सूत उवाच-
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा नारदस्य महात्मनः
अम्बरीषश्च राजर्षिर्विस्मितो वाक्यमब्रवीत् ॥ १ ॥
मूलम्
इति तस्य वचः श्रुत्वा नारदस्य महात्मनः
अम्बरीषश्च राजर्षिर्विस्मितो वाक्यमब्रवीत् ॥ १ ॥
विश्वास-प्रस्तुतिः
अम्बरीष उवाच-
मार्गशीर्षादिकान्मासान्हित्वा पुण्यान्महामुने
सर्वमासाधिकं मासं वैशाखं किं प्रशंससि ॥ २ ॥
मूलम्
अम्बरीष उवाच-
मार्गशीर्षादिकान्मासान्हित्वा पुण्यान्महामुने
सर्वमासाधिकं मासं वैशाखं किं प्रशंससि ॥ २ ॥
विश्वास-प्रस्तुतिः
सर्वेभ्योऽप्यधिकः कस्मान्माधवो माधवप्रियः
को विधिस्तत्र किं दानं किं तपः का च देवता ॥ ३ ॥
मूलम्
सर्वेभ्योऽप्यधिकः कस्मान्माधवो माधवप्रियः
को विधिस्तत्र किं दानं किं तपः का च देवता ॥ ३ ॥
विश्वास-प्रस्तुतिः
त्वत्पादाम्भोजरजसा पावितस्य च मे मुने
उपदेशप्रसादेन प्रसादं कर्तुमर्हसि ॥ ४ ॥
मूलम्
त्वत्पादाम्भोजरजसा पावितस्य च मे मुने
उपदेशप्रसादेन प्रसादं कर्तुमर्हसि ॥ ४ ॥
विश्वास-प्रस्तुतिः
धर्मज्ञो धर्ममार्गाणामुद्धर्तासि महामुने
त्वमेकोऽखिलतत्त्वार्थवेत्ता धर्मोपदेशकः ॥ ५ ॥
मूलम्
धर्मज्ञो धर्ममार्गाणामुद्धर्तासि महामुने
त्वमेकोऽखिलतत्त्वार्थवेत्ता धर्मोपदेशकः ॥ ५ ॥
विश्वास-प्रस्तुतिः
कर्तोपदेष्टा मन्ता वानुमन्तापि प्रयोजकः
शास्त्रविद्भिर्मुनिवर स्मर्यन्ते समभागिनः ॥ ६ ॥
मूलम्
कर्तोपदेष्टा मन्ता वानुमन्तापि प्रयोजकः
शास्त्रविद्भिर्मुनिवर स्मर्यन्ते समभागिनः ॥ ६ ॥
विश्वास-प्रस्तुतिः
व्रतसत्रतपोदानैर्यत्फलं समवाप्यते
धर्मोपदेशनेनैव तत्सर्वमुपलभ्यते ॥ ७ ॥
मूलम्
व्रतसत्रतपोदानैर्यत्फलं समवाप्यते
धर्मोपदेशनेनैव तत्सर्वमुपलभ्यते ॥ ७ ॥
विश्वास-प्रस्तुतिः
तीर्थस्नानं तपोयज्ञकर्म यत्कुरुते मुने
अपि तत्फलभागीस्याद्यः प्रवर्तयिता भवेत् ॥ ८ ॥
मूलम्
तीर्थस्नानं तपोयज्ञकर्म यत्कुरुते मुने
अपि तत्फलभागीस्याद्यः प्रवर्तयिता भवेत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ९ ॥
मूलम्
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ९ ॥
विश्वास-प्रस्तुतिः
तदर्हति भवान्धर्ममुपदेष्टुं तदद्भुतम्
दुर्ल्लभो गुरुसम्बोधो देशकालोपपत्तयः ॥ १० ॥
मूलम्
तदर्हति भवान्धर्ममुपदेष्टुं तदद्भुतम्
दुर्ल्लभो गुरुसम्बोधो देशकालोपपत्तयः ॥ १० ॥
विश्वास-प्रस्तुतिः
न केचन तथा भावाश्चेतः शीतलयन्तिनः
राज्यलाभादयोऽप्येते यथा तव समागमः ॥ ११ ॥
मूलम्
न केचन तथा भावाश्चेतः शीतलयन्तिनः
राज्यलाभादयोऽप्येते यथा तव समागमः ॥ ११ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
अथ मन्दमृदुस्मेरस्फुरद्दन्तप्रभानुगः
अम्बरीषं प्रत्युवाच नारदो मुनिसत्तमः ॥ १२ ॥
मूलम्
सूत उवाच-
अथ मन्दमृदुस्मेरस्फुरद्दन्तप्रभानुगः
अम्बरीषं प्रत्युवाच नारदो मुनिसत्तमः ॥ १२ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
शृणु राजन्प्रवक्ष्यामि हिताय जगतस्तव
विधिर्माधवमासस्य यच्छ्रुतो ब्रह्मणः पुरा ॥ १३ ॥
मूलम्
नारद उवाच-
शृणु राजन्प्रवक्ष्यामि हिताय जगतस्तव
विधिर्माधवमासस्य यच्छ्रुतो ब्रह्मणः पुरा ॥ १३ ॥
विश्वास-प्रस्तुतिः
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता
मानुष्ये दुर्ल्लभे लोके स्वस्वधर्मप्रवर्त्तनम् ॥ १४ ॥
मूलम्
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता
मानुष्ये दुर्ल्लभे लोके स्वस्वधर्मप्रवर्त्तनम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्ल्लभा
तत्रापि दुर्ल्लभो मासो माधवो माधवप्रियः ॥ १५ ॥
मूलम्
ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्ल्लभा
तत्रापि दुर्ल्लभो मासो माधवो माधवप्रियः ॥ १५ ॥
विश्वास-प्रस्तुतिः
तमवाप्य ततो मासं स्नानदानजपादिकम्
कुर्वन्ति विधिना ये तु धन्यास्ते कृतिनो नराः ॥ १६ ॥
मूलम्
तमवाप्य ततो मासं स्नानदानजपादिकम्
कुर्वन्ति विधिना ये तु धन्यास्ते कृतिनो नराः ॥ १६ ॥
विश्वास-प्रस्तुतिः
तेषां दर्शनमात्रेण पापिनोऽपि विकिल्बिषाः
भवन्ति भगवद्भावभाविता धर्मकाङ्क्षिणः ॥ १७ ॥
मूलम्
तेषां दर्शनमात्रेण पापिनोऽपि विकिल्बिषाः
भवन्ति भगवद्भावभाविता धर्मकाङ्क्षिणः ॥ १७ ॥
विश्वास-प्रस्तुतिः
माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः
ते कोटिवर्षपर्यन्तं क्रीडन्ते नन्दने वने ॥ १८ ॥
मूलम्
माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः
ते कोटिवर्षपर्यन्तं क्रीडन्ते नन्दने वने ॥ १८ ॥
विश्वास-प्रस्तुतिः
यथा न वारिधिसमो लोके कोऽपि जलाशयः
तथा मासो न वैशाखसदृशो माधवप्रियः ॥ १९ ॥
मूलम्
यथा न वारिधिसमो लोके कोऽपि जलाशयः
तथा मासो न वैशाखसदृशो माधवप्रियः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तावत्पापानि तिष्ठन्ति मनुष्याणां कलेवरे
यावत्किलमलध्वंसी मासो नायाति माधवः ॥ २० ॥
मूलम्
तावत्पापानि तिष्ठन्ति मनुष्याणां कलेवरे
यावत्किलमलध्वंसी मासो नायाति माधवः ॥ २० ॥
विश्वास-प्रस्तुतिः
अवशिष्टदिनान्येव पञ्चमासस्य तस्य वै
एकादशीं समारभ्य सर्वमाससमानि वै ॥ २१ ॥
मूलम्
अवशिष्टदिनान्येव पञ्चमासस्य तस्य वै
एकादशीं समारभ्य सर्वमाससमानि वै ॥ २१ ॥
विश्वास-प्रस्तुतिः
वैशाखे पूजितो देवो माधवो मधुहा तु यैः
नानोपचारै राजेन्द्र तैः प्राप्तं जन्मनः फलम् ॥ २२ ॥
मूलम्
वैशाखे पूजितो देवो माधवो मधुहा तु यैः
नानोपचारै राजेन्द्र तैः प्राप्तं जन्मनः फलम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
किं किं न दुर्ल्लभतरं प्राप्यते मासि माधवे
स्नानेन परमेशस्य पूजनेन यथाविधि ॥ २३ ॥
मूलम्
किं किं न दुर्ल्लभतरं प्राप्यते मासि माधवे
स्नानेन परमेशस्य पूजनेन यथाविधि ॥ २३ ॥
विश्वास-प्रस्तुतिः
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम्
यैर्हि नारायणो नैव ध्यातो निखिलपापहा ॥ २४ ॥
मूलम्
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम्
यैर्हि नारायणो नैव ध्यातो निखिलपापहा ॥ २४ ॥
विश्वास-प्रस्तुतिः
तेषां जन्म नृणां लोके ज्ञातव्यं निष्फलं नृप
द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः ॥ २५ ॥
मूलम्
तेषां जन्म नृणां लोके ज्ञातव्यं निष्फलं नृप
द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः ॥ २५ ॥
विश्वास-प्रस्तुतिः
अदत्वा म्रियते यो हि तस्य द्रव्यं निरर्थकम्
तीर्थस्नानादि तपसा सत्कुले जन्म लभ्यते ॥ २६ ॥
मूलम्
अदत्वा म्रियते यो हि तस्य द्रव्यं निरर्थकम्
तीर्थस्नानादि तपसा सत्कुले जन्म लभ्यते ॥ २६ ॥
विश्वास-प्रस्तुतिः
न दानेन विना भूप किञ्चिदप्युपतिष्ठति
वैशाखस्नानमाहात्म्यादपि पञ्चदिनात्मकात् ॥ २७ ॥
मूलम्
न दानेन विना भूप किञ्चिदप्युपतिष्ठति
वैशाखस्नानमाहात्म्यादपि पञ्चदिनात्मकात् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सत्कुले प्राप्यते जन्म वैभवं विविधं तथा
सुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः ॥ २८ ॥
मूलम्
सत्कुले प्राप्यते जन्म वैभवं विविधं तथा
सुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः ॥ २८ ॥
विश्वास-प्रस्तुतिः
सुजन्ममरणं चापि सुभोगाः सुखमेव च
सदा दानेऽधिका प्रीतिरौदार्यं धैर्यमुत्तमम् ॥ २९ ॥
मूलम्
सुजन्ममरणं चापि सुभोगाः सुखमेव च
सदा दानेऽधिका प्रीतिरौदार्यं धैर्यमुत्तमम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः
नारायणस्य जायन्ते सिद्धयो भूप वाञ्च्छिताः ॥ ३० ॥
मूलम्
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः
नारायणस्य जायन्ते सिद्धयो भूप वाञ्च्छिताः ॥ ३० ॥
विश्वास-प्रस्तुतिः
ऊर्जे मासि तपो मासि माधवे माधवप्रिये
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ॥ ३१ ॥
मूलम्
ऊर्जे मासि तपो मासि माधवे माधवप्रिये
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
विशेषेण समभ्यर्च्य दत्वा दानानि शक्तितः
एहिकं सुखमासाद्य नरो हरिपदं व्रजेत् ॥ ३२ ॥
मूलम्
विशेषेण समभ्यर्च्य दत्वा दानानि शक्तितः
एहिकं सुखमासाद्य नरो हरिपदं व्रजेत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन
सूर्योदये भूप यथा तमिस्रं वचः स्वयम्भूरिदमादिशन्मे ॥ ३३ ॥
मूलम्
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन
सूर्योदये भूप यथा तमिस्रं वचः स्वयम्भूरिदमादिशन्मे ॥ ३३ ॥
विश्वास-प्रस्तुतिः
चकार विष्णुर्विपुलप्रचारं मासस्य वै माधवसञ्ज्ञकस्य
यमस्य गुप्तं वचसा विचिन्त्य मनुष्यलोकं गमितं चकार ॥ ३४ ॥
मूलम्
चकार विष्णुर्विपुलप्रचारं मासस्य वै माधवसञ्ज्ञकस्य
यमस्य गुप्तं वचसा विचिन्त्य मनुष्यलोकं गमितं चकार ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तस्मादस्मिन्समायाते माधवे मासि वैष्णवैः
स्नात्वा पुण्यजले तीर्थे गङ्गायाः पावने नृणाम् ॥ ३५ ॥
मूलम्
तस्मादस्मिन्समायाते माधवे मासि वैष्णवैः
स्नात्वा पुण्यजले तीर्थे गङ्गायाः पावने नृणाम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
रेवाया वा महाराज यामुने शारदेऽथवा
प्रातस्त्वनुदिते भानौ विधानेन नृपोत्तम ॥ ३६ ॥
मूलम्
रेवाया वा महाराज यामुने शारदेऽथवा
प्रातस्त्वनुदिते भानौ विधानेन नृपोत्तम ॥ ३६ ॥
विश्वास-प्रस्तुतिः
पूजयित्वा च देवेशं मुकुन्दं मधुसूदनम्
पुत्रपौत्रधनैः श्रेयो वाञ्च्छितानि सुखानि च ॥ ३७ ॥
मूलम्
पूजयित्वा च देवेशं मुकुन्दं मधुसूदनम्
पुत्रपौत्रधनैः श्रेयो वाञ्च्छितानि सुखानि च ॥ ३७ ॥
विश्वास-प्रस्तुतिः
अनुभूय तपस्त्वन्ते स्वर्गमक्षयमाप्नुयात्
एवं ज्ञात्वा महाभाग मधुसूदनमर्चय ॥ ३८ ॥
मूलम्
अनुभूय तपस्त्वन्ते स्वर्गमक्षयमाप्नुयात्
एवं ज्ञात्वा महाभाग मधुसूदनमर्चय ॥ ३८ ॥
विश्वास-प्रस्तुतिः
स्नात्वा सम्यग्विधानेन वैशाखे तु विशेषतः
देवमाराध्य गोविन्दं नारायणमनामयम् ॥ ३९ ॥
मूलम्
स्नात्वा सम्यग्विधानेन वैशाखे तु विशेषतः
देवमाराध्य गोविन्दं नारायणमनामयम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
प्राप्स्यसि त्वं सुखं पुत्रं धनानि च हरेः पदम्
देवदेवं नमस्कृत्य माधवं पापनाशनम् ॥ ४० ॥
मूलम्
प्राप्स्यसि त्वं सुखं पुत्रं धनानि च हरेः पदम्
देवदेवं नमस्कृत्य माधवं पापनाशनम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
प्रारभेत व्रतमिदं पौर्णमास्यां मधोर्नृप
यमैश्च नियमैर्युक्तः शक्त्या किञ्चित्प्रदाय च ॥ ४१ ॥
मूलम्
प्रारभेत व्रतमिदं पौर्णमास्यां मधोर्नृप
यमैश्च नियमैर्युक्तः शक्त्या किञ्चित्प्रदाय च ॥ ४१ ॥
विश्वास-प्रस्तुतिः
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रते स्थितः
कृच्छ्रादितपसा क्षामो ध्यायन्नारायणं हृदि ॥ ४२ ॥
मूलम्
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रते स्थितः
कृच्छ्रादितपसा क्षामो ध्यायन्नारायणं हृदि ॥ ४२ ॥
विश्वास-प्रस्तुतिः
एवं प्राप्य च वैशाखीं दद्यान्मधुतिलादिकम्
भोजनं द्विजमुख्येभ्यो भक्त्या धेनुं सदक्षिणाम् ॥ ४३ ॥
मूलम्
एवं प्राप्य च वैशाखीं दद्यान्मधुतिलादिकम्
भोजनं द्विजमुख्येभ्यो भक्त्या धेनुं सदक्षिणाम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान्
यथा लक्ष्मीः प्रिया भूप माधवस्य जगत्पतेः ॥ ४४ ॥
मूलम्
अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान्
यथा लक्ष्मीः प्रिया भूप माधवस्य जगत्पतेः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तथैव माधवो मासो मधुसूदनवल्लभः
एवं विधियुतो मर्त्यः स्नात्वा द्वादशवत्सरम् ॥ ४५ ॥
मूलम्
तथैव माधवो मासो मधुसूदनवल्लभः
एवं विधियुतो मर्त्यः स्नात्वा द्वादशवत्सरम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
उद्यापनं चरेच्छक्त्या मधुसूदनतुष्टये
इदं माधवमासस्य माहात्म्यं कथितं तव ॥ ४६ ॥
मूलम्
उद्यापनं चरेच्छक्त्या मधुसूदनतुष्टये
इदं माधवमासस्य माहात्म्यं कथितं तव ॥ ४६ ॥
विश्वास-प्रस्तुतिः
यत्पुरा ब्रह्मणो वक्त्राच्छ्रुतमासीन्मया नृप ॥ ४७ ॥
मूलम्
यत्पुरा ब्रह्मणो वक्त्राच्छ्रुतमासीन्मया नृप ॥ ४७ ॥
इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये
षडशीतितमोऽध्यायः ८६