०९०

देवशर्मोवाच-

विश्वास-प्रस्तुतिः

पूर्वजन्मकृतं पापं त्वयाख्यातं ममैव तत्
शूद्रत्वेन हि विप्रेन्द्र मयैवं धनमर्जितम् ॥ १ ॥

मूलम्

विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम
तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपण्डित ॥ २ ॥

दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता
मानुष्ये ब्राह्मणत्वं च सुतरां सत्कुलोदितम् ॥ ३ ॥

तत्रापीदृग्विधा भार्या सर्वज्ञा प्रियवादिनी
सती सर्वगुणोपेता दुर्लभा सा कुतोऽभवत् ॥ ४ ॥

वसिष्ठ उवाच-
यत्त्वया चेष्टितं पूर्वं धर्मकर्मकृतं द्विज
तदहं सम्प्रवक्ष्यामि श्रूयतां यदि मन्यसे ॥ ५ ॥

ब्राह्मणैकः सुधर्मात्मा सदाचारः सुपण्डितः
विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः ॥ ६ ॥

स्नानार्थमपि तीर्थानां भ्रमत्येकः स मेदिनीम्
अटमानः समायातस्तव गेहे महामतिः ॥ ७ ॥

तस्य दर्शनमात्रेण समुत्पन्न सुधीस्तव
यतो धर्मगते गेहे सतामागमनं भवेत् ॥ ८ ॥

मूलम्

तस्य दर्शनमात्रेण समुत्पन्न सुधीस्तव
यतो धर्मगते गेहे सतामागमनं भवेत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

किङ्किं न लभ्यते विप्र विप्रवैष्णवसेवया
दुर्ल्लभं यच्च लोके स्यान्मोक्षस्थानमपि स्थिरम् ॥ ९ ॥

याचितं स्थानमेकं वै वासार्थं तेन सत्तम
तवैव भार्यया दत्तं त्वया च सह पुत्रकैः ॥ १० ॥

एयतामेयतां ब्रह्मन्सुखेन च गृहे मम
वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः ॥ ११ ॥

सुखेन स्थीयतामत्र गृहोऽयं तव सुव्रत
अद्य धन्योऽस्म्यहं पुण्यो अद्य तीर्थमहं गतः ॥ १२ ॥

अद्यतीर्थफलं प्राप्तं मया ते विप्र दर्शनात्
गवां स्थानं परं पुण्यं वासस्थानं प्रदर्शितम् ॥ १३ ॥

अङ्गसंवाहनं सम्यक्पादौ चैव प्रमर्दितौ
क्षालितौ च पुनस्तोयैः स्नातः पादोदकेन हि ॥ १४ ॥

सद्यो घृतं दधिक्षीरमन्यमन्यं प्रदत्तवान्
ब्राह्मणाय तदा तस्मै त्वं तथाऽदृष्टनोदितः ॥ १५ ॥

एवं सन्तोषितो विप्रस्त्वयैव सह भार्यया
पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपण्डितः ॥ १६ ॥

अथ प्रभाते विमले स्नानार्थं मासि माधवे
गङ्गायां गच्छता तेन तुष्टेन दययाधिपम् ॥ १७ ॥

वैशाखस्नानमाहात्म्यमुपदिष्टं तवाग्रतः
कारितस्तु यथान्यायं सभार्या तनयो भवान् ॥ १८ ॥

यथा न वारिधि समो लोके कोपि जलाशयः
तथा मासो न वैशाखसदृशो माधवप्रियः ॥ १९ ॥

मूलम्

यथा न वारिधि समो लोके कोपि जलाशयः
तथा मासो न वैशाखसदृशो माधवप्रियः ॥ १९ ॥

विश्वास-प्रस्तुतिः

तावत्पापानि तिष्ठन्ति निष्प्रत्यूहं कलेवरे
यावत्किल मलध्वंसी मासो नैति स माधवः ॥ २० ॥

तस्य वाक्यं समाकर्ण्य वैशाखे सेवनं कृतम्
तुष्टेन मनसा विप्र पूजितो मधुसूदनः ॥ २१ ॥

अवशिष्टदिनान्येव पञ्चमासस्य तस्य वै
एकादशीं समारभ्य स्नानं च विधिवत्कृतम् ॥ २२ ॥

ब्राह्मणस्य प्रसङ्गेन रेवां चानुदिने त्वया
प्रातःस्नानं कृतं विप्र वैशाखे मासि तावता ॥ २३ ॥

पूजितो देवदेवेशो मधुहा परमेश्वरः
नैवाप्तः सकलो मासः स्नानार्थं तव पूर्वतः ॥ २४ ॥

एवं स्नानं त्वया चीर्णमपि पञ्चदिनात्मकम्
तेन पुण्येन सङ्गत्या ब्राह्मणस्य विशेषतः ॥ २५ ॥

गोविन्दस्य प्रसादेन त्वं तु ब्राह्मणतां गतः
त्वया तन्मासयोगेन प्राप्तमेतन्महत्कुलम् ॥ २६ ॥

दुर्ल्लभं भूमिदेवानां सत्यधर्मसमन्वितम्
भार्यापि सुसती प्राप्ता साध्वी सर्वगुणान्विता ॥ २७ ॥

च्यवनस्य गृहोत्पन्ना सर्वज्ञा ब्रह्मवादिनी
रूपमेव परं स्त्रीणां भूषणं च महामुने ॥ २८ ॥

शीलमेव द्वितीयं च तृतीयं सत्यमेव च
सदार्यत्वं चतुर्थं तु पञ्चमं पुण्यमुत्तमम् ॥ २९ ॥

मधुरत्वं तथा षष्ठं शुद्धत्वं सप्तमं महत्
बाह्यान्तः सततं स्त्रीणां सर्वाभरणसप्तमम् ॥ ३० ॥

अष्टमं तु पतौ भावः शुश्रूषा नवमं किल
सहिष्णुता च दशमं रतिरेकादशं तथा ॥ ३१ ॥

मूलम्

अष्टमं तु पतौ भावः शुश्रूषा नवमं किल
सहिष्णुता च दशमं रतिरेकादशं तथा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

पतिव्रतत्वं विप्रेन्द्र द्वादशं योषितां स्मृतम्
एतैः सम्भूषिता भार्या साध्वी ते ब्रह्मवादिनी ॥ ३२ ॥

वैशाखस्नानयोगेन लब्धा पुण्येन सादरम्
किङ्किं न दुर्ल्लभतरं प्राप्यते मासि माधवे ॥ ३३ ॥

स्नानेन परमेशस्य पूजनेन यथाविधि
अथ मोहप्रमुग्धोसि तृष्णया व्यापितं मनः ॥ ३४ ॥

पूर्वजन्मनि ते विप्र द्रव्यमेव प्रसञ्चितम्
न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया ॥ ३५ ॥

न बन्धुवर्गो नो पुत्रदारेषु च कथञ्चन
म्रियमाणेन भवता लोभ एव हि चिन्तितः ॥ ३६ ॥

न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम्
न हि नारायणो देवो ध्यानेनाखिल पापहा ॥ ३७ ॥

द्रव्येषु विद्यमानेषु कृपणो जायते नरः
अदत्वा म्रियते यस्तु ततो दुःखतरं नुकिम् ॥ ३८ ॥

तीर्थस्नानादि तपसा कुले जन्मैव लभ्यते
नो दत्तेन विना विप्र किञ्चिदेवोपतिष्ठति ॥ ३९ ॥

तस्य पापस्य भावेन दरिद्रत्वमुपागतम्
अपुत्रवान्भवाञ्जातः सततं दुःखपीडितः ॥ ४० ॥

वैशाखस्नानमाहात्म्यादपि पञ्चदिनात्मकात्
तदैव हरिपूजायाः सङ्गत्या ब्राह्मणस्य च ॥ ४१ ॥

लब्धं जन्म कुले विप्र विप्रत्वमपि दुर्ल्लभम्
सुपुत्रश्च कुलं विप्रं धनं धान्यं वरस्त्रियः ॥ ४२ ॥

सुजन्ममरणं चैव सुभोगः सुखमेव च
सदा दानेऽधिकाबुद्धिरौदार्यं धैर्यमुत्तमम् ॥ ४३ ॥

प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः
नारायणस्य जायन्ते सिद्धयो विप्रवाञ्छिताः ॥ ४४ ॥

ऊर्ज्जे मासि तपो मासि माधवे माधवप्रिये
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ॥ ४५ ॥

विशेषेण समभ्यर्च्य दत्वा दानानि भक्तितः
एहिकं सुखमासाद्य जनो याति ततो हरिम् ॥ ४६ ॥

अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन
सूर्योदये विप्र यथा तमिस्रा वचः स्वयम्भूरिदमादिदेश ॥ ४७ ॥

चकार विष्णुर्विमलं विचारं मासं विधिं माधवमेकमादौ
यमस्य गुप्तं मनसा विचिन्त्य मनुष्यलोकैर्गमितुं च नाके ॥ ४८ ॥

तस्मादस्मिन्समायाते माधवे मासि माधवे
स्नात्वा पुण्यजले तीर्थे रवावनुदितेऽधुना ॥ ४९ ॥

पूजयित्वा विधानेन मुकुन्दं मधुसूदनम्
पुत्रपौत्रधनं श्रेयो वाञ्छितानि सुखानि च ॥ ५० ॥

अनुभूय ततस्त्वन्ते स्वर्गमक्षयमाप्स्यसि
पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम् ॥ ५१ ॥

तन्मया कथितं विप्र तवाग्रे परिचेष्टितम्
एवं ज्ञात्वा महाभाग वैशाखे च विशेषतः ॥ ५२ ॥

स्नात्वा सम्यग्विधानेन मधुसूदनमर्चय
देवमाराध्य गोविन्दं नारायणमनामयम् ॥ ५३ ॥

प्राप्स्यसि त्वं सुखं पुत्रं धनानि हरिमव्ययम् ॥ ५४ ॥

नारद उवाच-
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि
हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र ॥ ५५ ॥

आमन्त्र्य विप्रं स जगाम गेहं तां प्राह भार्यां सुमनां महर्षिः
सर्वं हिवृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तवप्रसादात् ॥ ५६ ॥

भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहः परिनाशितो मे
आराधयिष्येमधुसूदनन्तुश्रीमाधवेमासिनिमज्ज्यभक्त्या ॥ ५७ ॥

आकर्ण्य वाक्यं परमं पवित्रं सुमङ्गलं मङ्गलहेतुमुच्चैः
हर्षेण युक्ता तमुवाच कान्तं धन्योसि विप्रेण विबोधितस्त्वम् ॥ ५८ ॥

इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये देवशर्मो-
पाख्याने नवतितमोऽध्यायः ९०