ऋषय ऊचु-
विश्वास-प्रस्तुतिः
सूत जीव चिरं साधो श्रीकृष्णचरितामृतम्
त्वया प्रकाशितं सर्वं भक्तानां भवतारणम् ॥ १ ॥
मूलम्

श्रीकृष्णलीलां निखिलां ब्रूहि दैनन्दिनीं प्रभो
ययाकर्णितया साधो कृष्णे भक्तिर्विवर्द्धते ॥ २ ॥

गुरोः शिष्यस्य मन्त्रस्य विधानं लक्षणं पृथक्
वदास्माकं महाभाग त्वं हि नः परमः सुहृत् ॥ ३ ॥

सूत उवाच-
एकदा यमुनातीरे समासीनं जगद्गुरुम्
नारदः प्रणिपत्याह देवदेवं सदाशिवम् ॥ ४ ॥

नारद उवाच-
देवदेव महादेव सर्वज्ञ जगदीश्वर
भगवद्धर्मतत्त्वज्ञ कृष्णमन्त्रविदां वर ॥ ५ ॥

कृष्णमन्त्रा मया लब्धास्त्वत्तो ये च पितुः परे
ते सर्वे साधितास्तत्वान्मन्त्रराजादयो मया ॥ ६ ॥

बहुवर्षसहस्रैस्तु शाकमूलफलाशिना
शुष्कपर्णाम्बुवाय्वादि भोजिना च निराशिना ॥ ७ ॥

स्त्रीणां सन्दर्शनालापवर्जिना भूमिशायिना
कामादिषड्गुणं जित्वा बाह्येन्द्रियनियम्यता ॥ ८ ॥

एवङ्कृतेऽपि नैवात्मा सन्तुष्टो मम शङ्कर
तद्ब्रूहि यत्प्रसिध्येत संस्काराद्यैर्विना प्रभो ॥ ९ ॥

सकृदुच्चारणादेव ददाति फलमुत्तमम्
यदि योग्योऽस्मि देवेश तदा मे कृपया वद ॥ १० ॥

शिव उवाच-
साधु पृष्टं महाभाग त्वया लोकहितैषिणा
सुगोप्यमपि वक्ष्यामि मन्त्रचिन्तामणिं तव ॥ ११ ॥

रहस्यानां रहस्यं यद्गुह्यानां गुह्यमुत्तमम्
न मया कथितं देव्यै नाग्रजेभ्यः पुरा तव ॥ १२ ॥

वक्ष्यामि युगलं तुभ्यं कृष्णमन्त्रमनुत्तमम्
मन्त्रचिन्तामणिर्नाम युगलं द्वयमेव च ॥ १३ ॥

पर्याया अस्य मन्त्रस्य तथा पञ्चपदीति च
गोपीजनपदं वल्लभां तं तु चरणानिति ॥ १४ ॥
मूलम्
पर्याया अस्य मन्त्रस्य तथा पञ्चपदीति च
गोपीजनपदं वल्लभां तं तु चरणानिति ॥ १४ ॥
विश्वास-प्रस्तुतिः
शरणं च प्रपद्ये च एष पञ्चपदात्मकः
मन्त्रचिन्तामणिः प्रोक्तः षोडशार्णो महामनुः ॥ १५ ॥

नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः
पदद्वयात्मको मन्त्रो दशार्णः खलु कथ्यते ॥ १६ ॥

एतां पञ्चपदीं जप्त्वा श्रद्धयाश्रद्धया सकृत्
कृष्णप्रियाणां सान्निध्यं गच्छत्येव न संशयः ॥ १७ ॥

न पुरश्चरणप्रेक्षा नास्य न्यासविधिक्रमः
न देशकालनियमो नारिमित्रादिशोधनम् ॥ १८ ॥
मूलम्
न पुरश्चरणप्रेक्षा नास्य न्यासविधिक्रमः
न देशकालनियमो नारिमित्रादिशोधनम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
सर्वेऽधिकारिणश्चात्र चण्डालान्ता मुनीश्वर
स्त्रियः शूद्रादयश्चापि जडमूकादि पङ्गवः ॥ १९ ॥

अन्ये हूणाः किराताश्च पुलिन्दाः पुष्कसास्तथा
आभीराय वनाः कङ्काः खसाद्याः पापयोनयः ॥ २० ॥

दम्भाहङ्कारपरमाः पापाः पैशुन्यतत्पराः
गोब्राह्मणादि हन्तारो महोपपातकान्विताः ॥ २१ ॥

ज्ञानवैराग्यरहिताः श्रवणादिविवर्जिताः
एते चान्ये च सर्वे स्युर्मनोरस्याधिकारिणः ॥ २२ ॥

यदि भक्तिर्भवेदेषां कृष्णे सर्वेश्वरेश्वरे
तदाधिकारिणः सर्वे नान्यथा मुनिसत्तम ॥ २३ ॥

याज्ञिको दाननिरतः सर्वतन्त्रोपसेवकः
सत्यवादी यतिर्वापि वेदवेदाङ्गपारगः ॥ २४ ॥

ब्रह्मनिष्ठः कुलीनो वा तपस्वी व्रततत्परः
अत्राधिकारी न भवेत्कृष्णभक्तिविवर्जितः ॥ २५ ॥

तस्मादकृष्णभक्ताय कृतघ्नाय न मानिने
न च श्रद्धाविहीनाय वक्तव्यं नास्तिकाय च ॥ २६ ॥

न चाशुश्रूषवे वाच्यं नासंवत्सरसेविने
श्रीकृष्णेऽनन्यभक्ताय दम्भलोभविवर्जिने ॥ २७ ॥

कामक्रोधविमुक्ताय देयमेतत्प्रयत्नतः
ऋषिश्चैवाहमेतस्य गायत्रीछन्द उच्यते ॥ २८ ॥

देवता बल्लवीकान्तो मन्त्रस्य परिकीर्तितः
सप्रियस्य हरेर्दास्ये विनियोग उदाहृतः ॥ २९ ॥

आचक्राद्यैस्तथा मन्त्रैः पञ्चाङ्गानि प्रकल्पयेत्
अथवापि स्वबीजेन कराङ्गन्यासकौ चरेत् ॥ ३० ॥

मन्त्रस्य प्रथमो वर्णो बिन्दुना मूर्ध्निभूषितः
गमित्येवं भवेद्बीजं नमः शक्तिरिहोदिता ॥ ३१ ॥

अन्तिमार्णैर्दशाङ्गानि तैरेव च तथार्चनम्
गन्धपुष्पादिभिस्तच्च जलैरेवाप्यसम्भवे ॥ ३२ ॥

न्यासपूर्वविधानेन कर्तव्यं हरितुष्टये
अतएवास्य मन्त्रस्य न्यासाद्यन्ये वदन्ति च ॥ ३३ ॥

सकृदुच्चारणादेव कृतकृत्यत्वदायिनः
तथापि दशधा नित्यं जपाद्यर्थं प्रविन्यसेत् ॥ ३४ ॥

अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम
पीताम्बरं घनश्यामं द्विभुजं वनमालिनम् ॥ ३५ ॥

बर्हिबर्हकृतोत्तंसं शशिकोटिनिभाननम्
घूर्णायमाननयनं कर्णिकारावतंसिनम् ॥ ३६ ॥
मूलम्
बर्हिबर्हकृतोत्तंसं शशिकोटिनिभाननम्
घूर्णायमाननयनं कर्णिकारावतंसिनम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अभितश्चन्दनेनाथ मध्ये कुङ्कुमबिन्दुना
रचितं तिलकं भाले बिभ्रतं मण्डलाकृतिम् ॥ ३७ ॥

तरुणादित्यसङ्काशं कुण्डलाभ्यां विराजितम्
घर्माम्बुकणिकाराजद्दर्पणाभकपोलकम् ॥ ३८ ॥

प्रियास्य न्यस्तनयनं लीलापाङ्गोन्नतभ्रुवम्
अग्रभागन्यस्तमुक्ता विस्फुरत्प्रोच्चनासिकम् ॥ ३९ ॥

दशनज्योत्स्नया राजत्पक्वबिम्बफलाधरम्
केयूराङ्गदसद्रत्नमुद्रिकाभिर्लसत्करम् ॥ ४० ॥

बिभ्रतं मुरलद्यं वामे पाणौ पद्मं तथैव च
काञ्चीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदम् ॥ ४१ ॥

रतिकेलिरसावेश चपलं चपलेक्षणम्
हसन्तं प्रियया सार्द्धं हासयन्तं च तां मुहुः ॥ ४२ ॥

इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि
वृन्दारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह ॥ ४३ ॥

वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः
नीलचोलकसंवीतां तप्तहेमसमप्रभाम् ॥ ४४ ॥

पट्टाञ्चलेनावृतार्द्ध सुस्मेराननपङ्कजाम्
कान्तवक्त्रे न्यस्तनेत्रां चकोरी चञ्चलेक्षणाम् ॥ ४५ ॥

अङ्गुष्ठतर्जनीभ्यां च निजकान्तमुखाम्बुजे
अर्पयन्तीं पूगफलं पर्णचूर्णसमन्वितम् ॥ ४६ ॥

मुक्ताहारस्फुरच्चारु पीनोन्नतपयोधराम्
क्षीणमध्यां पृथुश्रोणीं किङ्किणीजालमण्डिताम् ॥ ४७ ॥

रत्नताटङ्ककेयूरमुद्रा वलयधारिणीम्
रणत्कटकमञ्जीर रत्नपादाङ्गुलीयकाम् ॥ ४८ ॥

लावण्यसारमुग्धाङ्गीं सर्वावयवसुन्दरीम्
आनन्दरससम्मग्नां प्रसन्नां नवयौवनाम् ॥ ४९ ॥

सख्यश्च तस्या विप्रेन्द्र तत्समानवयोगुणाः
तत्सेवनपराभाव्याश्चामरव्यजनादिभिः ॥ ५० ॥

अथ तुभ्यं प्रवक्ष्यामि मन्त्रार्थं शृणु नारद
बहिरङ्गैः प्रपञ्चस्य स्वांशैर्मायादि शक्तिभिः ॥ ५१ ॥

अन्तरङ्गैस्तथा नित्यविभूतैस्तैश्चिदादिभिः
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा
देवी कृष्णमयी प्रोक्ता राधिका परदेवता ॥ ५२ ॥

सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी
ततः सा प्रोच्यते विप्र ह्लादिनीति मनीषिभिः ॥ ५३ ॥

तत्कलाकोटिकोट्यंश दुर्गाद्यास्त्रिगुणात्मिकाः
सा तु साक्षान्महालक्ष्मीः कृष्णो नारायणः प्रभुः ॥ ५४ ॥

नैतयोर्विद्यते भेदः स्वल्पोऽपि मुनिसत्तम
इयं दुर्गा हरी रुद्रः कृष्णः शक्र इयं शची ॥ ५५ ॥

सावित्रीयं हरिर्ब्रह्मा धूमोर्णासौ यमो हरिः
बहुना किं मुनिश्रेष्ठ विना ताभ्यां न किञ्चन ॥ ५६ ॥

चिदचिल्लक्षणं सर्वं राधाकृष्णमयं जगत्
इत्थं सर्वं तयोरेव विभूतिं विद्धि नारद ॥ ५७ ॥

न शक्यते मया वक्तुं वर्षकोटिशतैरपि
त्रैलोक्ये पृथिवी मान्या जम्बूद्वीपं ततोवरम् ॥ ५८ ॥

तत्रापि भारतं वर्षं तत्रापि मथुरापुरी
तत्र वृन्दावनं नाम तत्र गोपीकदम्बकम् ॥ ५९ ॥

तत्र राधासखीवर्गस्तत्रापि राधिका वरा
सान्निध्याधिक्यतस्तस्या आधिक्यं स्याद्यथोत्तरम् ॥ ६० ॥

पृथिवी प्रभृतीनां तु नान्यत्किञ्चिदिहोदितम्
सैषा हि राधिका गोपी जनस्तस्याः सखीगणः ॥ ६१ ॥

तस्याः सखीसमूहस्य वल्लभौ प्राणनायकौ
राधाकृष्णौ तयोः पादाः शरणं स्यादिहाश्रये ॥ ६२ ॥

प्रपद्ये गतवानस्मि जीवोऽहं भृशदुःखितः
सोऽहं यः शरणं प्राप्तो मम तस्य यदस्ति च ॥ ६३ ॥

सर्वं ताभ्यां तदर्थं हि तद्भोग्यं न ह्यहं मम
इत्यसौ कथितो विप्र मन्त्रस्यार्थः समासतः ॥ ६४ ॥

युगलार्थस्तथा न्यासः प्रपत्तिः शरणागतिः
आत्मार्पणमिमे पञ्च पर्यायास्ते मयोदिताः ॥ ६५ ॥

अयमेव चिन्तनीयो दिवानक्तमतन्द्रितैः ॥ ६६ ॥

इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनमाहात्म्ये
एकाशीतितमोऽध्यायः ८१