एकोननवतितमोऽध्यायः 5.89
विश्वास-प्रस्तुतिः
नारद उवाच-
एवं सम्बोधितो विप्रो देवशर्मा द्विजोत्तमः
पुनः प्राह प्रियां भार्यां सहितां ज्ञानवादिनीम् ॥ १ ॥
मूलम्

सत्यमुक्तं त्वया भद्रे सर्वसन्देहनाशनम्
तथा हि वंशमिच्छन्ति साधवः सत्यपण्डिताः ॥ २ ॥

यथा पुत्रस्य चिन्ता मे न धनस्य तथा प्रिये
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम् ॥ ३ ॥

सुमनोवाच-
पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम्
सुपुत्रेण महाभाग पितामाता प्रजीवतः ॥ ४ ॥

एकः पुत्रो वरः कान्त बहुभिर्निर्गुणैस्तु किम्
एकस्तारयते वंशमन्ये सन्तापकारकाः ॥ ५ ॥

पूर्वमेव मया प्रोक्तमन्ये सम्बन्धभागिनः
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम् ॥ ६ ॥

सुगर्भः प्राप्यते पुण्यैर्दुर्मृत्युः पातकैस्तथा
सुखानां निचयं कान्त सत्यमेव वदाम्यहम् ॥ ७ ॥

ब्रह्मचर्येण सत्येन तपसा नित्यवर्तनैः
दानेन नियमैश्चापि क्षमा शौचेन वल्लभ ॥ ८ ॥

अहिंसया च शक्त्या वाऽस्तेयेनापि प्रवर्तते
एतैर्दशभिरङ्गैश्च धर्ममेवं प्रसूयते ॥ ९ ॥

सम्पूर्णो जायते धर्म अङ्गैर्गर्भो यथोदरे
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा ॥ १० ॥

तस्य धर्मः प्रसन्नात्मा पुण्य सौख्यं प्रयच्छति
यंयं चिन्तयते प्राज्ञस्तन्तं प्राप्नोति दुर्लभम् ॥ ११ ॥

देवशर्मोवाच-
सर्वं देवि समाख्यातं धर्माख्यं ज्ञानमुत्तमम्
कथं पुत्रमहं विन्द्यां वैष्णवं गुणसंयुतम् ॥ १२ ॥

वद त्वं मे महाभागे यदि जानासि सुव्रते
धर्ममार्गस्त्वया सर्वः पितुः प्राप्तः पुरानघे ॥ १३ ॥

ममैतद्विदितं कान्ते भवती ब्रह्मवादिनी
च्यवनस्य प्रसादेन विष्णोस्तुष्टस्य ते पुरा ॥ १४ ॥

वसिष्ठं गच्छ धर्मज्ञ तं प्रार्थय महामुनिम्
तस्मात्प्राप्स्यसि तं पुत्रं धर्मज्ञं धर्मवत्सलम् ॥ १५ ॥

एवमुक्ते तया वाक्ये देवशर्मा द्विजोत्तमः
करिष्ये तव कल्याणि मतमेवं न संशयः ॥ १६ ॥

एवमुक्त्वा जगामासौ देवशर्मा द्विजोत्तमः
वसिष्ठं सर्ववेत्तारं दीप्यन्तं तपतां वरम् ॥ १७ ॥

गङ्गातीरे स्थितं पुण्यमासनस्थं द्विजोत्तमम्
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् ॥ १८ ॥

राजमानं महात्मानं ब्रह्मसिंहं द्विजोत्तमम्
भक्त्या प्रणम्य स मुनिं दण्डवत्तं पुनःपुनः ॥ १९ ॥

तमुवाच महातेजा ब्रह्मसूनुरकल्मषम्
उपविशासने पुण्ये सुखेन सुमहामते ॥ २० ॥
मूलम्
तमुवाच महातेजा ब्रह्मसूनुरकल्मषम्
उपविशासने पुण्ये सुखेन सुमहामते ॥ २० ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
उपविष्टः स योगीन्द्र पुनः प्राह तपोधनम्
गृहे पुरुष ते वत्स दारभृत्येषु सर्वदा ॥ २१ ॥

क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु
निरामयोऽसि चाङ्गेषु धर्मं पालयसे सदा ॥ २२ ॥

एवमुक्त्वा महाप्राज्ञः पुनः प्राह महीसुरम्
किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम ॥ २३ ॥

एवं सम्भाष्य तं विप्रं विरराम शुभं वचः
ततो विप्रो महाभागो वसिष्ठं मुनिपुङ्गवम् ॥ २४ ॥

स होवाच महात्मानं वसिष्ठं तपतां वरम्
भगवञ्छ्रूयतां वाक्यं विच्छेदय द्विजोत्तम ॥ २५ ॥

दारिद्र्यं केन भावेन पुत्रसौख्यं कथं नहि
एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे ॥ २६ ॥

महामोहेन सम्मुग्धः प्रियया बोधितो द्विज
तयाहं प्रेषितस्तात तव पार्श्वं समागतः ॥ २७ ॥

तत्सर्वं हि समाचक्ष्व सर्वसन्देहनाशकम्
मुक्तिदाता भव स्वत्वं ममसंसारबन्धनात् ॥ २८ ॥

वसिष्ठ उवाच-
पुत्रा मित्रास्तथा भ्राता अन्ये स्वजनबान्धवाः
पञ्चभेदास्तु सम्बन्धाः पुरुषस्य भवन्ति ते ॥ २९ ॥

तेते सुमनसा प्रोक्ताः पूर्वमेव तवाग्रतः
ऋणसम्बन्धिनः सर्वे ते कुपुत्रा द्विजोत्तम ॥ ३० ॥

पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम्
पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा ॥ ३१ ॥

शुद्धिमाञ्ज्ञानसम्पन्नस्तपस्वी वाग्विदां वरः
सर्वकर्मसुसंवीतो वेदाध्ययनतत्परः ॥ ३२ ॥

सर्वशास्त्रप्रवेदी च देवब्राह्मणपूजकः
याज्ञिकः सर्वयज्ञानां दाता त्यागी प्रियंवदः ॥ ३३ ॥

विष्णुध्यानपरो नित्यं शान्तोदान्तः सुहृत्सदा
पितृमातृपरो नित्यं सर्वस्वजनवत्सलः ॥ ३४ ॥

कुलस्य तारको विद्वान्स्वकुलं परिपोषकः
एवङ्गुणैस्तु संयुक्तः सुपुत्रः सुखदायकः ॥ ३५ ॥

अन्ये सम्बन्धयुक्ताश्च शोकसन्तापकारकाः
उदासीनेन किं कार्यं फलहीनेन तेऽनघ ॥ ३६ ॥

आयान्ति यान्ति ते सर्वे दुःखं दत्वा सुदारुणम्
पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम ॥ ३७ ॥

पूर्वजन्मकृतं कर्म यत्त्वया परिपालितम्
तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः ॥ ३८ ॥

भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा
कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः ॥ ३९ ॥

एकभार्यः सदा द्वेषी बहुपुत्रो ह्यदत्तवान्
धर्मं नैव विजानासि सत्यं च परिनिष्ठितम् ॥ ४० ॥

दानं नैव त्वया दत्तं शास्त्रं नैव परिश्रुतम्
कृतं नैव त्वया तीर्थं न च यात्रा महामते ॥ ४१ ॥

एवं कृतस्त्वया विप्र कृषिमार्गः पुनःपुनः
पशूनां पालनं पूर्वङ्ग च्छंश्चैव द्विजोत्तम ॥ ४२ ॥

महिषीणां तथाश्वीनां पालनं च पुनःपुनः
एवं पूर्वं कृतं कर्म त्वयैव च द्विजोत्तम ॥ ४३ ॥

विपुलं तु धनं तद्वल्लोभेन परिसञ्चितम्
तस्य व्ययस्तु पुण्येन न कृतस्तु त्वया कदा ॥ ४४ ॥

पात्रे दानं न दत्तं हि दृष्ट्वा वा दुर्बलं च तत्
कृषिं कृत्वा न दत्तं तु भवता धनमेव हि ॥ ४५ ॥

गोमयं हि त्विदं सर्वं पशूनां सञ्चयं च वै
विक्रयित्वा धनं विप्र सञ्चितं विपुलं त्वया ॥ ४६ ॥

तक्रं घृतं तथा क्षीरं विक्रीतं सततं दधि
दुष्कालश्चिन्तितो विप्र मोहितो विष्णुमायया ॥ ४७ ॥

कृत्वा महार्घमेवैतद्धनं ब्राह्मणसत्तम
निर्दयेन त्वया दानं न दत्तं तु तदा किल ॥ ४८ ॥

देवानां पूजनं विप्र भवता न कृतं सदा
पर्वाणि प्राप्य विप्रेभ्यो द्रव्यं नैव समर्पितम् ॥ ४९ ॥

श्राद्धकालं च सम्प्राप्य श्रद्धया न कृतं त्वया
भार्या वदति ते साध्वी दिनमध्ये समागते ॥ ५० ॥

श्वशुरश्राद्धकालश्च श्वश्र्वाश्चैव महामते
तच्छ्रुत्वा तद्वचस्तेषां गृहं त्यक्त्वा पलायसे ॥ ५१ ॥

धर्ममार्गो न दृष्टो हि श्रुतो नैव कदा त्वया
लोभो मातापिता भ्राता लोभः स्वजनबान्धवाः ॥ ५२ ॥

पालितो लोभ एवैकस्त्यक्त्वा धर्मं सदैव हि
तस्माद्दुःखी भवाञ्जातो दारिद्रेणाति पीडितः ॥ ५३ ॥

दिनेदिने महातृष्णा हृदये ते प्रवर्त्तते
यदायदा गृहे द्रव्यं वृद्धिमायाति ते सदा ॥ ५४ ॥

तृष्णया दह्यमानस्तु तदा त्वं वह्निरूपया
रात्रौ वा त्वं प्रसुप्तस्तु लोभं चिन्तयसेऽधिकम् ॥ ५५ ॥

दिनं प्राप्य महामोहैर्व्यापितो हि सदैव हि
सहस्रं लक्षतः कोटिः कदावार्बुदमेव च ॥ ५६ ॥

भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे
एवं सहस्रलक्षं च कोटिरर्बुदमेव च ॥ ५७ ॥
मूलम्
भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे
एवं सहस्रलक्षं च कोटिरर्बुदमेव च ॥ ५७ ॥
विश्वास-प्रस्तुतिः
खर्वो निखर्वः सञ्जातस्तृष्णा नैव प्रगच्छति
एवं कालं परित्यज्य वृद्धिमायाति सर्वदा ॥ ५८ ॥

नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया
निश्चितं भूमिमध्ये तत्क्षिप्तं पुत्रानजानते ॥ ५९ ॥

अन्यमेवमुपायं तु द्रव्यागमनकारणात्
कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान् ॥ ६० ॥

खनित्रमञ्जनं वादं धातुवादमतःपरम्
पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः ॥ ६१ ॥

सर्वांश्चिन्तयसे नित्यं कल्पान्सिद्धि प्रदायकान्
प्रवेशं चित्रवर्णानां चिन्तामणिं च पृच्छसि ॥ ६२ ॥

तृष्णानलेनदग्धोसि सुखं नैव प्रगच्छसि
तृष्णानलप्रदीप्तोसि हाहाभूतोऽप्रचेतनः ॥ ६३ ॥

एवम्भूतोसि विप्रेन्द्र गतस्त्वं कालवश्यताम्
दारपुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया ॥ ६४ ॥

कथितं नैव तद्दत्तं प्राणांस्त्यक्त्वा गतो यमम्
एवं सर्वम्म याख्यातं वृत्तान्तं तव पूर्वकम् ॥ ६५ ॥

अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान्
संसारे यस्य सत्पुत्रा भक्तिमन्तः सदैव हि ॥ ६६ ॥

सुशीला ज्ञानसम्पन्नाः सत्यधर्मरताः सदा
सम्भवन्ति गृहे तस्य यस्य विष्णुः प्रसीदति ॥ ६७ ॥

धनं धान्यं कलत्रं तु पुत्रपौत्रमनन्तकम्
सभुङ्क्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान् ॥ ६८ ॥

विना विष्णोः प्रसादेन दाराः पुत्रा भवन्ति न
सुजन्म च कुले विप्र तद्विष्णोः परमं पदम् ॥ ६९ ॥

इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने एकोननवतितमोऽध्यायः ८९