०८२

शिव उवाच-

विश्वास-प्रस्तुतिः

अथ दीक्षाविधिं वक्ष्ये शृणु नारद तत्त्वतः
श्रवणादेव मुच्येत विना तस्य विधानतः ॥ १ ॥

मूलम्

आविरञ्च्याज्जगत्सर्वं विज्ञाय नश्वरं बुधः
आध्यात्मिकादि त्रिविध दुःखमेवानुभूय च ॥ २ ॥

अनित्यत्वाच्च सर्वेषां सुखानां मुनिसत्तम
दुःखपक्षे विनिक्षिप्य तानि तेभ्यो विवर्जितः ॥ ३ ॥

विरज्य संसृतेर्हानौ साधनानि विचिन्तयेत्
अनुत्तमसुखस्यापि सम्प्राप्तौ भृशनिर्वृतः ॥ ४ ॥

नराणां दुष्करत्वं हि विज्ञाय च महामतिः
भृशमार्त्तस्ततो विप्र मां गुरुं शरणं व्रजेत् ॥ ५ ॥

शान्तो विमत्सरः कृष्णे भक्तोऽनन्यप्रयोजनः
अनन्यसाधनः श्रीमान्कामलोभविवर्जितः ॥ ६ ॥

श्रीकृष्णरसतत्त्वज्ञः कृष्णमन्त्रविदां वरः
कृष्णमन्त्राश्रयो नित्यं मन्त्रभक्तः सदा शुचिः ॥ ७ ॥

सद्धर्मशासकोनित्यं सदाचारनियोजकः
सम्प्रदायी कृपापूर्णो विरागी गुरुरुच्यते ॥ ८ ॥

एवमादिगुणः प्रायः शुश्रूषुर्गुरुपादयोः
गुरौ नितान्तभक्तश्च मुमुक्षुः शिष्य उच्यते ॥ ९ ॥

यत्साक्षात्सेवनं तस्य प्रेम्णा भागवतो भवेत्
स मोक्षः प्रोच्यते प्राज्ञैर्वेदवेदाङ्गवेदिभिः ॥ १० ॥

आश्रित्य स्वगुरोः पादौ निजवृत्तं निवेदयेत्
स सन्देहानपाकृत्य बोधयित्वा पुनः पुनः ॥ ११ ॥

स्वपादप्रणतं शान्तं शुश्रूषुं निजपादयोः
अतिहृष्टमनाः शिष्यं मनुमध्यापयेत्परम् ॥ १२ ॥

चन्दनेन मृदा वापि विलिखेद्बाहुमूलयोः
वामदक्षिणयोर्विप्र शङ्खचक्रे यथाक्रमम् ॥ १३ ॥

ऊर्द्ध्वपुण्ड्रं ततः कुर्याद्भालादिषु विधानतः
ततोमन्त्रद्वयं तस्य दक्षकर्णे विनिर्दिशेत् ॥ १४ ॥

मन्त्रार्थं च वदेत्तस्मै यथावदनुपूर्वशः
दासशब्दयुतं नाम धार्यं तस्य प्रयत्नतः ॥ १५ ॥

ततोऽतिभक्त्या सस्नेहं वैष्णवान्भोजयेद्बुधः
श्रीगुरुं पूजयेच्चापि वस्त्रालङ्करणादिभिः ॥ १६ ॥

सर्वस्वं गुरवे दद्यात्तदर्द्धं वा महामुने
स्वदेहमपि निक्षिप्य गुरौ स्थेयमकिञ्चनैः ॥ १७ ॥

य एतैः पञ्चभिर्विद्वान्संस्कारैः संस्कृतो भवेत्
दास्यभागी स कृष्णस्य नान्यथा कल्पकोटिभिः ॥ १८ ॥

अङ्कनं चोर्द्ध्वपुण्ड्रश्च मन्त्रो नामविधारणम्
पञ्चमो याग इत्युक्ताः संस्काराः पूर्वसूरिभिः ॥ १९ ॥

अङ्कनं शङ्खचक्राद्यैः सच्छिद्रं पुण्ड्रमुच्यते
दासशब्दयुतं नाममन्त्रो युगलसञ्ज्ञकः ॥ २० ॥

गुरुवैष्णवयोः पूजा याग इत्यभिधीयते
एते परमसंस्कारा मया ते परिकीर्तिताः ॥ २१ ॥

अथ तुभ्यं प्रपन्नानां धर्मान्वक्ष्यामि नारद
यानास्थाय गमिष्यन्ति हरिधाम नराः कलौ ॥ २२ ॥

इत्थं गुरोर्लब्धमन्त्रो गुरुभक्तिपरायणः
सेवमानो गुरुं नित्यं तत्कृपां भावयेत्सुधीः ॥ २३ ॥

सतां धर्मां स्ततः शिक्षेत्प्रपन्नानां विशेषतः
स्वेष्टदेवधिया नित्यं वैष्णवान्परितोषयेत् ॥ २४ ॥

ताडनं भर्त्सनं कामिभोग्यत्वेन यथा स्त्रियः
गृह्णन्ति वैष्णवानां च तत्तद्ग्राह्यं तथा बुधैः ॥ २५ ॥

ऐहिक्यामुष्मिकी चिन्ता नैव कार्या कदाचन
ऐहिकं तु सदा भाव्यं पूर्वाचरितकर्मणा ॥ २६ ॥

आमुष्मिकं तथा कृष्णः स्वयमेव करिष्यति
अतो हि तत्कृते त्याज्यः प्रयत्नः सर्वथा नरैः ॥ २७ ॥

सर्वोपायपरित्यागः कृष्णीयात्मतयार्चनम्
सुचिरं प्रोषिते कान्ते यथा पतिपरायणा ॥ २८ ॥

प्रियानुरागिणी दीना तस्यसङ्गैककाङ्क्षिणी
तद्गुणान्भावयेन्नित्यं गायत्यपि शृणोति च ॥ २९ ॥

श्रीकृष्णगुणलीलादि स्मरणादि तथाचरेत्
न पुनः साधनत्वेन कार्यं तत्तु कदाचन ॥ ३० ॥

चिरं प्रोष्यागतं कान्तं प्राप्य कान्तधिया यथा
चुम्बन्ती वा श्लिष्यन्तीव नेत्रान्ते न पिबन्त्यपि ॥ ३१ ॥

ब्रह्मानन्दगतेवाशु सेवते परया मुदा
श्रीमदर्चावतारेण तथा परिचरेद्धरिम् ॥ ३२ ॥

अनन्यशरणो नित्यं तथैवानन्यसाधनः
अनन्यसाधनार्थत्वात्स्यादनन्य प्रयोजनः ॥ ३३ ॥

नान्यं च पूजयेद्देवं न नमेत्तं स्मरेन्न च
न च पश्येन्न गायेच्च न च निन्देत्कदाचन ॥ ३४ ॥

नान्योच्छिष्टं च भुञ्जीत नान्यशेषं च धारयेत्
अवैष्णवानां सम्भाषा वन्दनादि विवर्जयेत् ॥ ३५ ॥

ईशवैष्णवयोर्निन्दां शृणुयान्न कदाचन
कर्णौ पिधाय गन्तव्यं शक्तौ दण्डं समाचरेत् ॥ ३६ ॥

आश्रित्य चातकीं वृत्तिं देहपातावधि द्विज
द्वयस्यार्थं भावयित्वा स्थेयमित्येव मे मतिः ॥ ३७ ॥

सरः समुद्र नद्यादीन्विहाय चातको यथा
तृषितो म्रियते वापि याचते वा पयोधरम् ॥ ३८ ॥

एवमेव प्रयत्नेन साधनानि विचिन्तयेत्
स्वेष्टदेवःसदायाच्योगतिस्त्वम्मेभवेरिति ॥ ३९ ॥

स्वेष्टदेव तदीयानां गुरोरपि विशेषतः
आनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत् ॥ ४० ॥

सकृत्प्रपन्नो वक्ष्यामि कल्याणगुणतां तयोः
विचिन्त्य विश्वसेदेतौ मामिमावुद्धरिष्यतः ॥ ४१ ॥

संसारसागरान्नाथ मित्र पुत्र गृहा कुलात्
गोप्तारौ मे युवामेव प्रपन्नभयभञ्जनौ ॥ ४२ ॥

योहं ममास्ति यत्किञ्चिदिह लोके परत्र च
तत्सर्वं भवतोरद्य चरणेषु समर्चितम् ॥ ४३ ॥

अहमस्म्यपराधानामालयस्त्यक्त साधनः
अगतिश्च ततो नाथौ भवन्तावेव मे गतिः ॥ ४४ ॥

तवास्मि राधिकाकान्त कर्मणा मनसा गिरा
कृष्णकान्ते तवैवास्मि युवामेव गतिर्मम ॥ ४५ ॥

शरणं वां प्रपन्नोऽस्मि करुणानिकराकरौ
प्रसादं कुरु तं दास्यं मयि दुष्टेऽपराधिनि ॥ ४६ ॥

इत्येवं जपता नित्यं स्थातव्यं पद्यपञ्चकम्
अचिरादेव तद्दास्यमिच्छता मुनिसत्तम ॥ ४७ ॥

बाह्यधर्मा मया ह्येते सङ्क्षेपेणोपवर्णिताः
आन्तरः परमो धर्मः प्रपन्नानामथोच्यते ॥ ४८ ॥

कृष्णप्रिया सखीभावं समाश्रित्य प्रयत्नतः
तयोः सेवां प्रकुर्वीत दिवानक्तमतन्द्रितः ॥ ४९ ॥

उक्तो मन्त्रस्तदङ्गानि तथा तस्याधिकारिणः
तद्धर्माश्च तथा तेभ्यः फलं मन्त्रस्य नारद ॥ ५० ॥

अनुतिष्ठ त्वमप्येतत्तयोर्दास्यमवाप्स्यसि
स्वाधिकारक्षये विप्र सन्देहो नात्र कश्चन ॥ ५१ ॥

सकृन्मात्रप्रपन्नाय तवास्मीति च याचते
निजदास्यं हरिर्दद्यान्न मेऽत्रास्ति विचारणा ॥ ५२ ॥

अत्र ते वर्णयिष्यामि रहस्यं परमाद्भुतम्
श्रुतपूर्वं मया कृष्णात्साक्षाद्भगवतः परम् ॥ ५३ ॥

एष ते कथितो धर्म आन्तरो मुनिसत्तम
गुह्यादेष गुह्यतमो गोपनीयः प्रयत्नतः ॥ ५४ ॥

मन्त्ररत्नमहं पूर्वं जपन्कैलासमूर्द्धनि
ध्यायन्नारायणं देवमवसं गहने वने ॥ ५५ ॥

मूलम्

मन्त्ररत्नमहं पूर्वं जपन्कैलासमूर्द्धनि
ध्यायन्नारायणं देवमवसं गहने वने ॥ ५५ ॥

विश्वास-प्रस्तुतिः

ततस्तु भगवांस्तुष्टः प्रादुरास ममाग्रतः
व्रियतां वर इत्युक्ते मयाप्युद्घाट्य लोचने ॥ ५६ ॥

दृष्टो देवःप्रिया सार्द्धं संस्थितो गरुडोपरि
प्रणिपत्यावोचमहं वरदं कमलापतिम् ॥ ५७ ॥

यद्रूपं ते कृपासिन्धो परमानन्ददायकम्
सर्वानन्दाश्रयं नित्यं मूर्तिमत्सर्वतोऽधिकम् ॥ ५८ ॥

निर्गुणं निष्क्रियं शान्तं यद्ब्रह्मेति विदुर्बुधाः
तदहं द्रष्टुमिच्छामि चक्षुर्भ्यां परमेश्वर ॥ ५९ ॥

ततो मामाह भगवान्प्रपन्नं कमलापतिः
तदद्य द्रक्ष्यसे रूपं यत्ते मनसि काङ्क्षितम् ॥ ६० ॥

यमुना पश्चिमे तीरे गच्छ वृन्दावनं मम
इत्युक्त्वान्तर्दधे देवः प्रियासार्द्धं जगत्पतिः ॥ ६१ ॥

अहमप्यागतस्तर्हि यमुनायास्तटं शुभम्
तत्र कृष्णमपश्यं च सर्वदेवेश्वरेश्वरम् ॥ ६२ ॥

गोपवेषधरं कान्तं किशोरवयसान्वितम्
प्रियास्कन्धे सुविन्यस्त वामहस्तं मनोहरम् ॥ ६३ ॥

हसन्तं हासयतं तां मध्ये गोपीकदम्बके
स्निग्धमेघसमाभासं कल्याणगुणमन्दिरम् ॥ ६४ ॥

प्रहस्य च ततः कृष्णो मामाहामृतभाषणः
अहं ते दर्शनं यातो ज्ञात्वा रुद्र तवेप्सितम् ॥ ६५ ॥

यदद्य मे त्वया दृष्टमिदं रूपमलौकिकम्
घनीभूतामलप्रेम सच्चिदानन्दविग्रहम् ॥ ६६ ॥

नीरूपं निर्गुणं व्यापि क्रियाहीनं परात्परम्
वदन्त्युपनिषत्सङ्घा इदमेव ममानघम् ॥ ६७ ॥

प्रकृत्युत्थगुणाभावादनन्तत्वात्तथेश्वरम्
असिद्धत्वान्मद्गुणानां निर्गुणं मां वदन्ति हि ॥ ६८ ॥

अदृश्यत्वान्ममैतस्य रूपस्य चर्मचक्षुषा
अरूपं मां वदन्त्येते वेदाः सर्वे महेश्वर ॥ ६९ ॥

व्यापकत्वाच्चिदंशेन ब्रह्मेति च विदुर्बुधाः
अकर्तृत्वात्प्रपञ्चस्य निष्क्रियं मां वदन्ति हि ॥ ७० ॥

मायागुणैर्यतोमेंऽशा कुर्वन्ति सर्जनादिकम्
न करोमि स्वयं किञ्चित्सृष्ट्यादिकमहं शिव ॥ ७१ ॥

अहमासां महादेव गोपीनां प्रेमविह्वलः
क्रियान्तरं न जानामि नात्मानमपि नारद ॥ ७२ ॥

विहराम्यनया नित्यमस्याः प्रेमवशीकृतः
इमां तु मत्प्रियां विद्धि राधिकां परदेवताम् ॥ ७३ ॥

अस्याश्च परितः पश्य सख्यः शतसहस्रशः
नित्याः सर्वा इमा रुद्र यथाहं नित्यविग्रहः ॥ ७४ ॥

गोपा गावो गोपिकाश्च सदा वृन्दावनं मम
सर्वमेतन्नित्यमेव चिदानन्दरसात्मकम् ॥ ७५ ॥

इदमानन्दकन्दाख्यं विद्धि वृन्दावनं मम
यस्मिन्प्रवेशमात्रेण न पुनः संसृतिं विशेत् ॥ ७६ ॥

मद्वनं प्राप्य यो मूढः पुनरन्यत्र गच्छति
स आत्महा भवेदेव सत्यं सत्यं मयोदितम् ॥ ७७ ॥

वृन्दावनं परित्यज्य नैव गच्छाम्यहं क्वचित्
निवसाम्यनया सार्द्धमहमत्रैव सर्वदा ॥ ७८ ॥

इत्येवं सर्वमाख्यातं यत्ते रुद्र हृदि स्थितम्
कथयस्व ममेदानीं किमन्यच्छ्रोतुमिच्छसि ॥ ७९ ॥

ततस्तमब्रवं देवमहं च मुनिसत्तम
ईदृशस्त्वं कथं लभ्यस्तमुपायं वदस्व मे ॥ ८० ॥

ततो मामाह भगवान्साधु रुद्र तवोदितम्
अतिगुह्यतमं ह्येतद्गोपनीयं प्रयत्नतः ॥ ८१ ॥

सकृदावां प्रपन्नो यस्त्यक्तोपाय उपासते
गोपीभावेन देवेश स मामेति न चेतरः ॥ ८२ ॥

मूलम्

सकृदावां प्रपन्नो यस्त्यक्तोपाय उपासते
गोपीभावेन देवेश स मामेति न चेतरः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

सकृदावां प्रपन्नो वा मत्प्रियामेकिकामुत
सेवतेनन्यभावेन स मामेति न संशयः ॥ ८३ ॥

मूलम्

सकृदावां प्रपन्नो वा मत्प्रियामेकिकामुत
सेवतेनन्यभावेन स मामेति न संशयः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

यो मामेव प्रपन्नश्च मत्प्रियां न महेश्वर
न कदापि स चाप्नोति मामेवं ते मयोदितम् ॥ ८४ ॥

सकृदेव प्रपन्नोयस्तवास्मीति वदेदपि
साधनेन विनाप्येव मामाप्नोति न संशयः ॥ ८५ ॥

तस्मात्सर्वप्रयत्नेन मत्प्रियां शरणं व्रजेत्
आश्रित्य मत्प्रियां रुद्र मां वशीकर्त्तुमर्हसि ॥ ८६ ॥

इदं रहस्यं परमं मया ते परिकीर्तितम्
त्वयाप्येतन्महादेव गोपनीयं प्रयत्नतः ॥ ८७ ॥

त्वमप्येनां समाश्रित्य राधिकां मम वल्लभाम्
जपन्मे युगलं मन्त्रं सदा तिष्ठ मदालये ॥ ८८ ॥

इत्युक्त्वा दक्षिणे कर्णे मम कृष्णो दयानिधिः
उपदिश्य परं मन्त्रं संस्कारांश्च विधाय हि ॥ ८९ ॥

सगणोंऽतर्दधे विप्र तत्रैव मम पश्यतः
अहमप्यत्र तिष्ठामि तदारभ्य निरन्तरम् ॥ ९० ॥

सर्वमेतन्मया तुभ्यं साङ्गमेव प्रकीर्त्तितम्
अधुना वद विप्रेन्द्र किं भूयः श्रोतुमिच्छसि ॥ ९१ ॥

इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनमाहात्म्ये
द्व्यशीतितमोऽध्यायः ८२