०८३

नारद उवाच-

विश्वास-प्रस्तुतिः

भगवन्सर्वमाख्यातं यद्यत्पृष्टं मया गुरो
अधुना श्रोतुमिच्छामि भावमार्गमनुत्तमम् ॥ १ ॥

मूलम्

शिव उवाच-
साधु विप्र त्वया पृष्टं सर्वलोकहितैषिणा
रहस्यमपि वक्ष्यामि तन्मे निगदतः शृणु ॥ २ ॥

दास्यः सखायः पितरौ प्रेयस्यश्च हरेरिह
सर्वे नित्या मुनिश्रेष्ठ वसन्ति गुणशालिनः ॥ ३ ॥

यथा प्रकटलीलायां पुराणेषु प्रकीर्तिताः
तथा ते नित्यलीलायां सन्ति वृन्दावने भुवि ॥ ४ ॥

गमनागमने नित्यं करोति वनगोष्ठयोः
गोचारणं वयस्यैश्च विनाऽसुरविघातनम् ॥ ५ ॥

करकीयाभिमानिन्यस्तथा तस्य प्रिया जनाः
प्रच्छन्नेनैव भावेन रमयन्ति निजप्रियम् ॥ ६ ॥

आत्मानं चिन्तयेत्तत्र तासां मध्ये मनोरमाम्
रूपयौवनसम्पन्नां किशोरीं प्रमदाकृतिम् ॥ ७ ॥

नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम्
प्रार्थितामपि कृष्णेन तत्र भोगपराङ्मुखीम् ॥ ८ ॥

राधिकानुचरीं तत्र तत्सेवनपरायणाम्
कृष्णादप्यधिकं प्रेम राधिकायां प्रकुर्वतीम् ॥ ९ ॥

प्रीत्यानुदिवसं यत्नात्तयोः सङ्गमकारिणीम्
तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् ॥ १० ॥

इत्यात्मानं विचिन्त्यैव तत्र सेवां समाचरेत्
ब्राह्मं मुहूर्त्तमारभ्य यावत्स्यात्तु महानिशा ॥ ११ ॥

हरेर्दैनन्दिनीं लीलां श्रोतुमिच्छामि तत्त्वतः
लीलामजानता सेव्यो मनसा तु कथं हरिः ॥ १२ ॥

नाहं जानामि तां लीलां हरेर्नारदतत्त्वतः
वृन्दादेवीमितो गच्छ सा ते लीलां प्रवक्ष्यति ॥ १३ ॥

अविदूर इतः स्थानात्केशीतीर्थसमीपतः
सखीसङ्घवृता सास्ते गोविन्दपरिचारिका ॥ १४ ॥

सूत उवाच-
इत्युक्तस्तं परिक्रम्य हृष्टो नत्वा पुनः पुनः
वृन्दाश्रमं जगामाथ नारदो मुनिसत्तमः ॥ १५ ॥

वृन्दापि नारदं दृष्ट्वा प्रणम्य च पुनःपुनः
उवाच च मुनिश्रेष्ठ कथमत्रागतिस्तव ॥ १६ ॥

त्वत्तो वेदितुमिच्छामि नैत्यकं चरितं हरेः
तदादितो मम ब्रूहि यदि योग्योऽस्मि शोभने ॥ १७ ॥

वृन्दोवाच-
रहस्यमपिवक्ष्यामि कृष्णभक्तोसि नारद
न प्रकाश्यं त्वयाप्येतद्गुह्याद्गुह्यतरं महत् ॥ १८ ॥

मध्ये वृन्दावने रम्ये पञ्चाशत्कुञ्जमण्डिते
कल्पवृक्षनिकुञ्जे तु दिव्यरत्नमये गृहे ॥ १९ ॥

निद्रितौ तिष्ठतस्तल्पे निबिडालिङ्गितौ मिथः
मदाज्ञाकारिभिः पश्चात्पक्षिभिर्बोधितावपि ॥ २० ॥

गाढालिङ्गनजानन्दमाप्तौ तद्भङ्गकातरौ
न मनः कुरुतस्तल्पात्समुत्थातुं मनागपि ॥ २१ ॥

ततश्च सारिकासङ्घैः शुकाद्यैः परितो मुहुः
बोधितौ विविधैर्वाक्यैः स्वतल्पादुदतिष्ठताम् ॥ २२ ॥

उपविष्टौ ततो दृष्ट्वा सख्यस्तल्पे मुदान्वितौ
प्रविश्य सेवां कुर्वन्ति तत्काले ह्युचितां तयोः ॥ २३ ॥

पुनश्च सारिकावाक्यैस्तावुत्थाय स्वतल्पतः
गच्छतः स्वस्वभवनं भीत्युत्कण्ठाकुलौ ततः ॥ २४ ॥

प्रातश्च बोधितो मात्रा तल्पादुत्थाय सत्वरः
कृत्वा कृष्णो दन्तकाष्ठं बलदेवसमन्वितः ॥ २५ ॥

मात्रानुमोदितो याति गोशालां सखिभिर्वृतः
राधापि बोधिता विप्र वयस्याभिः स्वतल्पतः ॥ २६ ॥

उत्थाय दन्तकाष्ठादि कृत्वाभ्यङ्गं समाचरेत्
स्नानवेदीं ततो गत्वा स्नापिता सा निजालिभिः ॥ २७ ॥

भूषागृहे व्रजेत्तत्र वयस्या भूषयन्त्यपि
भूषणैर्विविधैर्दिव्यैर्गन्धमाल्यानुलेपनैः ॥ २८ ॥

ततः सखीजनैस्तस्याः श्वश्रूं सम्प्रार्थ्य यत्नतः
कर्तुमाहूयतेस्वन्नं ससखी सा यशोदया ॥ २९ ॥

कथमाहूयते देवि पाकार्थं तु यशोदया
सतीषु पाककर्त्रीषु रोहिणीप्रमुखास्वपि ॥ ३० ॥

पूर्वं दुर्वाससा दत्तो वरस्तस्यै महामुने
इति कात्यायनी वक्त्राच्छ्रुतमासीन्मया पुरा ॥ ३१ ॥

त्वया यत्पच्यते देवि तदन्नं मदनुग्रहात्
मिष्टं स्यादमृतस्पर्द्धि भोक्तुरायुष्करं तथा ॥ ३२ ॥

इत्याह्वयति तां नित्यं यशोदा पुत्रवत्सला
आयुष्मान्मे भवेत्पुत्रः स्वादुलोभात्तथा सती ॥ ३३ ॥

श्रुत्वानुमोदिता हृष्टा सापि नन्दालयं व्रजेत्
ससखीप्रकरा तत्र गत्वा पाकं करोति च ॥ ३४ ॥

कृष्णोऽपि दुग्ध्वा गाः काश्चिद्दोहयित्वा जनैः पराः
आगच्छति पितुर्वाक्यात्स्वगृहं सखिभिर्वृतः ॥ ३५ ॥

अभ्यङ्गमर्दनं कृत्वा दासैः संस्नापितो मुदा
धौतवस्त्रधरः स्रग्वी चन्दनाक्तकलेवरः ॥ ३६ ॥

द्विफालबद्धचिकुरैर्ग्रीवा भालोपरिस्फुरन्
चन्द्राकारस्फुरद्भालतिलकालकरञ्जितः ॥ ३७ ॥

कङ्कणाङ्गदकेयूर रत्नमुद्रा लसत्करः
मुक्ताहारस्फुरद्वक्षा मकराकृतिकुण्डलः ॥ ३८ ॥

मुहुराकारितो मात्रा प्रविशेद्भोजनालयम्
अवलम्ब्य करं सख्युर्बलदेवमनुव्रतः ॥ ३९ ॥

भुङ्क्तेऽथ विविधान्नानि भ्रात्रा च सखिभिर्वृतः
हासयन्विविधैर्हास्यैः सखींस्तैर्हसति स्वयम् ॥ ४० ॥

इत्थं भुक्त्वा तथाचम्य दिव्यखट्वोपरि क्षणम्
विश्रम्य सेवकैर्दत्तं ताम्बूलं विभजन्नदन् ॥ ४१ ॥

गोपवेषधरः कृष्णो धेनुवृन्दपुरस्सरः
व्रजवासिजनैः प्रीत्या सर्वैरनुगतः पथि ॥ ४२ ॥

पितरं मातरं नत्वा नेत्रान्ते नापितं गणम्
यथायोग्यं तथा चान्यान्विनिवर्त्य वनं व्रजेत् ॥ ४३ ॥

वनं प्रविश्य सखिभिः क्रीडयित्वा क्षणं ततः
विहारैर्विविधैस्तत्र वने विक्रीडते मुदा ॥ ४४ ॥

वञ्चयित्वा ततः सर्वान्द्वित्रैः प्रियसखैर्वृतः
सङ्केतकं व्रजेद्धर्षात्प्रियासन्दर्शनोत्सुकः ॥ ४५ ॥

सापि कृष्णं वनं यातं दृष्ट्वा स्वं गृहमागता
सूर्यादिपूजाव्याजेन कुसुमाहृतये तथा ॥ ४६ ॥

वञ्चयित्वा गुरून्याति प्रियसङ्गेच्छया वनम्
इत्थं तौ बहुयत्नेन मिलित्वा कानने ततः ॥ ४७ ॥

विहारैर्विविधैस्तत्र दिनं विक्रीडतो मुदा
दोलायां च समारूढौ सखिभिर्दोलितौ क्वचित् ॥ ४८ ॥

क्वापि वेणुं करस्रस्तं प्रिययापह्नुतं हरिः
अन्वेषयन्नुपालब्धो विप्रलब्धप्रियागणैः ॥ ४९ ॥

हसितैर्बहुधा ताभिर्हासितस्तत्र तिष्ठति
वसन्तवायुना जुष्टं वनखण्डं मुदा क्वचित् ॥ ५० ॥

प्रविश्य चन्दनाम्भोभिः कुङ्कुमादिजलैरपि
निषिञ्चतो यन्त्रमुक्तैस्तत्पङ्कैर्लिम्पतो मिथः ॥ ५१ ॥

सख्योऽप्येवं निषिञ्चन्ति ताश्च तौ सिञ्चतः पुनः
वसन्तवायुजुष्टेषु वनखण्डेषु सर्वतः ॥ ५२ ॥

तत्तत्कालोचितैर्नानाविहारैः सगणौ द्विज
श्रान्तौ क्वचिद्वृक्षमूलमासाद्य मुनिसत्तम ॥ ५३ ॥

उपविश्यासने दिव्ये मधुपानं प्रचक्रतुः
ततो मधुमदोन्मत्तौ निद्रया मीलितेक्षणौ ॥ ५४ ॥

मिथः पाणी समालम्ब्य कामबाणवशं गतौ
रिरंसूविशतःकुञ्जंस्खलद्वाङ्मनसौपथि ॥ ५५ ॥

क्रीडतश्च ततस्तत्र करिणीयूथपौ यथा
सख्योऽपि मधुभिर्मत्ता निद्रयापीडितेक्षणाः ॥ ५६ ॥

अभितो मञ्जुकुञ्जेषु सर्वा एवापि शिश्यिरे
पृथगेकेन वपुषा कृष्णोऽपि युगपद्विभुः ॥ ५७ ॥

सर्वासां सन्निधिं गच्छेत्प्रियया प्रेरितो मुहुः
रमयित्वा च ताः सर्वाः करिणीर्गजराडिव ॥ ५८ ॥

प्रियया च तथा ताभिः क्रीडार्थं च सरो व्रजेत्
जलसेकैर्मिथस्तत्र क्रीडतः सगणौ ततः ॥ ५९ ॥

वासः स्रक्चन्दनैर्दिव्यैर्भूषणैरपि भूषितौ
तत्रैव सरसस्तीरे दिव्यरत्नमये गृहे ॥ ६० ॥

प्रागेव फलमूलानि कल्पितानि मया मुने
हरिस्तु प्रथमं भुक्त्वा कान्तया परिवेष्टितः ॥ ६१ ॥

द्वित्राभिः सेवितो गच्छेच्छय्यां पुष्पविनिर्मिताम्
ताम्बूलैर्व्यजनैस्तत्र पादसंवाहनादिभिः ॥ ६२ ॥

सेव्यमानो हसंस्ताभिर्मोदते प्रेयसीं स्मरन्
राधिकापि हरौ सुप्ते सगणा मुदितान्तरा ॥ ६३ ॥

अपि तत्र गतप्राणा तदुच्छिष्टं भुनक्ति च
किञ्चिदेव ततो भुक्त्वा व्रजेच्छय्यानिकेतनम् ॥ ६४ ॥

द्रष्टुं कान्तमुखाम्भोजं चकोरीव निशाकरम्
ताम्बूलचर्वितं तस्य तत्रत्याभिर्निवेदितम् ॥ ६५ ॥

ताम्बूलान्यपि चाश्नाति विभजन्ती प्रियालिषु
कृष्णोऽपि तासां शुश्रूषुः स्वच्छन्दं भाषितं मिथः ॥ ६६ ॥

प्राप्तनिद्र इवाभाति विनिद्रोऽपि पटावृतः
ताश्च क्ष्वेली क्षणं कृत्वा कुतश्चिदनुमानतः ॥ ६७ ॥

विदश्य रसनां दद्भिः पश्यन्त्योऽन्योन्यमाननम्
विलीना इव लज्जाब्धौ क्षणमूचुर्न किञ्चन ॥ ६८ ॥

क्षणादेव ततो वस्त्रं दूरीकृत्य तदङ्गतः
साधुनिद्रां गतोऽसीति हासयन्त्यो हसन्ति च ॥ ६९ ॥

एवं तैर्विविधैर्हास्यै रममाणौ गणैः सह
अनुभूय क्षणं निद्रा सुखं च मुनिसत्तम ॥ ७० ॥

उपविश्यासने दिव्ये सगणौ विस्तृते मुदा
पणीकृत्य मिथोहार चुम्बाश्लेषपरिच्छदान् ॥ ७१ ॥

अक्षै र्विक्रीडतः प्रेम्णा नर्मालापपुरस्सरम्
पराजितोऽपि प्रियया जितोहमिति वै ब्रुवन् ॥ ७२ ॥

हारादिग्रहणे तस्याः प्रवृत्तस्ताड्यते तया
तयैवं ताडितः कृष्णः करेणास्य सरोरुहे ॥ ७३ ॥

विषण्णमानसो भूत्वा गन्तुं प्रकुरुते मतिम्
जितोऽस्मि चेत्त्वया देवि गृह्यतां यत्पणीकृतम् ॥ ७४ ॥

चुम्बनादि मया दत्तमित्युक्त्वा सा तथाचरेत्
कौटिल्यं तद्भ्रुवोर्द्रष्टुं श्रोतुं तद्भर्त्सनं वचः ॥ ७५ ॥

ततः सारीशुकानां च श्रुत्वा वागाहवं मिथः
निर्गच्छतस्ततः स्थानाद्गन्तुकामौ गृहं प्रति ॥ ७६ ॥

कृष्णः कान्तामनुज्ञाप्य गवामभिमुखं व्रजेत्
सा तु सूर्यगृहं गच्छेत्सखीमण्डलसंयुता ॥ ७७ ॥

कियद्दूरं ततो गत्वा परावृत्य हरिं पुनः
विप्रवेषं समास्थाय याति सूर्यगृहं प्रति ॥ ७८ ॥

सूर्यं प्रपूजयेत्तत्र प्रार्थितस्तत्सखीजनैः
तदैव कल्पितैर्वेदैः परिहासविगर्भितैः ॥ ७९ ॥

ततस्ता ज्ञापितं कान्तं परिज्ञाय विचक्षणाः
आनन्दसागरे मग्ना न विदुः स्वं न चापरम् ॥ ८० ॥

विहारैर्विविधैरेवं सार्द्धयामद्वयं मुने
नीत्वा गृहं व्रजेयुस्ताः स च कृष्णो गवां व्रजेत् ॥ ८१ ॥

सङ्गम्य स्वसखीन्कृष्णो गृहीत्वा गाः समन्ततः
आगच्छति व्रजं हर्षान्नादयन्मुरलद्यं मुने ॥ ८२ ॥

ततो नन्दादयः सर्वे श्रुत्वा वेणुरवं हरेः
गोधूलिपटलव्याप्तं दृष्ट्वा चापि नभस्तलम् ॥ ८३ ॥

विसृज्य सर्वकर्माणि स्त्रियो बालादयोऽपि च
कृष्णस्याभिमुखं यान्ति तद्दर्शनसमुत्सुकाः ॥ ८४ ॥

राजमार्गे व्रजद्वारि यत्र सर्वे व्रजौकसः
कृष्णोऽपि तान्समागम्य यथावदनुपूर्वशः ॥ ८५ ॥

दर्शनस्पर्शनैर्वाचा स्मितपूर्वावलोकनैः
गोपवृद्धान्नमस्कारैः कायिकैर्वाचिकैरपि ॥ ८६ ॥

अष्टाङ्गपातैः पितरौ रोहिणीमपि नारद
नेत्रान्तसूचितेनैव विनयेन प्रियां तथा ॥ ८७ ॥

एवं तैस्तद्यथायोग्यं व्रजौकोभिः प्रपूजितः
गवालये तथा गाश्च सम्प्रवेश्य समन्ततः ॥ ८८ ॥

पितृभ्यामर्थितो याति भ्रात्रा सह निजालयम्
स्नात्वा पीत्वा तत्र किञ्चिद्भुक्त्वा मात्रानुमोदितः ॥ ८९ ॥

गवालयं पुनर्याति दोग्धुकामो गवां पयः
ताश्च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन ॥ ९० ॥

पित्रा सार्द्धं गृहं याति तत्र भावशतानुगः
तत्र पित्रा पितृव्यैश्च तत्पुत्रैश्च बलेन च ॥ ९१ ॥

भुनक्ति विविधान्नानि चर्व्यचोष्यादिकानि च
तन्मतिः प्रार्थनात्पूर्वं राधिका च तदैव ह ॥ ९२ ॥

प्रस्थापयेत्सखीद्वारा पक्वान्नानि तदालयम्
श्लाघयंश्च हरिस्तानि भुक्त्वा पित्रादिभिः सह ॥ ९३ ॥

सभागृहं व्रजेत्तैश्च जुष्टं बन्दिजनादिभिः
पक्वान्नानि गृहीत्वा याः सख्यस्तत्र पुरागताः ॥ ९४ ॥

बहूनि च पुनस्तानि प्रदत्तानि यशोदया
सख्यस्तत्र तया दत्तं कृष्णोच्छिष्टं नयन्ति च ॥ ९५ ॥

सर्वं ताभिः समानीय राधिकायै निवेद्यते
सापि भुक्त्वा सखीवर्गयुता तदनुपूर्वशः ॥ ९६ ॥

सखीभिर्मण्डिता तिष्ठेदभिसर्त्तुं समुद्यता
प्रस्थाप्यते मया काचिदित एव ततः सखी ॥ ९७ ॥

तयाभिसारिता साथ यमुनायाः समीपतः
कल्पवृक्षनिकुञ्जेऽस्मिन्दिव्यरत्नमये गृहे ॥ ९८ ॥

सितकृष्णनिशायोग्यवेषा याति सखीवृता
कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतूहलं ततः ॥ ९९ ॥

कात्यायन्या मनोज्ञानि श्रुत्वा सङ्गीतकान्यपि
धनधान्यादिभिस्ताश्च प्रीणयित्वा विधानतः १००
जनैराराधितो मात्रा याति सख्यानिकेतनम्
मातरि प्रस्थितायां च भोजयित्वा ततो गृहम् १०१
सङ्केतकं कान्तयात्र समागच्छेदलक्षितः
मिलित्वा तावुभावत्र क्रीडतो वनराजिषु १०२
विहारैर्विविधै रासलास्यहासपुरस्सरैः
सार्द्धयामद्वयं नीत्वा रात्रेरेवं विहारतः १०३
सुषुप्सू विशतः कुञ्जं पक्षिणीभिरलक्षितौ
एकान्ते कुसुमैः कॢप्ते केलितल्पे मनोहरे १०४
सुप्ता वा तिष्ठतस्तत्र सेव्यमानौ निजालिभिः
इति ते सर्वमाख्यातं नैत्यकं चरितं हरेः १०५
पापिनोऽपि विमुच्यन्ते श्रवणादस्य नारद
नारद उवाच-
धन्योऽस्म्यनुगृहीतोऽस्मि त्वया देवि न संशयः १०६
हरेर्दैनन्दिनीलीला यतो मेऽद्य प्रकाशिता
सूत उवाच-
इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूजितः १०७
अन्तर्धानं गतो ब्रह्मन्नारदो मुनिसत्तमः
मयाप्येतच्चानुपूर्व्यात्सर्वमेव प्रकीर्तितम् १०८
जपेन्नित्यं प्रयत्नेन मन्त्रयुग्ममनुत्तमम्
कृष्णवक्त्रादिदं लब्धं पुरा रुद्रेण यत्नतः १०९
तेनोक्तं नारदायापि नारदेन ममोदितम्
संस्कारांश्च विधायैव मयाप्येतत्तवोदितम् ११०
त्वयाप्येतद्गोपनीयं रहस्यं परमाद्भुतम्
शौनक उवाच-
कृतकृत्योभवं साक्षात्त्वत्प्रसादादहं गुरो १११
रहस्यानां रहस्यं यत्त्वया मह्यं प्रकाशितम्
सूत उवाच-
धर्मानेतानुपातिष्ठञ्जल्पन्मन्त्रमहर्निशम् ११२
अचिरादेव तद्दास्यमवाप्स्यसि न संशयः
मयापि गम्यते ब्रह्मन्नित्यमायतनं विभोः ११३
गुरोर्गुरोर्भानुजायाः कूले गोपीश्वरस्य च ११४
इदं चरित्रं परमं पवित्रं प्रोक्तं महेशेन महानुभावम्
शृण्वन्ति ये भक्तियुता मनुष्यास्ते यान्ति नित्यं पदमच्युतस्य ११५
धन्यं यशस्यमायुष्यमारोग्याभीष्टसिद्धिदम्
स्वर्गापवर्गसम्पत्तिकारणं पापनाशनम् ११६
भक्त्या पठन्ति ये नित्यं मानवा विष्णुतत्पराः
न तेषां पुनरावृत्तिर्विष्णुलोकात्कथञ्चन ११७
इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनमाहात्म्ये त्र्यशीतितमोऽध्यायः ॥ ८३ ॥

समाप्तं वृन्दावनमाहात्म्यम्