०६६

शेष उवाच

विश्वास-प्रस्तुतिः

कथितौ वै सुमतिना वाल्मीकेराश्रमे शिशू
पुत्रौ स्वीयाविति ज्ञात्वा वाल्मीकिं प्रति सञ्जगौ ॥ १ ॥

मूलम्

कथितौ वै सुमतिना वाल्मीकेराश्रमे शिशू
पुत्रौ स्वीयाविति ज्ञात्वा वाल्मीकिं प्रति सञ्जगौ ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीराम उवाच
कौ शिशू मम सारूप्यधारकौ बलिनां वरौ
किमर्थं तिष्ठतस्तत्र धनुर्विद्याविशारदौ ॥ २ ॥

मूलम्

श्रीराम उवाच
कौ शिशू मम सारूप्यधारकौ बलिनां वरौ
किमर्थं तिष्ठतस्तत्र धनुर्विद्याविशारदौ ॥ २ ॥

विश्वास-प्रस्तुतिः

अमात्यकथितौ श्रुत्वा विस्मयो मम जायते
यौ शत्रुघ्नं हनूमन्तं लीलयाङ्ग बबन्धतुः ॥ ३ ॥

मूलम्

अमात्यकथितौ श्रुत्वा विस्मयो मम जायते
यौ शत्रुघ्नं हनूमन्तं लीलयाङ्ग बबन्धतुः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तस्माच्छंस मुने सर्वं बालयोश्च विचेष्टितम्
यथा मे परमा प्रीतिर्भवत्येवमभीप्सिता ॥ ४ ॥

मूलम्

तस्माच्छंस मुने सर्वं बालयोश्च विचेष्टितम्
यथा मे परमा प्रीतिर्भवत्येवमभीप्सिता ॥ ४ ॥

विश्वास-प्रस्तुतिः

इति तत्कथितं श्रुत्वा राजराजस्य धीमतः
उवाच परमं वाक्यं स्पष्टाक्षरसमन्वितम् ॥ ५ ॥

मूलम्

इति तत्कथितं श्रुत्वा राजराजस्य धीमतः
उवाच परमं वाक्यं स्पष्टाक्षरसमन्वितम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

वाल्मीकिरुवाच
तवान्तर्यामिणो नॄणां कथं ज्ञानं च नो भवेत्
तथापि कथयाम्यत्र तव सन्तोषहेतवे ॥ ६ ॥

मूलम्

वाल्मीकिरुवाच
तवान्तर्यामिणो नॄणां कथं ज्ञानं च नो भवेत्
तथापि कथयाम्यत्र तव सन्तोषहेतवे ॥ ६ ॥

विश्वास-प्रस्तुतिः

राजन्यौ बालकौ मह्यमाश्रमे बलिनां वरौ
त्वत्सारूप्यधरौ स्वाङ्गमनोहरवपुर्धरौ ॥ ७ ॥

मूलम्

राजन्यौ बालकौ मह्यमाश्रमे बलिनां वरौ
त्वत्सारूप्यधरौ स्वाङ्गमनोहरवपुर्धरौ ॥ ७ ॥

विश्वास-प्रस्तुतिः

त्वया यदा वने त्यक्ता जानकी वै निरागसी
अन्तर्वत्नी वने घोरे विलपन्ती मुहुर्मुहुः ॥ ८ ॥

मूलम्

त्वया यदा वने त्यक्ता जानकी वै निरागसी
अन्तर्वत्नी वने घोरे विलपन्ती मुहुर्मुहुः ॥ ८ ॥

विश्वास-प्रस्तुतिः

कुररीमिव दुःखार्तां वीक्ष्याहं तव वल्लभाम्
जनकस्य सुतां पुण्यामाश्रमे त्वानयं तदा ॥ ९ ॥

मूलम्

कुररीमिव दुःखार्तां वीक्ष्याहं तव वल्लभाम्
जनकस्य सुतां पुण्यामाश्रमे त्वानयं तदा ॥ ९ ॥

विश्वास-प्रस्तुतिः

तस्याः पर्णकुटीरम्या रचिता मुनिपुत्रकैः
तस्यामसूत पुत्रौ द्वौ भासयन्तौ दिशो दश ॥ १० ॥

मूलम्

तस्याः पर्णकुटीरम्या रचिता मुनिपुत्रकैः
तस्यामसूत पुत्रौ द्वौ भासयन्तौ दिशो दश ॥ १० ॥

विश्वास-प्रस्तुतिः

तयोरकरवं नाम कुशो लव इति स्फुटम्
ववृधातेऽनिशं तत्र शुक्लपक्षे यथा शशी ॥ ११ ॥

मूलम्

तयोरकरवं नाम कुशो लव इति स्फुटम्
ववृधातेऽनिशं तत्र शुक्लपक्षे यथा शशी ॥ ११ ॥

विश्वास-प्रस्तुतिः

कालेनोपनयाद्यानि सर्वाणि कृतवानहम्
वेदान्साङ्गानहं सर्वान्ग्राहयामास भूपते ॥ १२ ॥

मूलम्

कालेनोपनयाद्यानि सर्वाणि कृतवानहम्
वेदान्साङ्गानहं सर्वान्ग्राहयामास भूपते ॥ १२ ॥

विश्वास-प्रस्तुतिः

सर्वाणि सरहस्यानि शृणुष्व मुखतो मम
आयुर्वेदं धनुर्विद्यां शस्त्रविद्यां तथैव च ॥ १३ ॥

मूलम्

सर्वाणि सरहस्यानि शृणुष्व मुखतो मम
आयुर्वेदं धनुर्विद्यां शस्त्रविद्यां तथैव च ॥ १३ ॥

विश्वास-प्रस्तुतिः

विद्यां जालन्धरीं चाथ सङ्गीतकुशलौ कृतौ
गङ्गाकूले गायमानौ लताकुञ्जवनेषु च ॥ १४ ॥

मूलम्

विद्यां जालन्धरीं चाथ सङ्गीतकुशलौ कृतौ
गङ्गाकूले गायमानौ लताकुञ्जवनेषु च ॥ १४ ॥

विश्वास-प्रस्तुतिः

चञ्चलौ चलचित्तौ तौ सर्वविद्याविशारदौ
तदाहमतिसन्तोषं प्राप्तश्चाहं रघूत्तम ॥ १५ ॥

मूलम्

चञ्चलौ चलचित्तौ तौ सर्वविद्याविशारदौ
तदाहमतिसन्तोषं प्राप्तश्चाहं रघूत्तम ॥ १५ ॥

विश्वास-प्रस्तुतिः

दत्त्वा सर्वाणि चास्त्राणि मस्तके निहितः करः
अतीवगानकुशलौ दृष्ट्वा लोका विसिष्मिरे
षड्जमध्यमगान्धारस्वरभेदविशारदौ ॥ १६ ॥

मूलम्

दत्त्वा सर्वाणि चास्त्राणि मस्तके निहितः करः
अतीवगानकुशलौ दृष्ट्वा लोका विसिष्मिरे
षड्जमध्यमगान्धारस्वरभेदविशारदौ ॥ १६ ॥

विश्वास-प्रस्तुतिः

तथाविधौ विलोक्याहं गापयामि मनोहरम्
भविष्यज्ञानयोगाच्च कृतं रामायणं शुभम् ॥ १७ ॥

मूलम्

तथाविधौ विलोक्याहं गापयामि मनोहरम्
भविष्यज्ञानयोगाच्च कृतं रामायणं शुभम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

मृदङ्गपणवाद्यादि यन्त्रवीणाविशारदौ
वनेवने च गायन्तौ मृगपक्षिविमोहकौ ॥ १८ ॥

मूलम्

मृदङ्गपणवाद्यादि यन्त्रवीणाविशारदौ
वनेवने च गायन्तौ मृगपक्षिविमोहकौ ॥ १८ ॥

विश्वास-प्रस्तुतिः

अद्भुतं गीतमाधुर्यं तव रामकुमारयोः
श्रोतुं तौ वरुणो बाला वा निनाय विभावरीम् ॥ १९ ॥

मूलम्

अद्भुतं गीतमाधुर्यं तव रामकुमारयोः
श्रोतुं तौ वरुणो बाला वा निनाय विभावरीम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

मनोहरवयोरूपौ गानविद्याब्धिपारगौ
कुमारौ जगदुस्तत्र लोकेशादेशतः कलम् ॥ २० ॥

मूलम्

मनोहरवयोरूपौ गानविद्याब्धिपारगौ
कुमारौ जगदुस्तत्र लोकेशादेशतः कलम् ॥ २० ॥

विश्वास-प्रस्तुतिः

परमं मधुरं रम्यं पवित्रं चरितं तव
शुश्राव वरुणः सार्द्धं कुटुम्बेन च गायकैः ॥ २१ ॥

मूलम्

परमं मधुरं रम्यं पवित्रं चरितं तव
शुश्राव वरुणः सार्द्धं कुटुम्बेन च गायकैः ॥ २१ ॥

विश्वास-प्रस्तुतिः

शृण्वन्नैव गतस्तृप्तिं मित्रेण वरुणः सह
सुधातोऽपि परं स्वादुचरितं रघुनन्दन ॥ २२ ॥

मूलम्

शृण्वन्नैव गतस्तृप्तिं मित्रेण वरुणः सह
सुधातोऽपि परं स्वादुचरितं रघुनन्दन ॥ २२ ॥

विश्वास-प्रस्तुतिः

गानानन्दमहालोभ हृतप्राणेन्द्रियक्रियः
प्रत्यागन्तुं दिदेशासौ कुमारौ न हि तावकौ ॥ २३ ॥

मूलम्

गानानन्दमहालोभ हृतप्राणेन्द्रियक्रियः
प्रत्यागन्तुं दिदेशासौ कुमारौ न हि तावकौ ॥ २३ ॥

विश्वास-प्रस्तुतिः

रमणीय महाभोगैर्लोभितावपि बालकौ
चलितौ न गुरोश्चात्ममातुः पादाम्बुजस्मृतेः ॥ २४ ॥

मूलम्

रमणीय महाभोगैर्लोभितावपि बालकौ
चलितौ न गुरोश्चात्ममातुः पादाम्बुजस्मृतेः ॥ २४ ॥

विश्वास-प्रस्तुतिः

अहं चापि गतः पश्चाद्वरुणालयमुत्तमम्
वरुणः प्रेमसहितः पूजां चक्रे मम प्रभो ॥ २५ ॥

मूलम्

अहं चापि गतः पश्चाद्वरुणालयमुत्तमम्
वरुणः प्रेमसहितः पूजां चक्रे मम प्रभो ॥ २५ ॥

विश्वास-प्रस्तुतिः

पृच्छते जन्मकर्मादि सर्वज्ञायापि बालयोः
वरुणायाब्रुवं सर्वं जन्मविद्याद्युपागमम् ॥ २६ ॥

मूलम्

पृच्छते जन्मकर्मादि सर्वज्ञायापि बालयोः
वरुणायाब्रुवं सर्वं जन्मविद्याद्युपागमम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा सीतासुतौ देवः स चक्रेम्बरभूषणैः
देवदत्तमिति ग्राह्यमिति मद्वाक्यगौरवात् ॥ २७ ॥

मूलम्

श्रुत्वा सीतासुतौ देवः स चक्रेम्बरभूषणैः
देवदत्तमिति ग्राह्यमिति मद्वाक्यगौरवात् ॥ २७ ॥

विश्वास-प्रस्तुतिः

आहृतं राजपुत्राभ्यां यद्दत्तं वरुणेन तत्
प्रसन्नेन तयोर्वाद्यगानविद्यावयोगुणैः
ततो मामब्रवीत्सीतामुद्दिश्य वरुणः कृती ॥ २८ ॥

मूलम्

आहृतं राजपुत्राभ्यां यद्दत्तं वरुणेन तत्
प्रसन्नेन तयोर्वाद्यगानविद्यावयोगुणैः
ततो मामब्रवीत्सीतामुद्दिश्य वरुणः कृती ॥ २८ ॥

विश्वास-प्रस्तुतिः

सीतापति व्रताधुर्या रूपशीलवयोन्विता
वीरपुत्रा महाभागा त्यागं नार्हति कर्हिचित् ॥ २९ ॥

मूलम्

सीतापति व्रताधुर्या रूपशीलवयोन्विता
वीरपुत्रा महाभागा त्यागं नार्हति कर्हिचित् ॥ २९ ॥

विश्वास-प्रस्तुतिः

महती हानिरेतस्यास्त्यागे हि रघुनन्दन
सिद्धीनां परमासिद्धिरेषा ते ह्यनपायिनी ॥ ३० ॥

मूलम्

महती हानिरेतस्यास्त्यागे हि रघुनन्दन
सिद्धीनां परमासिद्धिरेषा ते ह्यनपायिनी ॥ ३० ॥

विश्वास-प्रस्तुतिः

पामरैर्महिमानास्या ज्ञायते यदि दूषितैः
का हानिस्तावता राम पुण्यश्रवणकीर्तन ॥ ३१ ॥

मूलम्

पामरैर्महिमानास्या ज्ञायते यदि दूषितैः
का हानिस्तावता राम पुण्यश्रवणकीर्तन ॥ ३१ ॥

विश्वास-प्रस्तुतिः

अस्मत्साक्षिकमेतस्याः पावनं चरितं सदा
सद्यस्ते सिद्धिमायान्ति ये सीतापदचिन्तकाः ॥ ३२ ॥

मूलम्

अस्मत्साक्षिकमेतस्याः पावनं चरितं सदा
सद्यस्ते सिद्धिमायान्ति ये सीतापदचिन्तकाः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

यस्याः सङ्कल्पमात्रेण जन्मस्थितिलयादिकाः
भवन्ति जगतां नित्यं व्यापारा ऐश्वरा अमी ॥ ३३ ॥

मूलम्

यस्याः सङ्कल्पमात्रेण जन्मस्थितिलयादिकाः
भवन्ति जगतां नित्यं व्यापारा ऐश्वरा अमी ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सीता मृत्युःसुधा चेयं तपत्येषा च वर्षति
स्वर्गो मोक्षस्तपो योगो दानं च तव जानकी ॥ ३४ ॥

मूलम्

सीता मृत्युःसुधा चेयं तपत्येषा च वर्षति
स्वर्गो मोक्षस्तपो योगो दानं च तव जानकी ॥ ३४ ॥

विश्वास-प्रस्तुतिः

ब्रह्माणं शिवमन्यांश्च लोकपालान्मदादिकान्
करोत्येषा करोत्येव नान्या सीता तव प्रिया ॥ ३५ ॥

मूलम्

ब्रह्माणं शिवमन्यांश्च लोकपालान्मदादिकान्
करोत्येषा करोत्येव नान्या सीता तव प्रिया ॥ ३५ ॥

विश्वास-प्रस्तुतिः

त्वं पिता सर्वलोकानां सीता च जननीत्यतः
कुदृष्टिरत्र तु क्षेमयोग्या न तव कर्हिचित् ॥ ३६ ॥

मूलम्

त्वं पिता सर्वलोकानां सीता च जननीत्यतः
कुदृष्टिरत्र तु क्षेमयोग्या न तव कर्हिचित् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

वेत्ति सीतां सदा शुद्धां सर्वज्ञो भगवान्स्वयम्
भवानपि सुतां भूमेः प्राणादपि गरीयसीम् ॥ ३७ ॥

मूलम्

वेत्ति सीतां सदा शुद्धां सर्वज्ञो भगवान्स्वयम्
भवानपि सुतां भूमेः प्राणादपि गरीयसीम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

आदर्तव्या त्वया तस्मात्प्रिया शुद्धेति जानकी
न च शापपराभूतिः सीतायां त्वयि वा विभो ॥ ३८ ॥

मूलम्

आदर्तव्या त्वया तस्मात्प्रिया शुद्धेति जानकी
न च शापपराभूतिः सीतायां त्वयि वा विभो ॥ ३८ ॥

विश्वास-प्रस्तुतिः

इमानि मम वाक्यानि वाच्यानि जगतां पतिम्
रामं प्रति त्वया साक्षाद्वाल्मीके मुनिसत्तम ॥ ३९ ॥

मूलम्

इमानि मम वाक्यानि वाच्यानि जगतां पतिम्
रामं प्रति त्वया साक्षाद्वाल्मीके मुनिसत्तम ॥ ३९ ॥

विश्वास-प्रस्तुतिः

इत्युक्तो वरुणेनाहं सीतासङ्ग्रहकारणात्
एवमेव हि सर्वैश्च लोकपालैरपि प्रभो ॥ ४० ॥

मूलम्

इत्युक्तो वरुणेनाहं सीतासङ्ग्रहकारणात्
एवमेव हि सर्वैश्च लोकपालैरपि प्रभो ॥ ४० ॥

विश्वास-प्रस्तुतिः

श्रुतं रामायणोद्गानं पुत्राभ्यां ते सुरासुरैः
गन्धर्वैरपि सर्वैश्च कौतुकाविष्टमानसैः ॥ ४१ ॥

मूलम्

श्रुतं रामायणोद्गानं पुत्राभ्यां ते सुरासुरैः
गन्धर्वैरपि सर्वैश्च कौतुकाविष्टमानसैः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

प्रसन्ना एव सर्वेऽपि प्रशशंसुः सुतौ च ते
त्रैलोक्यं मोहितं ताभ्यां रूपगानवयोगुणैः ॥ ४२ ॥

मूलम्

प्रसन्ना एव सर्वेऽपि प्रशशंसुः सुतौ च ते
त्रैलोक्यं मोहितं ताभ्यां रूपगानवयोगुणैः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

दत्तं यल्लोकपालैस्तु सुताभ्यां स्वीकृतं हि तत्
ऋषिभिश्च वरा आभ्यामन्येभ्यः कीर्तिरेव च ॥ ४३ ॥

मूलम्

दत्तं यल्लोकपालैस्तु सुताभ्यां स्वीकृतं हि तत्
ऋषिभिश्च वरा आभ्यामन्येभ्यः कीर्तिरेव च ॥ ४३ ॥

विश्वास-प्रस्तुतिः

एकरामं जगत्सर्वं पूर्वं मुनिविलोकितम्
त्रिराममधुना जान्तं सुताभ्यां तेखिलेक्षितम् ॥ ४४ ॥

मूलम्

एकरामं जगत्सर्वं पूर्वं मुनिविलोकितम्
त्रिराममधुना जान्तं सुताभ्यां तेखिलेक्षितम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

एककामपरामूर्तिर्लोके पूर्वमवेक्षिता
कामैश्चतुर्भिरद्यायं जायते च यतस्ततः ॥ ४५ ॥

मूलम्

एककामपरामूर्तिर्लोके पूर्वमवेक्षिता
कामैश्चतुर्भिरद्यायं जायते च यतस्ततः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सर्वत्रान्यत्र राजेन्द्र रामपुत्रौ कुशीलवौ
गीयते अत्र सङ्कोचः किं कृतो विदुषि त्वयि ॥ ४६ ॥

मूलम्

सर्वत्रान्यत्र राजेन्द्र रामपुत्रौ कुशीलवौ
गीयते अत्र सङ्कोचः किं कृतो विदुषि त्वयि ॥ ४६ ॥

विश्वास-प्रस्तुतिः

कृतेषु तव सर्वेषु श्रूयते महती स्तुतिः
त्यागादन्यत्र सीतायाः पुण्यश्लोकशिरोमणे ॥ ४७ ॥

मूलम्

कृतेषु तव सर्वेषु श्रूयते महती स्तुतिः
त्यागादन्यत्र सीतायाः पुण्यश्लोकशिरोमणे ॥ ४७ ॥

विश्वास-प्रस्तुतिः

त्वया त्रैलोक्यनाथेन गार्हस्थ्यमनुकुर्वता
अङ्गीकार्यौ सुतौ रामविद्याशीलगुणान्वितौ ॥ ४८ ॥

मूलम्

त्वया त्रैलोक्यनाथेन गार्हस्थ्यमनुकुर्वता
अङ्गीकार्यौ सुतौ रामविद्याशीलगुणान्वितौ ॥ ४८ ॥

विश्वास-प्रस्तुतिः

न तौ स्वां मातरं हित्वा स्थास्यतोऽभवदन्तिके
जनन्या सहितौ तस्मादाकार्यौ भवता सुतौ ॥ ४९ ॥

मूलम्

न तौ स्वां मातरं हित्वा स्थास्यतोऽभवदन्तिके
जनन्या सहितौ तस्मादाकार्यौ भवता सुतौ ॥ ४९ ॥

विश्वास-प्रस्तुतिः

दत्त एव तयेदानीं सेनासञ्जीवनात्पुनः
प्रत्ययः सर्वलोकानां पावनः पततामपि ॥ ५० ॥

मूलम्

दत्त एव तयेदानीं सेनासञ्जीवनात्पुनः
प्रत्ययः सर्वलोकानां पावनः पततामपि ॥ ५० ॥

विश्वास-प्रस्तुतिः

नाज्ञातं तेन चास्माकं नामराणां च मानद
शुद्धौ तस्यास्तु लोकानां यन्नष्टं तदिह ध्रुवम् ॥ ५१ ॥

मूलम्

नाज्ञातं तेन चास्माकं नामराणां च मानद
शुद्धौ तस्यास्तु लोकानां यन्नष्टं तदिह ध्रुवम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इति वाल्मीकिना रामः सर्वज्ञोऽप्यवबोधितः
स्तुत्वा नत्वा च वाल्मीकिं प्रत्युवाच स लक्ष्मणम् ॥ ५२ ॥

मूलम्

शेष उवाच
इति वाल्मीकिना रामः सर्वज्ञोऽप्यवबोधितः
स्तुत्वा नत्वा च वाल्मीकिं प्रत्युवाच स लक्ष्मणम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

गच्छ ताताधुना सीतामानेतुं धर्मचारिणीम्
सपुत्रां रथमास्थाय सुमन्त्रसहितः सखे ॥ ५३ ॥

मूलम्

गच्छ ताताधुना सीतामानेतुं धर्मचारिणीम्
सपुत्रां रथमास्थाय सुमन्त्रसहितः सखे ॥ ५३ ॥

विश्वास-प्रस्तुतिः

श्रावयित्वा ममेमानि मुनेश्च वचनान्यपि
सम्बोध्य च पुरीमेतां सीतां प्रत्यानयाशु ताम् ॥ ५४ ॥

मूलम्

श्रावयित्वा ममेमानि मुनेश्च वचनान्यपि
सम्बोध्य च पुरीमेतां सीतां प्रत्यानयाशु ताम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

लक्ष्मण उवाच
यास्यामि तव सन्देशात्सर्वेषां नः प्रभोर्विभो
देव्या यास्यति चेद्देव यात्रा मे सफला ततः ॥ ५५ ॥

मूलम्

लक्ष्मण उवाच
यास्यामि तव सन्देशात्सर्वेषां नः प्रभोर्विभो
देव्या यास्यति चेद्देव यात्रा मे सफला ततः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

मयि सामाभ्यसूयैव पूर्वदोषवशात्सती
अनागतायां तस्यां तु क्षमस्वागन्तुकं मम ॥ ५६ ॥

मूलम्

मयि सामाभ्यसूयैव पूर्वदोषवशात्सती
अनागतायां तस्यां तु क्षमस्वागन्तुकं मम ॥ ५६ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा लक्ष्मणो रामं रथे स्थित्वा नृपाज्ञया
सुमित्रमुनिशिष्याभ्यां युतोऽगाद्भूमिजाश्रमम् ॥ ५७ ॥

मूलम्

इत्युक्त्वा लक्ष्मणो रामं रथे स्थित्वा नृपाज्ञया
सुमित्रमुनिशिष्याभ्यां युतोऽगाद्भूमिजाश्रमम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

कथं प्रसादनीया स्यात्सीता भगवती मया
पूर्वदोषं विजानन्ती रामाधीनस्य मे सदा ॥ ५८ ॥

मूलम्

कथं प्रसादनीया स्यात्सीता भगवती मया
पूर्वदोषं विजानन्ती रामाधीनस्य मे सदा ॥ ५८ ॥

विश्वास-प्रस्तुतिः

एवं सञ्चिन्तयन्नन्तर्हर्षसङ्कोच मध्यगः
लक्ष्मणः प्राप सीताया आश्रमं श्रमनाशनम् ॥ ५९ ॥

मूलम्

एवं सञ्चिन्तयन्नन्तर्हर्षसङ्कोच मध्यगः
लक्ष्मणः प्राप सीताया आश्रमं श्रमनाशनम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

रथात्सोथावरुह्यारादश्रुरुद्धविलोचनः
आर्ये पूज्ये भगवति शुभे इति वदन्मुहुः ॥ ६० ॥

मूलम्

रथात्सोथावरुह्यारादश्रुरुद्धविलोचनः
आर्ये पूज्ये भगवति शुभे इति वदन्मुहुः ॥ ६० ॥

विश्वास-प्रस्तुतिः

पपात पादयोस्तस्या वेपमानाखिलाङ्गकः
उत्थापितस्तया देव्या प्रीतिविह्वलया स च ॥ ६१ ॥

मूलम्

पपात पादयोस्तस्या वेपमानाखिलाङ्गकः
उत्थापितस्तया देव्या प्रीतिविह्वलया स च ॥ ६१ ॥

विश्वास-प्रस्तुतिः

किमर्थमागतः सौम्य वनं मुनिजनप्रियम्
आस्ते स कुशली देवः कौसल्याशुक्तिमौक्तिकः ॥ ६२ ॥

मूलम्

किमर्थमागतः सौम्य वनं मुनिजनप्रियम्
आस्ते स कुशली देवः कौसल्याशुक्तिमौक्तिकः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

अरोषो मयि कश्चित्स कीर्त्या केवलयादृतः
कीर्त्यते सर्वलोकैश्च कल्याणगुणसागरः ॥ ६३ ॥

मूलम्

अरोषो मयि कश्चित्स कीर्त्या केवलयादृतः
कीर्त्यते सर्वलोकैश्च कल्याणगुणसागरः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

अकीर्तिभीतिमापन्नस्त्यक्तुं मां त्वां नियुक्तवान्
यदि ततश्च लोकेषु कीर्तिस्तस्यामलाभवत् ॥ ६४ ॥

मूलम्

अकीर्तिभीतिमापन्नस्त्यक्तुं मां त्वां नियुक्तवान्
यदि ततश्च लोकेषु कीर्तिस्तस्यामलाभवत् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

मृत्वापि पतिसत्कीर्तिं कुर्वन्त्या मे हि सुस्थिरा
पतिसामीप्यमेवाशु भूयादेव हि देवर ॥ ६५ ॥

मूलम्

मृत्वापि पतिसत्कीर्तिं कुर्वन्त्या मे हि सुस्थिरा
पतिसामीप्यमेवाशु भूयादेव हि देवर ॥ ६५ ॥

विश्वास-प्रस्तुतिः

त्यक्तयापि मया तेन नासौ त्यक्तो मनागपि
फलं हि साधनायत्तं हेतुः फलवशो न तु ॥ ६६ ॥

मूलम्

त्यक्तयापि मया तेन नासौ त्यक्तो मनागपि
फलं हि साधनायत्तं हेतुः फलवशो न तु ॥ ६६ ॥

विश्वास-प्रस्तुतिः

कौसल्याशल्यशून्यासौ कृपापूर्णा सदा मयि
आस्ते कुशलिनी यस्याः पुत्रस्त्रैलोक्यपालकः ॥ ६७ ॥

मूलम्

कौसल्याशल्यशून्यासौ कृपापूर्णा सदा मयि
आस्ते कुशलिनी यस्याः पुत्रस्त्रैलोक्यपालकः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

सर्वे कुशलिनः सन्ति भरताद्याश्च बान्धवाः
सुमित्रा च महाभागा यस्याः प्राणादहं प्रिया ॥ ६८ ॥

मूलम्

सर्वे कुशलिनः सन्ति भरताद्याश्च बान्धवाः
सुमित्रा च महाभागा यस्याः प्राणादहं प्रिया ॥ ६८ ॥

विश्वास-प्रस्तुतिः

मद्वत्किं त्वमपि त्यक्तः सर्वलोकेषु कीर्तये
राज्ञः किं दुस्त्यजं तस्य स्वात्मापि यस्य न प्रियः ॥ ६९ ॥

मूलम्

मद्वत्किं त्वमपि त्यक्तः सर्वलोकेषु कीर्तये
राज्ञः किं दुस्त्यजं तस्य स्वात्मापि यस्य न प्रियः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

इत्येवं बहुधा पृष्टस्तया रामानुजः सताम्
उवाच कुशली देवः कुशलं त्वयि पृच्छति ॥ ७० ॥

मूलम्

इत्येवं बहुधा पृष्टस्तया रामानुजः सताम्
उवाच कुशली देवः कुशलं त्वयि पृच्छति ॥ ७० ॥

विश्वास-प्रस्तुतिः

कौसल्या च सुमित्रा च याश्चान्या राजयोषितः
पप्रच्छुः कुशलं देवि प्रीत्या त्वामाशिषा सह ॥ ७१ ॥

मूलम्

कौसल्या च सुमित्रा च याश्चान्या राजयोषितः
पप्रच्छुः कुशलं देवि प्रीत्या त्वामाशिषा सह ॥ ७१ ॥

विश्वास-प्रस्तुतिः

कुशलप्रश्नपूर्वं हि तव पादाभिवन्दनम्
निवेदयामि शत्रुघ्न भरताभ्यां कृतं शुभे ॥ ७२ ॥

मूलम्

कुशलप्रश्नपूर्वं हि तव पादाभिवन्दनम्
निवेदयामि शत्रुघ्न भरताभ्यां कृतं शुभे ॥ ७२ ॥

विश्वास-प्रस्तुतिः

गुरुभिर्गुरुपत्नीभिः सर्वाभिरपि ते शुभे
दत्ताशीः कुशलप्रश्नः कृतश्च त्वयि जानकि ॥ ७३ ॥

मूलम्

गुरुभिर्गुरुपत्नीभिः सर्वाभिरपि ते शुभे
दत्ताशीः कुशलप्रश्नः कृतश्च त्वयि जानकि ॥ ७३ ॥

विश्वास-प्रस्तुतिः

आकारयति देवस्त्वां निर्व्यलीकेन चात्मवान्
अलभ्यान्यरतिस्त्वत्तोऽन्यत्र सर्वत्र भामिनि ॥ ७४ ॥

मूलम्

आकारयति देवस्त्वां निर्व्यलीकेन चात्मवान्
अलभ्यान्यरतिस्त्वत्तोऽन्यत्र सर्वत्र भामिनि ॥ ७४ ॥

विश्वास-प्रस्तुतिः

शून्या एव दिशः सर्वास्त्वां विना जनकात्मजे
पश्यन्रोदिति नाथो नो रोदयन्नितरानपि ॥ ७५ ॥

मूलम्

शून्या एव दिशः सर्वास्त्वां विना जनकात्मजे
पश्यन्रोदिति नाथो नो रोदयन्नितरानपि ॥ ७५ ॥

विश्वास-प्रस्तुतिः

यत्र देवि स्थितासि त्वं नित्यं स्मरति राघवः
अशून्यं तु तमेवासौ मन्यमानो विदेहजे ॥ ७६ ॥

मूलम्

यत्र देवि स्थितासि त्वं नित्यं स्मरति राघवः
अशून्यं तु तमेवासौ मन्यमानो विदेहजे ॥ ७६ ॥

विश्वास-प्रस्तुतिः

धन्योऽयमाश्रमो जातो वाल्मीकेर्यत्र जानकी
कालं क्षपति वार्ताभिर्मदीयाभिर्वदन्निति ॥ ७७ ॥

मूलम्

धन्योऽयमाश्रमो जातो वाल्मीकेर्यत्र जानकी
कालं क्षपति वार्ताभिर्मदीयाभिर्वदन्निति ॥ ७७ ॥

विश्वास-प्रस्तुतिः

उक्तवान्यद्रुदन्किञ्चित्स्वामी नस्त्वयि तच्छृणु
व्यक्तीभवति वक्तुर्यद्धृद्गतं तदसंशयम् ॥ ७८ ॥

मूलम्

उक्तवान्यद्रुदन्किञ्चित्स्वामी नस्त्वयि तच्छृणु
व्यक्तीभवति वक्तुर्यद्धृद्गतं तदसंशयम् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

लोका वदन्ति मामेव सर्वेषामीश्वरेश्वरम्
अहं त्वदृष्टमेवैषां स्वतन्त्रं कारणं ब्रुवे ॥ ७९ ॥

मूलम्

लोका वदन्ति मामेव सर्वेषामीश्वरेश्वरम्
अहं त्वदृष्टमेवैषां स्वतन्त्रं कारणं ब्रुवे ॥ ७९ ॥

विश्वास-प्रस्तुतिः

अदृष्टमेव कार्येषु सर्वेशोऽप्यनुगच्छति
ईशनीयाः कुतो नैतदन्वीयुः सुखदुःखयोः ॥ ८० ॥

मूलम्

अदृष्टमेव कार्येषु सर्वेशोऽप्यनुगच्छति
ईशनीयाः कुतो नैतदन्वीयुः सुखदुःखयोः ॥ ८० ॥

विश्वास-प्रस्तुतिः

धनुर्भङ्गे मतिभ्रंशे कैकय्या मरणे पितुः
अरण्यगमने तत्र हरणे तव वारिधेः ॥ ८१ ॥

मूलम्

धनुर्भङ्गे मतिभ्रंशे कैकय्या मरणे पितुः
अरण्यगमने तत्र हरणे तव वारिधेः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

तरणे रक्षसां भर्तुर्मारणेऽपि रणेरणे
सहायीभवने मह्यमृक्षवानररक्षसाम् ॥ ८२ ॥

मूलम्

तरणे रक्षसां भर्तुर्मारणेऽपि रणेरणे
सहायीभवने मह्यमृक्षवानररक्षसाम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

लाभे तव प्रतिज्ञायाः सत्यत्वे च सतीमणे
पुनः स्वबन्धुसम्बन्धे राज्यप्राप्तौ च भामिनि ॥ ८३ ॥

मूलम्

लाभे तव प्रतिज्ञायाः सत्यत्वे च सतीमणे
पुनः स्वबन्धुसम्बन्धे राज्यप्राप्तौ च भामिनि ॥ ८३ ॥

विश्वास-प्रस्तुतिः

पुनः प्रियावियोगे च कारणं यदवारणम्
प्रसीदति तदेवाद्य संयोगे पुनरावयोः ॥ ८४ ॥

मूलम्

पुनः प्रियावियोगे च कारणं यदवारणम्
प्रसीदति तदेवाद्य संयोगे पुनरावयोः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

वेदोऽन्यथा कृतो येन लोकोत्पत्ति लयौ यतः
लोकाननुगतस्तस्मात्कारणं प्रथमं त्वहम् ॥ ८५ ॥

मूलम्

वेदोऽन्यथा कृतो येन लोकोत्पत्ति लयौ यतः
लोकाननुगतस्तस्मात्कारणं प्रथमं त्वहम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

अदृष्टमनुवर्तन्ते लोकाः सम्प्रतिबोधकाः
भोगेन जीर्यतेऽदृष्टं तत्तद्भुक्तं त्वया वने ॥ ८६ ॥

मूलम्

अदृष्टमनुवर्तन्ते लोकाः सम्प्रतिबोधकाः
भोगेन जीर्यतेऽदृष्टं तत्तद्भुक्तं त्वया वने ॥ ८६ ॥

विश्वास-प्रस्तुतिः

स्नेहोऽकारणकः सीते वर्धमानो मम त्वयि
लोकादृष्टे तिरस्कृत्य त्वामाह्वयत आदरात् ॥ ८७ ॥

मूलम्

स्नेहोऽकारणकः सीते वर्धमानो मम त्वयि
लोकादृष्टे तिरस्कृत्य त्वामाह्वयत आदरात् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

शङ्कितेनापि दोषेण स्नेहनैर्मल्यमज्जनम्
भवतीति स वै शुद्ध आस्वाद्यो विबुधैः सदा ॥ ८८ ॥

मूलम्

शङ्कितेनापि दोषेण स्नेहनैर्मल्यमज्जनम्
भवतीति स वै शुद्ध आस्वाद्यो विबुधैः सदा ॥ ८८ ॥

विश्वास-प्रस्तुतिः

स्नेहशुद्धिरियं भद्रे कृता मे त्वयि नान्यथा
मन्तव्यं रक्षितोऽप्येष लोकः शिष्टानुवर्तिना ॥ ८९ ॥

मूलम्

स्नेहशुद्धिरियं भद्रे कृता मे त्वयि नान्यथा
मन्तव्यं रक्षितोऽप्येष लोकः शिष्टानुवर्तिना ॥ ८९ ॥

विश्वास-प्रस्तुतिः

आवयोर्निन्दया देवि सर्वावस्था सुशुद्धये
लोको नश्येद्धि सम्मूढश्चरितैर्महतामयम् ॥ ९० ॥

मूलम्

आवयोर्निन्दया देवि सर्वावस्था सुशुद्धये
लोको नश्येद्धि सम्मूढश्चरितैर्महतामयम् ॥ ९० ॥

विश्वास-प्रस्तुतिः

आवयोरुज्ज्वला कीर्तिरावयोरुज्ज्वलो रसः
आवयोरुज्ज्वलौ वंशावावयोरुज्ज्वलाः क्रियाः ॥ ९१ ॥

मूलम्

आवयोरुज्ज्वला कीर्तिरावयोरुज्ज्वलो रसः
आवयोरुज्ज्वलौ वंशावावयोरुज्ज्वलाः क्रियाः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

भवेयुरावयोः कीर्तिर्गायका उज्ज्वला भुवि
आवयोर्भक्तिमन्तो ये ते यान्त्यन्ते भवाम्बुधेः ॥ ९२ ॥

मूलम्

भवेयुरावयोः कीर्तिर्गायका उज्ज्वला भुवि
आवयोर्भक्तिमन्तो ये ते यान्त्यन्ते भवाम्बुधेः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

इत्युक्ता भवती तेन प्रीयमाणेन ते गुणैः
पत्युः पादाम्बुजे द्रष्टुं करोतु सदयं मनः ॥ ९३ ॥

मूलम्

इत्युक्ता भवती तेन प्रीयमाणेन ते गुणैः
पत्युः पादाम्बुजे द्रष्टुं करोतु सदयं मनः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

वासांसि रमणीयानि भूषणानि महान्ति च
अङ्गरागस्तथा गन्धा मनोज्ञास्त्वयि योजिताः ॥ ९४ ॥

मूलम्

वासांसि रमणीयानि भूषणानि महान्ति च
अङ्गरागस्तथा गन्धा मनोज्ञास्त्वयि योजिताः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

रथो दास्यश्च रामेण प्रेषिता उत्सवायते
छत्रं च चामरे शुभ्रे गजा अश्वाश्च शोभने ॥ ९५ ॥

मूलम्

रथो दास्यश्च रामेण प्रेषिता उत्सवायते
छत्रं च चामरे शुभ्रे गजा अश्वाश्च शोभने ॥ ९५ ॥

विश्वास-प्रस्तुतिः

स्तूयमाना द्विजश्रेष्ठैः सूतमागधबन्दिभिः
वन्द्यमाना पुरस्त्रीभिः सेव्यमाना च योद्धृभिः ॥ ९६ ॥

मूलम्

स्तूयमाना द्विजश्रेष्ठैः सूतमागधबन्दिभिः
वन्द्यमाना पुरस्त्रीभिः सेव्यमाना च योद्धृभिः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

पुष्पैः सञ्छाद्यमाना च देवीदेवाङ्गनादिभिः
धनानि ददती तेभ्यो द्विजातिभ्यो यथेप्सितम् ॥ ९७ ॥

मूलम्

पुष्पैः सञ्छाद्यमाना च देवीदेवाङ्गनादिभिः
धनानि ददती तेभ्यो द्विजातिभ्यो यथेप्सितम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

गजारूढौ कुमारौ च पुरस्कृत्य जनेश्वरी
मयानुगम्यमाना च गच्छायोध्यां निजां पुरीम् ॥ ९८ ॥

मूलम्

गजारूढौ कुमारौ च पुरस्कृत्य जनेश्वरी
मयानुगम्यमाना च गच्छायोध्यां निजां पुरीम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

त्वयि तत्र गतायां तु सङ्गतायां प्रियेण ते
सर्वासां राजनारीणामागतानां च सर्वशः ॥ ९९ ॥

मूलम्

त्वयि तत्र गतायां तु सङ्गतायां प्रियेण ते
सर्वासां राजनारीणामागतानां च सर्वशः ॥ ९९ ॥

सर्वासामृषिपत्नीनां कौसलानां तथैव च
मङ्गलैर्वाद्यगीताद्यैर्भवत्वद्य महोत्सवः १००
शेष उवाच-
इतिविज्ञापनां देवी श्रुत्वा सीता तमाह सा
नाहं कीर्तिकरी राज्ञो ह्यपकीर्तिः स्वयं त्वहम् १०१
किं मया तस्य साध्यं स्याद्धर्मकामार्थशून्यया
सत्येवं भवतां भूपे को विश्वासो निरङ्कुशे १०२
प्रत्यक्षा वा परोक्षा वा भर्तुर्दोषा मनःस्थिताः
न वाच्या जातु मादृश्या कल्याणकुलजातया १०३
पाणिग्रहणकाले मे यद्रूपो हृदये स्थितः
तद्रूपो हृदयान्नासौ कदाचिदपसर्पति १०४
लक्ष्मणेमौ कुमारौ मे तत्तेजोंशसमुद्भवौ
वंशाङ्कुरौ महाशूरौ धनुर्विद्याविशारदौ १०५
नीत्वा पितुः समीपं तु लालनीयौ प्रयत्नतः
तपसाराधयिष्यामि रामं काममिह स्थिता १०६
वाच्यं त्वया महाभाग पूज्यपादाभिवन्दनम्
सर्वेभ्यः कुशलं चापि गत्वेतो मदपेक्षया १०७
पुत्रौ समादिशत्सीता गच्छतं पितुरन्तिकम्
शुश्रूषणीय एवासौ भवद्भ्यां स्वपदप्रदः १०८
आज्ञप्तावप्यनिच्छन्तौ तौ कुमारौ कुशीलवौ
वाल्मीकिवचनात्तत्र जग्मतुश्च सलक्ष्मणौ १०९
वाल्मीकेरेव पादाब्जसमीपं तत्सुतौ गतौ
लक्ष्मणोऽपि ववन्दे तं गत्वा बालकसंयुतः ११०
वाल्मीकिर्लक्ष्मणस्तौ तु कुमारौ मिलिता अमी
सभायां संस्थितं रामं ज्ञात्वा ते जग्मुरुत्सुकाः १११
लक्ष्मणः प्रणिपत्याथ सीतावाक्यादिसर्वशः
कथयामास रामाय हर्षशोकयुतः सुधीः ११२
सीतासन्देशवाक्येभ्यो रामो मूर्च्छां समन्वभूत्
सञ्ज्ञामवाप्य चोवाच लक्ष्मणं नयकोविदम् ११३
गच्छ मित्र पुनस्तत्र यत्नेन महता च ताम्
शीघ्रमानय भद्रं ते मद्वाक्यानि निवेद्य च ११४
अरण्ये किं तपस्यन्त्या गतिरन्या विचिन्तिता
श्रुता दृष्टाथ वा मत्तो यन्नागच्छसि जानकि ११५
त्वदिच्छया त्वमेवेतो गतारण्यं मुनिप्रियम्
पूजिता मुनिपत्न्यस्ता दृष्टा मुनिगणास्त्वया ११६
पूर्णो मनोरथस्तेऽद्य किं नागच्छसि भामिनि
न दोषं मयि पश्येस्त्वं स्वात्मेच्छाया विलोकनात् ११७
गत्वा गत्वाथ वामोरु पतिरेव गतिः स्त्रियाः
निर्गुणोपि गुणाम्भोधिः किम्पुनर्मनसेप्सितः ११८
याया क्रियाकुलस्त्रीणां सासा पत्युः प्रतुष्टये
पूर्वमेवप्रतुष्टोऽहमिदानीं सुतरां त्वयि ११९
यागो जपस्तपोदानं व्रतं तीर्थं दयादिकम्
देवाश्च मयि सन्तुष्टे तुष्टमेतदसंशयम् १२०
शेष उवाच-
इति सन्देशमादाय सीतां प्रति जगत्पतेः
आह लक्ष्मण आत्मेशमानतः प्रणयाद्धरौ १२१
सीतानयनमुद्दिश्य प्रसन्नस्त्वं यदूचिवान्
कथयिष्यामि तद्वाक्यं विनयेन समन्वितम् १२२
इत्युक्त्वा पादयोर्नत्वा रघुनाथस्य लक्ष्मणः
जगाम त्वरितः सीतां रथे तिष्ठन्महाजवे १२३
वाल्मीकिः श्रीयुतौ वीक्ष्य रामपुत्रौ महौजसौ
उवाच स्मितमाधाय मुखं कृत्वा मनोहरम् १२४
युवां प्रगायतां पुत्रौ रामचारित्रमद्भुतम्
वीणां प्रवादयन्तौ च कलगानेन शोभितम् १२५
इत्यक्तौ तौ सुतौ रामचारित्रं बहुपुण्यदम्
अगायतां महाभागौ सुवाक्यपदचित्रितम् १२६
यस्मिन्धर्मविधिः साक्षात्पातिव्रत्यं तु यत्स्थितम्
भ्रातृस्नेहो महान्यत्र गुरुभक्तिस्तथैव च १२७
स्वामिसेवकयोर्यत्र नीतिर्मूर्तिमती किल
अधर्मकरशास्तिं वै यत्र साक्षाद्रघूद्वहात् १२८
तद्गानेन जगद्व्याप्तं दिवि देवा अपि स्थिताः
किन्नरा अपि यद्गानं श्रुत्वा मूर्च्छामिताः क्षणात् १२९
वीणायारणितं श्रुत्वा तालमानेन शोभितम्
निखिला परिषत्तत्र शालभं जीवचित्रिता १३०
हर्षादश्रूणिमुञ्चन्तो रामाद्या भूमिपास्तथा
तद्गानपञ्चमालापमोहिताश्चित्रितोपमाः १३१
तत्र रामः सुतौ दृष्ट्वा महागानविमोहकौ
अदात्ताभ्यां सुवर्णस्य लक्षं लक्षं पृथक्पृथक् १३२
तदा दानपरं दृष्ट्वा वाल्मीकिं मुनिसत्तमम्
अब्रूतां प्रहसन्तौ तौ किञ्चिद्वक्रभ्रुवौ ततः १३३
मुने महानयोनेन क्रियते भूमिपेन वै
यदावाभ्यां सुवर्णानि दातुमिच्छति लोभयन् १३४
प्रतिग्रहो ब्राह्मणानां शस्यते नेतरेषु वै
प्रतिग्रहपरो राजा नरकायैव कल्पते १३५
आवयोः कृपया मुक्तं राज्यं भुङ्क्ते महीपतिः
कथं दातुं सुवर्णानि वाञ्छति श्रेयसाञ्चितः १३६
इत्युक्तवन्तौ तौ दृष्ट्वा वाल्मीकिः कृपयायुतः
अशंसद्युष्मत्पितरं जानीथां नीतिवित्तमौ १३७
इति श्रुत्वा मुनेर्वाक्यं बालकौ नृपपादयोः
लग्नौ विनयसंयुक्तौ मातृभक्त्यातिनिर्मलौ १३८
रामो बालौ दृढं स्वाङ्गे परिरभ्य मुदान्वितः
मेने स्त्रियास्तदा धर्मौ मूर्तिमन्तावुपस्थितौ १३९
सभापि रामसुतयोर्वीक्ष्य वक्त्रे मनोरमे
जानकीपतिभक्तित्वं सत्यं मेने मुनीश्वर १४०
इति शेषमुखप्रोक्तं श्रुत्वा वात्स्यायनोऽब्रवीत्
रामायणं श्रोतुमनाः सर्वधर्मसमन्वितम् १४१
वात्स्यायन उवाच
कस्मिन्काले कृतं स्वामिन्रामायणमिदं महत्
कस्माच्चकार किन्तत्र वर्णनं तद्वदस्व मे १४२
शेष उवाच-
एकदा गतवान्विप्रो वाल्मीकिर्विपिनं महत्
यत्र तालास्तमालाश्च किंशुका यत्र पुष्पिताः १४३
केतकी यत्र रजसा कुर्वती सौरभं वनम्
शशिप्रभेव महती दृश्यते शुभ्रकर्णभृत्
चम्पकोबकुलश्चापि कोविदारः कुरण्टकः १४४
अनेके पुष्पिता यत्र पादपाः शोभने वने
कोकिलानां विरावेण षट्पदानां च शब्दितैः १४५
सङ्घुष्टं सर्वतो रम्यं मनोहरवयोन्वितम्
तत्र क्रौञ्चयुगं रम्यं कामबाणप्रपीडितम् १४६
परस्परं प्रहृषितं रेमे स्निग्धतया स्थितम्
तदा व्याधः समागत्य तयोरेकं मनोहरम् १४७
अवधीन्निर्दयः कश्चिन्मांसास्वादनलोलुपः
तदा क्रौञ्ची व्याधहतं स्वपतिं वीक्ष्य दुःखिता १४८
विललाप भृशं दुःखान्मुञ्चन्ती रावमुच्चकैः
तदा मुनिः प्रकुपितो निषादं क्रौञ्चघातकम् १४९
शशाप वार्युपस्पृश्य सरितः पावनं शुभम्
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः १५०
यत्क्रौञ्चपक्षिणोरेकमवधीः काममोहितम्
तदा प्रबन्धं श्लोकस्य जातं मत्वा ह्यनुद्विजाः १५१
ऊचुर्मुनिं प्रहृष्टास्ते शंसन्तः साधुसाध्विति
स्वामिञ्छापोदिते वाक्ये भारतीश्लोकमातनोत् १५२
अत्यन्तं मोहनो जातः श्लोकोऽयं मुनिसत्तम
तदा मुनिः प्रहृष्टात्मा बभूव वाडवर्षभ
तस्मिन्काले समागत्य ब्रह्मा पुत्रैः समन्वितः १५३
वचो जगाद वाल्मीकिं धन्योसि त्वं मुनीश्वर
भारती त्वन्मुखे स्थित्वा श्लोकत्वं समपद्यत १५४
तस्माद्रामायणं रम्यं कुरुष्व मधुराक्षरम्
येन ते विमला कीर्तिराकल्पान्तं भविष्यति १५५
धन्या सैव मुखे वाणी रामनाम्ना समन्विता
अन्या कामकथा नॄणां जनयत्येव पातकम् १५६
तस्मात्कुरुष्व रामस्य चरितं लोकविश्रुतम्
येन स्यात्पापिनां पापहानिरेव पदेपदे १५७
इत्युक्त्वान्तर्दधे स्रष्टा सर्वदेवैः समन्वितः
ततः सचिन्तयामास कथं रामायणं भवेत् १५८
तदा ध्यानपरो जातो नदीतीरे मनोरमे
तस्य चेतस्यथो रामः प्रादुर्भूतो मनोहरः १५९
नीलोत्पलदलश्यामं रामं राजीवलोचनम्
निरीक्ष्य तस्य चरितं भूतम्भाविभवच्च यत् १६०
तदात्यन्तं मुदं प्राप्तो रामायणमथासृजत्
मनोरमपदैर्युक्तं वृत्तैर्बहुविधैरपि १६१
षट्काण्डानि सुरम्याणि यत्र रामायणेऽनघ
बालमारण्यकं चान्यत्किष्किन्धा सुन्दरं तथा १६२
युद्धमुत्तरमन्यच्च षडेतानि महामते
शृणुयाद्यो नरः पुण्यात्सर्वपापैः प्रमुच्यते १६३
तत्र बाले तु सन्तुष्टः पुत्रेष्ट्या चतुरस्सुतान्
प्राप पङ्क्तिरथः साक्षाद्धरिं ब्रह्मसनातनम् १६४
स कौशिकमखं गत्वा सीतामुद्वाह्य भार्गवम्
आगत्य पुरमुत्कृष्टो यौवराज्यप्रकल्पनम् १६५
मातृवाक्याद्वनं प्रागाद्गङ्गामुत्तीर्य पर्वतम्
चित्रकूटं महिलया लक्ष्मणेन समन्वितः १६६
भरतस्तं वने श्रुत्वा जगाम भ्रातरं नयी
तमप्राप्य स्वयं नन्दिग्रामे वासमचीकरत् १६७
बालमेतच्छृणुष्वान्यदारण्यकसमुद्भवम्
मुनीनामाश्रमे वासस्तत्र तत्रोपवर्णनम् १६८
नासाच्छेदः शूर्पणख्याः खरदूषणनाशनम्
मायामारीचहननं दैत्याद्रामापहारणम् १६९
वने विरहिणा भ्रान्तं मनुष्यचरितं भृतम्
कबन्धप्रेक्षणं तत्र पम्पायां गमनं तथा १७०
हनूमता सङ्गमनमित्येतद्वनसञ्ज्ञितम्
अपरं च शृणु मुने सङ्क्षिप्य कथयाम्यहम् १७१
सप्ततालप्रभेदश्च वालेर्मारणमद्भुतम्
सुग्रीवे राज्यदानं च नगवर्णनमित्युत १७२
लक्ष्मणात्कर्मसन्देशः सुग्रीवस्य विवासनम्
तथा सैन्यसमुद्देशः सीतान्वेषणमप्युत १७३
सम्पातिप्रेक्षणं तत्र वारिधेर्लङ्घनं तथा
परतीरे कपिप्राप्तिः कैष्किन्धं काण्डमद्भुतम् १७४
सुन्दरं शृणु काण्डं वै यत्र रामकथाद्भुता
प्रतिगेहे प्रति भ्रान्तिः कपेश्चित्रस्य दर्शनम् १७५
सीतासन्दर्शनं तत्र जानक्याभाषणं तथा
वनभङ्गः प्रकुपितैर्बन्धनं वानरस्य च १७६
ततो लङ्काप्रज्वलनं वानरैः सङ्गतिस्ततः
रामाभिज्ञानदानं च सैन्यप्रस्थानमेव च १७७
समुद्रे सेतुकरणं शुकसारणसङ्गतिः
इति सुन्दरमाख्यातं युद्धे सीतासमागमः १७८
उत्तरे ऋषिसंवादो यज्ञप्रारम्भ एव च
तत्रानेका रामकथाः शृण्वतां पापनाशकाः १७९
इति षट्काण्डमाख्यातं ब्रह्महत्यापनोदनम्
सङ्क्षेपतो मया तुभ्यमाख्यातं सुमनोहरम् १८०
चतुर्विंशतिसाहस्रं षट्काण्डपरिचिह्नितम्
तद्वै रामायणं प्रोक्तं महापातकनाशनम् १८१
तच्छ्रुत्वा राघवः प्रीतः पुत्रावाधाय चासने
दृढं तौ परिरभ्याथ सीतां सस्मार वल्लभाम् १८२
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
रामायणगानन्नाम षट्षष्टितमोऽध्यायः ६६