नारद उवाच-
विश्वास-प्रस्तुतिः
देवशर्मा महाप्राज्ञः समं सुमनसा तया
तीर्थे कनखले पुण्ये गङ्गायामतिविश्रुते ॥ १ ॥
मूलम्

वैशाखे विधिना स्नानं चक्रे मेषस्थिते रवौ
पूजयामास विधिवन्मधुसूदनमच्युतम् ॥ २ ॥

यमैः सनियमैर्युक्तः शक्त्या किञ्चिद्ददौ ततः
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रतस्थितः ॥ ३ ॥

कृच्छ्रादि तपसा क्षामो ध्यायन्नारायणं हृदि
तत्र प्राप्य स वैशाखीं दत्वा मधुतिलादिकम् ॥ ४ ॥

विप्रेभ्यो भोजनं दत्वा भक्त्या धेनुं सदक्षिणाम्
अच्छिद्रं प्रार्थयामास तत्र स्नानस्य भूसुरान् ॥ ५ ॥

सापि साध्वी च सुश्रोणी पतिभक्तिपरायणा
पतिं शुश्रूषते नित्यं स्नात्वा सम्पूज्य केशवम् ॥ ६ ॥

तौ दम्पती ततो यातौ स्वगेहं साधुहर्षितम्
कृतकृत्यावथात्मानौ मन्यमानावसंशयम् ॥ ७ ॥

तेन पुण्यप्रभावेण कालेन कियता किल
बभूवुरमितास्तस्य धनधान्यानि सम्पदः ॥ ८ ॥

तनया विनयोपेताश्चत्वारः श्रुतिकोविदाः
धर्मज्ञा वैष्णवा नित्यं पितृमातृपरायणाः ॥ ९ ॥

बभूवुरमितप्रज्ञाः पुरुषार्थाय बोधिताः
विख्याता विधितत्त्वज्ञा ब्रह्मज्ञा ब्रह्मतत्पराः ॥ १० ॥

समग्रगुणसम्पन्नाः सम्प्रतिष्ठन्ति कीर्तयः ॥ ११ ॥

तौ दम्पती सुतसमग्रसमृद्धसौख्यं पुण्योदयं समुपयुज्य ततश्चिरेण
स्थानं परं परममीयतुरस्य भक्त्या श्रीमाधवे च सुकृतस्य नृपप्रसादात् ॥ १२ ॥

यथैव माधवः साक्षाद्विद्यालक्ष्मी धवः स्मृतः
तथैव माधवो मासो मधुसूदनवल्लभः ॥ १३ ॥

इदं माधवमाहात्म्यं किञ्चित्सङ्क्षेपतोऽनघ
मया ते कथितं वीर यत्पुरा च पितुः श्रुतम् ॥ १४ ॥

इति श्रीपद्मपुराणे पातालखण्डे नारदाम्बरीषसंवादे वैशाखमासमाहात्म्ये
एकनवतितमोऽध्यायः ९१