शेष उवाच-
विश्वास-प्रस्तुतिः
परिस्वादन्क्रतौ तृप्तिं न प्राप सुरसंयुतः ॥ १ ॥
मूलम्

नारायणो महादेवो ब्रह्मा तत्र चतुर्मुखः
वरुणश्च कुबेरश्च तथान्ये लोकपालकाः ॥ २ ॥

तत्रास्वाद्य हविः स्निग्धं वसिष्ठेन परिष्कृतम्
तत्र पुनर्हि विप्रेन्द्राः क्षुधार्ताइव भोजनात् ॥ ३ ॥

सर्वान्देवांश्च सन्तर्प्य हविषा करुणानिधिः
वसिष्ठप्रेरितः सर्वमिति कर्तव्यमाचरत् ॥ ४ ॥

ब्राह्मणादानसन्तुष्टा हविस्तुष्टाः सुरावराः
तृप्ताः सर्वे स्वकं भागं गृहीत्वा स्वालयं ययुः ॥ ५ ॥

ऋषिभ्यो होतृमुख्येभ्यः प्रादाद्राज्यं चतुर्दिशम्
सन्तुष्टास्ते द्विजाराममाशीर्भिरददुः शुभम् ॥ ६ ॥

पूर्णाहुतिं ततः कृत्वा वसिष्ठः प्राह सुस्त्रियः
वर्धापयन्तु भूमीशं यागपूर्तिकरं परम् ॥ ७ ॥

तद्वाक्यं ताः स्त्रियः श्रुत्वा लाजैरवाकिरन्मुदा
लावण्यजितकन्दर्पं महामणिविभूषितम् ॥ ८ ॥

ततोऽवभृथस्नानार्थं प्रेरयामास भूमिपम्
ययौ रामः सहस्वीयैः सरयूतीरमुत्तमम् ॥ ९ ॥

अनेकराजकोटीभिः परीतः पादचारिभिः
जगाम स सरिच्छ्रेष्ठां पक्षिवृन्दसमाकुलाम् ॥ १० ॥

तारापतिरिव स्वाभिर्भार्याभिर्वृत उत्प्रभः
विरोचते तथा तद्वद्रामो राजगणैर्वृतः ॥ ११ ॥

तदुत्सवं समाज्ञाय ययुर्लोकास्त्वरायुताः
सीतापतिमुखालोकनिश्चलीभूतलोचनाः ॥ १२ ॥
मूलम्
तदुत्सवं समाज्ञाय ययुर्लोकास्त्वरायुताः
सीतापतिमुखालोकनिश्चलीभूतलोचनाः ॥ १२ ॥
विश्वास-प्रस्तुतिः
राजेन्द्रं सीतया साकं गच्छन्तं सरितं प्रति
विलोक्य मुदिता लोकाश्चिरं दर्शनलालसाः ॥ १३ ॥

अनेक नटगन्धर्वा गायन्तो यश उज्ज्वलम्
अनुजग्मुर्महीशानं सर्वलोकनमस्कृतम् ॥ १४ ॥

नर्तक्यस्तत्र नृत्यन्त्यः क्षोभयन्त्यः पतेर्मनः
जलयन्त्रैश्च सिञ्चन्त्यो ययुः श्रीरामसेवनम् ॥ १५ ॥

महाराजं विलिपन्त्यो हरिद्रा कुङ्कुमादिभिः
परस्परं प्रलिपन्त्यो मुदं प्रापुर्महत्तराम् ॥ १६ ॥

कुचयुग्मोपरिन्यस्तमुक्ताहारसुशोभिताः
श्रवणद्वन्द्वसम्मृष्टस्वर्णकुण्डललक्षिताः ॥ १७ ॥

अनेकनरनारीभिः सङ्कीर्णं मार्गमाचरन्
यथावत्सरितं प्राप शिवपुण्यजलाप्लुताम् ॥ १८ ॥

तत्र गत्वा स वैदेह्या रामः कमललोचनः
प्रविवेश जलं पुण्यं वसिष्ठादिभिरन्वितः ॥ १९ ॥

अनुप्रविविशुः सर्वे राजानो जनतास्तथा
तत्पादरजसा पूतजलं लोकैकवन्दितम् ॥ २० ॥
मूलम्
अनुप्रविविशुः सर्वे राजानो जनतास्तथा
तत्पादरजसा पूतजलं लोकैकवन्दितम् ॥ २० ॥
विश्वास-प्रस्तुतिः
परस्परं प्रसिञ्चन्तो जलयन्त्रैर्मनोरमैः
सुशोणनयनाः सर्वे हर्षं प्रापुर्मनोधिकम् ॥ २१ ॥

स रामः सीतया सार्धं चिरं पुण्यजलप्लवे
क्रीडित्वा जलकल्लोलैर्निरगाद्धर्मसंयुतः ॥ २२ ॥

दुकूलवासाः सकिरीटकुण्डलः केयूरशोभावरकङ्कणान्वितः
कन्दर्पकोटिश्रियमुद्वहन्नृपो राजाग्र्यवर्यैरुपसंस्तुतो बभौ ॥ २३ ॥

सयागयूपं वरवर्णशोभितं कृत्वा सरित्तीरवरे महामनाः
त्रैलोक्यलोकश्रियमाप ह्यद्भुतामन्यैर्दुरापां नृपतिर्भुजैर्निजैः ॥ २४ ॥

एवं जनकपुत्र्यासौ हयमेधत्रयं चरन्
त्रैलोक्ये कीर्तिमतुलां प्राप देवैः सुदुर्लभाम् ॥ २५ ॥

एवं ते वर्णितं तात यत्पृष्टो रामसत्कथाम्
विस्तृतः कथितो मेधो भूयः किं पृच्छसे द्विज ॥ २६ ॥

यः शृणोति हरेर्भक्त्या रामचन्द्रस्य सन्मखम्
ब्रह्महत्यां क्षणात्तीर्त्वा ब्रह्मशाश्वतमाप्नुयात् ॥ २७ ॥

अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात्
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ २८ ॥

यत्कथाश्रवणाद्दुष्टः श्वपचोऽपि परं पदम्
प्राप्नोति किमु विप्राग्र्यो रामभक्तिपरायणः ॥ २९ ॥

रामं स्मृत्वा महाभागं पापिनः परमं पदम्
प्राप्नुयुः परमं स्वर्गं शक्रदेवादिदुर्लभम् ॥ ३० ॥

ते धन्या मानवा लोके ये स्मरन्ति रघूत्तमम्
ते क्षणात्संसृतिं तीर्त्वा गच्छन्ति सुखमव्ययम् ॥ ३१ ॥

प्रत्येकमक्षरं ब्रह्महत्यावंशदवानलः
तं यः श्रावयते धीमांस्तं गुरुं सम्प्रपूजयेत् ॥ ३२ ॥

श्रुत्वा कथां वाचकाय गवां द्वन्द्वं प्रदापयेत्
सपत्नीकाय सम्पूज्य वस्त्रालङ्कारभोजनैः ॥ ३३ ॥

कुण्डलाभ्यां विराजन्त्यौ मुद्रिकाभिरलङ्कृते
रामसीते स्वर्णमय्यौ प्रतिमे शोभने वरे ॥ ३४ ॥

कृत्वा तु वाचकायैव दीयते भो द्विजोत्तम
तस्य देवाश्च पितरो वैकुण्ठं प्राप्नुयुस्तदा ॥ ३५ ॥

त्वया पृष्टा रामकथा मया ते कथिता पुरा
किमन्यत्कथ्यतां ब्रह्मन्पुरतस्तव धीमतः ॥ ३६ ॥

शृण्वन्ति ये कथामेतां ब्रह्महत्यौघनाशिनीम्
ते यान्ति परमं स्थानं यच्च देवैः सुदुर्लभम् ॥ ३७ ॥

गोघ्नश्चापि सुतघ्नश्च सुरापो गुरुतल्पगः
क्षणात्पूतो भवत्येव नात्र संशयितुं क्षमम् ॥ ३८ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
श्रवणपठनपुण्यवर्णनं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥

इति रामाश्वमेधप्रकरणं समाप्तम्