शेष उवाच
विश्वास-प्रस्तुतिः
क्षणान्मूर्च्छां जहौ वीरः शत्रुघ्नः समराङ्गणे
अन्येऽपि वीराबलिनो मूर्च्छां प्राप्ताः सुजीविताः ॥ १ ॥
मूलम्

शत्रुघ्नो वाजिनां श्रेष्ठं ददर्श पुरतः स्थितम्
आत्मानं च शिरस्त्राणरहितं सैन्यजीवितम् ॥ २ ॥

वीक्ष्य चित्रमिदं स्वान्ते चकारच जगाद ह
सुमतिं मन्त्रिणां श्रेष्ठं मूर्च्छाविरहितं तदा ॥ ३ ॥

कृपां कृत्वा हयं प्रादाद्बालो यज्ञस्य पूर्तये
गच्छाम रामं तरसा हयागमनकाङ्क्षिणम् ॥ ४ ॥

इत्युक्त्वा स रथे स्थित्वा हयमादाय वेगतः
ययौ तदाश्रमाद्दूरं भेरीशङ्खविवर्जितः ॥ ५ ॥

तत्पृष्ठतो महासैन्यं चतुरङ्गसमन्वितम्
चचाल कुर्वन्सम्भग्नं स्वभारेण फणीश्वरम् ॥ ६ ॥

जवेन जाह्नवीं तीर्त्वा कल्लोलजलशालिनीम्
जगाम विषये स्वीये स्वकीयजनशोभिते ॥ ७ ॥
मूलम्
जवेन जाह्नवीं तीर्त्वा कल्लोलजलशालिनीम्
जगाम विषये स्वीये स्वकीयजनशोभिते ॥ ७ ॥
विश्वास-प्रस्तुतिः
पुष्कलेन युतो राजा सुरथेन समन्वितः
रथे मणिमये तिष्ठन्महत्कोदण्डधारकः ॥ ८ ॥
मूलम्
पुष्कलेन युतो राजा सुरथेन समन्वितः
रथे मणिमये तिष्ठन्महत्कोदण्डधारकः ॥ ८ ॥
विश्वास-प्रस्तुतिः
हयं तं पुरतः कृत्वा रत्नमालाविभूषितम्
श्वेतातपत्रं तस्यैव मूर्ध्नि चामरभूषितम् ॥ ९ ॥

अनेकरथसाहस्रैः परितो बलिभिर्नृपैः
उद्यत्कोदण्डललितैर्वीरनादविभूषितैः ॥ १० ॥

क्रमेण नगरीं प्राप सूर्यवंशविभूषिताम्
अनेकैः केतुभिः श्रेष्ठैर्भूषितां दुर्गराजिताम् ॥ ११ ॥

रामः श्रुत्वा हयं प्राप्तं शत्रुघ्नेन सहामुना
पुष्कलेन च वीरेण ययौ हर्षमनेकधा ॥ १२ ॥

कटकं निर्दिदेशासौ चतुरङ्गं महाबलम्
लक्ष्मणं प्रेषयामास भ्रातरं बलिनां वरम् ॥ १३ ॥

लक्ष्मणः सैन्यसहितो गत्वा भ्रातरमागतम्
परिरेभे मुदाक्रान्तः क्षतशोभितगात्रकम् ॥ १४ ॥

सर्वत्र कुशलं पृष्टो वार्तां चात्र चकार सः
परमं हर्षमापन्नः शत्रुघ्नः सङ्गतो मुदा ॥ १५ ॥

सौमित्रिः स्वरथे स्थित्वा भ्रात्रा सह महामनाः
सैन्येन महता वीरो ययौ स्वनगरीं प्रति ॥ १६ ॥

सरयूः पुण्यसलिला पवित्रित जगत्त्रया
रामपादरजः पूता शरच्चन्द्रसमप्रभा ॥ १७ ॥
मूलम्
सरयूः पुण्यसलिला पवित्रित जगत्त्रया
रामपादरजः पूता शरच्चन्द्रसमप्रभा ॥ १७ ॥
विश्वास-प्रस्तुतिः
हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता
विचित्रतरवर्णैश्च पक्षिभिर्नादिता भृशम् ॥ १८ ॥

मण्डपास्तत्र बहुशो रामचन्द्रेणकारिताः
ब्राह्मणानां वेदविदां पृथक्पाठनिनादकाः ॥ १९ ॥

क्षत्रियास्तत्र बहवो धनुःपाणि सुशोभिताः
ज्याटङ्कारेण बहुना नादयन्तो महीतलम् ॥ २० ॥

भुञ्जते ब्राह्मणा यत्र विचित्रान्नैर्मनोहरैः
परस्परं प्रपश्यन्तो वार्तां चक्रुर्मनोहराम् ॥ २१ ॥

पायसान्नानि शुभ्राणि चन्द्रकान्तिसमानि च
क्षीराज्यबहुयुक्तानि शर्करामिश्रितानि च ॥ २२ ॥

अपूपास्तत्र बहुलाश्चन्द्रबिम्बसमाः श्रिया
कर्पूरादिसुगन्धेन वासिताः सुमनोहराः ॥ २३ ॥

फेनिकाघटकाः स्निग्धाः शतच्छिद्रा विरन्ध्रकाः
शष्कुल्यो मण्डकामृष्टा मधुरान्नसमन्विताः ॥ २४ ॥

भक्तं कुमुदसङ्काशं मुद्गदालिविमिश्रितम्
सुगन्धेन समायुक्तमत्यन्तं प्रीतिदायकम् ॥ २५ ॥

ओदनो दधिना युक्तो भीमसेनसमन्वितः
स्वादुपाककरैः सृष्टः पात्रे मुक्तः प्रवेषकैः ॥ २६ ॥

तत्र केचिद्द्विजाः पात्रे निक्षिप्तं वीक्ष्य पायसम्
परस्परं ते प्रत्यूचुः किमिदं दृश्यतेऽद्भुतम् ॥ २७ ॥

किं चन्द्रबिम्बं नभसः पतितं तमसो भयात्
अमृतं तु भवत्यत्र मृत्युनाशकमद्भुतम् ॥ २८ ॥

तच्छ्रुत्वा रोषताम्राक्षः प्रोवाचान्यो द्विजोत्तमः
नभवत्येव चन्द्रस्य बिम्बं त्वमृतविप्लुतम् ॥ २९ ॥

एकमिन्दोर्वपुस्त्वेतद्दृश्यते सदृशं कथम्
ब्राह्मणानां सहस्रस्य पात्रे पात्रे पृथक्पृथक् ॥ ३० ॥

ततो जानीहि कुमुदं कर्पूरं वा भविष्यति
मा जानीहि मृगाङ्कस्य बिम्बं शुभ्रश्रियान्वितम् ॥ ३१ ॥

तावदन्यो रुषाक्रान्तो धुन्वन्स्वं मस्तकं तथा
न जानन्ति द्विजा मूढाः स्वादुज्ञाना विचक्षणाः ॥ ३२ ॥

इदं तु क्षौद्रकन्दस्यरसेन परिपाचितम्
जानीहि शतपत्रस्य पुष्पाणि मधुराणि च ॥ ३३ ॥

एवं परस्परं विप्राः कन्दमूलफलाशिनः
तर्कयन्ति मुने प्रीता रसज्ञानेऽतिलोलुपाः ॥ ३४ ॥

तावदन्यो द्विजः प्राह क्षत्त्रियाणां वरं जनुः
भोक्ष्यन्ते तादृशं त्वन्नं महत्पुण्यैरुपस्कृतम् ॥ ३५ ॥

तदा तं प्राब्रवीद्विप्रो दत्तस्य फलमीदृशम्
ये ददत्यग्रजन्मभ्यः प्राप्नुवन्ति त ईप्सितम् ॥ ३६ ॥

यैरर्चितो नैव हरिर्नैवेद्यैर्विविधैर्मुहुः
तेषामेतादृशं भोज्यं न भवेदक्षिगोचरम् ॥ ३७ ॥

यैर्नरैरग्रजन्मानो भोजिता विविधै रसैः
भुञ्जते ते स्वादुरसं पापिनां चक्षुरुज्झितम् ॥ ३८ ॥

एवंविधैरसैर्मिष्टैर्भोजिता द्विजसत्तमाः
मण्डपे विपठन्तस्ते शब्दब्रह्मविचक्षणाः ॥ ३९ ॥

नृत्यन्त्येके हसन्त्येके नदन्त्येके प्रहर्षिताः
उत्सवो बहुरुद्भाति तत्र शत्रुघ्न आगमत् ॥ ४० ॥

रामः शत्रुघ्नमायान्तं पुष्कलेन समन्वितम्
निरीक्ष्यमुदमुद्भूतां रक्षितुं नाशकत्तदा ॥ ४१ ॥

यावदुत्तिष्ठते रामो भ्रातरं हयपालकम्
तावद्रामपदेलग्नः शत्रुघ्नो भ्रातृवत्सलः ॥ ४२ ॥

पादयोः पतितं वीक्ष्य भ्रातरं विनयान्वितम्
परिरेभे दृढं प्रीतः क्षतसंशोभिताङ्गकम् ॥ ४३ ॥

अश्रूणि बहुधा मुञ्चन्हर्षाच्छिरसि राघवः
अत्यन्तं परमां प्राप मुदं वचनदूरगाम् ॥ ४४ ॥

पुष्कलं स्वीयपदयोर्नम्रं विनयविह्वलः
सुदृढं भुजयोर्मध्ये विनीयापीडयद्भृशम् ॥ ४५ ॥

हनूमन्तं तथा वीरं सुग्रीवं चाङ्गदं तथा
लक्ष्मीनिधिं जनकजं प्रतापाग्र्यं रिपुञ्जयम् ॥ ४६ ॥

सुबाहुं सुमदं वीरं विमलं नीलरत्नकम्
सत्यवन्तं वीरमणिं सुरथं रामसेवकम् ॥ ४७ ॥

अन्यानपि महाभागान्रघुनाथः स्वयं तदा
परिरेभे दृढं स्निग्धान्पादयोः प्रणतान्नृपान् ॥ ४८ ॥

सुमतिः श्रीरघुपतिं भक्तानुग्रहकारकम्
परिरभ्य दृढं प्रीतः सम्मुखे तिष्ठदुन्नतः ॥ ४९ ॥

तदा रामो निजामात्यं वीक्ष्य सान्निध्यमागतम्
उवाच परमप्रीत्या मन्त्रिणं वदतां वरः ॥ ५० ॥

सुमते मन्त्रिणां श्रेष्ठ शंश मे वाग्मिनां वर
क एते भूमिपाः सर्वे कथमत्र समागताः ॥ ५१ ॥

कुत्रकुत्र हयः प्राप्तः केनकेन नियन्त्रितः
कथं वै मोचितो भ्रात्रा महाबलसुशालिना ॥ ५२ ॥

इत्युक्तो मन्त्रिणां श्रेष्ठः सुमतिः प्राह राघवम्
प्रहसन्मेघगम्भीर नादेन च सुबुद्धिमान् ॥ ५३ ॥

सुमतिरुवाच
सर्वज्ञस्य पुरस्तेऽद्य मया कथमुदीर्यते
पृच्छसि त्वं लोकरीत्या सर्वं जानासि सर्वदृक् ॥ ५४ ॥

तथापि तव निर्देशं शिरस्याधाय सर्वदा
ब्रवीमि तच्छृणुष्वाद्य सर्वराजशिरोमणे ॥ ५५ ॥

त्वत्प्रसादादहो स्वामिन्सर्वत्र जगतीतले
परिबभ्राम ते वाहो भालपत्रसुशोभितः ॥ ५६ ॥

न कश्चित्तं निजग्राह स्वनामबलदर्पितः
स्वं स्वं राज्यं समर्प्याथ प्रणेमुस्ते पदाम्बुजम् ॥ ५७ ॥

को वा रावण दैत्येन्द्र निहन्तुर्वाजिसत्तमम्
गृह्णाति विजयाकाङ्क्षी जरामरणवर्जितः ॥ ५८ ॥

अहिच्छत्रां गतस्तावत्तव वाजी मनोरमः
तद्राजा सुमदः श्रुत्वा हयं प्राप्तं तव प्रभो ॥ ५९ ॥

सपुत्रः प्रबलः सर्वसैन्येन बलिना वृतः
सर्वं समर्पयामास राज्यं निहतकण्टकम् ॥ ६० ॥

यो राजा जगतां नेत्रीं मातरं जगदम्बिकाम्
प्रसाद्य चिरमायुष्यं लेभे राज्यमकण्टकम् ॥ ६१ ॥

स एष त्वां प्रणमति सुमदः प्रभुसेवितम्
तं गृहाण कृपादृष्ट्या चिराद्दर्शनकाङ्क्षकम् ॥ ६२ ॥

ततः सुबाहुभूपस्य नगरे बलपूरिते
दमनस्तस्य वै पुत्रः प्रजग्राह हयोत्तमम् ॥ ६३ ॥

तेन साकं महद्युद्धं बभूव दमनेन च
पुष्कलो जयमापेदे सम्मूर्छ्य सुभुजात्मजम् ॥ ६४ ॥

ततः सुबाहुः सङ्क्रुद्धो रणे पवनजं बलात्
युयुधे तव पादाब्जसेवकं बलिनां वरम् ॥ ६५ ॥

तस्य पादाहतो ज्ञानं प्राप्य शापतिरस्कृतम्
तुभ्यं समर्प्य सकलं वाजिनः पालकोऽभवत् ॥ ६६ ॥

एष त्वां सुभुजो राजा प्रणमत्युन्नताङ्गकः
कृपादृष्ट्याभिषिञ्च त्वं सुबाहुं नयकोविदम् ॥ ६७ ॥

ततो मुक्तो हयो रेवाह्रदे स निममज्ज ह
तत्र प्राप्तं मोहनास्त्रं शत्रुघ्नेन बलीयसा ॥ ६८ ॥

ततो देवपुरे प्रागाच्छिववासविभूषिते
तत्रत्यं तु विजानासि यतस्त्वं तत्र चागतः ॥ ६९ ॥

विद्युन्माली हतो दैत्यः सत्यवान्सङ्गतस्ततः
सुरथेन समं युद्धं जानासि त्वं महामते ॥ ७० ॥

ततः कुण्डलकान्मुक्तो हयो बभ्राम सर्वतः
न कश्चित्तं निजग्राह स्ववीर्यबलदर्पितः ॥ ७१ ॥

वाल्मीकेराश्रमे रम्ये हयः प्राप्तो मनोरमः
तत्र यत्कुतुकं जातं तच्छृणुष्व नरोत्तम ॥ ७२ ॥

तत्रार्भस्तव सारूप्यं बिभ्रत्षोडशवार्षिकः
जग्राह वीक्ष्य पत्राङ्कं वाजिनं बलवत्तमः ॥ ७३ ॥

तत्र कालजिता युद्धं महज्जातं नरोत्तम
निहतस्तेन वीरेण शितधारेण हेतिना ॥ ७४ ॥
मूलम्
तत्र कालजिता युद्धं महज्जातं नरोत्तम
निहतस्तेन वीरेण शितधारेण हेतिना ॥ ७४ ॥
विश्वास-प्रस्तुतिः
अनेके निहताः सङ्ख्ये पुष्कलाद्या महाबलाः
मूर्च्छितं चापि शत्रुघ्नं चक्रे वीरशिरोमणिः ॥ ७५ ॥

तदा राजा महद्दुःखं विचार्य हृदिसंयुगे
कोपेन मूर्च्छितं चक्रे वीरो हि बलिनां वरः ॥ ७६ ॥

स यावन्मूर्च्छितो राज्ञा तावदन्यः समागतः
तेनैतेन च सञ्जीव्य नाशितं कटकं तव ॥ ७७ ॥

सर्वेषां मूर्च्छितानां तु शस्त्राण्याभरणानि च
गृहीत्वा वानरौ बद्धौ जग्मतुः स्वाश्रमं प्रति ॥ ७८ ॥

कृपां कृत्वा पुनस्तेन दत्तोऽश्वो यज्ञियो महान्
जीवनं प्रापितं सर्वं कटकं नष्टजीवितम् ॥ ७९ ॥

वयं गृहीत्वा तं वाहं प्राप्तास्तव समीपतः
एतदेव मया ज्ञातं तदुक्तं ते पुरोवचः ॥ ८० ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सुमतिनिवेदनन्नाम पञ्चषष्टितमोऽध्यायः ६५