०७३

ईश्वर उवाच-

विश्वास-प्रस्तुतिः

यत्त्वया पृष्टमाश्चर्यं तन्मया भाषितं क्रमात्
यत्र मुह्यन्ति ब्रह्माद्यास्तत्र को वा न मुह्यति ॥ १ ॥

मूलम्

यत्त्वया पृष्टमाश्चर्यं तन्मया भाषितं क्रमात्
यत्र मुह्यन्ति ब्रह्माद्यास्तत्र को वा न मुह्यति ॥ १ ॥

विश्वास-प्रस्तुतिः

तथापि ते प्रवक्ष्यामि यदुक्तं परमर्षिणा
महाराजमम्बरीषं विष्णुभक्तं शिवान्वितम् ॥ २ ॥

मूलम्

तथापि ते प्रवक्ष्यामि यदुक्तं परमर्षिणा
महाराजमम्बरीषं विष्णुभक्तं शिवान्वितम् ॥ २ ॥

विश्वास-प्रस्तुतिः

बदर्याश्रममासाद्य समासीनं जितेन्द्रियम्
राजा प्रणम्य तुष्टाव विष्णुधर्मविवित्सया ॥ ३ ॥

मूलम्

बदर्याश्रममासाद्य समासीनं जितेन्द्रियम्
राजा प्रणम्य तुष्टाव विष्णुधर्मविवित्सया ॥ ३ ॥

विश्वास-प्रस्तुतिः

वेदव्यासं महाभागं सर्वज्ञं पुरुषोत्तमम्
मां त्वं संसारदुष्पारे परित्रातुमिहार्हसि ॥ ४ ॥

मूलम्

वेदव्यासं महाभागं सर्वज्ञं पुरुषोत्तमम्
मां त्वं संसारदुष्पारे परित्रातुमिहार्हसि ॥ ४ ॥

विश्वास-प्रस्तुतिः

विषयेषु विरक्तोऽस्मि नमस्तेभ्यो नमोखिलम्
यत्तत्पदमनुद्विग्नं सच्चिदानन्दविग्रहम् ॥ ५ ॥

मूलम्

विषयेषु विरक्तोऽस्मि नमस्तेभ्यो नमोखिलम्
यत्तत्पदमनुद्विग्नं सच्चिदानन्दविग्रहम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

परं ब्रह्म पराकाशमनाकाशमनामयम्
यत्साक्षात्कृत्य मुनयो भवाम्भोधिं तरन्ति हि ॥ ६ ॥

मूलम्

परं ब्रह्म पराकाशमनाकाशमनामयम्
यत्साक्षात्कृत्य मुनयो भवाम्भोधिं तरन्ति हि ॥ ६ ॥

विश्वास-प्रस्तुतिः

तत्राहं मनसो नित्यं कथं गतिमवाप्नुयाम्
व्यास उवाच-
अतिगोप्यं त्वया पृष्टं यन्मया न शुकं प्रति ॥ ७ ॥

मूलम्

तत्राहं मनसो नित्यं कथं गतिमवाप्नुयाम्
व्यास उवाच-
अतिगोप्यं त्वया पृष्टं यन्मया न शुकं प्रति ॥ ७ ॥

विश्वास-प्रस्तुतिः

गदितं स्वसुतं किन्तु त्वां वक्ष्यामि हरिप्रियम्
आसीदिदं परं विश्वं यद्रूपं यत्प्रतिष्ठितम् ॥ ८ ॥

मूलम्

गदितं स्वसुतं किन्तु त्वां वक्ष्यामि हरिप्रियम्
आसीदिदं परं विश्वं यद्रूपं यत्प्रतिष्ठितम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

अव्याकृतमव्यथितं तदीश्वरमयं शृणु
मया कृतं तपः पूर्वं बहुवर्षसहस्रकम् ॥ ९ ॥

मूलम्

अव्याकृतमव्यथितं तदीश्वरमयं शृणु
मया कृतं तपः पूर्वं बहुवर्षसहस्रकम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

फलमूलपलाशाम्बु वाय्वाहारनिषेविणा
ततो मामाहभगवान्स्वध्याननिरतं हरिः ॥ १० ॥

मूलम्

फलमूलपलाशाम्बु वाय्वाहारनिषेविणा
ततो मामाहभगवान्स्वध्याननिरतं हरिः ॥ १० ॥

विश्वास-प्रस्तुतिः

कस्मिन्नर्थे चिकीर्षाते विवित्सा वा महामते
प्रसन्नोऽस्मि वृणुष्व त्वं वरं च वरदर्षभात् ॥ ११ ॥

मूलम्

कस्मिन्नर्थे चिकीर्षाते विवित्सा वा महामते
प्रसन्नोऽस्मि वृणुष्व त्वं वरं च वरदर्षभात् ॥ ११ ॥

विश्वास-प्रस्तुतिः

मद्दर्शनान्तः संसार इति सत्यं ब्रवीमि ते
ततोऽहमब्रुवं कृष्णं पुलकोत्फुल्लविग्रहः ॥ १२ ॥

मूलम्

मद्दर्शनान्तः संसार इति सत्यं ब्रवीमि ते
ततोऽहमब्रुवं कृष्णं पुलकोत्फुल्लविग्रहः ॥ १२ ॥

विश्वास-प्रस्तुतिः

त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन
यत्तत्सत्यं परं ब्रह्म जगज्ज्योतिं जगत्पतिम् ॥ १३ ॥

मूलम्

त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन
यत्तत्सत्यं परं ब्रह्म जगज्ज्योतिं जगत्पतिम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

वदन्ति वेदशिरसश्चाक्षुषं नाथमद्भुतम्
श्रीभगवानुवाच-
ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा ॥ १४ ॥

मूलम्

वदन्ति वेदशिरसश्चाक्षुषं नाथमद्भुतम्
श्रीभगवानुवाच-
ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा ॥ १४ ॥

विश्वास-प्रस्तुतिः

यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते
मामेके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम् ॥ १५ ॥

मूलम्

यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते
मामेके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

धर्ममेके धनं चैके मोक्षमेकेऽकुतोभयम्
शून्यमेके भावमेके शिवमेके सदाशिवम् ॥ १६ ॥

मूलम्

धर्ममेके धनं चैके मोक्षमेकेऽकुतोभयम्
शून्यमेके भावमेके शिवमेके सदाशिवम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

अपरे वेदशिरसि स्थितमेकं सनातनम्
सद्भावं विक्रियाहीनं सच्चिदानन्दविग्रहम् ॥ १७ ॥

मूलम्

अपरे वेदशिरसि स्थितमेकं सनातनम्
सद्भावं विक्रियाहीनं सच्चिदानन्दविग्रहम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम्
ततोऽपश्यं भूपबालमहं कालाम्बुदप्रभम् ॥ १८ ॥

मूलम्

पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम्
ततोऽपश्यं भूपबालमहं कालाम्बुदप्रभम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

गोपकन्यावृतं गोपं हसन्तं गोपबालकैः
कदम्बमूलआसीनं पीतवाससमद्भुतम् ॥ १९ ॥

मूलम्

गोपकन्यावृतं गोपं हसन्तं गोपबालकैः
कदम्बमूलआसीनं पीतवाससमद्भुतम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

वनं वृन्दावनं नाम नवपल्लवमण्डितम्
कोकिलभ्रमरारावं मनोभव मनोहरम् ॥ २० ॥

मूलम्

वनं वृन्दावनं नाम नवपल्लवमण्डितम्
कोकिलभ्रमरारावं मनोभव मनोहरम् ॥ २० ॥

विश्वास-प्रस्तुतिः

नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम्
गोवर्द्धनमथापश्यं कृष्णरामकरोद्धृतम् ॥ २१ ॥

मूलम्

नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम्
गोवर्द्धनमथापश्यं कृष्णरामकरोद्धृतम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

महेन्द्रदर्पनाशाय गोगोपालसुखावहम्
गोपालमबलासङ्गमुदितं वेणुवादिनम् ॥ २२ ॥

मूलम्

महेन्द्रदर्पनाशाय गोगोपालसुखावहम्
गोपालमबलासङ्गमुदितं वेणुवादिनम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वातिहृष्टो ह्यभवं सर्वभूषणभूषणम्
ततो मामाह भगवान्वृन्दावनचरः स्वयम् ॥ २३ ॥

मूलम्

दृष्ट्वातिहृष्टो ह्यभवं सर्वभूषणभूषणम्
ततो मामाह भगवान्वृन्दावनचरः स्वयम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम्
निष्कलं निष्क्रियं शान्तं सच्चिदानन्दविग्रहम् ॥ २४ ॥

मूलम्

यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम्
निष्कलं निष्क्रियं शान्तं सच्चिदानन्दविग्रहम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

पूर्णं पद्मपलाशाक्षं नातः परतरं मम
इदमेववदन्त्येतेवेदाःकारणकारणम् ॥ २५ ॥

मूलम्

पूर्णं पद्मपलाशाक्षं नातः परतरं मम
इदमेववदन्त्येतेवेदाःकारणकारणम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

सत्यन्नित्यम्परानन्दञ्चिद्घनंशाश्वतंशिवम्
नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ॥ २६ ॥

मूलम्

सत्यन्नित्यम्परानन्दञ्चिद्घनंशाश्वतंशिवम्
नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ॥ २६ ॥

विश्वास-प्रस्तुतिः

यमुनां गोपकन्याश्च तथा गोपालबालकाः
ममावतारो नित्योऽयमत्र मा संशयं कृथाः ॥ २७ ॥

मूलम्

यमुनां गोपकन्याश्च तथा गोपालबालकाः
ममावतारो नित्योऽयमत्र मा संशयं कृथाः ॥ २७ ॥

विश्वास-प्रस्तुतिः

ममेष्टा हि सदा राधा सर्वज्ञोऽहं परात्परः
सर्वकामश्च सर्वेशः सर्वानन्दः परात्परः ॥ २८ ॥

मूलम्

ममेष्टा हि सदा राधा सर्वज्ञोऽहं परात्परः
सर्वकामश्च सर्वेशः सर्वानन्दः परात्परः ॥ २८ ॥

विश्वास-प्रस्तुतिः

मयि सर्वमिदं विश्वं भाति मायाविजृम्भितम्
ततोऽहमब्रुवं देवं जगत्कारणकारणम् ॥ २९ ॥

मूलम्

मयि सर्वमिदं विश्वं भाति मायाविजृम्भितम्
ततोऽहमब्रुवं देवं जगत्कारणकारणम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

काश्च गोप्यस्तु के गोपा वृक्षोऽयं कीदृशो मतः
वनं किं कोकिलाद्याश्च नदी केयं गिरिश्च कः ॥ ३० ॥

मूलम्

काश्च गोप्यस्तु के गोपा वृक्षोऽयं कीदृशो मतः
वनं किं कोकिलाद्याश्च नदी केयं गिरिश्च कः ॥ ३० ॥

विश्वास-प्रस्तुतिः

कोऽसौ वेणुर्महाभागो लोकानन्दैकभाजनम्
भगवानाह मां प्रीतः प्रसन्नवदनाम्बुजः ॥ ३१ ॥

मूलम्

कोऽसौ वेणुर्महाभागो लोकानन्दैकभाजनम्
भगवानाह मां प्रीतः प्रसन्नवदनाम्बुजः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

गोप्यस्तु श्रुतयो ज्ञेया ऋचो वै गोपकन्यकाः
देवकन्याश्च राजेन्द्र तपोयुक्ता मुमुक्षवः ॥ ३२ ॥

मूलम्

गोप्यस्तु श्रुतयो ज्ञेया ऋचो वै गोपकन्यकाः
देवकन्याश्च राजेन्द्र तपोयुक्ता मुमुक्षवः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

गोपाला मुनयः सर्वे वैकुण्ठानन्दमूर्त्तयः
कल्पवृक्षः कदम्बोऽयं परानन्दैकभाजनम् ॥ ३३ ॥

मूलम्

गोपाला मुनयः सर्वे वैकुण्ठानन्दमूर्त्तयः
कल्पवृक्षः कदम्बोऽयं परानन्दैकभाजनम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

वनमानन्दकाख्यं हि महापातकनाशनम्
सिद्धाश्च साध्या गन्धर्वाः कोकिलाद्या न संशयः ॥ ३४ ॥

मूलम्

वनमानन्दकाख्यं हि महापातकनाशनम्
सिद्धाश्च साध्या गन्धर्वाः कोकिलाद्या न संशयः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

केचिदानन्दहृदयं साक्षाद्यमुनया तनुम्
अनादिर्हरिदासोऽयं भूधरो नात्र संशयः ॥ ३५ ॥

मूलम्

केचिदानन्दहृदयं साक्षाद्यमुनया तनुम्
अनादिर्हरिदासोऽयं भूधरो नात्र संशयः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

वेणुर्यः शृणुतं विप्रं तवापि विदितं तथा
द्विज आसीच्छान्तमनास्तपः शान्तिपरायणः ॥ ३६ ॥

मूलम्

वेणुर्यः शृणुतं विप्रं तवापि विदितं तथा
द्विज आसीच्छान्तमनास्तपः शान्तिपरायणः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

नाम्ना देवव्रतोदान्तः कर्मकाण्डविशारदः
स वैष्णवजनव्रातमध्यवर्त्ती क्रियापरः ॥ ३७ ॥

मूलम्

नाम्ना देवव्रतोदान्तः कर्मकाण्डविशारदः
स वैष्णवजनव्रातमध्यवर्त्ती क्रियापरः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

स कदाचन शुश्राव यज्ञेशोऽस्तीति भूपते
तस्य गेहमथाभ्यागाद्द्विजो मद्गतनिश्चयः ॥ ३८ ॥

मूलम्

स कदाचन शुश्राव यज्ञेशोऽस्तीति भूपते
तस्य गेहमथाभ्यागाद्द्विजो मद्गतनिश्चयः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

स मद्भक्तः क्वचित्पूजां तुलसीदलवारिणा
कृतवांस्तद्गृहे किञ्चित्फलं मूलं न्यवेदयत् ॥ ३९ ॥

मूलम्

स मद्भक्तः क्वचित्पूजां तुलसीदलवारिणा
कृतवांस्तद्गृहे किञ्चित्फलं मूलं न्यवेदयत् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

स्नानवारिफलं किञ्चित्तस्मै मत्या ददौ सुधीः
अश्रद्धया स्मितं कृत्वा सोऽप्यगृह्णाद्द्विजन्मनः ॥ ४० ॥

मूलम्

स्नानवारिफलं किञ्चित्तस्मै मत्या ददौ सुधीः
अश्रद्धया स्मितं कृत्वा सोऽप्यगृह्णाद्द्विजन्मनः ॥ ४० ॥

विश्वास-प्रस्तुतिः

तेन पापेन सञ्जातं वेणुत्वमतिदारुणम्
तेन पुण्येन तस्याथ मदीय प्रियतां गतः ॥ ४१ ॥

मूलम्

तेन पापेन सञ्जातं वेणुत्वमतिदारुणम्
तेन पुण्येन तस्याथ मदीय प्रियतां गतः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

अमुना सोपि राजेन्द्र केतुमानिव राजते
युगान्ते तद्विष्णुपरो भूत्वा ब्रह्म समाप्स्यति ॥ ४२ ॥

मूलम्

अमुना सोपि राजेन्द्र केतुमानिव राजते
युगान्ते तद्विष्णुपरो भूत्वा ब्रह्म समाप्स्यति ॥ ४२ ॥

विश्वास-प्रस्तुतिः

अहो न जानन्ति नरा दुराशयाः पुरीं मदीयां परमां सनातनीम्
सुरेन्द्र नागेन्द्र मुनीन्द्र संस्तुतां मनोरमां तां मथुरां पुरातनीम् ॥ ४३ ॥

मूलम्

अहो न जानन्ति नरा दुराशयाः पुरीं मदीयां परमां सनातनीम्
सुरेन्द्र नागेन्द्र मुनीन्द्र संस्तुतां मनोरमां तां मथुरां पुरातनीम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

काश्यादयो यद्यपि सन्ति पुर्यस्तासां तु मध्ये मथुरैव धन्या
यज्जन्ममौञ्जीव्रतमृत्युदाहैर्नृणां चतुर्द्धा विदधाति मुक्तिम् ॥ ४४ ॥

मूलम्

काश्यादयो यद्यपि सन्ति पुर्यस्तासां तु मध्ये मथुरैव धन्या
यज्जन्ममौञ्जीव्रतमृत्युदाहैर्नृणां चतुर्द्धा विदधाति मुक्तिम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

यदा विशुद्धास्तपआदिना जनाः शुभाशया ध्यानधना निरन्तरम्
तदैव पश्यन्ति ममोत्तमां पुरीं न चान्यथा कल्पशतैर्द्विजोत्तमाः ॥ ४५ ॥

मूलम्

यदा विशुद्धास्तपआदिना जनाः शुभाशया ध्यानधना निरन्तरम्
तदैव पश्यन्ति ममोत्तमां पुरीं न चान्यथा कल्पशतैर्द्विजोत्तमाः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

मथुरावासिनो धन्या मान्या अपि दिवौकसाम्
अगण्यमहिमानस्ते सर्व एव चतुर्भुजाः ॥ ४६ ॥

मूलम्

मथुरावासिनो धन्या मान्या अपि दिवौकसाम्
अगण्यमहिमानस्ते सर्व एव चतुर्भुजाः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

मथुरावासिनो ये तु दोषान्पश्यन्ति मानवाः
तेषु दोषं न पश्यन्ति जन्ममृत्युसहस्रजम् ॥ ४७ ॥

मूलम्

मथुरावासिनो ये तु दोषान्पश्यन्ति मानवाः
तेषु दोषं न पश्यन्ति जन्ममृत्युसहस्रजम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

अधना अपि ते धन्या मथुरां ये स्मरन्ति ते
यत्र भूतेश्वरो देवो मोक्षदः पापिनामपि ॥ ४८ ॥

मूलम्

अधना अपि ते धन्या मथुरां ये स्मरन्ति ते
यत्र भूतेश्वरो देवो मोक्षदः पापिनामपि ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मम प्रियतमो नित्यं देवो भूतेश्वरः परः
यः कदापि मम प्रीत्यै न सन्त्यजति तां पुरीम् ॥ ४९ ॥

मूलम्

मम प्रियतमो नित्यं देवो भूतेश्वरः परः
यः कदापि मम प्रीत्यै न सन्त्यजति तां पुरीम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

भूतेश्वरं यो न नमेन्न पूजयेन्न वास्मरेद्दुश्चरितो मनुष्यः
नैनां स पश्येन्मथुरां मदीयां स्वयम्प्रकाशां परदेवताख्याम् ॥ ५० ॥

मूलम्

भूतेश्वरं यो न नमेन्न पूजयेन्न वास्मरेद्दुश्चरितो मनुष्यः
नैनां स पश्येन्मथुरां मदीयां स्वयम्प्रकाशां परदेवताख्याम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

न कथं मयि भक्तिं स लभते पापपूरुषः
यो मदीयं परं भक्तं शिवं सम्पूजयेन्नहि ॥ ५१ ॥

मूलम्

न कथं मयि भक्तिं स लभते पापपूरुषः
यो मदीयं परं भक्तं शिवं सम्पूजयेन्नहि ॥ ५१ ॥

विश्वास-प्रस्तुतिः

मन्मायामोहितधियः प्रायस्ते मानवाधमाः
भूतेश्वरं न नमन्ति न स्मरन्ति स्तुवन्ति ये ॥ ५२ ॥

मूलम्

मन्मायामोहितधियः प्रायस्ते मानवाधमाः
भूतेश्वरं न नमन्ति न स्मरन्ति स्तुवन्ति ये ॥ ५२ ॥

विश्वास-प्रस्तुतिः

बालकोऽपि ध्रुवो यत्र ममाराधनतत्परः
प्राप स्थानं परं शुद्धं यत्नयुक्तं पितामहैः ॥ ५३ ॥

मूलम्

बालकोऽपि ध्रुवो यत्र ममाराधनतत्परः
प्राप स्थानं परं शुद्धं यत्नयुक्तं पितामहैः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तां पुरीं प्राप्य मथुरां मदीयां सुरदुर्लभाम्
खञ्जो भूत्वान्धको वापि प्राणानेव परित्यजेत् ॥ ५४ ॥

मूलम्

तां पुरीं प्राप्य मथुरां मदीयां सुरदुर्लभाम्
खञ्जो भूत्वान्धको वापि प्राणानेव परित्यजेत् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

वेदव्यासमहाभाग मा कृथाः संशयं क्वचित्
रहस्यं वेदशिरसां यन्मया ते प्रकाशितम् ॥ ५५ ॥

मूलम्

वेदव्यासमहाभाग मा कृथाः संशयं क्वचित्
रहस्यं वेदशिरसां यन्मया ते प्रकाशितम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

इमं भगवता प्रोक्तमध्यायं यः पठेच्छुचिः
शृणुयाद्वापि यो भक्त्या मुक्तिस्तस्यापि शाश्वती ॥ ५६ ॥

मूलम्

इमं भगवता प्रोक्तमध्यायं यः पठेच्छुचिः
शृणुयाद्वापि यो भक्त्या मुक्तिस्तस्यापि शाश्वती ॥ ५६ ॥

इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनादिमथुरामाहात्म्य-
कथनन्नाम त्रिसप्ततितमोऽध्यायः ७३