०७५

पार्वत्युवाच-

विश्वास-प्रस्तुतिः

वृन्दावनरहस्यं च बहुधा कथितं विभो
केन पुण्यविशेषेण नारदः प्रकृतिं गतः ॥ १ ॥

मूलम्

ईश्वर उवाच-
एकदाश्चर्यवृत्तान्तं मया जिज्ञासितं पुरा
ब्रह्मणा कथितं गुह्यं श्रुतं कृष्णमुखाम्बुजात् ॥ २ ॥

नारदः पृष्टवान्मह्यं तदाहं प्राप्तवानिदम्
अहं वक्तुं न शक्नोमि तन्माहात्म्यं कथञ्चन ॥ ३ ॥

किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे
इति श्रुत्वा मम वचो दुर्मनाः सोऽभवद्यदा ॥ ४ ॥

तदा ब्रह्माणमाहूय अहमादिष्टवान्प्रिये
त्वया यत्कथितं मह्यं नारदाय वदस्व तत् ॥ ५ ॥

ब्रह्मा तदा ममवचो निशम्य सह नारदः
जगाम कृष्णसविधं नत्वा पृच्छत्तदेव तु ॥ ६ ॥

ब्रह्मोवाच-
किमिदं द्वात्रिंशद्वनं वृन्दारण्यं विशाम्पते
श्रोतुमिच्छामि भगवन्यदियोग्योऽस्मि मे वद ॥ ७ ॥

श्रीभगवानुवाच-
इदं वृन्दावनं रम्यं मम धामैव केवलम्
यत्रेमे पशवः साक्षाद्वृक्षाः कीटा नरामराः ॥ ८ ॥

ये वसन्ति ममान्त्ये ते मृता यान्ति ममान्तिकम्
अत्र या गोपपत्न्यश्च निवसन्ति ममालये ॥ ९ ॥

योगिन्यस्तास्तु एवं हि मम देवाः परायणाः
पञ्चयोजनमेवं हि वनं मे देवरूपकम् ॥ १० ॥

मूलम्

योगिन्यस्तास्तु एवं हि मम देवाः परायणाः
पञ्चयोजनमेवं हि वनं मे देवरूपकम् ॥ १० ॥

विश्वास-प्रस्तुतिः

कालिन्दीयं सुषुम्नाख्या परमामृतवाहिनी
यत्र देवाश्च भूतानि वर्त्तन्ते सूक्ष्मरूपतः ॥ ११ ॥

सर्वतो व्यापकश्चाहं न त्यक्ष्यामि वनं क्वचित्
आविर्भावस्तिरोभावो भवेदत्र युगेयुगे ॥ १२ ॥

तेजोमयमिदं स्थानमदृश्यं चर्मचक्षुषाम्
रहस्यं मे प्रभावं च पश्य वृन्दावनं युगे ॥ १३ ॥

ब्रह्मादीनां देवतानां न दृश्यं तत्कथञ्चन
ईश्वर उवाच-
तच्छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणमेव च ॥ १४ ॥

आजगाम ह भूर्लोके मिश्रकं नैमिषं वनम्
तत्रासौ सत्कृतश्चापि शौनकाद्यैर्मुनीश्वरैः ॥ १५ ॥

पृष्टश्चाप्यागतो ब्रह्मन्कुतस्त्वमधुना वद
तच्छ्रुत्वा नारदः प्राह गोलोकादागतोऽस्म्यहम् ॥ १६ ॥

श्रुत्वा कृष्णमुखाम्भोजाद्वृन्दावनरहस्यकम्
नारद उवाच-
तत्र नानाविधाः प्रश्नाः कृताश्चैव पुनः पुनः ॥ १७ ॥

समस्ता मनवस्तत्र योगाश्चैव मया श्रुताः
तानेव कथयिष्यामि यथाप्रश्नं च तत्त्वतः ॥ १८ ॥

शौनकादय ऊचुः -
वृन्दारण्यरहस्यं हि यदुक्तं ब्रह्मणा त्वयि
तदस्माकं समाचक्ष्व यद्यस्मासु कृपा तव ॥ १९ ॥

कदाचित्सरयूतीरे दृष्टोऽस्माभिश्च गौतमः
मनस्वी च महादुःखी चिन्ताकुलितचेतनः ॥ २० ॥

मां दृष्ट्वा गौतमो देवः पपात धरणीतले
उत्तिष्ठ वत्सवत्सेति तमुवाचाहमेव हि ॥ २१ ॥

कथं भवान्मनस्वीति प्रोच्य तां यदि रोचते
गौतम उवाच-
श्रुतं तव मुखादेव कृष्णतत्त्वं च तादृशम् ॥ २२ ॥

द्वारकाख्यं माथुराख्यं रहस्यं बहुशो मया
वृन्दावनरहस्यं तु न श्रुतं त्वन्मुखाम्बुजात् ॥ २३ ॥

यतो मे मनसः स्थैर्य्यं भविष्यति च सद्गुरो
नारद उवाच-
इदं तु परमं गुह्यं रहस्यातिरहस्यकम् ॥ २४ ॥

पुरा मे ब्रह्मणा प्रोक्तं तादृग्वृन्दावनोद्भवम्
रहस्यं वद देवेश वृन्दारण्यस्य मे पितः ॥ २५ ॥

इतिजिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवत्
ततो माऽह महाविष्णुं गच्छ वत्स प्रभुं मम ॥ २६ ॥

मयापि तत्र गन्तव्यं त्वया सह न संशयः
इत्युक्त्वा मां गृहीत्वा च गतो विष्णोश्च धामनि ॥ २७ ॥

महाविष्णौ च कथितं मयोक्तं यत्तदेव हि
तच्छ्रुत्वा च महाविष्णुः स्वयं भुवमथादिशत् ॥ २८ ॥

त्वमेवादेशतो मह्यं नीत्वा वै नारदं मुनिम्
स्नानाय विनियुङ्क्ष्वामुं सरस्यमृतसञ्ज्ञके ॥ २९ ॥

महाविष्णुसमादिष्टः स्वयम्भूर्मां तथाकरोत्
तत्रामृतसरश्चाहं प्रविश्य स्नानमाचरम् ॥ ३० ॥

तत्क्षणात्तत्सरः पारे योषितां सविधेऽभवम्
सर्वलक्षणसपन्ना योषिद्रूपातिविस्मिता ॥ ३१ ॥

मां दृष्ट्वा ताः समायान्तीमपृच्छंश्च मुहुर्मुहुः
स्त्रिय ऊचुः -
का त्वं कुतः समायाता कथयात्मविचेष्टितम् ॥ ३२ ॥

तासां प्रियकथां श्रुत्वा मयोक्तं तन्निशामय
कुतः कोऽहं समायातः कथं वा योषिदाकृतिः ॥ ३३ ॥

स्वप्नवद्दृश्यते सर्वं किं वा मुग्धोऽस्मि भूतले
तच्छ्रुत्वा मद्वचो देवी प्रोवाच मधुरस्वनैः ॥ ३४ ॥

वृन्दानाम्नी पुरी चेयं कृष्णचन्द्रप्रिया सदा
अहं च ललितादेवी तुर्यातीता च निष्कला ॥ ३५ ॥

इत्युक्त्वा च महादेवी करुणा सान्द्रमानसा
मां प्रत्याह पुनर्देवी समागच्छ मया सह ॥ ३६ ॥

अन्याश्च योषितः सर्वाः कृष्णपादपरायणाः
ताश्च मां प्रवदन्त्येवं समागच्छानया सह ॥ ३७ ॥

ततोनुकृष्णचन्द्रस्य चतुर्दशाक्षरो मनुः
कृपया कथितस्तस्या देव्याश्चापि महात्मनः ॥ ३८ ॥

तत्क्षणादेव तत्साम्यमलभं विविधोपमा
ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः ॥ ३९ ॥

केवलं सच्चिदानन्दः स्वयंयोषिन्मयः प्रभुः
योषिदानन्दहृदयो दृष्ट्वा मां प्राब्रवीन्मुहुः ॥ ४० ॥

समागच्छ प्रिये कान्ते भक्त्या मां परिरम्भय
रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम ॥ ४१ ॥

तदोक्तं रमणेशेन तां देवीं राधिकां प्रति
इयं मे प्रकृतिस्तत्र चासीन्नारदरूपधृक् ॥ ४२ ॥

नीत्वामृतसरो रम्यं स्नानार्थं सन्नियोजय
तया मे रमणस्यान्ते गदितं प्रियभाषितम् ॥ ४३ ॥

अहं च ललितादेवी राधिकाया च गीयते
अहं च वासुदेवाख्यो नित्यं कामकलात्मकः ॥ ४४ ॥

सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी
अहं च ललितादेवी पुंरूपा कृष्णविग्रहा ॥ ४५ ॥

आवयोरन्तरं नास्ति सत्यंसत्यं हि नारद
एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम् ॥ ४६ ॥

स समाचारसङ्केतं ललिता वत्स मे प्रियः
इदं वृन्दावनं नाम रहस्यं मम वै गृहम् ॥ ४७ ॥

न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचित्
ततोऽनुराधिकादेवी मां नीत्वा तत्सरोवरे ॥ ४८ ॥

स्थित्वा सा कृष्णचन्द्रस्य चरणान्ते गता पुनः
ततो निमज्जनादेव नारदोऽहमुपागतः ॥ ४९ ॥

वीणाहस्तो गानपरस्तद्रहस्यं मुहुर्मुदा
स्वयम्भुवं नमस्कृत्य तत्रागां विष्णुपार्षदम् ॥ ५० ॥

स्वयम्भुवा तथा दृष्टं नोक्तं किञ्चित्तदा पुनः
इति ते कथितं वत्स सुगोप्यं च मया त्वयि ॥ ५१ ॥

त्वयापि कृष्णचन्द्रस्य केवलं धामचित्कलम्
गोपनीयं प्रयत्नेन मातुर्जारइव प्रियम् ॥ ५२ ॥

यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकम्
तथा भवत्सु कार्त्स्न्येन कथितं चातिगोपितम् ॥ ५३ ॥

यत्र कुत्र कदाचित्तु प्रकाश्यं मुनिपुङ्गवाः
तदा शापो भवेद्विप्राः कृष्णचन्द्रस्य निश्चितम् ॥ ५४ ॥

इमं कृष्णस्य लीलाभिर्युतमध्यायमुत्तमम्
यः पठेच्छृणुयाद्वापि स याति परमं पदम् ॥ ५५ ॥

इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनमाहात्म्ये
नारदीयानुनये पञ्चसप्ततितमोऽध्यायः ७५