०७७

पार्वत्युवाच-

विश्वास-प्रस्तुतिः

विस्तरेण समाचक्ष्व नामार्थपदगौरवम्
ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः ॥ १ ॥

मूलम्

विस्तरेण समाचक्ष्व नामार्थपदगौरवम्
ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः ॥ १ ॥

विश्वास-प्रस्तुतिः

तद्विष्णोः परमं धाम व्यूहभेदास्तथा हरेः
निर्वाणाख्याहि तत्त्वेन मम सर्वं सुरेश्वर ॥ २ ॥

मूलम्

तद्विष्णोः परमं धाम व्यूहभेदास्तथा हरेः
निर्वाणाख्याहि तत्त्वेन मम सर्वं सुरेश्वर ॥ २ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच-
सारे वृन्दावने कृष्णं गोपीकोटिभिरावृतम्
तत्र गङ्गा पराशक्तिस्तत्स्थमानन्दकाननम् ॥ ३ ॥

मूलम्

ईश्वर उवाच-
सारे वृन्दावने कृष्णं गोपीकोटिभिरावृतम्
तत्र गङ्गा पराशक्तिस्तत्स्थमानन्दकाननम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

नाना सुकुसुमामोदसमीरसुरभीकृतम्
कलिन्दतनया दिव्यतरङ्गरागशीतलम् ॥ ४ ॥

मूलम्

नाना सुकुसुमामोदसमीरसुरभीकृतम्
कलिन्दतनया दिव्यतरङ्गरागशीतलम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

सनकाद्यैर्भागवतैः संसृष्टं मुनिपुङ्गवैः
आह्लादिमधुरारावैर्गोवृन्दैरभिमण्डितम् ॥ ५ ॥

मूलम्

सनकाद्यैर्भागवतैः संसृष्टं मुनिपुङ्गवैः
आह्लादिमधुरारावैर्गोवृन्दैरभिमण्डितम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

रम्यस्रग्भूषणोपेतैर्नृत्यद्भिर्बालकैर्वृतम्
तत्र श्रीमान्कल्पतरुर्जाम्बूनदपरिच्छदः ॥ ६ ॥

मूलम्

रम्यस्रग्भूषणोपेतैर्नृत्यद्भिर्बालकैर्वृतम्
तत्र श्रीमान्कल्पतरुर्जाम्बूनदपरिच्छदः ॥ ६ ॥

विश्वास-प्रस्तुतिः

नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः
तस्य मूले रत्नवेदी रत्नदीधितिदीपिता ॥ ७ ॥

मूलम्

नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः
तस्य मूले रत्नवेदी रत्नदीधितिदीपिता ॥ ७ ॥

विश्वास-प्रस्तुतिः

तत्र त्रयीमयं रत्नसिंहासनमनुत्तमम्
तत्रासीनं जगन्नाथं त्रिगुणातीतमव्ययम् ॥ ८ ॥

मूलम्

तत्र त्रयीमयं रत्नसिंहासनमनुत्तमम्
तत्रासीनं जगन्नाथं त्रिगुणातीतमव्ययम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

कोटिचन्द्रप्रतीकाशं कोटिभास्करभास्वरम्
कोटिकन्दर्पलावण्यं भासयन्तं दिशोदश ॥ ९ ॥

मूलम्

कोटिचन्द्रप्रतीकाशं कोटिभास्करभास्वरम्
कोटिकन्दर्पलावण्यं भासयन्तं दिशोदश ॥ ९ ॥

विश्वास-प्रस्तुतिः

त्रिनेत्रं द्विभुजं गौरं तप्तजाम्बूनदप्रभम्
श्लिष्यमाणमङ्गनाभिः सदामानं च सर्वशः ॥ १० ॥

मूलम्

त्रिनेत्रं द्विभुजं गौरं तप्तजाम्बूनदप्रभम्
श्लिष्यमाणमङ्गनाभिः सदामानं च सर्वशः ॥ १० ॥

विश्वास-प्रस्तुतिः

ब्रह्माद्यैः सनकाद्यैश्च ध्येयं भक्तवशीकृतम्
सदाघूर्णितनेत्राभिर्नृत्यन्तीभिर्महोत्सवैः ॥ ११ ॥

मूलम्

ब्रह्माद्यैः सनकाद्यैश्च ध्येयं भक्तवशीकृतम्
सदाघूर्णितनेत्राभिर्नृत्यन्तीभिर्महोत्सवैः ॥ ११ ॥

विश्वास-प्रस्तुतिः

चुम्बन्तीभिर्हसन्तीभिः श्लिष्यन्तीभिर्मुहुर्मुहुः
अवाप्तगोपीदेहाभिः श्रुतिभिः कोटिकोटिभिः ॥ १२ ॥

मूलम्

चुम्बन्तीभिर्हसन्तीभिः श्लिष्यन्तीभिर्मुहुर्मुहुः
अवाप्तगोपीदेहाभिः श्रुतिभिः कोटिकोटिभिः ॥ १२ ॥

विश्वास-प्रस्तुतिः

तत्पादाम्बुजमाध्वीकचित्ताभिः परितो वृतम्
तासां तु मध्ये या देवी तप्तचामीकरप्रभा ॥ १३ ॥

मूलम्

तत्पादाम्बुजमाध्वीकचित्ताभिः परितो वृतम्
तासां तु मध्ये या देवी तप्तचामीकरप्रभा ॥ १३ ॥

विश्वास-प्रस्तुतिः

द्योतमाना दिशः सर्वाः कुर्वती विद्युदुज्ज्वलाः
प्रधानं या भगवती यया सर्वमिदं ततम् ॥ १४ ॥

मूलम्

द्योतमाना दिशः सर्वाः कुर्वती विद्युदुज्ज्वलाः
प्रधानं या भगवती यया सर्वमिदं ततम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

सृष्टिस्थित्यन्तरूपा या विद्या विद्यात्रयीपरा
स्वरूपा शक्तिरुपा च मायारूपा च चिन्मयी ॥ १५ ॥

मूलम्

सृष्टिस्थित्यन्तरूपा या विद्या विद्यात्रयीपरा
स्वरूपा शक्तिरुपा च मायारूपा च चिन्मयी ॥ १५ ॥

विश्वास-प्रस्तुतिः

ब्रह्मविष्णुशिवादीनां देहकारणकारणम्
चराचरं जगत्सर्वं यन्मायापरिरम्भितम् ॥ १६ ॥

मूलम्

ब्रह्मविष्णुशिवादीनां देहकारणकारणम्
चराचरं जगत्सर्वं यन्मायापरिरम्भितम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

वृन्दावनेश्वरी नाम्ना राधा धात्रानुकारणात्
तामालिङ्ग्य वसन्तं तं मुदा वृन्दावनेश्वरम् ॥ १७ ॥

मूलम्

वृन्दावनेश्वरी नाम्ना राधा धात्रानुकारणात्
तामालिङ्ग्य वसन्तं तं मुदा वृन्दावनेश्वरम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

अन्योन्यचुम्बनाश्लेष मदावेशविघूर्णितम्
ध्यायेदेवं कृष्णदेवं स च सिद्धिमवाप्नुयात् ॥ १८ ॥

मूलम्

अन्योन्यचुम्बनाश्लेष मदावेशविघूर्णितम्
ध्यायेदेवं कृष्णदेवं स च सिद्धिमवाप्नुयात् ॥ १८ ॥

विश्वास-प्रस्तुतिः

मन्त्रराजमिमं गुह्यं तस्य मन्त्रं च मन्त्रवित्
यो जपेच्छृणुयाद्वापि स महात्मा सुदुर्ल्लभः ॥ १९ ॥

मूलम्

मन्त्रराजमिमं गुह्यं तस्य मन्त्रं च मन्त्रवित्
यो जपेच्छृणुयाद्वापि स महात्मा सुदुर्ल्लभः ॥ १९ ॥

विश्वास-प्रस्तुतिः

राधिङ्का चित्ररेखा च चन्द्रा मदनसुन्दरी
श्रीप्रिया श्रीमधुमती शशिरेखा हरिप्रिया ॥ २० ॥

मूलम्

राधिङ्का चित्ररेखा च चन्द्रा मदनसुन्दरी
श्रीप्रिया श्रीमधुमती शशिरेखा हरिप्रिया ॥ २० ॥

विश्वास-प्रस्तुतिः

सुवर्णशोभा सम्मोहा प्रेमरोमाञ्चराजिता
वैवर्ण्यस्वेदसंयुक्ता भावासक्ता प्रियंवदा ॥ २१ ॥

मूलम्

सुवर्णशोभा सम्मोहा प्रेमरोमाञ्चराजिता
वैवर्ण्यस्वेदसंयुक्ता भावासक्ता प्रियंवदा ॥ २१ ॥

विश्वास-प्रस्तुतिः

सुवर्णमालिनी शान्ता सुरासरसिका तथा
सर्वस्त्री जीवना दीनवत्सला विमलाशया ॥ २२ ॥

मूलम्

सुवर्णमालिनी शान्ता सुरासरसिका तथा
सर्वस्त्री जीवना दीनवत्सला विमलाशया ॥ २२ ॥

विश्वास-प्रस्तुतिः

निपीतनामपीयूषा सा राधा परिकीर्तिता
सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा ॥ २३ ॥

मूलम्

निपीतनामपीयूषा सा राधा परिकीर्तिता
सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा ॥ २३ ॥

विश्वास-प्रस्तुतिः

मूर्च्छत्प्रेमनदी राधा वरणा लोचनाञ्जना
मायामात्सर्यसंयुक्ता दानसाम्राज्य जीवना ॥ २४ ॥

मूलम्

मूर्च्छत्प्रेमनदी राधा वरणा लोचनाञ्जना
मायामात्सर्यसंयुक्ता दानसाम्राज्य जीवना ॥ २४ ॥

विश्वास-प्रस्तुतिः

सुरतोत्सव सङ्ग्रामा चित्ररेखा प्रकीर्तिता
गौराङ्गी नातिदीर्घा च सदा वादनतत्परा ॥ २५ ॥

मूलम्

सुरतोत्सव सङ्ग्रामा चित्ररेखा प्रकीर्तिता
गौराङ्गी नातिदीर्घा च सदा वादनतत्परा ॥ २५ ॥

विश्वास-प्रस्तुतिः

दैन्यानुरागनटना मूर्च्छारोमाञ्चविह्वला
हरिदक्षिणपार्श्वस्था सर्वमन्त्रप्रिया तथा ॥ २६ ॥

मूलम्

दैन्यानुरागनटना मूर्च्छारोमाञ्चविह्वला
हरिदक्षिणपार्श्वस्था सर्वमन्त्रप्रिया तथा ॥ २६ ॥

विश्वास-प्रस्तुतिः

अनङ्गलोभमाधुर्या चन्द्रा सा परिकीर्तिता
सलीलमन्थरगतिर्मञ्जुमुद्रित लोचना ॥ २७ ॥

मूलम्

अनङ्गलोभमाधुर्या चन्द्रा सा परिकीर्तिता
सलीलमन्थरगतिर्मञ्जुमुद्रित लोचना ॥ २७ ॥

विश्वास-प्रस्तुतिः

प्रेमधारोज्ज्वलाकीर्णा दलिताञ्जन शोभना
कृष्णानुरागरसिका रासध्वनिसमुत्सुका ॥ २८ ॥

मूलम्

प्रेमधारोज्ज्वलाकीर्णा दलिताञ्जन शोभना
कृष्णानुरागरसिका रासध्वनिसमुत्सुका ॥ २८ ॥

विश्वास-प्रस्तुतिः

अहङ्कारसमायुक्ता मुखनिन्दितचन्द्रमाः
मधुरालापचतुरा जितेन्द्रियशिरोमणिः ॥ २९ ॥

मूलम्

अहङ्कारसमायुक्ता मुखनिन्दितचन्द्रमाः
मधुरालापचतुरा जितेन्द्रियशिरोमणिः ॥ २९ ॥

विश्वास-प्रस्तुतिः

सुन्दरस्मितसंयुक्ता सा वै मदनसुन्दरी
विविक्तरासरसिका श्यामा श्याममनोहरा ॥ ३० ॥

मूलम्

सुन्दरस्मितसंयुक्ता सा वै मदनसुन्दरी
विविक्तरासरसिका श्यामा श्याममनोहरा ॥ ३० ॥

विश्वास-प्रस्तुतिः

प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहनी
जितेन्द्रिया जितक्रोधा सा प्रिया परिकीर्तिता ॥ ३१ ॥

मूलम्

प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहनी
जितेन्द्रिया जितक्रोधा सा प्रिया परिकीर्तिता ॥ ३१ ॥

विश्वास-प्रस्तुतिः

सुतप्तस्वर्णगौराङ्गी लीलागमनसुन्दरी
स्मरोत्थ प्रेमरोमाञ्च वैचित्रमधुराकृतिः ॥ ३२ ॥

मूलम्

सुतप्तस्वर्णगौराङ्गी लीलागमनसुन्दरी
स्मरोत्थ प्रेमरोमाञ्च वैचित्रमधुराकृतिः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

सुन्दरस्मितसंयुक्त मुखनिन्दितचन्द्रमाः
मधुरालापचतुरा जितेन्द्रियशिरोमणिः ॥ ३३ ॥

मूलम्

सुन्दरस्मितसंयुक्त मुखनिन्दितचन्द्रमाः
मधुरालापचतुरा जितेन्द्रियशिरोमणिः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

कीर्तिता सा मधुमती प्रेमसाधनतत्परा
सम्मोहज्वररोमाञ्च प्रेमधारा समन्विता ॥ ३४ ॥

मूलम्

कीर्तिता सा मधुमती प्रेमसाधनतत्परा
सम्मोहज्वररोमाञ्च प्रेमधारा समन्विता ॥ ३४ ॥

विश्वास-प्रस्तुतिः

दानधूलिविनोदा च रासध्वनि महानटी
शशिरेखा च विज्ञेया गोपालप्रेयसी सदा ॥ ३५ ॥

मूलम्

दानधूलिविनोदा च रासध्वनि महानटी
शशिरेखा च विज्ञेया गोपालप्रेयसी सदा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कृष्णात्मा सोत्तमा श्यामा मधुपिङ्गललोचना
तत्पादप्रेमसम्मोहात्क्वचित्पुलकचुम्बिता ॥ ३६ ॥

मूलम्

कृष्णात्मा सोत्तमा श्यामा मधुपिङ्गललोचना
तत्पादप्रेमसम्मोहात्क्वचित्पुलकचुम्बिता ॥ ३६ ॥

विश्वास-प्रस्तुतिः

शिवकुण्डे शिवानन्दा नन्दिनी देहिकातटे
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ ३७ ॥

मूलम्

शिवकुण्डे शिवानन्दा नन्दिनी देहिकातटे
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ ३७ ॥

विश्वास-प्रस्तुतिः

देवकी मथुरायां तु जाता मे परमेश्वरी
चन्द्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ॥ ३८ ॥

मूलम्

देवकी मथुरायां तु जाता मे परमेश्वरी
चन्द्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ॥ ३८ ॥

विश्वास-प्रस्तुतिः

वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे
वृन्दावनाधिपत्यं च दत्तं तस्यै प्रसीदता ॥ ३९ ॥

मूलम्

वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे
वृन्दावनाधिपत्यं च दत्तं तस्यै प्रसीदता ॥ ३९ ॥

विश्वास-प्रस्तुतिः

कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने
नित्यानन्दतनुः शौरिर्योऽशरीरीति भाष्यते ॥ ४० ॥

मूलम्

कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने
नित्यानन्दतनुः शौरिर्योऽशरीरीति भाष्यते ॥ ४० ॥

विश्वास-प्रस्तुतिः

वाय्वग्निनाकभूमीनामङ्गाधिष्ठितदेवता
निरूप्यते ब्रह्मणोऽपि तथा गोविन्दविग्रहः ॥ ४१ ॥

मूलम्

वाय्वग्निनाकभूमीनामङ्गाधिष्ठितदेवता
निरूप्यते ब्रह्मणोऽपि तथा गोविन्दविग्रहः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

सेन्द्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते
तथा कान्तियुतः कृष्णः कालं मोहयति ध्रुवम् ॥ ४२ ॥

मूलम्

सेन्द्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते
तथा कान्तियुतः कृष्णः कालं मोहयति ध्रुवम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

न तस्य प्राकृती मूर्तिर्मेदोमांसास्थिसम्भवा
योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः ॥ ४३ ॥

मूलम्

न तस्य प्राकृती मूर्तिर्मेदोमांसास्थिसम्भवा
योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

काठिन्यं देवयोगेन करकाघृतयोरिव
कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता ॥ ४४ ॥

मूलम्

काठिन्यं देवयोगेन करकाघृतयोरिव
कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता ॥ ४४ ॥

विश्वास-प्रस्तुतिः

वृन्दावनरजोवृन्दे तत्र स्युर्विष्णुकोटयः
आनन्दकिरणे वृन्दव्याप्तविश्वकलानिधिः ॥ ४५ ॥

मूलम्

वृन्दावनरजोवृन्दे तत्र स्युर्विष्णुकोटयः
आनन्दकिरणे वृन्दव्याप्तविश्वकलानिधिः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

गुणात्मतात्मनि यथा जीवास्तत्किरणाङ्गकाः
भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः ॥ ४६ ॥

मूलम्

गुणात्मतात्मनि यथा जीवास्तत्किरणाङ्गकाः
भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

गोप्यैकया वृतस्तत्र परिक्रीडति सर्वदा
गोविन्द एव पुरुषो ब्रह्माद्याः स्त्रिय एव च ॥ ४७ ॥

मूलम्

गोप्यैकया वृतस्तत्र परिक्रीडति सर्वदा
गोविन्द एव पुरुषो ब्रह्माद्याः स्त्रिय एव च ॥ ४७ ॥

विश्वास-प्रस्तुतिः

तत एव स्वभावोयंऽप्रकृतेर्भाव ईश्वरः
पुरुषः प्रकृतिश्चाद्यौ राधावृन्दावनेश्वरौ ॥ ४८ ॥

मूलम्

तत एव स्वभावोयंऽप्रकृतेर्भाव ईश्वरः
पुरुषः प्रकृतिश्चाद्यौ राधावृन्दावनेश्वरौ ॥ ४८ ॥

विश्वास-प्रस्तुतिः

प्रकृतेर्विकृतं सर्वं विना वृन्दावनेश्वरम् ॥ ४९ ॥

मूलम्

प्रकृतेर्विकृतं सर्वं विना वृन्दावनेश्वरम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

समुद्भवेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशतो हि
स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादिनाशेऽपि न कृष्णविच्युतिः ॥ ५० ॥

मूलम्

समुद्भवेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशतो हि
स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादिनाशेऽपि न कृष्णविच्युतिः ॥ ५० ॥

विश्वास-प्रस्तुतिः

त्रिगुणादिप्रपञ्चोऽयं वृन्दावनविहारिणः
ऊर्मीवाब्धेस्तरङ्गस्य यथाब्धिर्नैव जायते ॥ ५१ ॥

मूलम्

त्रिगुणादिप्रपञ्चोऽयं वृन्दावनविहारिणः
ऊर्मीवाब्धेस्तरङ्गस्य यथाब्धिर्नैव जायते ॥ ५१ ॥

विश्वास-प्रस्तुतिः

न राधिका समा नारी न कृष्णसदृशः पुमान्
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ॥ ५२ ॥

मूलम्

न राधिका समा नारी न कृष्णसदृशः पुमान्
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

ध्येयं कैशोरकं ध्येयं वनं वृन्दावनं वनम्
श्याममेव परं रूपमादिदेवं परो रसः ॥ ५३ ॥

मूलम्

ध्येयं कैशोरकं ध्येयं वनं वृन्दावनं वनम्
श्याममेव परं रूपमादिदेवं परो रसः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

बाल्यं पञ्चमवर्षान्तं पौगण्डं दशमावधि
अष्टपञ्चककैशोरं सीमा पञ्चदशावधि ॥ ५४ ॥

मूलम्

बाल्यं पञ्चमवर्षान्तं पौगण्डं दशमावधि
अष्टपञ्चककैशोरं सीमा पञ्चदशावधि ॥ ५४ ॥

विश्वास-प्रस्तुतिः

यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते
तद्वयस्तस्य सर्वस्वं प्रपञ्चमितरद्वयः ॥ ५५ ॥

मूलम्

यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते
तद्वयस्तस्य सर्वस्वं प्रपञ्चमितरद्वयः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

बाल्यपौगण्डकैशोरं वयो वन्दे मनोहरम्
बालगोपालगोपालं स्मरगोपालरूपिणम् ॥ ५६ ॥

मूलम्

बाल्यपौगण्डकैशोरं वयो वन्दे मनोहरम्
बालगोपालगोपालं स्मरगोपालरूपिणम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

वन्दे मदनगोपालं कैशोराकारमद्भुतम्
यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम् ॥ ५७ ॥

मूलम्

वन्दे मदनगोपालं कैशोराकारमद्भुतम्
यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

अखण्डातुलपीयूष रसानन्दमहार्णवम्
जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः ॥ ५८ ॥

मूलम्

अखण्डातुलपीयूष रसानन्दमहार्णवम्
जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

एकमप्यव्ययं पूर्वं बल्लवीवृन्दमध्यगम्
ध्यानगम्यं प्रपश्यन्ति रुचिभेदात्पृथग्धियः ॥ ५९ ॥

मूलम्

एकमप्यव्ययं पूर्वं बल्लवीवृन्दमध्यगम्
ध्यानगम्यं प्रपश्यन्ति रुचिभेदात्पृथग्धियः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

यन्नखेन्दुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः
गुणत्रयमतीतं तं वन्दे वृन्दावनेश्वरम् ॥ ६० ॥

मूलम्

यन्नखेन्दुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः
गुणत्रयमतीतं तं वन्दे वृन्दावनेश्वरम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

वृन्दावनपरित्यागो गोविन्दस्य न विद्यते
अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः ॥ ६१ ॥

मूलम्

वृन्दावनपरित्यागो गोविन्दस्य न विद्यते
अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

सुलभं व्रजनारीणां दुर्ल्लभं तन्मुमुक्षुणाम्
तं भजे नन्दसूनुं यन्नखतेजः परं मनुः ॥ ६२ ॥

मूलम्

सुलभं व्रजनारीणां दुर्ल्लभं तन्मुमुक्षुणाम्
तं भजे नन्दसूनुं यन्नखतेजः परं मनुः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच
भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्त्तते
तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत् ॥ ६३ ॥

मूलम्

पार्वत्युवाच
भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्त्तते
तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच-
साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्त्तते
तत्सर्वं कथयिष्यामि सावधाना निशामय ॥ ६४ ॥

मूलम्

ईश्वर उवाच-
साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्त्तते
तत्सर्वं कथयिष्यामि सावधाना निशामय ॥ ६४ ॥

विश्वास-प्रस्तुतिः

स्मृत्वा गुणान्स्मरन्नाम गानं वा मनरञ्जनम्
बोधयत्यात्मनात्मानं सततं प्रेम्णि लीयते ॥ ६५ ॥

मूलम्

स्मृत्वा गुणान्स्मरन्नाम गानं वा मनरञ्जनम्
बोधयत्यात्मनात्मानं सततं प्रेम्णि लीयते ॥ ६५ ॥

इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनमाहात्म्ये पार्वतीशिवसंवादे श्रीकृष्णरूपवर्णनन्नाम सप्तसप्ततितमोऽध्यायः ७७