०७८

पार्वत्युवाच-

विश्वास-प्रस्तुतिः

वैष्णवानां च यद्धर्मं सर्वं तथ्यं च मे वद
यत्कृत्वा मानवाः सर्वे भवाम्भोधिं तरन्ति हि ॥ १ ॥

मूलम्

वैष्णवानां च यद्धर्मं सर्वं तथ्यं च मे वद
यत्कृत्वा मानवाः सर्वे भवाम्भोधिं तरन्ति हि ॥ १ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच-
अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते
गृहोपलेपनं चैव तथानुगमनं हरेः ॥ २ ॥

मूलम्

ईश्वर उवाच-
अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते
गृहोपलेपनं चैव तथानुगमनं हरेः ॥ २ ॥

विश्वास-प्रस्तुतिः

भक्त्या प्रदक्षिणा चैव पादयोः शोधनं पुनः
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ॥ ३ ॥

मूलम्

भक्त्या प्रदक्षिणा चैव पादयोः शोधनं पुनः
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ॥ ३ ॥

विश्वास-प्रस्तुतिः

करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते
तन्नामकीर्तनं चैव गुणानामपि कीर्त्तनम् ॥ ४ ॥

मूलम्

करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते
तन्नामकीर्तनं चैव गुणानामपि कीर्त्तनम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते
तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम् ॥ ५ ॥

मूलम्

भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते
तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते
पादोदकं च निर्माल्यं मालानामपि धारणम् ॥ ६ ॥

मूलम्

श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते
पादोदकं च निर्माल्यं मालानामपि धारणम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः
आघ्राणं तस्य पुष्पादेर्निर्माल्यस्य तथा प्रिये ॥ ७ ॥

मूलम्

उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः
आघ्राणं तस्य पुष्पादेर्निर्माल्यस्य तथा प्रिये ॥ ७ ॥

विश्वास-प्रस्तुतिः

विशुद्धिः स्यादन्तरस्य घ्राणस्यापि विधीयते
यत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् ॥ ८ ॥

मूलम्

विशुद्धिः स्यादन्तरस्य घ्राणस्यापि विधीयते
यत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

तदेकं पावनं लोके तद्धि सर्वं विशोधयेत्
पूजा च पञ्चधा प्रोक्ता तासां भेदं शृणुष्व मे ॥ ९ ॥

मूलम्

तदेकं पावनं लोके तद्धि सर्वं विशोधयेत्
पूजा च पञ्चधा प्रोक्ता तासां भेदं शृणुष्व मे ॥ ९ ॥

विश्वास-प्रस्तुतिः

अभिगमनमुपादानं योगः स्वाध्याय एव च
इज्या पञ्चप्रकारार्चा क्रमेण कथयामि ते ॥ १० ॥

मूलम्

अभिगमनमुपादानं योगः स्वाध्याय एव च
इज्या पञ्चप्रकारार्चा क्रमेण कथयामि ते ॥ १० ॥

विश्वास-प्रस्तुतिः

तत्वाभिगमनं नाम देवतास्थानमार्जनम्
उपलेपं च निर्माल्यदूरीकरणमेव च ॥ ११ ॥

मूलम्

तत्वाभिगमनं नाम देवतास्थानमार्जनम्
उपलेपं च निर्माल्यदूरीकरणमेव च ॥ ११ ॥

विश्वास-प्रस्तुतिः

उपादानं नाम गन्ध पुष्पादिचयनं तथा
योगो नाम स्वदेवस्य स्वात्मनैवात्मभावना ॥ १२ ॥

मूलम्

उपादानं नाम गन्ध पुष्पादिचयनं तथा
योगो नाम स्वदेवस्य स्वात्मनैवात्मभावना ॥ १२ ॥

विश्वास-प्रस्तुतिः

स्वाध्यायो नाम मन्त्रार्थानुसन्धापूर्वको जपः
सूक्तस्तोत्रादिपाठश्च हरेः सङ्कीर्त्तनं तथा ॥ १३ ॥

मूलम्

स्वाध्यायो नाम मन्त्रार्थानुसन्धापूर्वको जपः
सूक्तस्तोत्रादिपाठश्च हरेः सङ्कीर्त्तनं तथा ॥ १३ ॥

विश्वास-प्रस्तुतिः

तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः
इज्या नाम स्वदेवस्य पूजनं च यथार्थतः ॥ १४ ॥

मूलम्

तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः
इज्या नाम स्वदेवस्य पूजनं च यथार्थतः ॥ १४ ॥

विश्वास-प्रस्तुतिः

इति पञ्चप्रकारार्चा कथिता तव सुव्रते
सार्ष्टि सामीप्य सालोक्य सायुज्य सारूप्यदा क्रमात् ॥ १५ ॥

मूलम्

इति पञ्चप्रकारार्चा कथिता तव सुव्रते
सार्ष्टि सामीप्य सालोक्य सायुज्य सारूप्यदा क्रमात् ॥ १५ ॥

विश्वास-प्रस्तुतिः

प्रसङ्गात्कथयिष्यामि शालग्रामशिलार्चनम्
केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात् ॥ १६ ॥

मूलम्

प्रसङ्गात्कथयिष्यामि शालग्रामशिलार्चनम्
केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात् ॥ १६ ॥

विश्वास-प्रस्तुतिः

शङ्खचक्रगदापद्मी केशवाख्यो गदाधरः
नारायणः पद्मगदाचक्रशङ्खायुधैः क्रमात् ॥ १७ ॥

मूलम्

शङ्खचक्रगदापद्मी केशवाख्यो गदाधरः
नारायणः पद्मगदाचक्रशङ्खायुधैः क्रमात् ॥ १७ ॥

विश्वास-प्रस्तुतिः

माधवश्चक्रशङ्खाभ्यां पद्मेन गदया भवेत्
गदाब्जशङ्खचक्री च गोविन्दाख्यो गदाधरः ॥ १८ ॥

मूलम्

माधवश्चक्रशङ्खाभ्यां पद्मेन गदया भवेत्
गदाब्जशङ्खचक्री च गोविन्दाख्यो गदाधरः ॥ १८ ॥

विश्वास-प्रस्तुतिः

पद्मशङ्खारि गदिने विष्णुरूपाय ते नमः
सशङ्खाब्ज गदाचक्र मधुसूदन मूर्तये ॥ १९ ॥

मूलम्

पद्मशङ्खारि गदिने विष्णुरूपाय ते नमः
सशङ्खाब्ज गदाचक्र मधुसूदन मूर्तये ॥ १९ ॥

विश्वास-प्रस्तुतिः

नमो गदारिशङ्खाब्जयुक्तत्रिविक्रमाय च
सारिकौमोदकी पद्मशङ्ख वामन मूर्त्तये ॥ २० ॥

मूलम्

नमो गदारिशङ्खाब्जयुक्तत्रिविक्रमाय च
सारिकौमोदकी पद्मशङ्ख वामन मूर्त्तये ॥ २० ॥

विश्वास-प्रस्तुतिः

चक्राब्जशङ्खगदिने नमः श्रीधरमूर्त्तये
हृषीकेशसारिगदाशङ्खपद्मिन्नमोस्तु ते ॥ २१ ॥

मूलम्

चक्राब्जशङ्खगदिने नमः श्रीधरमूर्त्तये
हृषीकेशसारिगदाशङ्खपद्मिन्नमोस्तु ते ॥ २१ ॥

विश्वास-प्रस्तुतिः

साब्जशङ्खगदाचक्रपद्मनाभ स्वमूर्त्तये
दामोदरशङ्खगदाचक्रपद्मिन्नमोस्तु ते ॥ २२ ॥

मूलम्

साब्जशङ्खगदाचक्रपद्मनाभ स्वमूर्त्तये
दामोदरशङ्खगदाचक्रपद्मिन्नमोस्तु ते ॥ २२ ॥

विश्वास-प्रस्तुतिः

शङ्खाब्जचक्रगदिने नमः सङ्कर्षणाय च
सारिशङ्खगदाब्जाय वासुदेव नमोस्तुते ॥ २३ ॥

मूलम्

शङ्खाब्जचक्रगदिने नमः सङ्कर्षणाय च
सारिशङ्खगदाब्जाय वासुदेव नमोस्तुते ॥ २३ ॥

विश्वास-प्रस्तुतिः

शङ्खचक्रगदाब्जाय धृत प्रद्युम्नमूर्त्तये
नमोऽनिरुद्धाय गदाशङ्खाब्जारिविधारिणे ॥ २४ ॥

मूलम्

शङ्खचक्रगदाब्जाय धृत प्रद्युम्नमूर्त्तये
नमोऽनिरुद्धाय गदाशङ्खाब्जारिविधारिणे ॥ २४ ॥

विश्वास-प्रस्तुतिः

साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये
नमोऽधोक्षजरूपाय गदाशङ्खारि पद्मिने ॥ २५ ॥

मूलम्

साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये
नमोऽधोक्षजरूपाय गदाशङ्खारि पद्मिने ॥ २५ ॥

विश्वास-प्रस्तुतिः

नृसिंहमूर्त्तये पद्मगदाशङ्खारिधारिणे
पद्मारिशङ्खगदिने नमोस्त्वच्युतमूर्त्तये ॥ २६ ॥

मूलम्

नृसिंहमूर्त्तये पद्मगदाशङ्खारिधारिणे
पद्मारिशङ्खगदिने नमोस्त्वच्युतमूर्त्तये ॥ २६ ॥

विश्वास-प्रस्तुतिः

सगदाब्जारिशङ्खाय नमः श्रीकृष्णमूर्त्तये
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् ॥ २७ ॥

मूलम्

सगदाब्जारिशङ्खाय नमः श्रीकृष्णमूर्त्तये
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् ॥ २७ ॥

विश्वास-प्रस्तुतिः

शुक्लाभरेखः शोभाढ्यः सदेवः श्रीगदाधरः
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः ॥ २८ ॥

मूलम्

शुक्लाभरेखः शोभाढ्यः सदेवः श्रीगदाधरः
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः ॥ २८ ॥

विश्वास-प्रस्तुतिः

सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः
सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्त्तुलः ॥ २९ ॥

मूलम्

सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः
सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्त्तुलः ॥ २९ ॥

विश्वास-प्रस्तुतिः

नीलो द्वारे त्रिरेखश्च अथ नारायणोऽसितः
मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम् ॥ ३० ॥

मूलम्

नीलो द्वारे त्रिरेखश्च अथ नारायणोऽसितः
मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिन्दुकः
अथवा पञ्चबिन्दोस्तु पूजनं ब्रह्मचारिणः ॥ ३१ ॥

मूलम्

पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिन्दुकः
अथवा पञ्चबिन्दोस्तु पूजनं ब्रह्मचारिणः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

वराहः स त्रिलिङ्गो यो विषमद्वयचक्रकः
नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिन्दुकः ॥ ३२ ॥

मूलम्

वराहः स त्रिलिङ्गो यो विषमद्वयचक्रकः
नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिन्दुकः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

कृष्णः सवर्तुलावर्त्त पाण्डुरो धृतपृष्ठकः
श्रीधरः पञ्चरेखश्च वनमाली गदाङ्कितः ॥ ३३ ॥

मूलम्

कृष्णः सवर्तुलावर्त्त पाण्डुरो धृतपृष्ठकः
श्रीधरः पञ्चरेखश्च वनमाली गदाङ्कितः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

वामनो वर्तुलो नाम मध्यचक्रः सनीलकः
नानावर्णानेकमूर्ति नागभोगी त्वनन्तकः ॥ ३४ ॥

मूलम्

वामनो वर्तुलो नाम मध्यचक्रः सनीलकः
नानावर्णानेकमूर्ति नागभोगी त्वनन्तकः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः
सङ्कर्षणद्वारकोव्यादथ ब्रह्मा सुलोहितः ॥ ३५ ॥

मूलम्

स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः
सङ्कर्षणद्वारकोव्यादथ ब्रह्मा सुलोहितः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

सुदीर्घरेखासुषिर एकचक्राम्बुजः पृथुः
पृथुचक्रः स्थूलछिद्रः कृष्णो बिन्दुश्च बिन्दुमान् ॥ ३६ ॥

मूलम्

सुदीर्घरेखासुषिर एकचक्राम्बुजः पृथुः
पृथुचक्रः स्थूलछिद्रः कृष्णो बिन्दुश्च बिन्दुमान् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

ह्यग्रीवोंऽकुशाकारः पञ्चरेखः सकौस्तुभः
वैकुण्ठो मल्लवद्भाति एकचक्रमयोसितः ॥ ३७ ॥

मूलम्

ह्यग्रीवोंऽकुशाकारः पञ्चरेखः सकौस्तुभः
वैकुण्ठो मल्लवद्भाति एकचक्रमयोसितः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

मत्स्यो दीर्घाम्बुजाकारो दीर्घरेखश्च पाण्डुरः
रामचक्रो दक्षरेखो यः श्यामः स त्रिविक्रमः ॥ ३८ ॥

मूलम्

मत्स्यो दीर्घाम्बुजाकारो दीर्घरेखश्च पाण्डुरः
रामचक्रो दक्षरेखो यः श्यामः स त्रिविक्रमः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

शालग्रामद्वारकायां स्थिताय गदिने नमः
एकेन लक्षितो योव्याद्गदाधारी सुदर्शनः ॥ ३९ ॥

मूलम्

शालग्रामद्वारकायां स्थिताय गदिने नमः
एकेन लक्षितो योव्याद्गदाधारी सुदर्शनः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः
चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः ॥ ४० ॥

मूलम्

लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः
चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः ॥ ४० ॥

विश्वास-प्रस्तुतिः

प्रद्युम्नः षड्भिरेवाव्यात्सङ्कर्षणश्च सप्तभिः
पुरुषोत्तमोऽष्टभिश्च स्यान्नवव्यूहो नवो हितः ॥ ४१ ॥

मूलम्

प्रद्युम्नः षड्भिरेवाव्यात्सङ्कर्षणश्च सप्तभिः
पुरुषोत्तमोऽष्टभिश्च स्यान्नवव्यूहो नवो हितः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

दशावतारो दशभिरनिरुद्धोऽवतादथ
द्वादशात्मा द्वादशभिरतऊर्द्ध्वमनन्तकः ॥ ४२ ॥

मूलम्

दशावतारो दशभिरनिरुद्धोऽवतादथ
द्वादशात्मा द्वादशभिरतऊर्द्ध्वमनन्तकः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

ब्रह्मा चतुर्मुखो दण्डी कमण्डलुस्रगुन्नतः
महेश्वरः पञ्चवक्त्रो दशबाहुर्वृषध्वजः ॥ ४३ ॥

मूलम्

ब्रह्मा चतुर्मुखो दण्डी कमण्डलुस्रगुन्नतः
महेश्वरः पञ्चवक्त्रो दशबाहुर्वृषध्वजः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

यथायुधस्तथागौरी चण्डिका च सरस्वती
महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः ॥ ४४ ॥

मूलम्

यथायुधस्तथागौरी चण्डिका च सरस्वती
महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

गजास्यश्च गजस्कन्धः षण्मुखोनेकधा गणाः
एते स्थिताः स्थापिता स्युः प्रसादेवाथ पूजिताः ॥ ४५ ॥

मूलम्

गजास्यश्च गजस्कन्धः षण्मुखोनेकधा गणाः
एते स्थिताः स्थापिता स्युः प्रसादेवाथ पूजिताः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

धर्मार्थकाममोक्षा हि प्राप्यन्ते पुरुषेण च ॥ ४६ ॥

मूलम्

धर्मार्थकाममोक्षा हि प्राप्यन्ते पुरुषेण च ॥ ४६ ॥

इति श्रीपद्मपुराणे पातालखण्डे शालग्रामनिर्णयो-
नामाष्टसप्ततितमोऽध्यायः ७८