सप्ताशीतितमोऽध्यायः
विश्वास-प्रस्तुतिः
सूतउवाच-
इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः
प्रणम्य विस्मितः प्राह चिन्तयन्मनसा हरिम् ॥ १ ॥
मूलम्

अम्बरीष उवाच-
कथमेतद्विमुह्यामः स्वल्पायासेन वै मुने
प्राप्यते स्नानमात्रेण फलं चैवातिदुर्ल्लभम् ॥ २ ॥

नारद उवाच-
सत्यमुक्तं त्वया राजन्नल्पायासेन यन्महत्
फलं सम्प्राप्यते तत्र श्रद्धत्स्व विधिभाषितम् ॥ ३ ॥

धर्मस्य गतयः सूक्ष्मा दुर्ज्ञेया हीश्वरैरपि
मुह्यन्ते चात्र विद्वांसोऽचिन्त्यशक्ति हरेः कृतौ ॥ ४ ॥

विश्वामित्रादयो राजन्धर्माधिक्येन बाहुजाः
ब्राह्मण्यं समुपायाताः सूक्ष्मा धर्मगतिस्त्वतः ॥ ५ ॥

अजामिलोऽपि भूपाल दासीपतिरिति श्रुतः
धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः ॥ ६ ॥

म्रियमाणः सुतस्नेहात्प्रोच्य नारायणेति च
तद्ध्याननामग्रहणात्पदं लेभे सुदुर्ल्लभम् ॥ ७ ॥

अनिच्छयापि दहति स्पृष्टो हुतवहो यथा
तथा दहति गोविन्द नामव्याजादपीरितम् ॥ ८ ॥

कानीनस्य मुनेः पौत्रा भ्रातृजायाभिगामिनः
गोलकस्य च वै पण्डोः पुत्राः कुण्डाः स्वयं तथा ॥ ९ ॥

ते पञ्चापि च भूपाल पाण्डवा द्रौपदीरताः
तेषां च पुण्यश्लोकत्वं सूक्ष्माधर्मगतिस्ततः ॥ १० ॥

विचित्राणि च कर्माणि विचित्रा भूतभावनाः
विचित्राणि च भूता निविचित्राः कर्मशक्तयः ॥ ११ ॥

कदाचित्सुकृतं कर्म कूटस्थं यदवस्थितम्
केनचित्कर्मणा भूप शुभेन परिवर्धते ॥ १२ ॥

फलं ददाति सुमहत्कस्मिन्नपि च जन्मनि
सूक्ष्मो धर्मोऽतिगहनो मीयते न यथा तथा ॥ १३ ॥

नैतस्य फलदानस्य श्रूयते भूपनिश्चयः
यत्किञ्चित्सुकृतं कर्मच्छन्नं पापान्तरैरपि ॥ १४ ॥

तदागत्य कुतः क्वापि स्वं फलं च प्रयच्छति
कृतस्य नेह नाशोऽस्ति पुण्यस्य दुरितस्य च ॥ १५ ॥

तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम्
यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् ॥ १६ ॥

महत्पुण्यं च तत्रापि कारणं मे निशामय
स्वल्पायासमहायासौ यद्यल्पत्व महत्त्वयोः ॥ १७ ॥

महापुण्यास्ततस्ते स्युः सन्ततं कर्षकादयः
मन्त्रोच्चारं च सिंहादेरायासं बहुलं त्वतः ॥ १८ ॥

पञ्चगव्यं प्रशस्तं हि व्रताङ्गत्वेन नो भवेत्
इति कर्तव्यबाहुल्यं महत्त्वं च तदल्पता ॥ १९ ॥

जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतान्तरात्
इदमल्पं महच्चैतदिति नैव नियामकम् ॥ २० ॥

फलं यच्चोदितं शास्त्रे तदेव स्यान्महन्नृप
यथाल्पनाशो महता महन्नाशस्तथाल्पतः ॥ २१ ॥

किं त्वल्पविस्फुलिङ्गेन तृणराशिः प्रदह्यते ॥ २२ ॥

हत्यायुतं पापसहस्रमुग्रं गुर्वङ्गनाकोटिनिषेवणं च
स्तेयादि पापानि च कृष्णभक्तैरज्ञानजातानि लयं ह्रियन्ते ॥ २३ ॥

विष्णुभक्तिमतावीर यत्किञ्चित्क्रियतेऽल्पकम्
सुकृतं साधुविदुषा तदक्षयफलं लभेत् ॥ २४ ॥

सन्देहो नात्र कर्त्तव्यो माधवेमासि माधवम्
समाराध्य नरो भक्त्या तत्तद्वाञ्च्छितमाप्नुयात् ॥ २५ ॥

अपत्यं द्रविणं रत्नं दाराहर्म्यं हया गजाः
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥ २६ ॥

एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः
पापस्य महतोऽपि स्यात्क्षयो वृद्धिः सुकर्मणः ॥ २७ ॥

फलाधिक्यं भवेद्भूप त्वाधिक्याद्भावकर्मणोः
सूक्ष्मा धर्मस्य विज्ञेया गतिस्तु विविधैरपि ॥ २८ ॥

प्रियो माधवमासोऽयं माधवस्य महात्मनः
एकोप्यनुष्ठितो लोकैः समग्रेप्सितदायकः ॥ २९ ॥

पुण्येन गाङ्गेन जलेन काले देशेऽपि यः स्नानपरोऽपि भूप
आजन्मतो भावहतोऽपि दाता न शुद्धिमेतीति मतं ममैतत् ॥ ३० ॥

गङ्गादितीर्थेषु वसन्ति जीवा देवालये पक्षिगणाश्च नित्यम्
विनाशमायान्ति कृतोपवासा भावोज्झिता नैव गतिं लभन्ते ॥ ३१ ॥

भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या
यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ॥ ३२ ॥

प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले
प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ॥ ३३ ॥

श्रद्धत्स्वभूप तस्मात्त्वं माधवस्य फलं प्रति
स्वल्पं चापि शुभं कर्म विकर्मशतनाशनम् ॥ ३४ ॥

यथा हरेर्नामभयेन भूप नश्यन्ति सर्वे दुरितस्य वृन्दाः
नूनं रवौ मेषगते विभाते स्नानेन तीर्थे च हरिस्तवेन ॥ ३५ ॥

तेजसा वैनतेयस्य पाप्मानः पन्नगा इव
विद्रवन्ति च वैशाखस्नानेनोषसि निश्चितम् ॥ ३६ ॥

गङ्गायां नर्मदायां वा स्नात्वा मेषगते रवौ
पापप्रशमनस्तोत्रं यः पठेद्भक्तिभावतः ॥ ३७ ॥

एककालं द्विकालं वा त्रिसन्ध्यमपि भूपते
स याति परमं स्थानं सर्वपापविवर्जितः ॥ ३८ ॥

अम्बरीष महत्पुण्यप्राप्तये कुरु वीक्षणम्
माधवेमासि वै स्नानं प्रातर्नियमसंस्थितः ॥ ३९ ॥

यदानर्त्तपुरे प्रोक्तं वसतां वर्षकोटिभिः
तत्प्रातर्माधवे मासि स्नानेनैकेन लभ्यते ॥ ४० ॥

इहार्थे यत्पुरावृत्तं तदाकर्णय भूपते
भार्यया सह संवादं देवशर्मद्विजन्मनः ॥ ४१ ॥

रेवातीरे सुपुण्ये च तीर्थे चामरकण्टके
कौशिकस्य सुतो जातो देवशर्मा द्विजोत्तमः ॥ ४२ ॥

धनपुत्रविहीनस्तु बहुदुःखसमन्वितः
दारिद्रेण सुदुःखेन सर्वदैवप्रपीडितः ॥ ४३ ॥

पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिन्तयेत्
एकदा तु प्रिया तस्य सुमना नाम सुव्रता ॥ ४४ ॥

भर्तारं चिन्तयोपेतमधोमुखमलक्षयत्
समालोक्य तदा कान्तं तमुवाच यशस्विनी ॥ ४५ ॥

दुःखजालैरसङ्ख्यैस्तु तव चित्तं प्रकर्षितम्
व्यामोहेन प्रमूढोसि त्यज चिन्तां महामते ॥ ४६ ॥

मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज
नास्ति चिन्तासमं दुःखं कायशोषणमेव हि ॥ ४७ ॥

तां सन्त्यज्य प्रवर्तेत स सुखेन प्रमोदते
चिन्तायाः कारणं विप्र कथयस्व मम प्रभो ॥ ४८ ॥

प्रियावाक्यं स संश्रुत्य देवशर्मा महामतिः
उवाच वचनं प्रीतो दुःखितोऽपि सतीसखः ॥ ४९ ॥

देवशर्मोवाच-
यत्त्वया चिन्तितं भद्रे किञ्चिद्दुःखस्य कारणम्
तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् ॥ ५० ॥

न जाने केन पापेन धनहीनोऽस्मि सुव्रते
तथा पुत्रविहीनोऽस्मि एतद्दुःखस्य कारणम् ॥ ५१ ॥

सुमनोवाच-
श्रूयतामभिधास्यामि सर्वसन्देहनाशनम्
स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् ॥ ५२ ॥

सन्तोष एव परमं पुण्यं सौख्यादिकारणम्
असन्तोषः परं पापमित्याह भगवान्हरिः ॥ ५३ ॥

लोभः पापस्य बीजोऽयं मोहो मूलं च तस्य वै
असत्यं तस्य हि स्कन्धो महाशाखा सुविस्तरात् ॥ ५४ ॥

मदकौटिल्य पत्राणि कुबुद्ध्या पुष्पितः सदा
अनृतं तस्य सौगन्ध्यमज्ञानं फलमेव च ॥ ५५ ॥

कुड्यं पाषण्डचौराश्च क्रूराः कूटाश्च पापिनः
पक्षिणो मोहवृक्षस्य महाशाखासमाश्रिताः ॥ ५६ ॥

अज्ञानं सुफलं तस्य रसो धर्मं फलस्य हि
भावोदकेन संवृद्धिस्तस्य श्रद्धा क्रतु प्रिया ॥ ५७ ॥

अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते
तादृशैश्च फलैश्चैवसफलो लोभपादपः ॥ ५८ ॥
मूलम्
अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते
तादृशैश्च फलैश्चैवसफलो लोभपादपः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
तस्यच्छायां समाश्रित्य यो नरः परिवर्तते
फलानि तस्य सोऽश्नाति स्वपक्वानि दिनेदिने ॥ ५९ ॥

फलानां च रसेनापि अधर्मेण तु पोषितः
स सम्पुष्टो भवेन्मर्त्यः पतनाय प्रयच्छति ॥ ६० ॥

तस्माच्चिन्तां परिश्रित्य स्वामि लोभं न कारयेत्
धनपुत्रकलत्राणां चिन्तामेतां न कारयेत् ॥ ६१ ॥

यो हि विद्वान्नचेत्कान्त मूर्खाणां पथमेव हि
मृषा चिन्तयते नित्यं दिवारात्रौ विमोहितः ॥ ६२ ॥

शुभार्थं च प्रविन्दामि कथं पुत्रानहं लभे
एवं चिन्तयते नित्यं दिवारात्रौ विमोहितः ॥ ६३ ॥

क्षणमेकं प्रपश्येत्स चिन्तामध्ये महत्सुखम्
पुनश्चैतन्यमायाति महादुःखेन पीड्यते ॥ ६४ ॥

चिन्तामोहौ परित्यज्य अनुवर्तस्व तं द्विज
संसारे नास्ति सम्बन्धः केन सार्धं महामते ॥ ६५ ॥

मित्राश्च बान्धवाः पुत्राः पितामाता सुतास्तथा
स्वसम्बन्धा भवन्त्येते कलत्रादि तथैव च ॥ ६६ ॥

सम्बन्धः कीदृशो भद्रे तन्मे विस्तरतो वद
येन जायन्ति ते सर्वे धनपुत्रादि बान्धवाः ॥ ६७ ॥

भर्तः पञ्चविधाः पुत्रा जायन्ते तान्वदाम्यहम्
न्यासापहारकं चैकमृणसम्बन्धिनं परम् ॥ ६८ ॥

रिपुं लभ्यमुदासीनमिति कान्त भवन्ति ते
लक्षणानि प्रवक्ष्यामि तेषामीश पृथक्पृथक् ॥ ६९ ॥

पुत्रा मित्राः प्रिया भार्या पिता माता च बान्धवाः
स्वेनस्वेन हि जायन्ते सम्बन्धेन महीतले ॥ ७० ॥

न्यासापहारभावेन यस्य येन हृतं भुवि
न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि ॥ ७१ ॥

येन ह्यपहृतं न्यासं तस्य गेहे न संशयः
न्यासापहारणं दुःखं स दत्त्वा दारुणं गतः ॥ ७२ ॥

न्यासस्वामी सुपुत्रोऽभून्न्यासापहारकस्य च
गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः ॥ ७३ ॥

भक्तिं च दर्शयेत्तस्य पुत्रो भूत्वा दिनेदिने
प्रियवाङ्मधुरोवाग्मी बहुस्नेहं विदर्शयेत् ॥ ७४ ॥

स्वीयं द्रव्यं समुद्ग्राह्य प्रीतिमुत्पाद्य चातुलाम्
यथा तेन प्रदत्तं तन्न्यासापहरणात्परम् ॥ ७५ ॥

दुःखमेवं महाभाग दारुणं प्राणनाशनम्
तादृशं तस्य सो दद्यात्पुत्रो भूत्वा महागुणः ॥ ७६ ॥

अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति
दुःखं दत्वा प्रयात्येवं प्रहृत्यैवं पुनःपुनः ॥ ७७ ॥

यदाह पुत्रपुत्रेति प्रलापं हि करोति यः
तदा हास्यं करोत्येष कस्तु पुत्रो हि कस्य च ॥ ७८ ॥

अनेनापहृतं न्यासं मदीयं पापचारिणा
द्रव्यापहारणेनापि मम प्राणागताः किल ॥ ७९ ॥

दुःखेन महता चैव असह्येन च वै पुरा
तदा दुःखं मया दत्वाद्रव्यमुद्ग्राह्यमुत्तमम् ॥ ८० ॥

इति श्रीपद्मपुराणे पातालखण्डे वैशाखमाहात्म्ये
सप्ताशीतितमोऽध्यायः ८७