०७२

ईश्वर उवाच-

विश्वास-प्रस्तुतिः

तदेकाग्रमना भूत्वा शृणु देवि वरानने
आसीदुग्रतपा नाम मुनिरेको दृढव्रतः ॥ १ ॥

मूलम्

तदेकाग्रमना भूत्वा शृणु देवि वरानने
आसीदुग्रतपा नाम मुनिरेको दृढव्रतः ॥ १ ॥

विश्वास-प्रस्तुतिः

साग्निको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः
जजाप परमं जाप्यं मन्त्रं पञ्चदशाक्षरम् ॥ २ ॥

मूलम्

साग्निको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः
जजाप परमं जाप्यं मन्त्रं पञ्चदशाक्षरम् ॥ २ ॥

विश्वास-प्रस्तुतिः

काममन्त्रेण पुटितं कामं कामवरप्रदात्
कृष्णायेति पदं स्वाहा सहितं सिद्धिदं परम् ॥ ३ ॥

मूलम्

काममन्त्रेण पुटितं कामं कामवरप्रदात्
कृष्णायेति पदं स्वाहा सहितं सिद्धिदं परम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकम्
पीतपट्टधरं वेणुं करेणाधरमर्पितम् ॥ ४ ॥

मूलम्

दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकम्
पीतपट्टधरं वेणुं करेणाधरमर्पितम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

नवयौवनसम्पन्नं कर्षन्तं पाणिना प्रियाम्
एवं ध्यानपरः कल्पशतान्ते देहमुत्सृजन् ॥ ५ ॥

मूलम्

नवयौवनसम्पन्नं कर्षन्तं पाणिना प्रियाम्
एवं ध्यानपरः कल्पशतान्ते देहमुत्सृजन् ॥ ५ ॥

विश्वास-प्रस्तुतिः

सुनन्द नाम गोपस्य कन्याभूत्स महामुनिः
सुनन्देति समाख्याता या वीणां बिभ्रती करे ॥ ६ ॥

मूलम्

सुनन्द नाम गोपस्य कन्याभूत्स महामुनिः
सुनन्देति समाख्याता या वीणां बिभ्रती करे ॥ ६ ॥

विश्वास-प्रस्तुतिः

मुनिरन्यः सत्यतपा इति ख्यातो महाव्रतः
सशुष्कपत्रं भुङ्क्ते यः प्रजजाप परं मनुम् ॥ ७ ॥

मूलम्

मुनिरन्यः सत्यतपा इति ख्यातो महाव्रतः
सशुष्कपत्रं भुङ्क्ते यः प्रजजाप परं मनुम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

रत्यन्तं कामबीजेन पुटितं च दशाक्षरम्
स प्रदध्यौ मुनिवरश्चित्रवेषधरं हरिम् ॥ ८ ॥

मूलम्

रत्यन्तं कामबीजेन पुटितं च दशाक्षरम्
स प्रदध्यौ मुनिवरश्चित्रवेषधरं हरिम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

धृत्वा रमाया दोर्वल्लीद्वितयं कङ्कणोज्ज्वलम्
नृत्यन्तमुन्मदन्तं च संश्लिष्यं तं मुहुर्मुहुः ॥ ९ ॥

मूलम्

धृत्वा रमाया दोर्वल्लीद्वितयं कङ्कणोज्ज्वलम्
नृत्यन्तमुन्मदन्तं च संश्लिष्यं तं मुहुर्मुहुः ॥ ९ ॥

विश्वास-प्रस्तुतिः

हसन्तमुच्चैरानन्दतरङ्गं जठराम्बरे
दधतं वेणुमाजानु वैजयन्त्या विराजितम् ॥ १० ॥

मूलम्

हसन्तमुच्चैरानन्दतरङ्गं जठराम्बरे
दधतं वेणुमाजानु वैजयन्त्या विराजितम् ॥ १० ॥

विश्वास-प्रस्तुतिः

स्वेदाम्भः कणसंसिक्त ललाटवलिताननम्
त्यक्त्वा त्यक्त्वा स वै देहं तपसा च महामुनिः ॥ ११ ॥

मूलम्

स्वेदाम्भः कणसंसिक्त ललाटवलिताननम्
त्यक्त्वा त्यक्त्वा स वै देहं तपसा च महामुनिः ॥ ११ ॥

विश्वास-प्रस्तुतिः

दशकल्पान्तरे जातो ह्ययं नन्दवनादिह
सुभद्र नाम्नो गोपस्य कन्या भद्रेति विश्रुता ॥ १२ ॥

मूलम्

दशकल्पान्तरे जातो ह्ययं नन्दवनादिह
सुभद्र नाम्नो गोपस्य कन्या भद्रेति विश्रुता ॥ १२ ॥

विश्वास-प्रस्तुतिः

यस्याः पृष्ठतले दिव्यं व्यजनं परिदृश्यते
हरिधामाभिधानस्तु कश्चिदासीन्महामुनिः ॥ १३ ॥

मूलम्

यस्याः पृष्ठतले दिव्यं व्यजनं परिदृश्यते
हरिधामाभिधानस्तु कश्चिदासीन्महामुनिः ॥ १३ ॥

विश्वास-प्रस्तुतिः

सोऽप्यतप्यत्तपः कृच्छ्रं नित्यं पत्रैकभोजनम्
आशुसिद्धिकरं मन्त्रं विंशत्यर्णं प्रजप्तवान् ॥ १४ ॥

मूलम्

सोऽप्यतप्यत्तपः कृच्छ्रं नित्यं पत्रैकभोजनम्
आशुसिद्धिकरं मन्त्रं विंशत्यर्णं प्रजप्तवान् ॥ १४ ॥

विश्वास-प्रस्तुतिः

अनन्तरं कामबीजादध्यारूढं तदेव तु
माया तत्पुरतो व्योम हंसासृग्द्युतिचन्द्रकम् ॥ १५ ॥

मूलम्

अनन्तरं कामबीजादध्यारूढं तदेव तु
माया तत्पुरतो व्योम हंसासृग्द्युतिचन्द्रकम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

ततो दशाक्षरं पश्चान्नमोयुक्तं स्मरादिकम्
दध्यौ वृन्दावने रम्ये माधवीमण्डपे प्रभुम् ॥ १६ ॥

मूलम्

ततो दशाक्षरं पश्चान्नमोयुक्तं स्मरादिकम्
दध्यौ वृन्दावने रम्ये माधवीमण्डपे प्रभुम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

उत्तानशायिनं चारुपल्लवास्तरणोपरि
कयाचिदतिकामार्त्त बल्लव्या रक्तनेत्रया ॥ १७ ॥

मूलम्

उत्तानशायिनं चारुपल्लवास्तरणोपरि
कयाचिदतिकामार्त्त बल्लव्या रक्तनेत्रया ॥ १७ ॥

विश्वास-प्रस्तुतिः

वक्षोजयुगमाच्छाद्य विपुलोरः स्थलं मुहुः
सञ्चुम्ब्यमानगण्डान्तं तृप्यमानरदच्छदम् ॥ १८ ॥

मूलम्

वक्षोजयुगमाच्छाद्य विपुलोरः स्थलं मुहुः
सञ्चुम्ब्यमानगण्डान्तं तृप्यमानरदच्छदम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

कलयन्तं प्रियां दोर्भ्यां सहासं समुदाद्भुतम्
स मुनिश्च बहून्देहां स्त्यक्त्वा कल्पत्रयान्तरे ॥ १९ ॥

मूलम्

कलयन्तं प्रियां दोर्भ्यां सहासं समुदाद्भुतम्
स मुनिश्च बहून्देहां स्त्यक्त्वा कल्पत्रयान्तरे ॥ १९ ॥

विश्वास-प्रस्तुतिः

सारङ्गनाम्नो गोपस्य कन्याभूच्छुभलक्षणा
रङ्गवेणीति विख्याता निपुणा चित्रकर्मणि ॥ २० ॥

मूलम्

सारङ्गनाम्नो गोपस्य कन्याभूच्छुभलक्षणा
रङ्गवेणीति विख्याता निपुणा चित्रकर्मणि ॥ २० ॥

विश्वास-प्रस्तुतिः

यस्या दन्तेषु दृश्यन्ते चित्रिताः शोणबिन्दवः
ब्रह्मवादी मुनिः कश्चिज्जाबालिरिति विश्रुतः ॥ २१ ॥

मूलम्

यस्या दन्तेषु दृश्यन्ते चित्रिताः शोणबिन्दवः
ब्रह्मवादी मुनिः कश्चिज्जाबालिरिति विश्रुतः ॥ २१ ॥

विश्वास-प्रस्तुतिः

सतपः सुरतो योगी विचरन्पृथिवीमिमाम्
स एकस्मिन्महारण्ये योजनायुतविस्तृते ॥ २२ ॥

मूलम्

सतपः सुरतो योगी विचरन्पृथिवीमिमाम्
स एकस्मिन्महारण्ये योजनायुतविस्तृते ॥ २२ ॥

विश्वास-प्रस्तुतिः

यदृच्छयागतोऽपश्यदेकां वापीं सुशोभनाम्
सर्वतः स्फाटिकाबन्धतटां स्वादुजलान्विताम् ॥ २३ ॥

मूलम्

यदृच्छयागतोऽपश्यदेकां वापीं सुशोभनाम्
सर्वतः स्फाटिकाबन्धतटां स्वादुजलान्विताम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

विकासिकमलामोदवायुना परिशीलिताम्
तस्याः पश्चिमदिग्भागे मूले वटमहीरुहः ॥ २४ ॥

मूलम्

विकासिकमलामोदवायुना परिशीलिताम्
तस्याः पश्चिमदिग्भागे मूले वटमहीरुहः ॥ २४ ॥

विश्वास-प्रस्तुतिः

अपश्यत्तापसीं काञ्चित्कुर्वन्तीं दारुणं तपः
तारुण्यवयसायुक्तां रूपेणाति मनोहराम् ॥ २५ ॥

मूलम्

अपश्यत्तापसीं काञ्चित्कुर्वन्तीं दारुणं तपः
तारुण्यवयसायुक्तां रूपेणाति मनोहराम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

चन्द्रांशुं सदृशाभासां सर्वावयवशोभनाम्
कृत्वा कटितटे वामपाणिं दक्षिणतस्तदा ॥ २६ ॥

मूलम्

चन्द्रांशुं सदृशाभासां सर्वावयवशोभनाम्
कृत्वा कटितटे वामपाणिं दक्षिणतस्तदा ॥ २६ ॥

विश्वास-प्रस्तुतिः

ज्ञानमुद्रां च बिभ्राणामनिमेषविलोचनाम्
त्यक्ताहारविहारां च सुनिश्चलतयास्थिताम् ॥ २७ ॥

मूलम्

ज्ञानमुद्रां च बिभ्राणामनिमेषविलोचनाम्
त्यक्ताहारविहारां च सुनिश्चलतयास्थिताम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

जिज्ञासुस्तां मुनिवरस्तस्थौ तत्र शतं समाः
तदन्ते तां समुत्थाप्य चलितां विनयान्मुनिः ॥ २८ ॥

मूलम्

जिज्ञासुस्तां मुनिवरस्तस्थौ तत्र शतं समाः
तदन्ते तां समुत्थाप्य चलितां विनयान्मुनिः ॥ २८ ॥

विश्वास-प्रस्तुतिः

अपृच्छत्का त्वमाश्चर्यरूपे किं वा चरिष्यसि
यदि योग्यं भवेत्तर्हि कृपया वक्तुमर्हसि ॥ २९ ॥

मूलम्

अपृच्छत्का त्वमाश्चर्यरूपे किं वा चरिष्यसि
यदि योग्यं भवेत्तर्हि कृपया वक्तुमर्हसि ॥ २९ ॥

विश्वास-प्रस्तुतिः

अथाब्रवीच्छनैर्बाला तपसातीव कर्शिता
ब्रह्मविद्याहमतुला योगीन्द्रैर्या विमृग्यते ॥ ३० ॥

मूलम्

अथाब्रवीच्छनैर्बाला तपसातीव कर्शिता
ब्रह्मविद्याहमतुला योगीन्द्रैर्या विमृग्यते ॥ ३० ॥

विश्वास-प्रस्तुतिः

साहं हरिपदाम्भोजकाम्यया सुचिरं तपः
चराम्यस्मिन्वने घोरे ध्यायन्ती पुरुषोत्तमम् ॥ ३१ ॥

मूलम्

साहं हरिपदाम्भोजकाम्यया सुचिरं तपः
चराम्यस्मिन्वने घोरे ध्यायन्ती पुरुषोत्तमम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ब्रह्मानन्देन पूर्णाहं तेनानन्देन तृप्तधीः
तथापि शून्यमात्मानं मन्ये कृष्णरतिं विना ॥ ३२ ॥

मूलम्

ब्रह्मानन्देन पूर्णाहं तेनानन्देन तृप्तधीः
तथापि शून्यमात्मानं मन्ये कृष्णरतिं विना ॥ ३२ ॥

विश्वास-प्रस्तुतिः

इदानीमतिनिर्विण्णा देहस्यास्य विसर्ज्जनम्
कर्त्तुमिच्छामि पुण्यायां वापिकायामिहैव तु ॥ ३३ ॥

मूलम्

इदानीमतिनिर्विण्णा देहस्यास्य विसर्ज्जनम्
कर्त्तुमिच्छामि पुण्यायां वापिकायामिहैव तु ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा वचनं तस्या मुनिरत्यन्तविस्मितः
पतित्वा चरणे तस्याः कृष्णोपासाविधिं शुभम् ॥ ३४ ॥

मूलम्

तच्छ्रुत्वा वचनं तस्या मुनिरत्यन्तविस्मितः
पतित्वा चरणे तस्याः कृष्णोपासाविधिं शुभम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

पप्रच्छ परमप्रीतस्त्यक्त्वाध्यात्मविरोचनम्
तयोक्तं मन्त्रमाज्ञाय जगाम मानसं सरः ॥ ३५ ॥

मूलम्

पप्रच्छ परमप्रीतस्त्यक्त्वाध्यात्मविरोचनम्
तयोक्तं मन्त्रमाज्ञाय जगाम मानसं सरः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

ततोऽतिदुश्चरं चक्रे तपो विस्मयकारकम्
एकपादस्थितः सूर्यं निर्निमेषं विलोकयन् ॥ ३६ ॥

मूलम्

ततोऽतिदुश्चरं चक्रे तपो विस्मयकारकम्
एकपादस्थितः सूर्यं निर्निमेषं विलोकयन् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

मन्त्रं जजाप परमं पञ्चविंशतिवर्णकम्
दध्यौ परमभावेन कृष्णमानन्दरूपिणम् ॥ ३७ ॥

मूलम्

मन्त्रं जजाप परमं पञ्चविंशतिवर्णकम्
दध्यौ परमभावेन कृष्णमानन्दरूपिणम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

चरन्तं व्रजवीथीषु विचित्रगतिलीलया
ललितैः पादविन्यासैः क्वणयन्तं च नूपुरम् ॥ ३८ ॥

मूलम्

चरन्तं व्रजवीथीषु विचित्रगतिलीलया
ललितैः पादविन्यासैः क्वणयन्तं च नूपुरम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

चित्रकन्दर्पचेष्टाभिः सस्मितापाङ्गवीक्षितैः
सम्मोहनाख्यया वंश्या पञ्चमारुणचित्रया ॥ ३९ ॥

मूलम्

चित्रकन्दर्पचेष्टाभिः सस्मितापाङ्गवीक्षितैः
सम्मोहनाख्यया वंश्या पञ्चमारुणचित्रया ॥ ३९ ॥

विश्वास-प्रस्तुतिः

बिम्बौष्ठपुटचुम्बिन्या कलालापैर्मनोज्ञया
हरन्तं व्रजरामाणां मनांसि च वपूंषि च ॥ ४० ॥

मूलम्

बिम्बौष्ठपुटचुम्बिन्या कलालापैर्मनोज्ञया
हरन्तं व्रजरामाणां मनांसि च वपूंषि च ॥ ४० ॥

विश्वास-प्रस्तुतिः

श्लथन्नीवीभिरागत्य सहसालिङ्गिताङ्गकम्
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ४१ ॥

मूलम्

श्लथन्नीवीभिरागत्य सहसालिङ्गिताङ्गकम्
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

श्यामलाङ्गप्रभापूर्णैर्मोहयन्तं जगत्त्रयम्
स एवं बहुदेवेन समुपास्य जगत्पतिम् ॥ ४२ ॥

मूलम्

श्यामलाङ्गप्रभापूर्णैर्मोहयन्तं जगत्त्रयम्
स एवं बहुदेवेन समुपास्य जगत्पतिम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

नवकल्पान्तरे जाता गोकुले दिव्यरूपिणी
कन्या प्रचण्डनाम्नस्तु गोपस्याति यशस्विनः ॥ ४३ ॥

मूलम्

नवकल्पान्तरे जाता गोकुले दिव्यरूपिणी
कन्या प्रचण्डनाम्नस्तु गोपस्याति यशस्विनः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

चित्रगन्धेति विख्याता कुमारी च शुभानना
निजाङ्गगन्धैर्विविधैर्मोदयन्ती दिशो दश ॥ ४४ ॥

मूलम्

चित्रगन्धेति विख्याता कुमारी च शुभानना
निजाङ्गगन्धैर्विविधैर्मोदयन्ती दिशो दश ॥ ४४ ॥

विश्वास-प्रस्तुतिः

तामेनां पश्य कल्याणीं वृन्दशो मधुपायिनीम्
अङ्गेषु स्वपतिं कृत्वा रसावेशसमाकुलाम् ॥ ४५ ॥

मूलम्

तामेनां पश्य कल्याणीं वृन्दशो मधुपायिनीम्
अङ्गेषु स्वपतिं कृत्वा रसावेशसमाकुलाम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

अस्याः स्तनपरिष्वङ्गे हारैः सर्वैर्विहन्यते
वक्षःस्थलात्प्रच्यवद्भिश्चित्रगन्धादिसौरभैः ॥ ४६ ॥

मूलम्

अस्याः स्तनपरिष्वङ्गे हारैः सर्वैर्विहन्यते
वक्षःस्थलात्प्रच्यवद्भिश्चित्रगन्धादिसौरभैः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

अपरे मुनिवर्यास्तु सततं पूतमानसाः
वायुभक्षास्तपस्तेपुर्जपन्तः परमं मनुम् ॥ ४७ ॥

मूलम्

अपरे मुनिवर्यास्तु सततं पूतमानसाः
वायुभक्षास्तपस्तेपुर्जपन्तः परमं मनुम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

स्मरः कृष्णाय कामार्ति कलादिवृत्तिशालिने
आग्नेयीसहितं कृत्वा मन्त्रं पञ्चदशाक्षरम् ॥ ४८ ॥

मूलम्

स्मरः कृष्णाय कामार्ति कलादिवृत्तिशालिने
आग्नेयीसहितं कृत्वा मन्त्रं पञ्चदशाक्षरम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

दध्युर्मुनिवराः कष्णमूर्तिं दिव्यविभूषणाम्
दिव्यचित्रदुकूलेन पूर्णपीनकटिस्थलाम् ॥ ४९ ॥

मूलम्

दध्युर्मुनिवराः कष्णमूर्तिं दिव्यविभूषणाम्
दिव्यचित्रदुकूलेन पूर्णपीनकटिस्थलाम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

मयूरपिच्छकैः कॢप्तचूडामुज्ज्वलकुण्डलाम्
सव्यजङ्घान्त आदाय दक्षिणं चरणाम्बुजम् ॥ ५० ॥

मूलम्

मयूरपिच्छकैः कॢप्तचूडामुज्ज्वलकुण्डलाम्
सव्यजङ्घान्त आदाय दक्षिणं चरणाम्बुजम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

भ्रमन्तीं सम्पुटीकृत्य चारुहस्ताम्बुजद्वयम्
कक्षदेशविनिक्षिप्तवेणुं परिचलत्पुटीम् ॥ ५१ ॥

मूलम्

भ्रमन्तीं सम्पुटीकृत्य चारुहस्ताम्बुजद्वयम्
कक्षदेशविनिक्षिप्तवेणुं परिचलत्पुटीम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

आनन्दयन्तीं गोपीनां नयनानि मनांसि च
परमाश्चर्यरूपेण प्रविष्टां रङ्गमण्डपे ॥ ५२ ॥

मूलम्

आनन्दयन्तीं गोपीनां नयनानि मनांसि च
परमाश्चर्यरूपेण प्रविष्टां रङ्गमण्डपे ॥ ५२ ॥

विश्वास-प्रस्तुतिः

प्रसूनवर्षर्गोपीभिः पूर्यमाणां च सर्वतः
अथ कल्पान्तरे देहं त्यक्त्वा जाता इहाधुना ॥ ५३ ॥

मूलम्

प्रसूनवर्षर्गोपीभिः पूर्यमाणां च सर्वतः
अथ कल्पान्तरे देहं त्यक्त्वा जाता इहाधुना ॥ ५३ ॥

विश्वास-प्रस्तुतिः

यासां कर्णेषु दृश्यन्ते ताटङ्का रश्मिदीपिताः
रत्नमाल्यानि कण्ठेषु रत्नपुष्पाणि वेणिषु ॥ ५४ ॥

मूलम्

यासां कर्णेषु दृश्यन्ते ताटङ्का रश्मिदीपिताः
रत्नमाल्यानि कण्ठेषु रत्नपुष्पाणि वेणिषु ॥ ५४ ॥

विश्वास-प्रस्तुतिः

मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः
कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेदपारगौ ॥ ५५ ॥

मूलम्

मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः
कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेदपारगौ ॥ ५५ ॥

विश्वास-प्रस्तुतिः

ऊर्ध्वपादौ तपो घोरं तेपतुस्त्र्यक्षरं मनुम्
ह्रीं हंस इति कृत्वैव जपन्तौ यतमानसौ ॥ ५६ ॥

मूलम्

ऊर्ध्वपादौ तपो घोरं तेपतुस्त्र्यक्षरं मनुम्
ह्रीं हंस इति कृत्वैव जपन्तौ यतमानसौ ॥ ५६ ॥

विश्वास-प्रस्तुतिः

ध्यायन्तौ गोकुले कृष्णं बालकं दशवार्षिकम्
कन्दर्पसमरूपेण तारुण्यललितेन च ॥ ५७ ॥

मूलम्

ध्यायन्तौ गोकुले कृष्णं बालकं दशवार्षिकम्
कन्दर्पसमरूपेण तारुण्यललितेन च ॥ ५७ ॥

विश्वास-प्रस्तुतिः

पश्यन्तीर्व्रजबिम्बोष्ठीर्मोहयन्तमनारतम्
तौ कल्पान्ते तनूं त्यक्त्वा लब्धवन्तौ जनिं व्रजे ॥ ५८ ॥

मूलम्

पश्यन्तीर्व्रजबिम्बोष्ठीर्मोहयन्तमनारतम्
तौ कल्पान्ते तनूं त्यक्त्वा लब्धवन्तौ जनिं व्रजे ॥ ५८ ॥

विश्वास-प्रस्तुतिः

सुवीरनाम गोपस्य सुते परमशोभने
ययोर्हस्ते प्रदृश्येते सारिके शुभराविणी ॥ ५९ ॥

मूलम्

सुवीरनाम गोपस्य सुते परमशोभने
ययोर्हस्ते प्रदृश्येते सारिके शुभराविणी ॥ ५९ ॥

विश्वास-प्रस्तुतिः

जटिलो जङ्घपूतश्च घृताशी कर्बुरेव च
चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः ॥ ६० ॥

मूलम्

जटिलो जङ्घपूतश्च घृताशी कर्बुरेव च
चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः ॥ ६० ॥

विश्वास-प्रस्तुतिः

केवलेनैकभावेन प्रपन्ना बल्लवीपतिम्
तेपुस्ते सलिले मग्ना जपन्तो मनुमेव च ॥ ६१ ॥

मूलम्

केवलेनैकभावेन प्रपन्ना बल्लवीपतिम्
तेपुस्ते सलिले मग्ना जपन्तो मनुमेव च ॥ ६१ ॥

विश्वास-प्रस्तुतिः

रमात्रयेण पुटितं स्मराद्यं तदशाक्षरम्
दध्युश्च गाढभावेन बल्लवीभिर्वने वने ॥ ६२ ॥

मूलम्

रमात्रयेण पुटितं स्मराद्यं तदशाक्षरम्
दध्युश्च गाढभावेन बल्लवीभिर्वने वने ॥ ६२ ॥

विश्वास-प्रस्तुतिः

भ्रमन्तं नृत्यगीताद्यैर्मानयन्तं मनोहरम्
चन्दनालिप्तसर्वाङ्गं जपापुष्पावतंसकम् ॥ ६३ ॥

मूलम्

भ्रमन्तं नृत्यगीताद्यैर्मानयन्तं मनोहरम्
चन्दनालिप्तसर्वाङ्गं जपापुष्पावतंसकम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

कल्हारमालयावीतं नीलपीतपटावृतम्
कल्पत्रयान्ते जातास्ते गोकुले शुभलक्षणाः ॥ ६४ ॥

मूलम्

कल्हारमालयावीतं नीलपीतपटावृतम्
कल्पत्रयान्ते जातास्ते गोकुले शुभलक्षणाः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

इमास्ताः पुरतो रम्या उपविष्टा नतभ्रुवः
यासां धर्मकृतान्येव वलयानि प्रकोष्ठके ॥ ६५ ॥

मूलम्

इमास्ताः पुरतो रम्या उपविष्टा नतभ्रुवः
यासां धर्मकृतान्येव वलयानि प्रकोष्ठके ॥ ६५ ॥

विश्वास-प्रस्तुतिः

विचित्राणि च रत्नाद्यैर्दिव्यमुक्ताफलादिभिः
मुनिर्दीर्घतपा नाम व्यासोऽभूत्पूर्वकल्पके ॥ ६६ ॥

मूलम्

विचित्राणि च रत्नाद्यैर्दिव्यमुक्ताफलादिभिः
मुनिर्दीर्घतपा नाम व्यासोऽभूत्पूर्वकल्पके ॥ ६६ ॥

विश्वास-प्रस्तुतिः

तत्पुत्रः शुक इत्येव मुनिः ख्यातो वरः सुधीः
सोऽपि बालो महाप्राज्ञः सदैवानुस्मरन्पदम् ॥ ६७ ॥

मूलम्

तत्पुत्रः शुक इत्येव मुनिः ख्यातो वरः सुधीः
सोऽपि बालो महाप्राज्ञः सदैवानुस्मरन्पदम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः
स तत्र मानसैर्दिव्यैरुपचारैरहर्निशम् ॥ ६८ ॥

मूलम्

विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः
स तत्र मानसैर्दिव्यैरुपचारैरहर्निशम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

अनाहारोऽर्चयद्विष्णुं गोपरूपिणमीश्वरम्
रमया पुटितं मन्त्रं जपन्नष्टादशाक्षरम् ॥ ६९ ॥

मूलम्

अनाहारोऽर्चयद्विष्णुं गोपरूपिणमीश्वरम्
रमया पुटितं मन्त्रं जपन्नष्टादशाक्षरम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

दध्यौ परमभावेन हरिं हैमतरोरधः
हैममण्डपिकायां च हेमसिंहासनोपरि ॥ ७० ॥

मूलम्

दध्यौ परमभावेन हरिं हैमतरोरधः
हैममण्डपिकायां च हेमसिंहासनोपरि ॥ ७० ॥

विश्वास-प्रस्तुतिः

आसीनं हेमहस्ताग्रैर्दधानं हेमवंशिकाम्
दक्षिणेन भ्रामयन्तं पाणिना हेमपङ्कजम् ॥ ७१ ॥

मूलम्

आसीनं हेमहस्ताग्रैर्दधानं हेमवंशिकाम्
दक्षिणेन भ्रामयन्तं पाणिना हेमपङ्कजम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

हेमवर्णेष्टप्रियया परिकॢप्ताङ्गचित्रकम्
हसन्तमतिहर्षेण पश्यन्तं निजमाश्रमम् ॥ ७२ ॥

मूलम्

हेमवर्णेष्टप्रियया परिकॢप्ताङ्गचित्रकम्
हसन्तमतिहर्षेण पश्यन्तं निजमाश्रमम् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

हर्षाश्रुपूर्णः पुलकाचिताङ्गः प्रसीदनाथेति वदन्नथोच्चैः
दण्डप्रणामाय पपात भूमौ संवेपमानस्त्रिजगद्विधातुः ॥ ७३ ॥

मूलम्

हर्षाश्रुपूर्णः पुलकाचिताङ्गः प्रसीदनाथेति वदन्नथोच्चैः
दण्डप्रणामाय पपात भूमौ संवेपमानस्त्रिजगद्विधातुः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

तं भक्तिकामं पतितं धरण्यामायासितोस्मीति वदन्तमुच्चैः
दण्डप्रणामस्य भुजौ गृहीत्वा पस्पर्श हर्षोपचितेक्षणेन ॥ ७४ ॥

मूलम्

तं भक्तिकामं पतितं धरण्यामायासितोस्मीति वदन्तमुच्चैः
दण्डप्रणामस्य भुजौ गृहीत्वा पस्पर्श हर्षोपचितेक्षणेन ॥ ७४ ॥

विश्वास-प्रस्तुतिः

उवाच च प्रियारूपं लब्धवन्तं शुकं हरिः
त्वं मे प्रियतमा भद्रे सदा तिष्ठ ममान्तिके ॥ ७५ ॥

मूलम्

उवाच च प्रियारूपं लब्धवन्तं शुकं हरिः
त्वं मे प्रियतमा भद्रे सदा तिष्ठ ममान्तिके ॥ ७५ ॥

विश्वास-प्रस्तुतिः

मद्रूपं चिन्तयन्ती च प्रेमास्पदमुपागता
द्वे च मुख्यतमे गोप्यौ समानवयसी शुभे ॥ ७६ ॥

मूलम्

मद्रूपं चिन्तयन्ती च प्रेमास्पदमुपागता
द्वे च मुख्यतमे गोप्यौ समानवयसी शुभे ॥ ७६ ॥

विश्वास-प्रस्तुतिः

एकव्रते एकनिष्ठे एकनक्षत्रनामनी
तप्तजाम्बूनदप्रख्या तत्रैवान्या तडित्प्रभा ॥ ७७ ॥

मूलम्

एकव्रते एकनिष्ठे एकनक्षत्रनामनी
तप्तजाम्बूनदप्रख्या तत्रैवान्या तडित्प्रभा ॥ ७७ ॥

विश्वास-प्रस्तुतिः

एकानिद्रा यमाणाक्षी परा सौम्यायतेक्षणा
सोऽर्चयत्परया भक्त्या ते हरेः सव्यदक्षिणे ॥ ७८ ॥

मूलम्

एकानिद्रा यमाणाक्षी परा सौम्यायतेक्षणा
सोऽर्चयत्परया भक्त्या ते हरेः सव्यदक्षिणे ॥ ७८ ॥

विश्वास-प्रस्तुतिः

स कल्पान्ते तनुं त्यक्त्वा गोकुलेऽभून्महात्मनः
उपनन्दस्य दुहिता नीलोत्पलदलच्छविः ॥ ७९ ॥

मूलम्

स कल्पान्ते तनुं त्यक्त्वा गोकुलेऽभून्महात्मनः
उपनन्दस्य दुहिता नीलोत्पलदलच्छविः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

सेयं श्रीकृष्णवनिता पीतशाटीपरिच्छदा
रक्तचोलिकया पूर्णा शातकुम्भघटस्तनी ॥ ८० ॥

मूलम्

सेयं श्रीकृष्णवनिता पीतशाटीपरिच्छदा
रक्तचोलिकया पूर्णा शातकुम्भघटस्तनी ॥ ८० ॥

विश्वास-प्रस्तुतिः

दधाना रक्तसिन्दूरं सर्वाङ्गस्यावगुण्ठनम्
स्वर्णकुण्डलविभ्राजद्गण्डदेशां सुशोभनाम् ॥ ८१ ॥

मूलम्

दधाना रक्तसिन्दूरं सर्वाङ्गस्यावगुण्ठनम्
स्वर्णकुण्डलविभ्राजद्गण्डदेशां सुशोभनाम् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

स्वर्णपङ्कजमालाढ्या कुङ्कुमालिप्तसुस्तनी
यस्या हस्ते चर्वणीयं दृश्यते हरिणार्पितम् ॥ ८२ ॥

मूलम्

स्वर्णपङ्कजमालाढ्या कुङ्कुमालिप्तसुस्तनी
यस्या हस्ते चर्वणीयं दृश्यते हरिणार्पितम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

वेणुवाद्यातिनिपुणा केशवस्य निषेवणी
कृष्णेन परितुष्टेन कदाचिद्गीतकर्मणि ॥ ८३ ॥

मूलम्

वेणुवाद्यातिनिपुणा केशवस्य निषेवणी
कृष्णेन परितुष्टेन कदाचिद्गीतकर्मणि ॥ ८३ ॥

विश्वास-प्रस्तुतिः

विन्यस्ता कम्बुकण्ठेऽस्या भाति गुञ्जावलि शुभा
परोक्षेपि च कृष्णस्य कान्तिभिश्च स्मरार्दिता ॥ ८४ ॥

मूलम्

विन्यस्ता कम्बुकण्ठेऽस्या भाति गुञ्जावलि शुभा
परोक्षेपि च कृष्णस्य कान्तिभिश्च स्मरार्दिता ॥ ८४ ॥

विश्वास-प्रस्तुतिः

सखीभिर्वादयन्तीभिर्गायन्ती सुस्वरं परम्
नर्त्तयेत्प्रियवेषेण वेषयित्वा वधूमिमाम् ॥ ८५ ॥

मूलम्

सखीभिर्वादयन्तीभिर्गायन्ती सुस्वरं परम्
नर्त्तयेत्प्रियवेषेण वेषयित्वा वधूमिमाम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

वारंवारं च गोविन्दं भावेनालिङ्ग्य चुम्बति
प्रियासौ सर्वगोपीनां कृष्णस्याप्यतिवल्लभा ॥ ८६ ॥

मूलम्

वारंवारं च गोविन्दं भावेनालिङ्ग्य चुम्बति
प्रियासौ सर्वगोपीनां कृष्णस्याप्यतिवल्लभा ॥ ८६ ॥

विश्वास-प्रस्तुतिः

श्वेतकेतोः सुतः कश्चिद्वेदवेदाङ्गपारगः
सर्वमेव परित्यज्य प्रचण्डं तप आस्थितः ॥ ८७ ॥

मूलम्

श्वेतकेतोः सुतः कश्चिद्वेदवेदाङ्गपारगः
सर्वमेव परित्यज्य प्रचण्डं तप आस्थितः ॥ ८७ ॥

विश्वास-प्रस्तुतिः

मुरारेः सेवितपदां सुधामधुरनादिनीम्
गोविन्दस्य प्रियां शक्तिं ब्रह्मरुद्रादिदुर्गमाम् ॥ ८८ ॥

मूलम्

मुरारेः सेवितपदां सुधामधुरनादिनीम्
गोविन्दस्य प्रियां शक्तिं ब्रह्मरुद्रादिदुर्गमाम् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

भजन्तीमेकभावेन श्रियमेव मनोहराम्
ध्यायञ्जजाप सततं मन्त्रमेकादशाक्षरम् ॥ ८९ ॥

मूलम्

भजन्तीमेकभावेन श्रियमेव मनोहराम्
ध्यायञ्जजाप सततं मन्त्रमेकादशाक्षरम् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

हसितं सकलं कृत्वा बतमायेषु योजयन्
कान्त्यादिभिर्हसन्तीभिर्वासयन्त्यभितो जगत् ॥ ९० ॥

मूलम्

हसितं सकलं कृत्वा बतमायेषु योजयन्
कान्त्यादिभिर्हसन्तीभिर्वासयन्त्यभितो जगत् ॥ ९० ॥

विश्वास-प्रस्तुतिः

वसन्ते वसतेत्येवं मन्त्रार्थं चिन्तयन्सदा
सोऽपि कल्पद्वयेनैव सिद्धोऽत्र जनिमाप्तवान् ॥ ९१ ॥

मूलम्

वसन्ते वसतेत्येवं मन्त्रार्थं चिन्तयन्सदा
सोऽपि कल्पद्वयेनैव सिद्धोऽत्र जनिमाप्तवान् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

सेयं बालायते पुत्री कृशाङ्गी कुड्मलस्तनी
मुक्तावलिलसत्कण्ठी शुद्धकौशेयवासिनी ॥ ९२ ॥

मूलम्

सेयं बालायते पुत्री कृशाङ्गी कुड्मलस्तनी
मुक्तावलिलसत्कण्ठी शुद्धकौशेयवासिनी ॥ ९२ ॥

विश्वास-प्रस्तुतिः

मुक्ताच्छुरितमञ्जीरकङ्कणाङ्गदमुद्रिका
बिभ्रती कुण्डले दिव्ये अमृतस्राविणी शुभे ॥ ९३ ॥

मूलम्

मुक्ताच्छुरितमञ्जीरकङ्कणाङ्गदमुद्रिका
बिभ्रती कुण्डले दिव्ये अमृतस्राविणी शुभे ॥ ९३ ॥

विश्वास-प्रस्तुतिः

वृत्तकस्तूरिकावेणी मध्ये सिन्दूरबिन्दुवत्
दधाना चित्रकं भाले सार्द्धं चन्दनचित्रकैः ॥ ९४ ॥

मूलम्

वृत्तकस्तूरिकावेणी मध्ये सिन्दूरबिन्दुवत्
दधाना चित्रकं भाले सार्द्धं चन्दनचित्रकैः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

या सैव दृश्यते शान्ता जपन्ती परमं पदम्
आसीच्चन्द्रप्रभो नाम राजर्षिः प्रियदर्शनः ॥ ९५ ॥

मूलम्

या सैव दृश्यते शान्ता जपन्ती परमं पदम्
आसीच्चन्द्रप्रभो नाम राजर्षिः प्रियदर्शनः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

तस्य कृष्णप्रसादेन पुत्रोऽभून्मधुराकृतिः
चित्रध्वज इति ख्यातः कौमारावधि वैष्णवः ॥ ९६ ॥

मूलम्

तस्य कृष्णप्रसादेन पुत्रोऽभून्मधुराकृतिः
चित्रध्वज इति ख्यातः कौमारावधि वैष्णवः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

स राजा सुसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम्
आदेशयद्द्विजान्मन्त्रं परमष्टादशाक्षरम् ॥ ९७ ॥

मूलम्

स राजा सुसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम्
आदेशयद्द्विजान्मन्त्रं परमष्टादशाक्षरम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

अभिषिच्यमानः स शिशुर्मन्त्रामृतमयैर्जलैः
तत्क्षणे भूपतिं प्रेम्णा नत्वोदश्रुप्रकल्पितः ॥ ९८ ॥

मूलम्

अभिषिच्यमानः स शिशुर्मन्त्रामृतमयैर्जलैः
तत्क्षणे भूपतिं प्रेम्णा नत्वोदश्रुप्रकल्पितः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

तस्मिन्दिने स वै बालः शुचिवस्त्रधरः शुचिः
हारनूपुरसूत्राद्यैर्ग्रैवेयाङ्गदकङ्कणैः ॥ ९९ ॥

मूलम्

तस्मिन्दिने स वै बालः शुचिवस्त्रधरः शुचिः
हारनूपुरसूत्राद्यैर्ग्रैवेयाङ्गदकङ्कणैः ॥ ९९ ॥

विभूषितो हरेर्भक्तिमुपस्पृश्यामलाशयः
विष्णोरायतनं गत्वा स्थित्वैकाकी व्यचिन्तयत् १००
कथं भजामि तं भक्तं मोहनं गोपयोषिताम्
विक्रीडन्तं सदा ताभिः कालिन्दीपुलिने वने १०१
इत्थमत्याकुलमतिश्चिन्तयन्नेव बालकः
अथापपरमां विद्यां स्वप्नं च समवाप्यत १०२
आसीत्कृष्णप्रतिकृतिः पुरतस्तस्य शोभना
शिलामयी स्वर्णपीठे सर्वलक्षणलक्षिता १०३
साभूदिन्दीवरश्यामा स्निग्धलावण्यशालिनी
त्रिभङ्गललिताकार शिखण्डी पिच्छभूषणा १०४
कूजयन्ती मुदा वेणुं काञ्चनीमधरेऽर्पिताम्
दक्षसव्यगताभ्यां च सुन्दरीभ्यां निषेविताम् १०५
वर्द्धयन्तीं तयोः कामं चुम्बनाश्लेषणादिभिः
दृष्ट्वा चित्रध्वजः कृष्णं तादृग्वेषविलासिनम् १०६
अवनम्य शिरस्तस्मै पुरो लज्जितमानसः
अथोवाच हरिर्दक्षपार्श्वगां प्रेयसीं हसन् १०७
सलज्जं परमं चैनं स्वशरीरासनागतम्
निर्मायात्मसमं दिव्यं युवतीरूपमद्भुतम् १०८
चिन्तयस्व शरीरेण ह्यभेदं मृगलोचने
अथो त्वदङ्गतेजोभिः स्पृष्टस्त्वद्रूपमाप्स्यति १०९
ततः सा पद्मपत्राक्षी गत्वा चित्रध्वजान्तिकम्
निजाङ्गकैस्तदङ्गानामभेदं ध्यायती स्थिता ११०
अथास्यास्त्वङ्गतेजांसि तदङ्गं पर्यपूरयन्
स्तनयोर्ज्योतिषा जातौ पीनौ चारुपयोधरौ १११
नितम्बज्योतिषा जातं श्रोणिबिम्बं मनोहरम्
कुन्तलज्योतिषा केशपाशोऽभूत्करयोः करौ ११२
सर्वमेवं सुसम्पन्नं भूषावासः स्रगादिकम्
कलासु कुशला जाता सौरभेनान्तरात्मनि ११३
दीपाद्दीपमिवालोक्य सुभगां भुवि कन्यकाम्
चित्रध्वजां त्रपाभङ्गि स्मितशोभां मनोहराम् ११४
प्रेम्णा गृहीत्वा करयोः सा तामपहरन्मुदा
गोविन्दवामपार्श्वस्थां प्रेयसीं परिरभ्य च ११५
उवाच तव दासीयं नाम चास्याश्चकार य
सेवां चास्यै वद प्रीत्या यथाभिरुचितां प्रियाम् ११६
अथ चित्रकलेत्येतन्नाम चात्ममतेन सा
चकार चाह सेवार्थं धृत्वा चापि विपञ्चिकाम् ११७
सदा त्वं निकटे तिष्ठ गायस्व विविधैः स्वरैः
गुणात्मन्प्राणनाथस्य तवायं विहितो विधिः ११८
अथ चित्रकला त्वाज्ञां गृहीत्वानम्य माधवम्
तत्प्रेयस्याश्च चरणं गृहीत्वा पादयो रजः ११९
जगौ सुमधुरं गीतं तयोरानन्दकारणम्
अथ प्रीत्योपगूढा सा कृष्णेनानन्दमूर्तिना १२०
यावत्सुखाम्बुधौ पूर्णा तावदेवाप्यबुध्यत
चित्रध्वजो महाप्रेमविह्वलः स्मरतत्परः १२१
तमेव परमानन्दं मुक्तकण्ठो रुरोद ह
तदारभ्य रुदन्नेव मुक्त्वा हरिविचारकम् १२२
आभाषितोऽपि पित्राद्यैर्नैवावोचद्वचः क्वचित्
मासमात्रं गृहे स्थित्वा निशीथे कृष्णसंश्रयः १२३
निर्गत्यारण्यमचरत्तपो वै मुनिदुष्करम्
कल्पान्ते देहमुत्सृज्य तपसैव महामुनिः १२४
वीरगुप्ताभिधानस्य गोपस्य दुहिता शुभा
जाता चित्रकलेत्येव यस्याः स्कन्धे मनोहरा १२५
विपञ्ची दृश्यते नित्यं सप्तस्वरविभूषिता
उपतिष्ठति वै वामे रत्नभृङ्गारमद्भुतम् १२६
दधाना दक्षिणे हस्ते सा वै रत्नपतद्ग्रहम्
अयमासीत्पुरा सर्वं तापसैरभिवन्दितः १२७
मुनिः पुण्यश्रवा नाम काश्यपः सर्वधर्मवित्
पिता तस्याभवच्छैवः शतरुद्रीयमन्वहम् १२८
प्रस्तुवन्देवदेवेशं विश्वेशं भक्तवत्सलम्
प्रसन्नो भगवांस्तस्य पार्वत्या सह शङ्करः १२९
चतुर्दश्यामर्द्धरात्रेः प्रत्यक्षः प्रददौ वरम्
त्वत्पुत्रो भविता कृष्णे भक्तिमान्बाल एव हि १३०
उपनीयाष्टमे वर्षे तस्मै सिद्धमनुस्त्वयम्
उपदिशैकविंशत्या यो मया ते निगद्यते १३१
गोपालविद्यानामायं मन्त्रो वाक्सिद्धिदायकः
एतत्साधकजिह्वाग्रे लीलाचरितमद्भुतम् १३२
अनन्तमूर्तिरायाति स्वयमेव वरप्रदः
काममाया रमाकण्ठ सेन्द्रा दामोदरोज्ज्वलाः १३३
मध्ये दशाक्षरीं प्रोच्य पुनस्ता एव निर्दिशेत्
दशाक्षरोक्तऋष्यादिध्यानं चास्य ब्रवीम्यहम् १३४
पूर्णामृतनिधेर्मध्ये द्वीपं ज्योतिर्मयं स्मरेत्
कालिन्द्या वेष्टितं तत्र ध्यायेद्वृन्दावने वने १३५
सर्वर्तुकुसुमस्रावि द्रुमवल्लीभिरावृतम्
नटन्मत्तशिखिस्वानं गायत्कोकिलषट्पदम् १३६
तस्य मध्ये वसत्येकः पारिजाततरुर्महान्
शाखोपशाखाविस्तारैः शतयोजनमुच्छ्रितः १३७
तले तस्याथ विमले परितो धेनुमण्डलम्
तदन्तर्मण्डलं गोपबालानां वेणुशृङ्गिणाम् १३८
तदन्तरे तु रुचिरं मण्डलं व्रज सुभ्रुवाम्
नानोपायनपाणीनां मदविह्वलचेतसाम् १३९
कृताञ्जलिपुटानां च मण्डलं शुक्लवाससाम्
शुक्लाभरणभूषाणां प्रेमविह्वलितात्मनाम् १४०
चिन्तयेच्छ्रुतिकन्यानां गृह्णतीनां वचः प्रियम्
रत्नवेद्यां ततो ध्यायेद्दुकूलावरणं हरिम् १४१
ऊरौ शयानं राधायाः कदलीकाण्डकोपरि
तद्वक्त्रं चन्द्र सुस्मेरं वीक्षमाणं मनोहरम् १४२
किञ्चित्कुञ्चितवामाङ्घ्रिं वेणुयुक्तेन पाणिना
वामेनालिङ्ग्य दयितां दक्षेण चिबुकं स्पृशन् १४३
महामारकताभासं मौक्तिकच्छायमेव च
पुण्डरीकविशालाक्षं पीतनिर्मलवाससम् १४४
बर्हभारलसच्छीर्षं मुक्ताहारमनोहरम्
गण्डप्रान्तलसच्चारु मकराकृतिकुण्डलम् १४५
आपादतुलसीमालं कङ्कणाङ्गदभूषणम्
नूपुरैर्मुद्रिकाभिश्च काञ्च्या च परिमण्डितम् १४६
सुकुमारतरं ध्यायेत्किशोरवयसान्वितम्
पूजा दशाक्षरोक्तैव वेदलक्षं पुरस्क्रिया १४७
इत्युक्त्वान्तर्दधे देवो देवी च गिरिजा सती
मुनिरागत्य पुत्राय तथैवोपदिदेश ह १४८
पुण्यश्रवास्तु तन्मन्त्र ग्रहणादेव केशवम्
वर्णयामास विविधैर्जित्वा सर्वान्मुनीन्स्वयम् १४९
रूपलावण्यवैदग्ध्य सौन्दर्याश्चर्यलक्षणम्
तदा हृष्टमना बालो निर्गत्य स्वगृहात्ततः १५०
वायुभक्षस्तपस्तेपे कल्पानामयुतत्रयम्
तदन्ते गोकुले जाता नन्दभ्रातुर्गृहे स्वयम् १५१
लवङ्गा इति तन्नाम कृष्णेङ्गित निरीक्षणा
यस्या हस्ते प्रदृश्येत मुखमार्जनयन्त्रकम् १५२
इति ते कथिताः काश्चित्प्रधानाः कृष्णवल्लभाः १५३
हरिविविधरसाद्यैर्युक्तमध्यायमेतद्व्रजवरतनयाभिश्चारुहासेक्षणाभिः
पठति य इह भक्त्या पाठयेद्वा मनुष्यो व्रजति भगवतः श्रीवासुदेवस्य धाम १५४