०७९

ईश्वर उवाच-

विश्वास-प्रस्तुतिः

शालग्रामे मणौयन्त्रे मण्डले प्रतिमासु च
नित्यं तु श्रीहरेः पूजा केवले भवनेन तु ॥ १ ॥

मूलम्

गण्डक्यामेकदेशे तु शालग्रामस्थलं महत्
पाषाणं तद्भवं पातु शालग्राममिति स्थितम् ॥ २ ॥

शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम्
किं पुनः पूजनं तत्र हरेः सान्निध्यकारणम् ॥ ३ ॥

शालग्रामैकयजनाच्छतलिङ्गीफलं लभेत्
बहुभिर्जन्मभिः पुण्यैर्यदिकृष्णशिलां लभेत् ॥ ४ ॥

गोष्पदेन च चिह्नेन जनुस्तेन समाप्यते
आदौ शिलां परीक्षेत स्निग्धां श्रेष्ठां च मेचकाम् ॥ ५ ॥

आकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा
सदा काष्ठे स्थितो वह्निर्मथनेन प्रकाश्यते ॥ ६ ॥

यथा तथा हरिर्व्यापी शालग्रामे प्रतीयते
प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत् ॥ ७ ॥

द्वारवत्याः शिलायुक्ताः स वैकुण्ठे महीयते
शालग्रामशिलायां तु गह्वरं लक्षते नरः ॥ ८ ॥

पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पान्तकं दिवि
वैकुण्ठभवनं तत्र यत्र द्वारावती शिला ॥ ९ ॥

मृतो विष्णुपुरं याति तत्तीर्थं योजनत्रयम्
जपः पूजा च होमश्च सर्वं कोटिगुणं भवेत् ॥ १० ॥

मनस्कामसमाभीष्टं क्रोशमात्रं न संशयः
कीटकोऽपि मृतिं याति वैकुण्ठभवनं यतः ॥ ११ ॥

शालग्रामशिलायां यो मूल्यमुद्घाटयेन्नरः
विक्रेता चानुमन्ता च यः परीक्षानुमोदकः ॥ १२ ॥

सर्वे ते नरकं यान्ति यावत्सूर्यश्च सम्प्लवः
अतस्तद्वर्जयेद्देवि चक्रक्रयणविक्रयम् ॥ १३ ॥

शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवः
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ १४ ॥

द्वारकोद्भवचक्राढ्यो बहुचक्रेण चिह्नितः
चक्रासनशिलाकारचित्स्वरूपो निरञ्जनः ॥ १५ ॥

नमोऽस्त्वोङ्काररूपाय सदानन्दस्वरूपिणे
शालग्राममहाभाग भक्तस्यानुग्रहं कुरु ॥ १६ ॥

तवानुग्रहकामस्य ऋणग्रस्तस्य मे प्रभो
अतः परं प्रवक्ष्यामि तिलकस्य विधिं मुदा ॥ १७ ॥

यच्छ्रुत्वा मानवाः सर्वे विष्णुसारूप्यमाप्नुयुः
ललाटे केशवं विद्यात्कण्ठे श्रीपुरुषोत्तमम् ॥ १८ ॥

नाभौ नारायणं देवं वैकुण्ठं हृदये तथा
दामोदरं वामपार्श्वे दक्षिणे च त्रिविक्रमम् ॥ १९ ॥

मूर्ध्नि चैव हृषीकेशं पद्मनाभं च पृष्ठतः
कर्णयोर्यमुनां गङ्गां बाह्वोः कृष्णं हरिं तथा ॥ २० ॥

यथास्थानेषु तुष्यन्ति देवता द्वादश स्मृताः
द्वादशैतानि नामानि कर्तव्ये तिलके पठेत् ॥ २१ ॥

सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति
ऊर्द्ध्वपुण्ड्रमूर्द्ध्वरेखं ललाटे यस्य दृश्यते ॥ २२ ॥

चाण्डालोऽपि स शुद्धात्मा पूज्य एव न संशयः
यस्योर्द्ध्वपुण्ड्रं दृश्येत न ललाटे नरस्य हि ॥ २३ ॥

तद्दर्शनं न कर्त्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत्
त्रिपुण्ड्रं यस्य विप्रस्य ऊर्द्ध्वपुण्ड्रं न दृश्यते ॥ २४ ॥

तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचैलं स्नानमाचरेत्
सान्तरालं प्रकर्त्तव्यं पुण्ड्रं हरिपदाकृति ॥ २५ ॥

निरन्तरालं यः कुर्यादूर्द्ध्वपुण्ड्रं द्विजाधमः
ललाटे तस्य सततं शुनःपादो न संशयः ॥ २६ ॥

नासादिकेशपर्यन्तमूर्द्ध्वपुण्ड्रं सुशोभनम्
मध्ये छिद्रसमायुक्तं तं विद्याद्धरिमन्दिरम् ॥ २७ ॥

वामभागे स्थितो ब्रह्मा दक्षिणे तु सदाशिवः
मध्ये विष्णुं विजानीयात्तस्मान्मध्यं न लेपयेत् ॥ २८ ॥

वीक्ष्यादर्शे जले वापि यो विदध्यात्प्रयत्नतः
ऊर्द्ध्वपुण्ड्रं महाभागः सयाति परमां गतिम् ॥ २९ ॥

अग्निरापश्च वेदाश्च चन्द्रादित्यौ तथानिलः
विप्राणां नित्यमेते हि कर्णे तिष्ठन्ति दक्षिणे ॥ ३० ॥

गङ्गा च दक्षिणे श्रोत्रे नासिकायां हुताशनः
उभयोरपि संस्पर्शात्तत्क्षणादेव शुध्यति ॥ ३१ ॥

कृत्वा चैवोदकं शङ्खे वैष्णवानां महात्मनाम्
तुलसीमिश्रितं दद्यात्पिबेन्मूर्ध्नाभिवन्दयेत् ॥ ३२ ॥

प्राश्नीयात्प्रोक्षयेद्देहं पुत्रमित्रपरिग्रहम्
विष्णोः पादोदकं पीतं कोटिजन्माघनाशनम् ॥ ३३ ॥

तदेवाष्टगुणं पापं भूमौ बिन्दुनिपातनात्
जलशङ्खं करे कृत्वा स्तुत्वा नत्वा प्रदक्षिणम् ॥ ३४ ॥

सततं धार्यते वारि तेनाप्तं जन्मनः फलम्
शङ्खो यस्य गृहे नास्ति घण्टा वा गरुडान्विता ॥ ३५ ॥

पुरतो वासुदेवस्य न स भागवतः कलौ
यानैर्वा पादुकाभिर्वा यानं भगवतो गृहे ॥ ३६ ॥

देवोत्सवेष्वसेवा च अप्रणामस्तदग्रतः
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् ॥ ३७ ॥

एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम्
पादप्रसारणं चाग्रे तथा पर्यङ्कसेवनम् ॥ ३८ ॥

शयनं भक्षणं चापि मिथ्याभाषणमेव च
उच्चैर्भाषामिथो जल्पो रोदनानि च विग्रहः ॥ ३९ ॥

निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणम्
केवलावरणं चैव परनिन्दापरस्तुतिः ॥ ४० ॥

अश्लीलभाषणं चैव अधोवायुविमोक्षणम्
शक्तौ गौणोपचारश्च अनिवेदितभक्षणम् ॥ ४१ ॥

तत्तत्कालोद्भवानां च फलादीनामनर्पणम्
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनस्य यत् ॥ ४२ ॥

स्पष्टीकृत्याशनं चैव परनिन्दा परस्तुतिः
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ॥ ४३ ॥

अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः ॥ ४४ ॥

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया
तवाहमिति मां मत्वा क्षमस्व मधुसूदन ॥ ४५ ॥

इति मन्त्रं समुच्चार्य प्रणमेद्दण्डवद्भुवि
अपराधसहस्राणि क्षमते सर्वदा हरिः ॥ ४६ ॥

सायम्प्रातर्द्विजातीनां श्रुत्युक्तमशनं तथा
विष्णुभक्तावशिष्टस्य दिनपापात्प्रमुच्यते ॥ ४७ ॥

अन्नं ब्रह्मा रसो विष्णुः खादयेन्मांसमुच्चरन्
एवं ज्ञात्वा तु यो भुङ्क्ते सोऽन्नदोषैर्न लिप्यते ॥ ४८ ॥

अलाबुं वर्त्तुलाकारं मसूरं च सवल्कलम्
तालं शुक्लं च वृन्ताकं न खादेद्वैष्णवो नरः ॥ ४९ ॥

वटाश्वत्थार्कपत्रेषु कुम्भी तिन्दुकपत्रयोः
कोविदारे कदम्बे च न खादेद्वैष्णवो नरः ॥ ५० ॥

श्रावणे वर्जयेच्छाकं दधि भाद्रपदे त्यजेत्
आश्विने मासि दुग्धं च कार्त्तिके चामिषं त्यजेत् ॥ ५१ ॥

दग्धमन्नं तु जम्बीरं यद्विष्णोरनिवेदितम्
बीजपूरं च शाकं चप्रत्यक्षलवणं तथा ॥ ५२ ॥

यदि दैवाच्च भुञ्जीत तदा तन्नाम संस्मरेत्
हैमन्तिकं सिता स्विन्नं धान्यं मुद्गास्तिला यवाः ॥ ५३ ॥

कलाप कङ्गु नीवाराः शाकं च हिलमोचिका
कालशाकं च वास्तूकं मूलकं रक्तकेतरत् ॥ ५४ ॥

लवणे सिन्धुसामुद्रे गव्ये च दधिसर्पिषी
पयोनुद्धृतसारं च पनसाम्रहरीतकी ॥ ५५ ॥

मूलम्

लवणे सिन्धुसामुद्रे गव्ये च दधिसर्पिषी
पयोनुद्धृतसारं च पनसाम्रहरीतकी ॥ ५५ ॥

विश्वास-प्रस्तुतिः

पिप्पली जीरकं चैव नागरङ्गक तिन्तिडी
कदलीलवली धात्री फलान्यगुडमैक्षवम् ॥ ५६ ॥

अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते
तुलसीपत्रपुष्पाद्यैर्माल्यं वहति यो नरः ॥ ५७ ॥

विष्णुं तमपि जानीयात्सत्यं सत्यं न संशयः
धात्रीवृक्षं समारोप्य विष्णुतुल्यो भवेन्नरः ॥ ५८ ॥

कुरुक्षेत्रं विजानीयात्सार्द्धं हस्तशतत्रयम्
तुलसीकाष्ठघटितै रुद्राक्षाकारकारितैः ॥ ५९ ॥

निर्मितां मालिकां कण्ठे निधायार्चनमारभेत्
तथामलकमालां च सम्यक्पुष्करमालिकाम् ॥ ६० ॥

कण्ठे मालां च यत्नेन धारयेद्विष्णुपूजकः
निर्माल्यं तुलसीमालां शिरस्यपि च धारयेत् ॥ ६१ ॥

निर्माल्यचन्दनेनाङ्गमङ्कयेत्तस्य नामभिः
ललाटे च गदा धार्या मूर्ध्नि चापं शरस्तथा ॥ ६२ ॥

नन्दकं चैव हृन्मध्ये शङ्खं चक्रं भुजद्वये
शङ्खचक्रान्वितो विप्रः श्मशाने म्रियते यदि ॥ ६३ ॥

प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य निश्चिता
यो धृत्वा तुलसीपत्रं शिरसा विष्णुतत्परः ॥ ६४ ॥

करोति सर्वकार्याणि फलमाप्नोति चाक्षयम्
तुलसीकाष्ठमालाभिर्भूषितः कर्म आचरन् ॥ ६५ ॥

पितॄणां देवतानां च कृतं कोटिगुणं भवेत्
निवेद्य केशवे मालां तुलसीकाष्ठनिर्मिताम् ॥ ६६ ॥

वहते यो नरो भक्त्या तस्य नश्यति पातकम्
पाद्यादिभिरथाभ्यर्च्य इमं मन्त्रमुदीरयेत् ॥ ६७ ॥

या दृष्टा निखिलाघसङ्घशमनी स्पृष्टा वपुः पावनी
रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी
प्रत्यासत्ति विधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ ६८ ॥

इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनमाहात्म्ये देवीश्वरसंवादे
तिलकादिनिर्णयोनाम नवसप्ततितमोऽध्यायः ७९