०७६

ईश्वर उवाच-

विश्वास-प्रस्तुतिः

अत्र शिशुपालं निहतं श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम ॥ १ ॥

मूलम्

कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन सह मथुरामाययौ ॥ २ ॥

अथ तं हत्वा यमुनामुत्तीर्य नन्दव्रजं गत्वा पितरावभिवाद्याश्वास्य ताभ्यामालिङ्गितः सकल गोपवृद्धान्परिष्वज्य तानाश्वास्य बहुवस्त्राभरणादिभिस्तत्रस्थान्सर्वान्सन्तर्पयामास ॥ ३ ॥

कालिन्द्याः पुलिने रम्ये पुण्यवृक्षसमाकीर्णे गोपस्त्रीभिरहर्निशं क्रीडासुखेन त्रिरात्रं तत्र समुवास ॥ ४ ॥

तत्र स्थले नन्दगोपादयः सर्वे जनाः पुत्रदारसहिताः पशुपक्षिमृगादयोऽपि वासुदेवप्रसादेन दिव्यरूपधरा विमानसमारूढाः परमं लोकं वैकुण्ठमवापुः ॥ ५ ॥

श्रीकृष्णस्तु नन्दगोपव्रजौकसां सर्वेषां निरामयं स्वपदं दत्वा देवगणैः स्तूयमानः
श्रीमतीं द्वारावतीं विवेश ॥ ६ ॥

तत्र वसुदेवोग्रसेनसङ्कर्षणप्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं सम्पूजितः षोडशसहस्राष्टाधिकमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमय लतागृहान्तरे-
षु सुरतरुकुसुमार्चितश्लक्ष्णतरपर्यङ्केषु रमयामास ॥ ७ ॥

एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृतमहान्तमुर्वीभारं नाशयित्वा नन्दव्रजद्वारिकावासिनः स्थावरजङ्गमान्भवबन्धनान्मोचयित्वा परमे शाश्वते योगिध्येये रम्ये धाम्नि संस्थाप्य नित्यं दिव्यमहिष्यादिभिः संसेव्यमानो वासुदेवोऽखिलेषूवाच ॥ ८ ॥

असीदव्याकृतं ब्रह्मकरकाघृतयोरिव
प्रकृतिस्थो गुणान्मुक्तो द्रवीभूत्वा दिवं गतः ॥ ९ ॥

इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनमहात्म्ये पार्वती-शिवसंवादे षट्सप्ततितमोऽध्यायः ७६