०८८

सुमनोवाच-

विश्वास-प्रस्तुतिः

ऋणसम्बन्धिनं पुत्रं प्रवक्ष्यामि तवाग्रतः
ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल ॥ १ ॥

मूलम्

अर्थदाता सुतो भूत्वा भ्रातावाथ पिता प्रिया
मित्ररूपेण वर्तेत अन्तर्दुष्टः सदैव सः ॥ २ ॥

गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः
जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ॥ ३ ॥

मिष्टं मिष्टं समश्नाति भोगान्भुञ्जति नित्यशः
द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः ॥ ४ ॥

गृहाद्द्रव्यं चोरयति वार्यमाणः स कुप्यति
पितरं मातरं चैव कुत्सते च दिनेदिने ॥ ७ ॥

एवं सङ्क्षीयते द्रव्यमेवमेतद्वदत्यपि
गृहं क्षेत्रादिकं सर्वं ममैव हि न संशयः ॥ ८ ॥

पितरं मातरं चैव हिनस्त्येव दिने दिने
सुदण्डैर्मुशलैश्चैव केशोत्पाटैश्च दारुणैः ॥ ९ ॥

मृते तु तस्मिन्पितरि मातरि चातिनिष्ठुरः
निःस्नेहो निष्ठुरश्चैव जायते नात्र संशयः ॥ १० ॥

श्राद्धकार्याणि दानानि न करोति सदैव सः
एवंविधाः प्रियाः पुत्रा भवन्ति च महीपते ॥ ११ ॥

रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजसत्तम
बाल्येवयसि सम्प्राप्ते पुत्रत्वे वर्तते सदा ॥ १२ ॥

पितरं मातरं चैव क्रीडमानो हि ताडयेत्
ताडयित्वा प्रयात्येवं प्रहस्यैवं पुनः पुनः ॥ १३ ॥

पुनरायाति तं तत्र पितरं मातरं पुनः
सक्रोधो वर्तते नित्यं कुत्सते च दिनेदिने ॥ १४ ॥

एवं संवर्तते नित्यं वैरकर्मणि सम्पदा
पितरं ताडयित्वा च मातरं च ततः पुनः ॥ १५ ॥

प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः
अथातः सम्प्रवक्ष्यामि यथालभ्यं भवेत्प्रियम् ॥ १६ ॥

जातमात्रं प्रियं कुर्याद्बाल्ये क्रीडनताडनैः
वयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनन्तरम् ॥ १७ ॥

भक्त्या सन्तोषयेन्नित्यं तावुभौ परितोषयेत्
स्नेहेन वचसा चैव प्रियसम्भाषणेन च ॥ १८ ॥

मृतौ गुरू समाज्ञाय स्नेहेन रुदते पुनः
श्राद्धकर्माणि सर्वाणि पिण्डदानादिकां क्रियाम् ॥ १९ ॥

करोत्येवसुदुःखार्तस्तेभ्यो यात्रां प्रयच्छति
ऋणत्रयान्वितः स्नेहान्मोचयेद्यस्तु निश्चितः ॥ २० ॥

यस्माल्लभ्यं भवेत्कान्त प्रयच्छति न संशयः
पुत्रो भूत्वा महाप्राज्ञ अनेनविधिना किल ॥ २१ ॥

उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय साम्प्रतम्
उदासीनेन भावेन सदैव परिवर्तते ॥ २२ ॥

ददाति नैव गृह्णाति न च कुप्यति तुष्यति
नो वा प्रयाति सन्त्यज्य उदासीनो द्विजोत्तम ॥ २३ ॥

भृत्याश्चापि समाख्याताः पशवस्तुरगास्तथा
गजा महिष्यो दास्यश्च ऋणसम्बन्धिनस्त्वमी ॥ २४ ॥

गृहीतमाययैकेन आवाभ्यां तु न कस्य हि
न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि ॥ २५ ॥

राधयामि न कस्यापि क्षणं कान्त शृणुष्व हि
न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् ॥ २६ ॥

आबाल्येन तु विप्रेन्द्र न च त्यक्तो मया पतिः
एवं ज्ञात्वा शमं गच्छ त्यज चिन्तामनर्थिकीम् ॥ २७ ॥

हृतं नैव च कस्यापि नैव दत्तं त्वया पुनः
कथं ते धनमायाति विस्मयं व्रज मा विभो ॥ २८ ॥

प्राप्तमेव हि यत्रैव रक्षितुश्च न तिष्ठति
एवं ज्ञात्वा शमं गच्छ त्यज चिन्तामनर्थिकीम् ॥ २९ ॥

कस्य पुत्राः प्रिया भार्या कस्य स्वजनबान्धवाः
कः कस्य नास्ति संसारे न सम्बन्धो द्विजोत्तम ॥ ३० ॥

मायामोहेन सम्मूढा मानवाः पापचेतनाः
इदं गृहमयं पुत्र इयं भार्या ममैव हि ॥ ३१ ॥

अनृतं दृश्यते कान्त संसारस्य हि बन्धनम् ॥ ३२ ॥

इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये
अष्टाशीतितमोऽध्यायः ८८