ऋषय ऊचुः -
विश्वास-प्रस्तुतिः
सम्यक्छ्रुतो महाभाग त्वत्तो रामाश्वमेधकः
इदानीं वद माहात्म्यं श्रीकृष्णस्य महात्मनः ॥ १ ॥
मूलम्
सम्यक्छ्रुतो महाभाग त्वत्तो रामाश्वमेधकः
इदानीं वद माहात्म्यं श्रीकृष्णस्य महात्मनः ॥ १ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
शृण्वन्तु मुनिशार्दूलाः श्रीकृष्णचरितामृतम्
शिवा पप्रच्छ भूतेशं यत्तद्वः कीर्तयाम्यहम् ॥ २ ॥
मूलम्
सूत उवाच-
शृण्वन्तु मुनिशार्दूलाः श्रीकृष्णचरितामृतम्
शिवा पप्रच्छ भूतेशं यत्तद्वः कीर्तयाम्यहम् ॥ २ ॥
विश्वास-प्रस्तुतिः
एकदा पार्वती देवी शिवं संस्निग्धमानसा
प्रणयेन नमस्कृत्य प्रोवाच वचनं त्विदम् ॥ ३ ॥
मूलम्
एकदा पार्वती देवी शिवं संस्निग्धमानसा
प्रणयेन नमस्कृत्य प्रोवाच वचनं त्विदम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
पार्वत्युवाच-
अनन्तकोटिब्रह्माण्ड तद्बाह्याभ्यन्तरस्थितेः
विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम् ॥ ४ ॥
मूलम्
पार्वत्युवाच-
अनन्तकोटिब्रह्माण्ड तद्बाह्याभ्यन्तरस्थितेः
विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम्
तत्सर्वं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥ ५ ॥
मूलम्
यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम्
तत्सर्वं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥ ५ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच-
गुह्याद्गुह्यतरं गुह्यं परमानन्दकारकम्
अत्यद्भुतं रहःस्थानमानन्दं परमं परम् ॥ ६ ॥
मूलम्
ईश्वर उवाच-
गुह्याद्गुह्यतरं गुह्यं परमानन्दकारकम्
अत्यद्भुतं रहःस्थानमानन्दं परमं परम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
दुर्लभानां च परमं दुर्लभं मोहनं परम्
सर्वशक्तिमयं देवि सर्वस्थानेषु गोपितम् ॥ ७ ॥
मूलम्
दुर्लभानां च परमं दुर्लभं मोहनं परम्
सर्वशक्तिमयं देवि सर्वस्थानेषु गोपितम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यन्तदुर्लभम्
नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितम् ॥ ८ ॥
मूलम्
सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यन्तदुर्लभम्
नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
पूर्णब्रह्मसुखैश्वर्यं नित्यमानन्दमव्ययम्
वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥ ९ ॥
मूलम्
पूर्णब्रह्मसुखैश्वर्यं नित्यमानन्दमव्ययम्
वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥ ९ ॥
विश्वास-प्रस्तुतिः
गोलोकैश्वर्यं यत्किञ्चिद्गोकुले तत्प्रतिष्ठितम्
वैकुण्ठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् ॥ १० ॥
मूलम्
गोलोकैश्वर्यं यत्किञ्चिद्गोकुले तत्प्रतिष्ठितम्
वैकुण्ठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् ॥ १० ॥
विश्वास-प्रस्तुतिः
यद्ब्रह्मपरमैश्वर्यं नित्यं वृन्दावनाश्रयम्
कृष्णधामपरं तेषां वनमध्ये विशेषतः ॥ ११ ॥
मूलम्
यद्ब्रह्मपरमैश्वर्यं नित्यं वृन्दावनाश्रयम्
कृष्णधामपरं तेषां वनमध्ये विशेषतः ॥ ११ ॥
विश्वास-प्रस्तुतिः
तस्मात्त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता
यस्मान्माथुरकं नाम विष्णोरेकान्तवल्लभम् ॥ १२ ॥
मूलम्
तस्मात्त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता
यस्मान्माथुरकं नाम विष्णोरेकान्तवल्लभम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
स्वस्थानमधिकं नामधेयं माथुरमण्डलम्
निगूढं विविधं स्थानं पुर्यभ्यन्तरसंस्थितम् ॥ १३ ॥
मूलम्
स्वस्थानमधिकं नामधेयं माथुरमण्डलम्
निगूढं विविधं स्थानं पुर्यभ्यन्तरसंस्थितम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
सहस्रपत्रकमलाकारं माथुरमण्डलम्
विष्णुचक्रपरिभ्रामाद्धाम वैष्णवमद्भुतम् ॥ १४ ॥
मूलम्
सहस्रपत्रकमलाकारं माथुरमण्डलम्
विष्णुचक्रपरिभ्रामाद्धाम वैष्णवमद्भुतम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
कर्णिकापर्णविस्तारं रहस्यद्रुममीरितम्
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ॥ १५ ॥
मूलम्
कर्णिकापर्णविस्तारं रहस्यद्रुममीरितम्
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ॥ १५ ॥
विश्वास-प्रस्तुतिः
भद्र श्री लोह भाण्डीर महाताल खदीरकाः
बकुलं कुमुदं काम्यं मधु वृन्दावनं तथा ॥ १६ ॥
मूलम्
भद्र श्री लोह भाण्डीर महाताल खदीरकाः
बकुलं कुमुदं काम्यं मधु वृन्दावनं तथा ॥ १६ ॥
विश्वास-प्रस्तुतिः
द्वादशैतावती सङ्ख्या कालिन्द्याः सप्त पश्चिमे
पूर्वे पञ्चवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् ॥ १७ ॥
मूलम्
द्वादशैतावती सङ्ख्या कालिन्द्याः सप्त पश्चिमे
पूर्वे पञ्चवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
महारण्यं गोकुलाख्यं मधु वृन्दावनं तथा
अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् ॥ १८ ॥
मूलम्
महारण्यं गोकुलाख्यं मधु वृन्दावनं तथा
अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
कदम्बखण्डनं नन्दवनं नन्दीश्वरं तथा
नन्दनन्दनखण्डं च पलाशाशोककेतकी ॥ १९ ॥
मूलम्
कदम्बखण्डनं नन्दवनं नन्दीश्वरं तथा
नन्दनन्दनखण्डं च पलाशाशोककेतकी ॥ १९ ॥
विश्वास-प्रस्तुतिः
सुगन्धमानसं कैलममृतं भोजनस्थलम्
सुखप्रसाधनं वत्सहरणं शेषशायिकम् ॥ २० ॥
मूलम्
सुगन्धमानसं कैलममृतं भोजनस्थलम्
सुखप्रसाधनं वत्सहरणं शेषशायिकम् ॥ २० ॥
विश्वास-प्रस्तुतिः
श्यामपूर्वो दधिग्रामश्चक्रभानुपुरं तथा
सङ्केतं द्विपदं चैव बालक्रीडनधूसरम् ॥ २१ ॥
मूलम्
श्यामपूर्वो दधिग्रामश्चक्रभानुपुरं तथा
सङ्केतं द्विपदं चैव बालक्रीडनधूसरम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
कामद्रुमं सुललितमुत्सुकं चापि काननम्
नानाविधरसक्रीडा नानालीलारसस्थलम् ॥ २२ ॥
मूलम्
कामद्रुमं सुललितमुत्सुकं चापि काननम्
नानाविधरसक्रीडा नानालीलारसस्थलम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
नागविस्तारविष्टम्भं रहस्यद्रुममीरितम्
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ॥ २३ ॥
मूलम्
नागविस्तारविष्टम्भं रहस्यद्रुममीरितम्
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
कर्णिकातन्महद्धाम गोविन्दस्थानमुत्तमम्
तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डितम् ॥ २४ ॥
मूलम्
कर्णिकातन्महद्धाम गोविन्दस्थानमुत्तमम्
तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डितम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
कर्णिकायां क्रमाद्दिक्षु विदिक्षु दलमीरितम्
यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ॥ २५ ॥
मूलम्
कर्णिकायां क्रमाद्दिक्षु विदिक्षु दलमीरितम्
यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
तस्मिन्दले महापीठं निगमागमदुर्गमम्
योगीन्द्रैरपि दुष्प्रापं सर्वात्मा यच्च गोकुलम् ॥ २६ ॥
मूलम्
तस्मिन्दले महापीठं निगमागमदुर्गमम्
योगीन्द्रैरपि दुष्प्रापं सर्वात्मा यच्च गोकुलम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
द्वितीयं दलमाग्नेय्यां तद्रहस्यदलं तथा
सङ्केतं द्विपदं चैव कुटीद्वौ तत्कुले स्थितौ ॥ २७ ॥
मूलम्
द्वितीयं दलमाग्नेय्यां तद्रहस्यदलं तथा
सङ्केतं द्विपदं चैव कुटीद्वौ तत्कुले स्थितौ ॥ २७ ॥
विश्वास-प्रस्तुतिः
पूर्वं दलं तृतीयं च प्रधानस्थानमुत्तमम्
गङ्गादिसर्वतीर्थानां स्पर्शाच्छतगुणं स्मृतम् ॥ २८ ॥
मूलम्
पूर्वं दलं तृतीयं च प्रधानस्थानमुत्तमम्
गङ्गादिसर्वतीर्थानां स्पर्शाच्छतगुणं स्मृतम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
चतुर्थं दलमैशान्यां सिद्धपीठेऽपि तत्पदम्
व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत् ॥ २९ ॥
मूलम्
चतुर्थं दलमैशान्यां सिद्धपीठेऽपि तत्पदम्
व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
वस्त्रालङ्कारहरणं तद्दले समुदाहृतम्
उत्तरे पञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् ॥ ३० ॥
मूलम्
वस्त्रालङ्कारहरणं तद्दले समुदाहृतम्
उत्तरे पञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
द्वादशादित्यमत्रैव दलं च कर्णिकासमम्
वायव्यां तु दलं षष्ठं तत्र कालीह्रदः स्मृतः ॥ ३१ ॥
मूलम्
द्वादशादित्यमत्रैव दलं च कर्णिकासमम्
वायव्यां तु दलं षष्ठं तत्र कालीह्रदः स्मृतः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते
सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतम् ॥ ३२ ॥
मूलम्
दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते
सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
यज्ञपत्नीगणानां च तदीप्सितवरप्रदम्
अत्रासुरोऽपि निर्वाणं प्राप त्रिदशदुर्लभम् ॥ ३३ ॥
मूलम्
यज्ञपत्नीगणानां च तदीप्सितवरप्रदम्
अत्रासुरोऽपि निर्वाणं प्राप त्रिदशदुर्लभम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ब्रह्ममोहनमत्रैव दलं ब्रह्मह्रदावहम्
नैर्ऋत्यां तु दलं प्रोक्तमष्टमं व्योमघातनम् ॥ ३४ ॥
मूलम्
ब्रह्ममोहनमत्रैव दलं ब्रह्मह्रदावहम्
नैर्ऋत्यां तु दलं प्रोक्तमष्टमं व्योमघातनम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
शङ्खचूडवधस्तत्र नानाकेलिरसस्थलम्
श्रुतमष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम् ॥ ३५ ॥
मूलम्
शङ्खचूडवधस्तत्र नानाकेलिरसस्थलम्
श्रुतमष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
श्रीमद्वृन्दावनं रम्यं यमुनायाः प्रदक्षिणम्
शिवलिङ्गमधिष्ठानं दृष्टं गोपीश्वराभिधम् ॥ ३६ ॥
मूलम्
श्रीमद्वृन्दावनं रम्यं यमुनायाः प्रदक्षिणम्
शिवलिङ्गमधिष्ठानं दृष्टं गोपीश्वराभिधम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तद्बाह्ये षोडशदलं श्रियापूर्णं तमीश्वरम्
सर्वासु दिक्षु यत्प्रोक्तं प्रादक्षिण्याद्यथाक्रमम् ॥ ३७ ॥
मूलम्
तद्बाह्ये षोडशदलं श्रियापूर्णं तमीश्वरम्
सर्वासु दिक्षु यत्प्रोक्तं प्रादक्षिण्याद्यथाक्रमम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
महत्पदं महद्धाम स्वधामाधावसञ्ज्ञकम्
प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् ॥ ३८ ॥
मूलम्
महत्पदं महद्धाम स्वधामाधावसञ्ज्ञकम्
प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तत्र गोवर्द्धनगिरौ रम्ये नित्यरसाश्रये
कर्णिकायां महालीला तल्लीला रसगह्वरौ ॥ ३९ ॥
मूलम्
तत्र गोवर्द्धनगिरौ रम्ये नित्यरसाश्रये
कर्णिकायां महालीला तल्लीला रसगह्वरौ ॥ ३९ ॥
विश्वास-प्रस्तुतिः
यत्र कृष्णो नित्यवृन्दाकाननस्य पतिर्भवेत्
कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः ॥ ४० ॥
मूलम्
यत्र कृष्णो नित्यवृन्दाकाननस्य पतिर्भवेत्
कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः ॥ ४० ॥
विश्वास-प्रस्तुतिः
दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम्
चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम् ॥ ४१ ॥
मूलम्
दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम्
चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
नन्दीश्वरवनं रम्यं तत्र नन्दालयः स्मृतः
कर्णिकादलमाहात्म्यं पञ्चमं दलमुच्यते ॥ ४२ ॥
मूलम्
नन्दीश्वरवनं रम्यं तत्र नन्दालयः स्मृतः
कर्णिकादलमाहात्म्यं पञ्चमं दलमुच्यते ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अधिष्ठाताऽत्र गोपालो धेनुपालनतत्परः
षष्ठं दलं यदाख्यातं तत्र नन्दवनं स्मृतम् ॥ ४३ ॥
मूलम्
अधिष्ठाताऽत्र गोपालो धेनुपालनतत्परः
षष्ठं दलं यदाख्यातं तत्र नन्दवनं स्मृतम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम्
तत्राष्टमं तालवनं तत्र धेनुवधः स्मृतः ॥ ४४ ॥
मूलम्
सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम्
तत्राष्टमं तालवनं तत्र धेनुवधः स्मृतः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम्
कामारण्यं च दशमं प्रधानं सर्वकारणम् ॥ ४५ ॥
मूलम्
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम्
कामारण्यं च दशमं प्रधानं सर्वकारणम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मप्रसाधनं तत्र विष्णुच्छद्मप्रदर्शनम्
कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ॥ ४६ ॥
मूलम्
ब्रह्मप्रसाधनं तत्र विष्णुच्छद्मप्रदर्शनम्
कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ॥ ४६ ॥
विश्वास-प्रस्तुतिः
दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम्
निर्माणं सेतुबन्धस्य नानावनमयस्थलम् ॥ ४७ ॥
मूलम्
दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम्
निर्माणं सेतुबन्धस्य नानावनमयस्थलम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम्
कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः ॥ ४८ ॥
मूलम्
भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम्
कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
त्रयोदशं दलं श्रेष्ठं तत्र भद्रवनं(रं) स्मृतम्
चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदस्थलम् ॥ ४९ ॥
मूलम्
त्रयोदशं दलं श्रेष्ठं तत्र भद्रवनं(रं) स्मृतम्
चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदस्थलम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम्
कृष्णक्रीडादलमयं श्रीकान्तिकीर्तिवर्द्धनम् ॥ ५० ॥
मूलम्
श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम्
कृष्णक्रीडादलमयं श्रीकान्तिकीर्तिवर्द्धनम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
दलं पञ्चदशं श्रेष्ठं तत्र लोहवनं स्मृतम्
कथितं षोडशदलं माहात्म्यं कर्णिकासमम् ॥ ५१ ॥
मूलम्
दलं पञ्चदशं श्रेष्ठं तत्र लोहवनं स्मृतम्
कथितं षोडशदलं माहात्म्यं कर्णिकासमम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम्
बालक्रीडारतस्तत्र वत्सपालैः समावृतः ॥ ५२ ॥
मूलम्
महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम्
बालक्रीडारतस्तत्र वत्सपालैः समावृतः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
पूतनादिवधस्तत्र यमलार्जुनभञ्जनम्
अधिष्ठाता तत्र बालगोपालः पञ्चमाब्दिकः ॥ ५३ ॥
मूलम्
पूतनादिवधस्तत्र यमलार्जुनभञ्जनम्
अधिष्ठाता तत्र बालगोपालः पञ्चमाब्दिकः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः
दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम् ॥ ५४ ॥
मूलम्
नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः
दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
कृष्णक्रीडा च किञ्जल्की विहारदलमुच्यते
सिद्धप्रधानकिञ्जल्क दलं च समुदाहृतम् ॥ ५५ ॥
मूलम्
कृष्णक्रीडा च किञ्जल्की विहारदलमुच्यते
सिद्धप्रधानकिञ्जल्क दलं च समुदाहृतम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
पार्वत्युवाच-
वृन्दारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतम्
तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥ ५६ ॥
मूलम्
पार्वत्युवाच-
वृन्दारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतम्
तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥ ५६ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच-
कथितं ते प्रियतमे गुह्याद्गुह्योत्तमोत्तमम्
रहस्यानां रहस्यं यद्दुर्लभानां च दुर्लभम् ॥ ५७ ॥
मूलम्
ईश्वर उवाच-
कथितं ते प्रियतमे गुह्याद्गुह्योत्तमोत्तमम्
रहस्यानां रहस्यं यद्दुर्लभानां च दुर्लभम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितम्
ब्रह्मादिवाञ्छितं स्थानं सुरसिद्धादिसेवितम् ॥ ५८ ॥
मूलम्
त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितम्
ब्रह्मादिवाञ्छितं स्थानं सुरसिद्धादिसेवितम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
योगीन्द्रा हि सदा भक्त्या तस्य ध्यानैकतत्पराः
अप्सरोभिश्च गन्धर्वैर्नृत्यगीतनिरन्तरम् ॥ ५९ ॥
मूलम्
योगीन्द्रा हि सदा भक्त्या तस्य ध्यानैकतत्पराः
अप्सरोभिश्च गन्धर्वैर्नृत्यगीतनिरन्तरम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयम्
भूरिचिन्तामणिस्तोयममृतं रसपूरितम् ॥ ६० ॥
मूलम्
श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयम्
भूरिचिन्तामणिस्तोयममृतं रसपूरितम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
वृक्षं गुरुद्रुमं तत्र सुरभीवृन्दसेवितम्
स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्दशांशसमुद्भवम् ॥ ६१ ॥
मूलम्
वृक्षं गुरुद्रुमं तत्र सुरभीवृन्दसेवितम्
स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्दशांशसमुद्भवम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तत्र कैशोरवयसं नित्यमानन्दविग्रहम्
गतिनाट्यं कलालापस्मितवक्त्रं निरन्तरम् ॥ ६२ ॥
मूलम्
तत्र कैशोरवयसं नित्यमानन्दविग्रहम्
गतिनाट्यं कलालापस्मितवक्त्रं निरन्तरम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
शुद्धसत्वैः प्रेमपूर्णैर्वैष्णवैस्तद्वनाश्रितम्
पूर्णब्रह्मसुखेमग्नं स्फुरत्तन्मूर्तितन्मयम् ॥ ६३ ॥
मूलम्
शुद्धसत्वैः प्रेमपूर्णैर्वैष्णवैस्तद्वनाश्रितम्
पूर्णब्रह्मसुखेमग्नं स्फुरत्तन्मूर्तितन्मयम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
मत्तकोकिलभृङ्गाद्यैः कूजत्कलमनोहरम्
कपोलशुकसङ्गीतमुन्मत्तालि सहस्रकम् ॥ ६४ ॥
मूलम्
मत्तकोकिलभृङ्गाद्यैः कूजत्कलमनोहरम्
कपोलशुकसङ्गीतमुन्मत्तालि सहस्रकम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
भुजङ्गशत्रुनृत्याढ्यं सकलामोदविभ्रमम्
नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् ॥ ६५ ॥
मूलम्
भुजङ्गशत्रुनृत्याढ्यं सकलामोदविभ्रमम्
नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
पूर्णेन्दुनित्याभ्युदयं सूर्यमन्दांशुसेवितम्
अदुःखं दुःखविच्छेदं जरामरणवर्जितम् ॥ ६६ ॥
मूलम्
पूर्णेन्दुनित्याभ्युदयं सूर्यमन्दांशुसेवितम्
अदुःखं दुःखविच्छेदं जरामरणवर्जितम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
अक्रोधं गतमात्सर्यमभिन्नमनहङ्कृतम्
पूर्णानन्दामृतरसं पूर्णप्रेमसुखार्णवम् ॥ ६७ ॥
मूलम्
अक्रोधं गतमात्सर्यमभिन्नमनहङ्कृतम्
पूर्णानन्दामृतरसं पूर्णप्रेमसुखार्णवम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम्
वृक्षादिपुलकैर्यत्र प्रेमानन्दाश्रुवर्षितम् ॥ ६८ ॥
मूलम्
गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम्
वृक्षादिपुलकैर्यत्र प्रेमानन्दाश्रुवर्षितम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते
गोविन्दाङ्घ्रिरजः स्पर्शान्नित्यं वृन्दावनं भुवि ॥ ६९ ॥
मूलम्
किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते
गोविन्दाङ्घ्रिरजः स्पर्शान्नित्यं वृन्दावनं भुवि ॥ ६९ ॥
विश्वास-प्रस्तुतिः
सहस्रदलपद्मस्य वृन्दारण्यं वराटकम्
यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये ॥ ७० ॥
मूलम्
सहस्रदलपद्मस्य वृन्दारण्यं वराटकम्
यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये ॥ ७० ॥
विश्वास-प्रस्तुतिः
गुह्याद्गुह्यतरं रम्यं मध्ये वृन्दावनं भुवि
अक्षरं परमानन्दं गोविन्दस्थानमव्ययम् ॥ ७१ ॥
मूलम्
गुह्याद्गुह्यतरं रम्यं मध्ये वृन्दावनं भुवि
अक्षरं परमानन्दं गोविन्दस्थानमव्ययम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
गोविन्ददेहतोऽभिन्नं पूर्णब्रह्मसुखाश्रयम्
मुक्तिस्तत्र रजःस्पर्शात्तन्माहात्म्यं किमुच्यते ॥ ७२ ॥
मूलम्
गोविन्ददेहतोऽभिन्नं पूर्णब्रह्मसुखाश्रयम्
मुक्तिस्तत्र रजःस्पर्शात्तन्माहात्म्यं किमुच्यते ॥ ७२ ॥
विश्वास-प्रस्तुतिः
तस्मात्सर्वात्मना देवि हृदिस्थं तद्वनं कुरु
वृन्दावनविहारेषु कृष्णं कैशोरविग्रहम् ॥ ७३ ॥
मूलम्
तस्मात्सर्वात्मना देवि हृदिस्थं तद्वनं कुरु
वृन्दावनविहारेषु कृष्णं कैशोरविग्रहम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
कालिन्दी चाकरोद्यस्य कर्णिकायां प्रदक्षिणाम्
लीलानिर्वाणगम्भीरं जलं सौरभमोहनम् ॥ ७४ ॥
मूलम्
कालिन्दी चाकरोद्यस्य कर्णिकायां प्रदक्षिणाम्
लीलानिर्वाणगम्भीरं जलं सौरभमोहनम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
आनन्दामृत तन्मिश्रमकरन्दघनालयम्
पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्जवलम् ॥ ७५ ॥
मूलम्
आनन्दामृत तन्मिश्रमकरन्दघनालयम्
पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्जवलम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
चक्रवाकादिविहगैर्मञ्जुनानाकलस्वनैः
शोभमानं जलं रम्यं तरङ्गातिमनोरमम् ॥ ७६ ॥
मूलम्
चक्रवाकादिविहगैर्मञ्जुनानाकलस्वनैः
शोभमानं जलं रम्यं तरङ्गातिमनोरमम् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
तस्योभयतटी रम्या शुद्धकाञ्चननिर्मिता
गङ्गाकोटिगुणा प्रोक्ता यत्र स्पर्शवराटकः ॥ ७७ ॥
मूलम्
तस्योभयतटी रम्या शुद्धकाञ्चननिर्मिता
गङ्गाकोटिगुणा प्रोक्ता यत्र स्पर्शवराटकः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः
कालिन्दीकर्णिका कृष्णमभिन्नमेकविग्रहम् ॥ ७८ ॥
मूलम्
कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः
कालिन्दीकर्णिका कृष्णमभिन्नमेकविग्रहम् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
पार्वत्युवाच
गोविन्दस्य किमाश्चर्यं सौन्दर्याकृतविग्रह
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥ ७९ ॥
मूलम्
पार्वत्युवाच
गोविन्दस्य किमाश्चर्यं सौन्दर्याकृतविग्रह
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥ ७९ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच
मध्ये वृन्दावने रम्ये मञ्जुमञ्जीरशोभिते
योजनाश्रितसद्वृक्ष शाखापल्लवमण्डिते ॥ ८० ॥
मूलम्
ईश्वर उवाच
मध्ये वृन्दावने रम्ये मञ्जुमञ्जीरशोभिते
योजनाश्रितसद्वृक्ष शाखापल्लवमण्डिते ॥ ८० ॥
विश्वास-प्रस्तुतिः
तन्मध्ये मञ्जुभवने योगपीठं समुज्जवलम्
तदष्टकोणनिर्माणं नानादीप्तिमनोहरम् ॥ ८१ ॥
मूलम्
तन्मध्ये मञ्जुभवने योगपीठं समुज्जवलम्
तदष्टकोणनिर्माणं नानादीप्तिमनोहरम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
तस्योपरि च माणिक्यरत्नसिंहासनं शुभम्
तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ॥ ८२ ॥
मूलम्
तस्योपरि च माणिक्यरत्नसिंहासनं शुभम्
तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
गोविन्दस्य परं स्थानं किमस्य महिमोच्यते
श्रीमद्गोविन्दमन्त्रस्थ बल्लवीवृन्दसेवितम् ॥ ८३ ॥
मूलम्
गोविन्दस्य परं स्थानं किमस्य महिमोच्यते
श्रीमद्गोविन्दमन्त्रस्थ बल्लवीवृन्दसेवितम् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
दिव्यव्रजवयोरूपं कृष्णं वृन्दावनेश्वरम्
व्रजेन्द्रं सन्ततैश्वर्यं व्रजबालैकवल्लभम् ॥ ८४ ॥
मूलम्
दिव्यव्रजवयोरूपं कृष्णं वृन्दावनेश्वरम्
व्रजेन्द्रं सन्ततैश्वर्यं व्रजबालैकवल्लभम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम्
अनादिमादिं सर्वेषां नन्दगोपप्रियात्मजम् ॥ ८५ ॥
मूलम्
यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम्
अनादिमादिं सर्वेषां नन्दगोपप्रियात्मजम् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम्
परन्धाम परं रूपं द्विभुजं गोकुलेश्वरम् ॥ ८६ ॥
मूलम्
श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम्
परन्धाम परं रूपं द्विभुजं गोकुलेश्वरम् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
बल्लवीनन्दनं ध्यायेन्निर्गुणस्यैककारणम्
सुश्रीमन्तं नवं स्वच्छं श्यामधाममनोहरम् ॥ ८७ ॥
मूलम्
बल्लवीनन्दनं ध्यायेन्निर्गुणस्यैककारणम्
सुश्रीमन्तं नवं स्वच्छं श्यामधाममनोहरम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
नवीननीरदश्रेणी सुस्निग्धं मञ्जुकुण्डलम्
फुल्लेन्दीवरसत्कान्ति सुखस्पर्शं सुखावहम् ॥ ८८ ॥
मूलम्
नवीननीरदश्रेणी सुस्निग्धं मञ्जुकुण्डलम्
फुल्लेन्दीवरसत्कान्ति सुखस्पर्शं सुखावहम् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
दलिताञ्जनपुञ्जाभ चिक्कणं श्याममोहनम्
सुस्निग्धनीलकुटिलाशेषसौरभकुन्तलम् ॥ ८९ ॥
मूलम्
दलिताञ्जनपुञ्जाभ चिक्कणं श्याममोहनम्
सुस्निग्धनीलकुटिलाशेषसौरभकुन्तलम् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
तदूर्ध्वं दक्षिणे काले श्यामचूडामनोहरम्
नानावर्णोज्ज्वलं राजच्छिखण्डिदलमण्डितम् ॥ ९० ॥
मूलम्
तदूर्ध्वं दक्षिणे काले श्यामचूडामनोहरम्
नानावर्णोज्ज्वलं राजच्छिखण्डिदलमण्डितम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
मन्दारमञ्जुगोपुच्छाचूडं चारुविभूषणम्
क्वचिद्बृहद्दलश्रेणी मुकुटेनाभिमण्डितम् ॥ ९१ ॥
मूलम्
मन्दारमञ्जुगोपुच्छाचूडं चारुविभूषणम्
क्वचिद्बृहद्दलश्रेणी मुकुटेनाभिमण्डितम् ॥ ९१ ॥
विश्वास-प्रस्तुतिः
अनेकमणिमाणिक्यकिरीटभूषणं क्वचित्
लोलालकवृतं राजत्कोटिचन्द्रसमाननम् ॥ ९२ ॥
मूलम्
अनेकमणिमाणिक्यकिरीटभूषणं क्वचित्
लोलालकवृतं राजत्कोटिचन्द्रसमाननम् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
कस्तूरीतिलकं भ्राजन्मञ्जुगोरोचनान्वितम्
नीलेन्दीवरसुस्निग्ध सुदीर्घदललोचनम् ॥ ९३ ॥
मूलम्
कस्तूरीतिलकं भ्राजन्मञ्जुगोरोचनान्वितम्
नीलेन्दीवरसुस्निग्ध सुदीर्घदललोचनम् ॥ ९३ ॥
विश्वास-प्रस्तुतिः
आनृत्यद्भ्रूलताश्लेषस्मितं साचि निरीक्षणम्
सुचारून्नतसौन्दर्य नासाग्राति मनोहरम् ॥ ९४ ॥
मूलम्
आनृत्यद्भ्रूलताश्लेषस्मितं साचि निरीक्षणम्
सुचारून्नतसौन्दर्य नासाग्राति मनोहरम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
नासाग्रगजमुक्तांशु मुग्धीकृत जगत्त्रयम्
सिन्दूरारुणसुस्निग्धाधरौष्ठसुमनोहरम् ॥ ९५ ॥
मूलम्
नासाग्रगजमुक्तांशु मुग्धीकृत जगत्त्रयम्
सिन्दूरारुणसुस्निग्धाधरौष्ठसुमनोहरम् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
नानावर्णोल्लसत्स्वर्णमकराकृतिकुण्डलम्
तद्रश्मिपुञ्जसद्गण्ड मुकुराभलसद्द्युतिम् ॥ ९६ ॥
मूलम्
नानावर्णोल्लसत्स्वर्णमकराकृतिकुण्डलम्
तद्रश्मिपुञ्जसद्गण्ड मुकुराभलसद्द्युतिम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
कर्णोत्पलसुमन्दारमकरोत्तंस भूषितम्
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम् ॥ ९७ ॥
मूलम्
कर्णोत्पलसुमन्दारमकरोत्तंस भूषितम्
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
विलसद्दिव्यमाणिक्यं मञ्जुकाञ्चन मिश्रितम्
करे कङ्कणकेयूरं किङ्किणीकटिशोभितम् ॥ ९८ ॥
मूलम्
विलसद्दिव्यमाणिक्यं मञ्जुकाञ्चन मिश्रितम्
करे कङ्कणकेयूरं किङ्किणीकटिशोभितम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
मञ्जुमञ्जीरसौन्दर्य्यश्रीमदङ्घ्रि विराजितम्
कर्पूरागुरुकस्तूरीविलसच्चन्दनादिकम् ॥ ९९ ॥
मूलम्
मञ्जुमञ्जीरसौन्दर्य्यश्रीमदङ्घ्रि विराजितम्
कर्पूरागुरुकस्तूरीविलसच्चन्दनादिकम् ॥ ९९ ॥
गोरोचनादिसम्मिश्र दिव्याङ्गरागचित्रितम्
स्निग्धपीतपटी राजत्प्रपदान्दोलिताञ्जनम् १००
गम्भीरनाभिकमलं रोमराजीनतस्रजम्
सुवृत्तजानुयुगलं पादपद्ममनोहरम् १०१
ध्वजवज्राङ्कुशाम्भोज कराङ्घ्रि तलशोभितम्
नखेन्दु किरणश्रेणी पूर्णब्रह्मैककारणम् १०२
केचिद्वदन्ति तस्यांशं ब्रह्मचिद्रूपमद्वयम्
तद्दशांशं महाविष्णुं प्रवदन्ति मनीषिणः १०३
योगीन्द्रैः सनकाद्यैश्च तदेव हृदि चिन्त्यते
त्रिभङ्गं ललिताशेष निर्माणसारनिर्मितम् १०४
तिर्यग्ग्रीवजितानन्तकोटिकन्दर्पसुन्दरम्
वामांसार्पित सद्गण्डस्फुरत्काञ्चनकुण्डलम् १०५
सहापाङ्गेक्षणस्मेरं कोटिमन्मथसुन्दरम्
कुञ्चिताधरविन्यस्त वंशीमञ्जुकलस्वनैः १०६
जगत्त्रयं मोहयन्तं मग्नं प्रेमसुधार्णवे
श्रीपार्वत्युवाच-
परमं कारणं कृष्णं गोविन्दाख्यं महत्पदम् १०७
वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम्
तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुन्दरम् १०८
तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो
ईश्वर उवाच-
यदङ्घ्रिनखचन्द्रांशु महिमान्तो न गम्यते १०९
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु
अनन्तकोटिब्रह्माण्डे अनन्तत्रिगुणोच्छ्रये ११०
तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः
सृष्टिस्थित्यादिना युक्तास्तिष्ठन्ति तस्य वैभवाः १११
तद्रूपकोटिकोट्यंशाः कलाः कन्दर्पविग्रहाः
जगन्मोहं प्रकुर्वन्ति तदण्डान्तरसंस्थिताः ११२
तद्देहविलसत्कान्तिकोटिकोट्यंशको विभुः
तत्प्रकाशस्य कोट्यंश रश्मयो रविविग्रहाः ११३
तस्य स्वदेहकिरणैः परानन्द रसामृतैः
परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः ११४
तदंशकोटिकोट्यंशा जीवन्ति किरणात्मकाः
तदङ्घ्रिपङ्कजद्वन्द्व नखचन्द्र मणिप्रभाः ११५
आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम्
तदंशसौरभानन्तकोट्यंशो विश्वमोहनः ११६
तत्स्पर्शपुष्पगन्धादि नानासौरभसम्भवः
तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ११७
तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः
तस्या अङ्घ्रिरजः स्पर्शात्कोटिविष्णुः प्रजायते ११८
इति श्रीपद्मपुराणे पातालखण्डे वृन्दावनमाहात्म्ये कृष्णचरित्रे
एकोनसप्ततितमोऽध्यायः ६९