०७०

पार्वत्युवाच-

विश्वास-प्रस्तुतिः

यदाकर्णनमेतस्य ये वा पारिषदाः प्रभोः
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥ १ ॥

मूलम्

यदाकर्णनमेतस्य ये वा पारिषदाः प्रभोः
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥ १ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच
राधया सह गोविन्दं स्वर्णसिंहासनेस्थितम्
पूर्वोक्तरूपलावण्यं दिव्यभूषाम्बरस्रजम् ॥ २ ॥

मूलम्

ईश्वर उवाच
राधया सह गोविन्दं स्वर्णसिंहासनेस्थितम्
पूर्वोक्तरूपलावण्यं दिव्यभूषाम्बरस्रजम् ॥ २ ॥

विश्वास-प्रस्तुतिः

त्रिभङ्गी मञ्जु सुस्निग्धं गोपीलोचनतारकम्
तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते ॥ ३ ॥

मूलम्

त्रिभङ्गी मञ्जु सुस्निग्धं गोपीलोचनतारकम्
तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते ॥ ३ ॥

विश्वास-प्रस्तुतिः

प्रत्यङ्गरभसावेशाः प्रधानाः कृष्णवल्लभाः
ललिताद्याः प्रकृत्यंशा मूलप्रकृतिराधिका ॥ ४ ॥

मूलम्

प्रत्यङ्गरभसावेशाः प्रधानाः कृष्णवल्लभाः
ललिताद्याः प्रकृत्यंशा मूलप्रकृतिराधिका ॥ ४ ॥

विश्वास-प्रस्तुतिः

सम्मुखे ललिता देवी श्यामला वायुकोणके
उत्तरे श्रीमती धन्या एशान्यां श्रीहरिप्रिया ॥ ५ ॥

मूलम्

सम्मुखे ललिता देवी श्यामला वायुकोणके
उत्तरे श्रीमती धन्या एशान्यां श्रीहरिप्रिया ॥ ५ ॥

विश्वास-प्रस्तुतिः

विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम्
पद्मा च दक्षिणे पश्चान्नैर्ऋते क्रमशः स्थिताः ॥ ६ ॥

मूलम्

विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम्
पद्मा च दक्षिणे पश्चान्नैर्ऋते क्रमशः स्थिताः ॥ ६ ॥

विश्वास-प्रस्तुतिः

योगपीठे केसराग्रे चारु चन्द्रावती प्रिया
अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः ॥ ७ ॥

मूलम्

योगपीठे केसराग्रे चारु चन्द्रावती प्रिया
अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः ॥ ७ ॥

विश्वास-प्रस्तुतिः

प्रधानप्रकृतिस्त्वाद्या राधा चन्द्रावती समा
चन्द्रावली चित्ररेखा चन्द्रा मदनसुन्दरी ॥ ८ ॥

मूलम्

प्रधानप्रकृतिस्त्वाद्या राधा चन्द्रावती समा
चन्द्रावली चित्ररेखा चन्द्रा मदनसुन्दरी ॥ ८ ॥

विश्वास-प्रस्तुतिः

प्रिया च श्रीमधुमती चन्द्ररेखा हरिप्रिया
षोडशाद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः ॥ ९ ॥

मूलम्

प्रिया च श्रीमधुमती चन्द्ररेखा हरिप्रिया
षोडशाद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः ॥ ९ ॥

विश्वास-प्रस्तुतिः

वृन्दावनेश्वरी राधा तथा चन्द्रावली प्रिया
अभिन्नगुणलावण्य सौन्दर्याश्चारुलोचनाः ॥ १० ॥

मूलम्

वृन्दावनेश्वरी राधा तथा चन्द्रावली प्रिया
अभिन्नगुणलावण्य सौन्दर्याश्चारुलोचनाः ॥ १० ॥

विश्वास-प्रस्तुतिः

मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः
अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः ॥ ११ ॥

मूलम्

मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः
अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः ॥ ११ ॥

विश्वास-प्रस्तुतिः

शुद्धकाञ्चनपुञ्जाभाः सुप्रसन्नाः सुलोचनाः
तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः ॥ १२ ॥

मूलम्

शुद्धकाञ्चनपुञ्जाभाः सुप्रसन्नाः सुलोचनाः
तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः ॥ १२ ॥

विश्वास-प्रस्तुतिः

श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः
नेत्रोत्पलार्चिते कृष्णपादाब्जेऽपितचेतसः ॥ १३ ॥

मूलम्

श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः
नेत्रोत्पलार्चिते कृष्णपादाब्जेऽपितचेतसः ॥ १३ ॥

विश्वास-प्रस्तुतिः

श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः
जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः ॥ १४ ॥

मूलम्

श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः
जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः ॥ १४ ॥

विश्वास-प्रस्तुतिः

नानासत्वस्वरालापमुग्धीकृतजगत्त्रयाः
तत्र गूढरहस्यानि गायन्त्यः प्रेमविह्वलाः ॥ १५ ॥

मूलम्

नानासत्वस्वरालापमुग्धीकृतजगत्त्रयाः
तत्र गूढरहस्यानि गायन्त्यः प्रेमविह्वलाः ॥ १५ ॥

विश्वास-प्रस्तुतिः

देवकन्यास्ततः सव्ये दिव्यवेषारसोज्ज्वलाः
नानावैदिग्ध्यनिपुणा दिव्यभावभरान्विताः ॥ १६ ॥

मूलम्

देवकन्यास्ततः सव्ये दिव्यवेषारसोज्ज्वलाः
नानावैदिग्ध्यनिपुणा दिव्यभावभरान्विताः ॥ १६ ॥

विश्वास-प्रस्तुतिः

सौन्दर्यातिशयेनाढ्याः कटाक्षातिमनोहराः
निर्लज्जास्तत्र गोविन्दे तदङ्गस्पर्शनोद्यताः ॥ १७ ॥

मूलम्

सौन्दर्यातिशयेनाढ्याः कटाक्षातिमनोहराः
निर्लज्जास्तत्र गोविन्दे तदङ्गस्पर्शनोद्यताः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तद्भावमग्नमनसः स्मितसाचि निरीक्षणाः
मन्दिरस्य ततो बाह्ये प्रियया विशदावृते ॥ १८ ॥

मूलम्

तद्भावमग्नमनसः स्मितसाचि निरीक्षणाः
मन्दिरस्य ततो बाह्ये प्रियया विशदावृते ॥ १८ ॥

विश्वास-प्रस्तुतिः

समानवेषवयसः समानबलपौरुषाः
समानगुणकर्माणः समानाभरणप्रियाः ॥ १९ ॥

मूलम्

समानवेषवयसः समानबलपौरुषाः
समानगुणकर्माणः समानाभरणप्रियाः ॥ १९ ॥

विश्वास-प्रस्तुतिः

समानस्वरसङ्गीत वेणुवादनतत्पराः
श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे ॥ २० ॥

मूलम्

समानस्वरसङ्गीत वेणुवादनतत्पराः
श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे ॥ २० ॥

विश्वास-प्रस्तुतिः

सुदामा च तथा पूर्वे किङ्किणी चापि दक्षिणे
तद्बाह्ये स्वर्णपीठे च सुवर्णमन्दिरावृते ॥ २१ ॥

मूलम्

सुदामा च तथा पूर्वे किङ्किणी चापि दक्षिणे
तद्बाह्ये स्वर्णपीठे च सुवर्णमन्दिरावृते ॥ २१ ॥

विश्वास-प्रस्तुतिः

स्वर्णवेद्यन्तरस्थे तु स्वर्णाभरणभूषिते
स्तोककृष्णं सुभद्राद्यैर्गोपालैरयुतायुतैः ॥ २२ ॥

मूलम्

स्वर्णवेद्यन्तरस्थे तु स्वर्णाभरणभूषिते
स्तोककृष्णं सुभद्राद्यैर्गोपालैरयुतायुतैः ॥ २२ ॥

विश्वास-प्रस्तुतिः

शृङ्गवीणावेणुवेत्रवयोवेषाकृतिस्वरैः
तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः ॥ २३ ॥

मूलम्

शृङ्गवीणावेणुवेत्रवयोवेषाकृतिस्वरैः
तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः ॥ २३ ॥

विश्वास-प्रस्तुतिः

चित्रार्पितैश्चित्ररूपैः सदानन्दाश्रुवर्षिभिः
पुलकाकुलसर्वाङ्गैर्योगीन्द्रैरिव विस्मितैः ॥ २४ ॥

मूलम्

चित्रार्पितैश्चित्ररूपैः सदानन्दाश्रुवर्षिभिः
पुलकाकुलसर्वाङ्गैर्योगीन्द्रैरिव विस्मितैः ॥ २४ ॥

विश्वास-प्रस्तुतिः

क्षरत्ययोभिर्गोविन्दैरसङ्ख्यातैरुपावृतम्
तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्जवले ॥ २५ ॥

मूलम्

क्षरत्ययोभिर्गोविन्दैरसङ्ख्यातैरुपावृतम्
तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्जवले ॥ २५ ॥

विश्वास-प्रस्तुतिः

चतुर्दिक्षुमहोद्यानं मञ्जुसौरभमोहिते
पश्चिमे सम्मुखे श्रीमत्पारिजातद्रुमाश्रये ॥ २६ ॥

मूलम्

चतुर्दिक्षुमहोद्यानं मञ्जुसौरभमोहिते
पश्चिमे सम्मुखे श्रीमत्पारिजातद्रुमाश्रये ॥ २६ ॥

विश्वास-प्रस्तुतिः

तदधस्तु स्वर्णपीठे स्वर्णमण्डनमण्डिते
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ॥ २७ ॥

मूलम्

तदधस्तु स्वर्णपीठे स्वर्णमण्डनमण्डिते
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ॥ २७ ॥

विश्वास-प्रस्तुतिः

तत्रोपरि परानन्दं वासुदेवं जगत्प्रभुम्
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् ॥ २८ ॥

मूलम्

तत्रोपरि परानन्दं वासुदेवं जगत्प्रभुम्
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

इन्द्रनीलघनश्यामं नीलकुञ्चितकुन्तलम्
पद्मपत्रविशालाक्षं मकराकृतिकुण्डलम् ॥ २९ ॥

मूलम्

इन्द्रनीलघनश्यामं नीलकुञ्चितकुन्तलम्
पद्मपत्रविशालाक्षं मकराकृतिकुण्डलम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

चतुर्भुजं तु चक्रासिगदाशङ्खाम्बुजायुधम्
आद्यन्तरहितं नित्यं प्रधानं पुरुषोत्तमम् ॥ ३० ॥

मूलम्

चतुर्भुजं तु चक्रासिगदाशङ्खाम्बुजायुधम्
आद्यन्तरहितं नित्यं प्रधानं पुरुषोत्तमम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

ज्योतीरूपं महद्धाम पुराणं वनमालिनम्
पीताम्बरधरं स्निग्धं दिव्यभूषणभूषितम् ॥ ३१ ॥

मूलम्

ज्योतीरूपं महद्धाम पुराणं वनमालिनम्
पीताम्बरधरं स्निग्धं दिव्यभूषणभूषितम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

दिव्यानुलेपनं राजच्चित्रिताङ्ग मनोहरम्
रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा ॥ ३२ ॥

मूलम्

दिव्यानुलेपनं राजच्चित्रिताङ्ग मनोहरम्
रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा ॥ ३२ ॥

विश्वास-प्रस्तुतिः

मित्रविन्दानुविन्दा सुनन्दा जाम्बवती प्रिया
सुशीला चाष्टमहिला वासुदेवप्रियास्ततः ॥ ३३ ॥

मूलम्

मित्रविन्दानुविन्दा सुनन्दा जाम्बवती प्रिया
सुशीला चाष्टमहिला वासुदेवप्रियास्ततः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

उद्भ्राजिताः पारिषदा वृतयोर्भक्तितत्पराः
उत्तरे सुमहोद्याने हरिचन्दनसंश्रये ॥ ३४ ॥

मूलम्

उद्भ्राजिताः पारिषदा वृतयोर्भक्तितत्पराः
उत्तरे सुमहोद्याने हरिचन्दनसंश्रये ॥ ३४ ॥

विश्वास-प्रस्तुतिः

तत्राधस्तु स्वर्णपीठे मणिमण्डपमण्डिते
तन्मध्ये हेमनिर्माणदले सिंहासनोज्जवले ॥ ३५ ॥

मूलम्

तत्राधस्तु स्वर्णपीठे मणिमण्डपमण्डिते
तन्मध्ये हेमनिर्माणदले सिंहासनोज्जवले ॥ ३५ ॥

विश्वास-प्रस्तुतिः

तत्रैव सह रेवत्या सङ्कर्षण हलायुधम्
ईश्वरस्य प्रियानन्तमभिन्नगुणरूपिणम् ॥ ३६ ॥

मूलम्

तत्रैव सह रेवत्या सङ्कर्षण हलायुधम्
ईश्वरस्य प्रियानन्तमभिन्नगुणरूपिणम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

शुद्धस्फटिकसङ्काशं रक्ताम्बुज दलेक्षणम्
नीलपट्टधरं स्निग्धं दिव्यभूषास्रगम्बरम् ॥ ३७ ॥

मूलम्

शुद्धस्फटिकसङ्काशं रक्ताम्बुज दलेक्षणम्
नीलपट्टधरं स्निग्धं दिव्यभूषास्रगम्बरम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

मधुपाने सदासक्तं मधुघूर्णितलोचनम्
प्रवीरदक्षिणेभागे मञ्जुनाभ्यन्तरस्थिते ॥ ३८ ॥

मूलम्

मधुपाने सदासक्तं मधुघूर्णितलोचनम्
प्रवीरदक्षिणेभागे मञ्जुनाभ्यन्तरस्थिते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

सन्तानवृक्षमूले तु मणिमन्दिरमण्डितम्
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ॥ ३९ ॥

मूलम्

सन्तानवृक्षमूले तु मणिमन्दिरमण्डितम्
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ॥ ३९ ॥

विश्वास-प्रस्तुतिः

प्रद्युम्नं च रती देवं तत्रोपरिसुखस्थितम्
जगन्मोहनसौन्दर्य्यसारश्रेणीरसात्मकम् ॥ ४० ॥

मूलम्

प्रद्युम्नं च रती देवं तत्रोपरिसुखस्थितम्
जगन्मोहनसौन्दर्य्यसारश्रेणीरसात्मकम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

असिताम्भोजपुञ्जाभमरविन्ददलेक्षणम्
दिव्यालङ्कारभूषाभिर्दिव्यगन्धानुलेपनम् ॥ ४१ ॥

मूलम्

असिताम्भोजपुञ्जाभमरविन्ददलेक्षणम्
दिव्यालङ्कारभूषाभिर्दिव्यगन्धानुलेपनम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

जगन्मुग्धीकृताशेष सौन्दर्याश्चर्यविग्रहम्
पूर्वोद्याने महारण्ये सुरद्रुम समाश्रये ॥ ४२ ॥

मूलम्

जगन्मुग्धीकृताशेष सौन्दर्याश्चर्यविग्रहम्
पूर्वोद्याने महारण्ये सुरद्रुम समाश्रये ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तत्राधस्तु स्वर्णपीठे हेममण्डपमण्डिते
तस्य मध्ये स्थिरे राजद्दिव्यसिंहासनोज्ज्वले ॥ ४३ ॥

मूलम्

तत्राधस्तु स्वर्णपीठे हेममण्डपमण्डिते
तस्य मध्ये स्थिरे राजद्दिव्यसिंहासनोज्ज्वले ॥ ४३ ॥

विश्वास-प्रस्तुतिः

दिव्योषयासमं श्रीमदनिरुद्धं जगत्पतिम्
सान्द्रानन्दघनश्यामं सुस्निग्धं नीलकुन्तलम् ॥ ४४ ॥

मूलम्

दिव्योषयासमं श्रीमदनिरुद्धं जगत्पतिम्
सान्द्रानन्दघनश्यामं सुस्निग्धं नीलकुन्तलम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

सुभ्रून्नतलताभङ्गीं सुकपोलं सुनासिकम्
सुग्रीवं सुन्दरं वक्षो मनोहर मनोहरम् ॥ ४५ ॥

मूलम्

सुभ्रून्नतलताभङ्गीं सुकपोलं सुनासिकम्
सुग्रीवं सुन्दरं वक्षो मनोहर मनोहरम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

किरीटिनं कुण्डलिनं कण्ठभूषाविभूषितम्
मञ्जुमञ्जीरमाधुर्यादतिसौन्दर्य विग्रहम् ॥ ४६ ॥

मूलम्

किरीटिनं कुण्डलिनं कण्ठभूषाविभूषितम्
मञ्जुमञ्जीरमाधुर्यादतिसौन्दर्य विग्रहम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

प्रियभृत्यगणाराध्यं यत्र सङ्गीतकप्रियम्
पूर्णब्रह्मसदानन्दं शुद्धसत्वस्वरूपकम् ॥ ४७ ॥

मूलम्

प्रियभृत्यगणाराध्यं यत्र सङ्गीतकप्रियम्
पूर्णब्रह्मसदानन्दं शुद्धसत्वस्वरूपकम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

तस्योर्द्ध्वे चान्तरिक्षे च विष्णुं सर्वेश्वरेश्वरम्
अनादिमादिचिद्रूपं चिदानन्दं परं विभुम् ॥ ४८ ॥

मूलम्

तस्योर्द्ध्वे चान्तरिक्षे च विष्णुं सर्वेश्वरेश्वरम्
अनादिमादिचिद्रूपं चिदानन्दं परं विभुम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम्
समेघपुञ्जमाधुर्यसौन्दर्यश्यामविग्रहम् ॥ ४९ ॥

मूलम्

त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम्
समेघपुञ्जमाधुर्यसौन्दर्यश्यामविग्रहम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

नीलकुञ्चितसुस्निग्ध केशपाशातिसुन्दरम्
अरविन्ददलस्निग्ध सुदीर्घचारुलोचनम् ॥ ५० ॥

मूलम्

नीलकुञ्चितसुस्निग्ध केशपाशातिसुन्दरम्
अरविन्ददलस्निग्ध सुदीर्घचारुलोचनम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

किरीटकुण्डलोद्गण्ड शुद्धसत्वात्मभिर्वृतम्
आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः ॥ ५१ ॥

मूलम्

किरीटकुण्डलोद्गण्ड शुद्धसत्वात्मभिर्वृतम्
आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

हृदयारूढ तद्ध्य्नौर्नासाग्रन्यस्तलोचनैः
क्रियतेऽहैतुकीभक्तिः कायहृद्वृत्तिभाषितैः ॥ ५२ ॥

मूलम्

हृदयारूढ तद्ध्य्नौर्नासाग्रन्यस्तलोचनैः
क्रियतेऽहैतुकीभक्तिः कायहृद्वृत्तिभाषितैः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

तत्सव्ये यक्षगन्धर्वसिद्धविद्याधरादिभिः
सुकान्तैरप्सरःसङ्घैर्नृत्यसङ्गीततत्परैः ॥ ५३ ॥

मूलम्

तत्सव्ये यक्षगन्धर्वसिद्धविद्याधरादिभिः
सुकान्तैरप्सरःसङ्घैर्नृत्यसङ्गीततत्परैः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तदङ्गभजनं कामं वाञ्छद्भिः कृष्णलालसैः
तदग्रे वैष्णवैः सर्वैश्चान्तरिक्षे सुखासने ॥ ५४ ॥

मूलम्

तदङ्गभजनं कामं वाञ्छद्भिः कृष्णलालसैः
तदग्रे वैष्णवैः सर्वैश्चान्तरिक्षे सुखासने ॥ ५४ ॥

विश्वास-प्रस्तुतिः

प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः
जनकाद्यैर्लसद्भावैर्हृद्बाह्य स्फूर्तितत्परैः ॥ ५५ ॥

मूलम्

प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः
जनकाद्यैर्लसद्भावैर्हृद्बाह्य स्फूर्तितत्परैः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

पुलकाकुलसर्वाङ्गैः स्फुरत्प्रेमसमाकुलैः
रहस्यामृतसंसिक्तैरर्द्धयुग्माक्षरो मनुः ॥ ५६ ॥

मूलम्

पुलकाकुलसर्वाङ्गैः स्फुरत्प्रेमसमाकुलैः
रहस्यामृतसंसिक्तैरर्द्धयुग्माक्षरो मनुः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

मन्त्रचूडामणिः प्रोक्तः सर्वमन्त्रैककारणम्
सर्वदेवस्य मन्त्राणां कैशोरं मन्त्रहेतुकम् ॥ ५७ ॥

मूलम्

मन्त्रचूडामणिः प्रोक्तः सर्वमन्त्रैककारणम्
सर्वदेवस्य मन्त्राणां कैशोरं मन्त्रहेतुकम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

सर्वकैशोरमन्त्राणां हेतुश्चूडामणिर्मनुः
जपं कुर्वन्ति मनसा पूर्णप्रेमसुखाश्रयाः ॥ ५८ ॥

मूलम्

सर्वकैशोरमन्त्राणां हेतुश्चूडामणिर्मनुः
जपं कुर्वन्ति मनसा पूर्णप्रेमसुखाश्रयाः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

वाञ्छन्ति तत्पदाम्भोजे निश्चलं प्रेमसाधनम्
तद्बाह्ये स्फटिकाद्युच्च प्रावारे सुमनोहरे ॥ ५९ ॥

मूलम्

वाञ्छन्ति तत्पदाम्भोजे निश्चलं प्रेमसाधनम्
तद्बाह्ये स्फटिकाद्युच्च प्रावारे सुमनोहरे ॥ ५९ ॥

विश्वास-प्रस्तुतिः

कुङ्कुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः
शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ॥ ६० ॥

मूलम्

कुङ्कुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः
शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

शङ्खचक्रगदापद्मकिरीटादि विभूषितम्
रक्तं चतुर्भुजं पद्मशङ्खचक्रगदायुधम् ॥ ६१ ॥

मूलम्

शङ्खचक्रगदापद्मकिरीटादि विभूषितम्
रक्तं चतुर्भुजं पद्मशङ्खचक्रगदायुधम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

किरीटकुण्डलोद्दीप्त द्वारपालकमुत्तरे
गौरं चतुर्भुजं विष्णुं शुखचक्रगदायुधम् ॥ ६२ ॥

मूलम्

किरीटकुण्डलोद्दीप्त द्वारपालकमुत्तरे
गौरं चतुर्भुजं विष्णुं शुखचक्रगदायुधम् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

किरीटकुण्डलाद्यैश्च शोभितं वनमालिनम्
पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम् ॥ ६३ ॥

मूलम्

किरीटकुण्डलाद्यैश्च शोभितं वनमालिनम्
पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

कृष्णवर्णं चतुर्बाहुं शङ्खचक्रादिभूषणम्
दक्षिणद्वारपालं तु श्रीविष्णुङ्कृष्णवर्णकम् ॥ ६४ ॥

मूलम्

कृष्णवर्णं चतुर्बाहुं शङ्खचक्रादिभूषणम्
दक्षिणद्वारपालं तु श्रीविष्णुङ्कृष्णवर्णकम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः
शृणुयाद्वापि यो भक्त्या गोविन्दे लभते रतिम् ॥ ६५ ॥

मूलम्

श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः
शृणुयाद्वापि यो भक्त्या गोविन्दे लभते रतिम् ॥ ६५ ॥

इति श्रीपद्मपुराणे पातालखण्डे कृष्णचरिते सप्ततितमोऽध्यायः ७०