अम्बरीष उवाच-
विश्वास-प्रस्तुतिः
साधुसाधु मुनिश्रेष्ठ लोकानुग्रहकारक
विष्णोर्ध्यानं त्वया प्रोक्तं सगुणं निर्गुणं च यत् ॥ १ ॥
मूलम्

अधुना लक्षणं ब्रूहि भक्तेः साधु कृपाकर
यादृशी क्रियते येन यथा यत्र यदा तथा ॥ २ ॥

सूत उवाच-
इत्युक्तमाकर्ण्य नृपोत्तमस्य मुनिः प्रहृष्टो निजगाद भूपम्
शृणुष्व राजन्निखिलाघहारिणीं भक्तिं हरेस्ते प्रवदामि सम्यक् ॥ ३ ॥

अथ भक्तिं प्रवक्ष्यामि विविधां पापनाशिनीम्
विविधा भक्तिरुद्दिष्टा मनोवाक्कायसम्भवा ॥ ४ ॥

लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा
ध्यानधारणया बुद्ध्या वेदानां स्मरणं हि यत् ॥ ५ ॥

विष्णुप्रीतिकरी चैषा मानसी भक्तिरुच्यते
मन्त्रवेदसमुच्चारैरविश्रान्तविचिन्तनैः ॥ ६ ॥

जाप्यैश्चारण्यकैश्चैव वाचिकी भक्तिरुच्यते
व्रतोपवासनियमैः पञ्चेन्द्रियजयेन च ॥ ७ ॥

कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिनी
भूषणैर्हेमरत्नाङ्कैश्चित्राभिर्वाग्भिरेव च ॥ ८ ॥

वासः प्रतिसरैः सूत्रैः पावकव्यजनोच्छ्रितैः
नृत्यवादित्रगीतैश्च सर्वबल्युपहारकैः ॥ ९ ॥

भक्ष्यभोज्यान्नपानैश्च या पूजा क्रियते नरैः
नारायणं समुद्दिश्य भक्तिः सा लौकिकी मता ॥ १० ॥

कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिकी
ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च ॥ ११ ॥

क्रियन्ते विष्णुमुद्दिश्य सा भक्तिर्वैदिकोच्यते
वेदमन्त्रहविर्यागैः क्रियाया वैदिकी मता ॥ १२ ॥

दर्शे च पौर्णमास्यां च कर्त्तव्यं चाग्निहोत्रकम्
प्राशनं दक्षिणादानं पुरोडाशं चरु क्रिया ॥ १३ ॥

इष्टिर्धृतिः सोमपानं याज्ञियं कर्म सर्वशः
अग्निभूम्यनिलाकाश द्युति शङ्कर भास्करम् ॥ १४ ॥

तमुद्दिश्यकृतं कर्म तत्सर्वं विष्णुदैवतम्
आध्यात्मिकीति विविधा ब्रह्मभक्तिस्थिता नृप ॥ १५ ॥

साङ्ख्याख्यां योगसञ्जातां शृणु भूप यथोदिताम्
चतुर्विंशति तत्त्वानि प्रधानादीनि सङ्ख्यया ॥ १६ ॥

अचेतनानि भोग्यानि पुरुषः पञ्चविंशकः
चेतनः स समुद्दिष्टो कर्ता भोक्ता च कर्मणाम् ॥ १७ ॥

आत्मा नित्योव्ययश्चैव अधिष्ठाता प्रयोजकः
पुरुषोऽव्यक्त नित्यः स्यात्कारणं च महेश्वरः ॥ १८ ॥

तत्त्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः
सङ्ख्यायाः परिसङ्ख्यायाः प्रधानं च गुणात्मकम् ॥ १९ ॥

ज्ञात्वा साधर्म्यवैधर्म्यं प्रधानं च विधर्मि च
कारणं ब्रह्मणश्चैव कामित्वमिदमुच्यते ॥ २० ॥

प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते
सर्वत्र कर्तृता ब्रह्म पुरुषस्याप्यकर्तृता ॥ २१ ॥

अचेतनप्रधानेन समत्वमिदमुच्यते
तत्त्वान्तरं च तत्त्वानां कार्यकारणमेव च ॥ २२ ॥

प्रयोजनं प्रयोज्यत्वं ज्ञात्वा तत्त्वप्रसङ्ख्यया
सङ्ख्यातमुच्यते प्राज्ञैर्विजयार्थविचिन्तकैः ॥ २३ ॥

इति मत्वास्य सद्भावं तत्त्वं सङ्ख्यां च तत्त्वतः
ब्रह्मतत्त्वाधिकं चापि भूततत्त्वं विदुर्बुधाः ॥ २४ ॥

साङ्ख्यैः कृता भक्तिरेषा भक्तिराध्यात्मिकी स्मृता
योगजामपि ते भूप शृणु भक्तिं वदाम्यहम् ॥ २५ ॥

प्राणायामपरो नित्यं ध्यानवान्नियतेन्द्रियः
भैक्ष्यभक्षव्रती चापि सर्वप्रत्याहृतेन्द्रियः ॥ २६ ॥

धारणं हृदये कृत्वा ध्यायमानो महेश्वरम्
हृत्पद्मकर्णिकासीनं पीतवस्त्रं सुलोचनम् ॥ २७ ॥

पश्यन्नुद्योतितमुखं ब्रह्मसूत्रकटीतटम्
श्वेतवर्णं चतुर्बाहुं वरदाभयहस्तकम् ॥ २८ ॥

योगजा मानसीसिद्धिर्विष्णुभक्तिः परा स्मृता
य एवं भक्तिमान्देवं विष्णुभक्तिः स उच्यते ॥ २९ ॥

एवं भक्तिः समुद्दिष्टा विविधा नृपनन्दन
सात्विकी राजसी चैव तामसीभेदतस्त्विमाः ॥ ३० ॥

नानाप्रकारा विज्ञेया विष्णोरमिततेजसः
यथाग्निः सुसमृद्धार्च्चिः करोत्येधांसि भस्मसात् ॥ ३१ ॥

पापानि भगवद्भक्तिस्तथा दहति तत्क्षणात् ॥ ३२ ॥

यावज्जनो न शृणुते भुवि विष्णुभक्तिं साक्षात्सुधारसमशेषरसैकसारम्
तावज्जरामरणजन्मशताभिघातदुःखानि तानि लभते बहुदेहजानि ॥ ३३ ॥

सङ्कीर्तितश्चिन्तितकीर्तिरन्तः श्रुतानुभावो भगवाननन्तः
समन्ततोऽघविनिहन्ति मेघं वायुर्यथाभानुरिवान्धकारम् ॥ ३४ ॥

न दान देवार्चन याग तीर्थ स्नान श्रुताचार तपः क्रियाभिः
तथा विशुद्धिं लभतेंऽतरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥ ३५ ॥

कथा विशुद्धा नरनाथ तथ्यास्ता एव पथ्या हरिनाथ तथ्याः
सङ्कीर्तिता यत्र पवित्रमूर्तेः संश्रूयते च श्रुतसाधुकीर्तिः ॥ ३६ ॥

धन्योसि धीरधरणीधर धर्मधुर्य्य ध्यानैकतान हृदयः पुरुषोत्तमस्य
यन्नैष्ठिकीमतिरसौ तव सौभगश्रीः श्रीकृष्णनाथसुकृतः श्रवणे प्रवृत्ता ॥ ३७ ॥

अनाराध्य हरिं भक्त्या वरदं विष्णुमव्ययम्
कुतः श्रेयो भवेद्भूप पुरुषस्यात्ममानिनः ॥ ३८ ॥

मायाजनिरमायोऽसौ भक्त्या राजन्नमायया
साध्यते साधुपुरुषः स्वयं जानाति तद्भवान् ॥ ३९ ॥

न विद्यते ते नृप धर्मतत्त्वमज्ञातमेतद्विमलं पुनर्माम्
त्वं पृच्छसे तीर्थपदं प्रसङ्गात्कथारसं वैष्णव गौरवेण ॥ ४० ॥

नातः परं परमतोषविशेषपोषं पश्यामि पुण्यमुचितं च परस्परेण
सन्तः प्रसह्य यदनन्तगुणाननन्तश्रेयोनिधीनधिकभावभुजो भुजन्ति ॥ ४१ ॥

ब्राह्मणाः सुरभी सत्य श्रद्धा याग तपांसि च
श्रुति स्मृति दया दीक्षा शान्तयस्तनवो हरेः ॥ ४२ ॥

आदित्यश्चन्द्रमा वायुर्भूमिरापोंऽबरं दिशः
ब्रह्माविष्णुश्च रुद्रश्च सर्वभूतमयो विभुः ॥ ४३ ॥

विश्वरूपः स्वयं चक्रे जगदेतच्चराचरम्
स्वयं ब्राह्मणमाविश्य सदान्नमुपभुञ्जते ॥ ४४ ॥

ततस्तु तीर्थास्पदपादरेणून्धराधरात्मालय भूमिदेवान्
परात्मनः पूजय पुण्यलक्ष्मी सर्वस्वभूतानखिलात्मभूतान् ॥ ४५ ॥

ब्राह्मणं विष्णुबुद्ध्य्या यो विद्वांसं साधु पश्यति
स एव वैष्णवो यश्च स्वस्वकर्मैकनिष्ठितः ॥ ४६ ॥

किञ्चिदेतन्मयाप्रोक्तं रहस्यं समयो हि मे
स्नातुं गन्तुं च गङ्गायां न कथावसरोऽधिकः ॥ ४७ ॥

प्राप्तोऽयं माधवो मासः पुण्यो माधववल्लभः
तस्यापि सप्तमी शुक्ला गङ्गायामतिदुर्ल्लभा ॥ ४८ ॥

वैशाख शुक्ल सप्तम्यां जाह्नवी जह्नुना पुरा
क्रोधात्पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात् ॥ ४९ ॥

तस्यां समर्चयेद्देवीं गङ्गां गगनमेखलाम्
स्नात्वा सम्यग्विधानेन स धन्यः सुकृती नरः ॥ ५० ॥

तस्यां यस्तर्पयेद्देवान्पितॄन्मर्त्यो यथाविधि
साक्षात्पश्यति तं गङ्गा स्नातकं गतपापकम् ॥ ५१ ॥

न माधव समो मासो न गङ्गा सदृशी नदी
दुर्ल्लभः खलु योगोऽयं हरिभक्त्यैव लभ्यते ॥ ५२ ॥

विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता
त्रिभिः स्रोतोभिरश्रान्ता या पुनाति जगत्त्रयम् ॥ ५३ ॥

स्वर्गारोहणनिःश्रेणी सततानन्दकारिणी
अनेकदुरितोद्गारहारिणी दुर्गतारिणी ॥ ५४ ॥

श्रीमहेशजटाजूटवासिनी दुःखनाशिनी
भजमानजनस्वान्तकान्तकेलि विनाशिनी ॥ ५५ ॥
मूलम्
श्रीमहेशजटाजूटवासिनी दुःखनाशिनी
भजमानजनस्वान्तकान्तकेलि विनाशिनी ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सगरान्वयनिर्वाणकारिणी धर्मधारिणी
त्रिमार्गचारिणी देवी लोकालङ्कृतिकारिणी ॥ ५६ ॥

दर्शन स्पर्शन स्नान कीर्त्तन ध्यान सेवनैः
पुण्यानपुण्यान्पुरुषान्पावयन्ती सहस्रशः ॥ ५७ ॥

गङ्गा गङ्गेति गङ्गेति यैस्त्रिसन्ध्यमितीरितम्
सुदूरस्थैश्च तत्पापं हन्ति जन्मत्रयार्जितम् ॥ ५८ ॥

योजनानां सहस्रेषु गङ्गां यः स्मरते नरः
अपि दुष्कृतकर्मासौ लभते परमां गतिम् ॥ ५९ ॥

वैशाखे शुक्ल सप्तम्यां दुर्ल्लभा सा विशेषतः
प्राप्यते जगतीपाल हरि विप्र प्रसादतः ॥ ६० ॥

न माधवसमो मासो न माधवसमो विभुः
गतोहि दुरिताम्भोधौ मज्जमानजनस्य यः ॥ ६१ ॥

दत्तं जप्तं हुतं स्नातं यद्भक्त्या मासि माधवे
तदक्षयं भवेद्भूप पुण्यं कोटिशताधिकम् ॥ ६२ ॥

यथा देवेषु विश्वात्मा देवो नारायणो हरिः
यथा जप्येषु गायत्री सरितां जाह्नवी तथा ॥ ६३ ॥

यथोमा सर्वनारीणां तपतां भास्करो यथा
आरोग्यलाभो लाभानां द्विपदां ब्राह्मणो यथा ॥ ६४ ॥

परोपकारः पुण्यानां विद्यानां निगमो यथा
मन्त्राणां प्रणवो यद्वद्ध्यानानामात्मचिन्तनम् ॥ ६५ ॥

सत्यं स्वधर्मवर्तित्वं तपसां च यथा वरम्
शौचानामर्थशौचं च दानानामभयं यथा ॥ ६६ ॥
मूलम्
सत्यं स्वधर्मवर्तित्वं तपसां च यथा वरम्
शौचानामर्थशौचं च दानानामभयं यथा ॥ ६६ ॥
विश्वास-प्रस्तुतिः
गुणानां च यथा लोभक्षयो मुख्यो गुणः स्मृतः
मासानां प्रवरो मासस्तथासौ माधवो मतः ॥ ६७ ॥

तत्र यत्क्रियते श्राद्धं यज्ञ दानमुपोषणम्
तपोऽध्ययनपूजादि तदक्षयफलं स्मृतम् ॥ ६८ ॥

वैशाखान्तानि पापानि सूर्यान्तानि तमांसि च
परापकारपैशुन्य प्रान्तानि सुकृतानि च ॥ ६९ ॥

कार्तिके मासि यत्किञ्चित्तुलासंस्थे दिवाकरे
स्नानदानादिकं राजंस्तत्परार्धगुणं भवेत् ॥ ७० ॥

तस्मात्सहस्रगुणितं माघे मकरगे रवौ
ततोऽपि शतसङ्ख्यातं वैशाखेमेषगे रवौ ॥ ७१ ॥

ते धन्यास्ते सुकृतिनो नरा वैशाख मासि ये
प्रातः स्नात्वा विधानेन पूजयन्ति मधुद्विषम् ॥ ७२ ॥

प्रातःस्नानं च वैशाखे यज्ञदानमुपोषणम्
हविष्यं ब्रह्मचर्यं च महापातकनाशनम् ॥ ७३ ॥

पुनः कलियुगे राजन्नेतद्गोप्यं भविष्यति
अश्वमेधादिकं यस्मान्माहात्म्यं माधवस्य यत् ॥ ७४ ॥

अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते
एष माधवमासस्य हयमेध समो विधिः ॥ ७५ ॥
मूलम्
अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते
एष माधवमासस्य हयमेध समो विधिः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम्
न वेत्स्यन्ति कलौ पापा जना दुरितबुद्धयः ॥ ७६ ॥

तस्मिन्भवैर्नरैः पापैर्गन्तव्यं नरकार्णवे
अतस्तु विरलस्तस्य प्रचारो येन निर्मितः ॥ ७७ ॥

इति श्रीपद्मपुराणे पातालखण्डे वैशाखमासमाहात्म्ये पञ्चाशीतितमोऽध्यायः ८५