स भूमिदेवः
उवास रेवासलिले निमज्जंश्चित्रोपरोधादनिशं दयातः ११३
अथ कालेन कियता कालधर्ममुपेयिवान्
विप्रस्तदनु सा चित्रा चिरेणैव मृता नृप ११४
तेन माधवमासस्य सुकृतेन तदैव सा
पुत्री तवाभवन्नूनमदृष्ट्वा यमयातनाम् ११५
तस्य कर्मविपाकोऽयं यदाप्तं भूपतेः कुलम्
वैष्णवं विशदं वीर दुष्प्राप्यं पापकर्मभिः ११६
दिव्यादेवी वरं नाम जातं चास्यां नरोत्तम
यच्च दत्तवती चान्नं भोग्यसौख्यसुखानि च ११७
ब्राह्मणाय पुरा तस्मै गणिकात्वेऽपि सङ्गता
स्नात्वा च माधवे मासि किञ्चित्तत्रापि यद्ददौ ११८
तस्य दानस्य सा भुङ्क्ते स्नानस्य च फलोदयम्
पिबते शीतलं तोयं मिष्टान्नं च तथानिशम् ११९
दिव्यान्भोगान्प्रभुञ्जाना वर्तते च प्रभोर्गृहे
भुञ्जते विधिदत्तं च दुःखशोकादिपीडिता १२०
यत्पुरा नरनारीणां गृहभङ्गरताऽभवत्
तस्यकर्मविपाकोऽयमस्याः किञ्चिदुपस्थितः १२१
माधवस्नानमाहात्म्याद्विनैव यमयातनाम्
महापापापि ते वीर सुन्दरी सा सुताभवत् १२२
एतत्ते सर्वमाख्यातं तव पुत्र्या विचेष्टितम्
सर्वजन्मभवं वीर कर्म दुष्कर्मसम्भवम् १२३
इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये चित्रोपाख्याने
द्विनवतितमोऽध्यायः ९२