पार्वत्युवाच-
विश्वास-प्रस्तुतिः
घोरे कलियुगे प्राप्ते विषयग्राहसङ्कुले
पुत्रदारधनाद्यार्तैस्तत्कथं धार्यते विभो ॥ १ ॥
मूलम्

तदुपायं महादेव कथयस्व कृपानिधे
ईश्वर उवाच-
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् ॥ २ ॥

हरेराम हरेकृष्ण कृष्णकृष्णेति मङ्गलम्
एवं वदन्ति ये नित्यं न हि तान्बाधते कलि ॥ ३ ॥

अन्तरान्तरकर्माणि कृत्वा नामानि च स्मरेत्
कृष्णकृष्णेति कृष्णेति कृष्णेत्याह पुनः पुनः ॥ ४ ॥

मन्नाम चैव त्वन्नाम योजयित्वा व्यतिक्रमात्
सोऽपि पापात्प्रमुच्येत तूलराशेरिवानलः ॥ ५ ॥

जयाद्येतत्त्वया वाप्यथवा श्रीशब्दपूर्वकम्
तच्च मे मङ्गलं नाम जपन्पापात्प्रमुच्यते ॥ ६ ॥

दिवानिशि च सन्ध्यायां सर्वकालेषु संस्मरेत्
अहर्निशं स्मरन्रामं कृष्णं पश्यति चक्षुषा ॥ ७ ॥

अशुचिर्वा शुचिर्वापि सर्वकालेषु सर्वदा
नामसंस्मरणादेव संसारान्मुच्यते क्षणात् ॥ ८ ॥

नानापराधयुक्तस्य नामापि च हरत्यघम्
यज्ञव्रततपोदानं साङ्गं नैव कलौ युगे ॥ ९ ॥

गङ्गास्नानं हरेर्नाम निरपायमिदं द्वयम् ॥ १० ॥

हत्यायुतं पापसहस्रमुग्रं गुर्वङ्गनाकोटिनिषेवणं च
स्तेयान्यथान्यानि हरेः प्रियेण गोविन्दनाम्ना न च सन्ति भद्रे ॥ ११ ॥

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा
यः स्मरेत्पुण्डीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ १२ ॥

नामसंस्मरणादेव तथा तस्यार्थचिन्तनात्
सौवर्णीं राजतीं वापि तथा पैष्टीं स्रगाकृतिम् ॥ १३ ॥

पादयोश्चिह्नितां कृत्वा पूजां चैव समारभेत्
दक्षिणस्य पदोङ्गुष्ठमूले चक्रं बिभर्ति यः ॥ १४ ॥

तत्र नम्रजनस्यापि संसारच्छेदनाय च
मध्यमाङ्गुलिमूले तु धत्ते कमलमच्युतः ॥ १५ ॥

ध्यातृचित्तद्विरेफाणां लोभनायातिशोभनम्
पद्मस्याधोध्वजं धत्ते सर्वानर्थजयध्वजम् ॥ १६ ॥

कनिष्ठामूलतो वज्रं भक्तपापौघभेदनम्
पार्श्वमध्येंऽकुशं भक्तचित्ते रभसकारणम् ॥ १७ ॥

भोगसम्पन्मयं धत्ते यवमङ्गुष्ठपर्वणि
मूले गदां च पापाद्रिभेदनीं सर्वदेहिनाम् ॥ १८ ॥

सर्वविद्याप्रकाशाय धत्ते स भगवानजः
पद्मादीन्यपि चिह्नानि तत्र दक्षेण यत्पुनः ॥ १९ ॥

वामपादे वसेत्सोऽयं बिभर्त्ति करुणानिधिः
तस्माद्गोविन्दमाहात्म्यमानन्दरससुन्दरम् ॥ २० ॥

शृणुयात्कीर्त्तयेन्नित्यं स निर्मुक्तो न संशयः
मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् ॥ २१ ॥

ज्येष्ठे तु स्नापनं कुर्याच्छ्रीविष्णोर्यत्नतः शुचिः
दैनन्दिनं तु दुरितं पक्षमासर्त्तुवर्षजम् ॥ २२ ॥

ब्रह्महत्यासहस्राणि ज्ञाता ज्ञातकृतानि च
स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च ॥ २३ ॥

कोटिकोटिसहस्राणि ह्युपपापानि यानि च
सर्वाण्यथ प्रणश्यन्ति पौर्णमास्यां तु वासरे ॥ २४ ॥

आसिञ्चेदच्युतं मूर्ध्नि तदैतत्कलशोदकम्
पुरुषसूक्तेन मन्त्रेण पावमानीभिरेव च ॥ २५ ॥

नालिकेरोदकेनाथ तथा तालफलाम्बुना
रत्नोदकेन गन्धेन तथा पुष्पोदकेन च ॥ २६ ॥

पञ्चोपचारैराराध्य यथाविभवविस्तरैः
घं घण्टायै नम इति घण्टावाद्यं प्रदापयेत् ॥ २७ ॥

पतितस्य महाध्वानन्यस्तपातकसञ्चये
पाहि मां पापिनं घोरसंसारार्णवपातिनम् ॥ २८ ॥

य एवं कुरुते विद्वान्ब्राह्मणः श्रोत्रियः शुचिः
सर्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति ॥ २९ ॥

आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम्
आषाढे च रथं कुर्याच्छ्रावणे श्रवणाविधिम् ॥ ३० ॥

भाद्रे च जन्मदिवस उपवासपरो भवेत्
प्रसुप्तस्य परीवर्तमाश्विने मासि कारयेत् ॥ ३१ ॥

उत्थानं श्रीहरेः कुर्यादन्यथा विष्णुद्रोहकृत्
शुभे चैवाश्विने मासि महामायां च पूजयेत् ॥ ३२ ॥

सौवर्णीं राजतीं वापि विष्णुरूपां बलिं विना
हिंसाद्वेषौ न कर्तव्यौ धर्मात्मा विष्णुपूजकः ॥ ३३ ॥

कार्तिके पुष्यमासे च कामतः पुण्यमाचरेत्
दामोदराय दीपं च प्रांशुस्थाने प्रदापयेत् ॥ ३४ ॥

सप्तवर्तिप्रमाणेन दीपः स्याच्चतुरङ्गुलः
पक्षान्ते च प्रकर्तव्या दीपमालावलि शुभा ॥ ३५ ॥

मार्गशीर्षे सिते पक्षे षष्ठ्यां च सितवस्त्रकैः
पूजयेज्जगदीशं च ब्रह्माणं च विशेषतः ॥ ३६ ॥

पौषे पुष्पाभिषेकं च वर्जयेच्चन्दनं श्लथम्
सङ्क्रान्त्यां माघमासे च साधिवासित तण्डुलात् ॥ ३७ ॥

नैवेद्यं विष्णवे दद्यादिमं मन्त्रमुदीरयेत्
ब्राह्मणान्भोजयेद्भक्त्या देवदेवपुरः स्थितान् ॥ ३८ ॥

अभ्यर्च्य भगवद्भक्तान्द्विजांश्च भगवद्धिया
एकस्मिन्भोजिते भक्ते कोटिर्भवति भोजिता ॥ ३९ ॥

विप्रभोजनमात्रेण व्यङ्गं साङ्गं ध्रुवं भवेत्
पञ्चम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम् ॥ ४० ॥

पूजयित्वा विधानेन चूतपल्लवसंयुतैः
फलचूर्णैश्च विविधैर्वासितैः पटसाधितैः ॥ ४१ ॥

काननं रमणीयं च प्रदीप्तं दीपदीपितम्
द्राक्षेक्षु रम्भा जम्बीर नागरङ्गं च पूगकम् ॥ ४२ ॥

नालिकेरं च धात्रीं च पनसं च हरीतकीम्
अन्यैश्च वृक्षखण्डैश्च सर्वर्तुकुसुमान्वितैः ॥ ४३ ॥

अन्यैश्च विविधैश्चैव फलपुष्पसमन्वितैः
वितानैः कुसुमोद्दामैर्वारिपूर्णघटैस्तथा ॥ ४४ ॥

चूतशाखोपशाखाभिः शोभितं छत्रचामरैः
जयकृष्णेति संस्मृत्य प्रदक्षिणपुरस्सरम् ॥ ४५ ॥

विशेषतः कलियुगे दोलोत्सवो विधीयते
फाल्गुने च चतुर्दश्यामष्टमे यामसञ्ज्ञके ॥ ४६ ॥

अथवा पौर्णमास्यां तु प्रतिपत्सन्धिसञ्ज्ञके
पूजयेद्विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः ॥ ४७ ॥

सितरक्तैर्गौरपीतैः कर्पूरादि विमिश्रितैः
हरिद्रारागयोगाच्च रङ्गरूपैर्मनोहरैः ॥ ४८ ॥

अन्यैर्वा रङ्गरूपैश्च प्रीणयेत्परमेश्वरम्
एकादश्यां समारभ्य पञ्चम्यां तं समापयेत् ॥ ४९ ॥

पञ्चाहानि त्र्यहानि वा दोलोत्सवो विधीयते
दक्षिणाभिमुखं कृष्णं दोलमानं सकृन्नराः ॥ ५० ॥

दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः
निक्षिप्य जलपात्रे च मासि माधवसञ्ज्ञके ॥ ५१ ॥

सौवर्णपात्रे रौप्ये वा ताम्रे वाप्यथ मृण्मये
तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम् ॥ ५२ ॥

प्रतिमां वा महाभागे तस्य पुण्यं न गण्यते
दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् ॥ ५३ ॥

वैशाखे श्रावणे भाद्रे कर्तव्यं वा तदर्पणम्
पूर्वेपूर्वे तु वातस्थे दमनादिषु कर्मसु ॥ ५४ ॥

प्रकर्तव्यं विधानेन अन्यथा निष्फलं भवेत्
वैशाखे च तृतीयायां जलमध्ये विशेषतः ॥ ५५ ॥

अथवा मण्डले कुर्यान्मण्डपे वा बृहद्वने
सुगन्धचन्दनेनाङ्गं सुपुष्टं च दिनेदिने ॥ ५६ ॥

यथाप्रयत्नतः कुर्यात्कृशाङ्गस्येव पुष्टिदम्
चन्दनागुरु ह्रीबेर कृष्णकुङ्कुम रोचना ॥ ५७ ॥

जटामांसी मुरा चैव विष्णोर्गन्धाष्टकं विदुः
तैस्तैर्गन्धयुतैश्चापि विष्णोरङ्गानि लेपयेत् ॥ ५८ ॥

धृष्टं च तुलसीकाष्ठं कर्पूरागुरुयोगतः
अथवा केसरैर्योज्यं हरिचन्दनमुच्यते ॥ ५९ ॥

यात्राकाले च ये कृष्णं भक्त्या पश्यन्ति मानवाः
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ६० ॥

सुगन्धमिश्रितैस्तोयैर्देवदेवं गलन्ति ये
अथवा पुष्पमध्ये तु स्थापयेज्जगदीश्वरम् ॥ ६१ ॥

वृन्दावनं तत्र गत्वा उपस्कृत्य फलानि च
विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ॥ ६२ ॥

नारिकेलफलं बीजकोशं चोद्धृत्य दापयेत्
घोण्टाफलं च पनसं कोशमुद्धृत्य दापयेत् ॥ ६३ ॥

दध्ना विमिश्रितं चान्नं घृतेनाप्लुत्य दापयेत्
पाचितं पिष्टकं पूपमष्टादशघृतेन च ॥ ६४ ॥

तैलैश्च तिलसम्मिश्रैः फलं पक्वं प्रदापयेत्
यद्यदेवात्मनः प्रीतं तत्तदीशाय दापयेत् ॥ ६५ ॥

दत्वा नैवेद्यवस्त्रादि नाददीत कथञ्चन
त्यक्तं च विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः ॥ ६६ ॥

इति ते कथितं किञ्चित्समासेन महेश्वरि
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ॥ ६७ ॥

श्रीकृष्णरूपगुणवर्णन शास्त्रवर्गबोधाधिकार इह चेदलमन्यपाठैः
तत्प्रेमभावरसभक्तिविलास नामहारेषु चेत्खलु मनः किमु कामिनीभिः ॥ ६८ ॥

तच्चेतसा प्रभजतां व्रजबालकेन्द्रं वृन्दावनक्षितितलं यमुनाजलं च
तल्लोकनाथपदपङ्कजधूलिमिश्रलिप्तं वपुः किल वृथागरुचन्दनाद्यैः ॥ ६९ ॥

इति श्रीपद्मपुराणे पातालखण्डे उमामहेश्वरसंवादे वृन्दावनमाहात्म्ये अशीतितमोऽध्यायः ८०