सप्तषष्टितमोऽध्यायः 5.67
विश्वास-प्रस्तुतिः
शेष उवाच
अथ सौमित्रिरागत्य जानकीं नतवान्मुहुः
प्रेमगद्गदया शंसन्वाचं रामप्रणोदिताम् ॥ १ ॥
मूलम्

सीता समागतं दृष्ट्वा लक्ष्मणं विनयान्वितम्
तन्मुखाद्रामसन्देशं श्रुत्वोवाच विलज्जिता ॥ २ ॥

सौमित्रे कथमागच्छे रामत्यक्ता महावने
तिष्ठामि रामं स्मरन्ती वाल्मीकेराश्रमे त्वहम् ॥ ३ ॥

तस्या मुखोदितं वाक्यं श्रुत्वा सौमित्रिरब्रवीत्
मातः पतिव्रते रामस्त्वामाकारयते मुहुः ॥ ४ ॥

पतिव्रता पतिकृतं दोषं नानयते हृदि
तस्मादागच्छ हि मया स्थित्वा स्यन्दन उत्तमे ॥ ५ ॥

इत्यादि वचनं श्रुत्वा जानकी पतिदेवता
मनोरोषं परित्यज्य तस्थौ सौमित्रिणा रथे ॥ ६ ॥

तापसीः सकला नत्वा मुनींश्च निगमोज्ज्वलान्
रामं स्मरन्ती मनसा रथे स्थित्वागमत्पुरीम् ॥ ७ ॥

क्रमेण नगरीं प्राप्ता महार्हाभरणान्विता
सरयूं सरितं प्राप यत्र रामः स्वयं स्थितः ॥ ८ ॥

रथादुत्तीर्य ललिता लक्ष्मणेन समन्विता
रामस्य पादयोर्लग्ना पतिव्रतपरायणा ॥ ९ ॥
मूलम्
रथादुत्तीर्य ललिता लक्ष्मणेन समन्विता
रामस्य पादयोर्लग्ना पतिव्रतपरायणा ॥ ९ ॥
विश्वास-प्रस्तुतिः
रामस्तामागतां दृष्ट्वा जानकीं प्रेमविह्वलाम्
साध्वि त्वया सहेदानीं कुर्वे यज्ञसमापनम् ॥ १० ॥

वाल्मीकिं सा नमस्कृत्य तथान्यान्विप्रसत्तमान्
जगाम मातृपदयोः सन्नतिं कर्तुमुत्सुका ॥ ११ ॥

कौशल्या तामथायान्तीं वीरसूं जानकीं प्रियाम्
आशीर्भिरभिसंयुज्य ययौ हर्षमनेकधा ॥ १२ ॥

कैकेयीपदयोर्नम्रां वीक्ष्य वैदेहपुत्रिकाम्
भर्त्रा सह चिरं जीव सपुत्रेत्याशिषं व्यधात् ॥ १३ ॥

सुमित्रा स्वपदेनम्रां वीक्ष्य वैदेहपुत्रिकाम्
आशिषं व्यदधात्तस्याः पुत्रपौत्रप्रदायिनीम् ॥ १४ ॥

सीता ताः सर्वतो नत्वा रामचन्द्र प्रिया सती
परमं हर्षमापन्ना बभूव किल वाडव ॥ १५ ॥

समागतां वीक्ष्य पत्नीं रामचन्द्रस्य कुम्भजः
सुवर्णपत्नीं धिक्कृत्य तामधाद्धर्मचारिणीम् ॥ १६ ॥

रामस्तदा यज्ञमध्ये शुशुभे सीतया सह
तारयानुगतो यद्वच्छशीव शरदुत्प्रभः ॥ १७ ॥

प्रयोगमकरोत्तत्र काले प्राप्ते मनोरमे
वैदेह्या धर्मचारिण्या सर्वपापापनोदनम् ॥ १८ ॥

सीतया सहितं रामं प्रसक्तं यज्ञकर्मणि
निरीक्ष्य जहृषुस्तत्र कौतुकेन समन्विताः ॥ १९ ॥

वसिष्ठं प्राह सुमतिं रामस्तत्र क्रतौ वरे
किं कर्तव्यं मया स्वामिन्नतः परमवश्यकम् ॥ २० ॥

रामस्य वचनं श्रुत्वा गुरुः प्राह महामतिः
ब्राह्मणानां प्रकर्तव्या पूजा सन्तोषकारिका ॥ २१ ॥

मरुत्तेन क्रतुः सृष्टः पूर्वं सम्भारसम्भृतः
ब्राह्मणास्तत्र वित्ताद्यैस्तोषिता अभवंस्तदा ॥ २२ ॥

अत्यन्तं वित्तसम्भारं नेतुं विप्राशकन्नहि
प्राक्षिपन्हिमवद्देशे वित्तभारासहा द्विजाः ॥ २३ ॥

तस्मात्त्वमपि राजाग्र्य लक्ष्मीवान्नृपसत्तम
देहि दानादि विप्रेभ्यो यथा स्यात्प्रीतिरुत्तमा ॥ २४ ॥

एतच्छ्रुत्वा स राजाग्र्यः पूज्यं मत्वा घटोद्भवम्
प्रथमं पूजयामास ब्रह्मपुत्रं तपोधनम् ॥ २५ ॥

अनेकरत्नसम्भारैः स्वर्णभारैरनेकधा
देशैर्जनैः परिवृतैरत्यन्तप्रीतिदायकैः ॥ २६ ॥

अगस्त्यं पूजयामास सपत्नीकं मनोरमम्
तथैव रत्नैः स्वर्णैश्च देशैश्च विविधैरपि ॥ २७ ॥

व्यासं सत्यवतीपुत्रं तथैव समपूजयत्
च्यवनं भार्यया साकं सुरत्नैः समपूजयत् ॥ २८ ॥

अन्यानपि मुनीन्सर्वानृत्विजस्तपसां निधीन्
पूजयामास रत्नौघैः स्वर्णभारैरनेकधा ॥ २९ ॥

अदात्तदा क्रतौ रामो विप्रेभ्यो भूरिदक्षिणाम्
लक्षंलक्षं सुवर्णस्य प्रत्येकं त्वग्रजन्मने ॥ ३० ॥

दीनान्धकृपणेभ्यश्च ददौ दानमनेकधा
यथासन्तोषविहितैर्वित्तै रत्नैर्मनोहरैः ॥ ३१ ॥

वासांसि च विचित्राणि भोजनानि मृदूनि च
तत्र प्रादाद्यथाशास्त्रं सर्वेषां प्रीतिदायकम् ॥ ३२ ॥

हृष्टपुष्टजनाकीर्णं सर्वसत्त्वोपबृंहितम्
अत्यन्तमभवद्धृष्टं पुरं पुंस्त्रीसमावृतम् ॥ ३३ ॥

दानं ददन्तं सर्वेषां वीक्ष्य कुम्भोद्भवो मुनिः
अत्यन्तपरमप्रीतिं ययौ क्रतुवरे द्विजः ॥ ३४ ॥

तदाभिषेकस्नानार्थं पानीयममृतोपमम्
आनेतुं च चतुःषष्टि नृपान्सस्त्रीन्समाह्वयत् ॥ ३५ ॥

रामस्तु सीतया सार्द्धमानेतुमुदकं ययौ
घटेन स्वर्णवर्णेन सर्वालङ्कारशोभया ॥ ३६ ॥

सौमित्रिरप्यूर्मिलया माण्डव्या भरतो नृपः
शत्रुघ्नः श्रुतकीर्त्या च कान्तिमत्या च पुष्कलः ॥ ३७ ॥

सुबाहुः सत्यवत्या च सत्यवान्वीरभूषया
सुमदस्तत्र सत्कीर्त्या राज्ञ्या च विमलो नृपः ॥ ३८ ॥

राजावीरमणिस्तत्र श्रुतवत्या मनोज्ञया
लक्ष्मीनिधिः कोमलया रिपुतापोङ्गसेनया ॥ ३९ ॥

विभीषणो महामूर्त्या प्रतापाग्र्यः प्रतीतया
उग्राश्वः कामगमया नीलरत्नोधिरम्यया ॥ ४० ॥

सुरथः सुमनोहार्या तथा मोहनया कपिः
इत्यादीन्नृपतीन्विप्रो वसिष्ठः प्राहिणोन्मुनिः ॥ ४१ ॥

वसिष्ठः सरयूं गत्वा शिवपुण्यजलाप्लुताम्
उदकं मन्त्रयामास वेदमन्त्रेण मन्त्रवित् ॥ ४२ ॥

पयः पुनीह्यमुं वाहमुदकेन मनोहृता
यज्ञार्थं रामचन्द्रस्य सर्वलोकैकरक्षितुः ॥ ४३ ॥

उदकं तन्मुनिस्पृष्टं सर्वे रामादयो नृपाः
आजह्रुर्मण्डपतले विप्रवर्यैरुपस्तुते ॥ ४४ ॥

पयोभिर्निर्मलैः स्नाप्य वाजिनं क्षीरसन्निभम्
मन्त्रेण मन्त्रयामास राम हस्तेन कुम्भजः ॥ ४५ ॥

पुनीहि मां महावाह अस्मिन्ब्रह्मसमाकुले
त्वन्मेधेनाखिला देवाः प्रीणन्तु परितोषिताः ॥ ४६ ॥

इत्युक्त्वा स नृपो रामः सीतया सममस्पृशत्
तदा सर्वे द्विजाश्चित्रममन्यन्त कुतूहलात् ॥ ४७ ॥

परस्परमवोचंस्ते यन्नामस्मरणान्नराः
महापापात्प्रमुच्यन्ते स रामः किं वदत्यहो ॥ ४८ ॥

इत्युक्तवति भूमीशे रामे कुम्भोद्भवो मुनिः
करवालं चाभिमन्त्र्य ददौ रामकरे मुनिः ॥ ४९ ॥

करवाले धृते स्पृष्टे रामेण स हयः क्रतौ
पशुत्वं तु विहायाशु दिव्यरूपमपद्यत ॥ ५० ॥

विमानवरमारूढश्चाप्सरोभिः समन्ततः
चामरैर्वीज्यमानश्च वैजयन्त्या विभूषितः ॥ ५१ ॥

तदा तं वाजितां त्यक्त्वा दिव्यरूपधरं वरम्
वीक्ष्य लोकाः क्रतौ सर्वे विस्मयं प्राप्नुवंस्तदा ॥ ५२ ॥

तदा रामः स्वयं जानञ्ज्ञापयन्सर्वतो नरान्
पप्रच्छ दिव्यरूपं तं सुरं परमधार्मिकः ॥ ५३ ॥

कस्त्वं दिव्यवपुः प्राप्तः कस्मात्त्वं वाजितां गतः
कथं सुरस्त्रीसहितः किं चिकीर्षसि तद्वद ॥ ५४ ॥

रामस्य वचनं श्रुत्वा देवः प्रोवाच भूमिपम्
हसन्मेघरवां वाणीमवदत्सुमनोहराम् ॥ ५५ ॥

तवाज्ञातं न सर्वत्र बाह्याभ्यन्तरचारिणः
तथापि पृच्छते तुभ्यं कथयामि यथातथम् ॥ ५६ ॥

अहं पुराभवे राम द्विजः परमधार्मिकः
अचरं प्रतिकूलं वै वेदस्य रिपुतापन ॥ ५७ ॥

कदाचिद्धुतपापायास्तीरेऽहं गतवान्पुरा
अनेकवृक्षललिते सर्वत्रसुमनोरमे ॥ ५८ ॥
मूलम्
कदाचिद्धुतपापायास्तीरेऽहं गतवान्पुरा
अनेकवृक्षललिते सर्वत्रसुमनोरमे ॥ ५८ ॥
विश्वास-प्रस्तुतिः
तत्र स्नात्वा पितॄंस्तृप्त्वा दानं दत्त्वा यथाविधि
ध्यानं तव महाबाहो कृतवान्वेदसम्मितम् ॥ ५९ ॥

तदा जनाः समायाता बहवस्तत्र भूपते
तेषां प्रवञ्चनार्थाय दम्भमेनमकारिषम् ॥ ६० ॥

अनेकक्रतुसम्भारैः पूर्णमजिरमुत्तमम्
वासोभिश्छादितं रम्यं चषालादियुतं महत् ॥ ६१ ॥

अग्निहोत्रोद्भवोधूमः सर्वतो नभसोङ्गणम्
चकार रम्यमतुलं चित्रकारिवपुर्धरः ॥ ६२ ॥
मूलम्
अग्निहोत्रोद्भवोधूमः सर्वतो नभसोङ्गणम्
चकार रम्यमतुलं चित्रकारिवपुर्धरः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
अनेकतिलकश्रीभिः शोभिताङ्गो महत्तपाः
दर्भशोभः समित्पाणिर्दम्भो मूर्तिधरः किमु ॥ ६३ ॥

दुर्वासास्तत्र स्वच्छन्दं पर्यटञ्जगतीतलम्
प्राप तत्र महातेजा धूतपापसरित्तटे ॥ ६४ ॥

ददर्श मां दम्भकरं मौनधारिणमग्रतः
अनर्घ्यकरमुन्मत्तमस्वागतवचः करम् ॥ ६५ ॥
मूलम्
ददर्श मां दम्भकरं मौनधारिणमग्रतः
अनर्घ्यकरमुन्मत्तमस्वागतवचः करम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वातीव क्रुधाक्रान्तः समुद्र इव पर्वणि
शशापासौ मुनिस्तीव्रो दम्भिनं मां महामतिः ॥ ६६ ॥

दम्भं करोषि चेत्तीरे सरितस्त्वं सुदुर्मते
तस्मात्प्राप्नुहि निर्वाच्यं पशुत्वं तापसाधम ॥ ६७ ॥

शापं प्रदत्तं संश्रुत्य दुःखितोऽहं तदाभवम्
अग्राहिषं पदे तस्य मुनेर्दुर्वाससः किल ॥ ६८ ॥

तदा मे कृतवान्राम द्विजोऽनुग्रहमुत्तमम्
वाजितां प्राप्नुहि मखे राजराजस्य तापस ॥ ६९ ॥

पश्चात्तद्धस्तसम्पर्काद्याहि तत्परमं पदम्
दिव्यं वपुर्मनोहारि धृत्वा दम्भविवर्जितम् ॥ ७० ॥

तेन शापोपिसन्दिष्टो ममानुग्रहतां गतः
यदहं तव हस्तस्य स्पर्शं प्राप्तो मनोरमम् ॥ ७१ ॥

यदेव राम देवादिदुर्लभं बहुजन्मभिः
तत्तेऽहं करजस्पर्शं प्राप्तवानिह दुर्लभम् ॥ ७२ ॥

आज्ञापय महाराज त्वत्प्रसादादहं महत्
गच्छामि शाश्वतं स्थानं तव दुःखादिवर्जितम् ॥ ७३ ॥

न यत्र शोको न जरा न मृत्युः कालविभ्रमः
तत्स्थानं देव गच्छामि त्वत्प्रसादान्नराधिप ॥ ७४ ॥

इत्युक्त्वा तं परिक्रम्य विमानवरमारुहत्
अनेकरत्नखचितं सर्वदेवाधिवन्दितम् ॥ ७५ ॥
मूलम्
इत्युक्त्वा तं परिक्रम्य विमानवरमारुहत्
अनेकरत्नखचितं सर्वदेवाधिवन्दितम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
गतोऽसौ शाश्वतस्थानं रामपादप्रसादतः
पुनरावृत्तिरहितं शोकमोहविवर्जितम् ॥ ७६ ॥

तेन तत्कथितं श्रुत्वा रामं ज्ञात्वेतरे जनाः
विस्मयं प्रापिरे सर्वे परस्परमुदुन्मदाः ॥ ७७ ॥

शृणु द्विजमहाबुद्धे दम्भेनापि स्मृतो हरिः
ददाति मोक्षं सुतरां किं पुनर्दम्भवर्जनात् ॥ ७८ ॥

यथाकथञ्चिद्रामस्य कर्तव्यं स्मरणं परम्
येन प्राप्नोति परमं पदं देवादिदुर्लभम् ॥ ७९ ॥

तच्चित्रं वीक्ष्य मुनयः कृतार्थं मेनिरे निजम्
यद्रामचरणप्रेक्षा करस्पर्शपवित्रितम् ॥ ८० ॥

गते तस्मिन्सुरे स्वर्गं हयरूपधरे पुरा
उवाच रामस्तपसां निधीन्वेदविदुत्तमान् ॥ ८१ ॥

किं कर्तव्यं मयाब्रह्मन्हयो नष्टो गतः सुखम्
होमः कथं पुरोभावी सर्वदैवततर्पकः ॥ ८२ ॥

यथा स्यात्सुरसन्तृप्तिर्यथा मे मख उत्तमः
तथा कुर्वन्तु मुनयो यथा मे स्याद्विधिश्रुतम् ॥ ८३ ॥

इति वाक्यं समाश्रुत्य जगाद मुनिसत्तमः
वसिष्ठः सर्वदेवानां चित्ताभिज्ञानकोविदः ॥ ८४ ॥

कर्पूरमाहर क्षिप्रं येन देवाः स्वयं पुरा
प्राप्य हव्यं ग्रहीष्यन्ति मद्वाक्यप्रेरिताधुना ॥ ८५ ॥

इति वाक्यं समाकर्ण्य रामः क्षिप्रमुपाहरत्
कर्पूरं बहुदेवानां प्रीत्यर्थं बहुशोभनम् ॥ ८६ ॥

तदा मुनिः प्रहृष्टात्मा देवानाह्वयदद्भुतान्
ते सर्वे तत्क्षणात्प्राप्ताः स्वपरीवारसंवृताः ॥ ८७ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
यज्ञप्रारम्भोनाम सप्तषष्टितमोऽध्यायः ६७