शेष उवाच
विश्वास-प्रस्तुतिः
शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः
प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते ॥ १ ॥
मूलम्
शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः
प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते ॥ १ ॥
विश्वास-प्रस्तुतिः
पुष्कलस्तु रणे पूर्वं पातितः स विचारयन्
लवं ययौ तदा योद्धुं महावीरबलोन्नतम् ॥ २ ॥
मूलम्
पुष्कलस्तु रणे पूर्वं पातितः स विचारयन्
लवं ययौ तदा योद्धुं महावीरबलोन्नतम् ॥ २ ॥
विश्वास-प्रस्तुतिः
सुरथः कुशमासाद्य बाणान्मुञ्चन्ननेकधा
व्यथयामास समरे महावीरशिरोमणिः ॥ ३ ॥
मूलम्
सुरथः कुशमासाद्य बाणान्मुञ्चन्ननेकधा
व्यथयामास समरे महावीरशिरोमणिः ॥ ३ ॥
विश्वास-प्रस्तुतिः
सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः
धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम् ॥ ४ ॥
मूलम्
सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः
धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः
अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम् ॥ ५ ॥
मूलम्
अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः
अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
अत्यन्तं समरोद्युक्ते सुरथे दुर्जये नृपे
कुशः सञ्चिन्तयामास किङ्कर्तव्यं रणे मया ॥ ६ ॥
मूलम्
अत्यन्तं समरोद्युक्ते सुरथे दुर्जये नृपे
कुशः सञ्चिन्तयामास किङ्कर्तव्यं रणे मया ॥ ६ ॥
विश्वास-प्रस्तुतिः
विचार्य निशितं घोरं सायकं समुपाददे
हननाय नृपस्यास्य महाबलसमन्वितः ॥ ७ ॥
मूलम्
विचार्य निशितं घोरं सायकं समुपाददे
हननाय नृपस्यास्य महाबलसमन्वितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तमागतं शरं दृष्ट्वा कालानलसमप्रभम्
छेत्तुं मतिं चकाराशु तावल्लग्नो महाशरः ॥ ८ ॥
मूलम्
तमागतं शरं दृष्ट्वा कालानलसमप्रभम्
छेत्तुं मतिं चकाराशु तावल्लग्नो महाशरः ॥ ८ ॥
विश्वास-प्रस्तुतिः
मुमूर्च्छ समरे वीरो महावीरबलस्ततः
पपात स्यन्दनोपस्थे सारथिस्तमुपाहरत् ॥ ९ ॥
मूलम्
मुमूर्च्छ समरे वीरो महावीरबलस्ततः
पपात स्यन्दनोपस्थे सारथिस्तमुपाहरत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम्
त्रासयन्तं वीरगणानियाय पवनात्मजः ॥ १० ॥
मूलम्
सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम्
त्रासयन्तं वीरगणानियाय पवनात्मजः ॥ १० ॥
विश्वास-प्रस्तुतिः
समीरसूनुं प्रबलमायान्तं वीक्ष्य वानरम्
जहास दर्शयन्दन्तान्कोपयन्निव तं क्रुधा ॥ ११ ॥
मूलम्
समीरसूनुं प्रबलमायान्तं वीक्ष्य वानरम्
जहास दर्शयन्दन्तान्कोपयन्निव तं क्रुधा ॥ ११ ॥
विश्वास-प्रस्तुतिः
उवाच च हनूमन्तमेहि त्वं मम सम्मुखम्
भेत्स्ये बाणसहस्रेण मृतो यास्यसि यामिनीम् ॥ १२ ॥
मूलम्
उवाच च हनूमन्तमेहि त्वं मम सम्मुखम्
भेत्स्ये बाणसहस्रेण मृतो यास्यसि यामिनीम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
इत्युक्तो हनुमाञ्ज्ञात्वा रामसूनुं महाबलम्
स्वामिकार्यं प्रकर्तव्यमिति कृत्वा प्रधावितः ॥ १३ ॥
मूलम्
इत्युक्तो हनुमाञ्ज्ञात्वा रामसूनुं महाबलम्
स्वामिकार्यं प्रकर्तव्यमिति कृत्वा प्रधावितः ॥ १३ ॥
विश्वास-प्रस्तुतिः
शालमुत्पाट्य तरसा विशालं शतशाखिनम्
कुशं वक्षसि संलक्ष्य ययौ योद्धुं महाबलः ॥ १४ ॥
मूलम्
शालमुत्पाट्य तरसा विशालं शतशाखिनम्
कुशं वक्षसि संलक्ष्य ययौ योद्धुं महाबलः ॥ १४ ॥
विश्वास-प्रस्तुतिः
शालहस्तं समायान्तं हनूमन्तं महाबलम्
त्रिभिः क्षुरप्रैर्विव्याध हृदि चन्द्रोपमैर्बली ॥ १५ ॥
मूलम्
शालहस्तं समायान्तं हनूमन्तं महाबलम्
त्रिभिः क्षुरप्रैर्विव्याध हृदि चन्द्रोपमैर्बली ॥ १५ ॥
विश्वास-प्रस्तुतिः
स बाणविद्धस्तरसा कुशेन बलशालिना
शालेन हृदि सञ्जघ्ने दन्तान्निष्पिष्य मारुतिः ॥ १६ ॥
मूलम्
स बाणविद्धस्तरसा कुशेन बलशालिना
शालेन हृदि सञ्जघ्ने दन्तान्निष्पिष्य मारुतिः ॥ १६ ॥
विश्वास-प्रस्तुतिः
शालाहतस्तदा बालः किञ्चिन्नाकम्पत स्मयात्
तदा वीराः प्रशंसां तु प्रचक्रुस्तस्य बाल्यतः ॥ १७ ॥
मूलम्
शालाहतस्तदा बालः किञ्चिन्नाकम्पत स्मयात्
तदा वीराः प्रशंसां तु प्रचक्रुस्तस्य बाल्यतः ॥ १७ ॥
विश्वास-प्रस्तुतिः
स शालेन हतो वीरः संहारास्त्रं समाददे
संहन्तुं वैरिणं कोपात्कुशः स परमास्त्रवित् ॥ १८ ॥
मूलम्
स शालेन हतो वीरः संहारास्त्रं समाददे
संहन्तुं वैरिणं कोपात्कुशः स परमास्त्रवित् ॥ १८ ॥
विश्वास-प्रस्तुतिः
संहारास्त्रं समालोक्य दुर्जयं कुशमोचितम्
दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकम् ॥ १९ ॥
मूलम्
संहारास्त्रं समालोक्य दुर्जयं कुशमोचितम्
दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
तदा मुक्तं कुशेनाशु तदस्त्रं हृदि मारुतेः
लग्नं महाव्यथाकारि तेन मूर्च्छामितः पुनः ॥ २० ॥
मूलम्
तदा मुक्तं कुशेनाशु तदस्त्रं हृदि मारुतेः
लग्नं महाव्यथाकारि तेन मूर्च्छामितः पुनः ॥ २० ॥
विश्वास-प्रस्तुतिः
मूर्च्छां प्राप्तं तु तं दृष्ट्वा प्लवङ्गं बलसंयुतः
विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत् ॥ २१ ॥
मूलम्
मूर्च्छां प्राप्तं तु तं दृष्ट्वा प्लवङ्गं बलसंयुतः
विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत् ॥ २१ ॥
विश्वास-प्रस्तुतिः
तस्य बाणायुतैर्भग्नं बलं सर्वं रणाङ्गणे
पलायनपरं जातं चतुरङ्गसमन्वितम् ॥ २२ ॥
मूलम्
तस्य बाणायुतैर्भग्नं बलं सर्वं रणाङ्गणे
पलायनपरं जातं चतुरङ्गसमन्वितम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
तदा कपिपतिः कोपात्सुग्रीवो रक्षको महान्
अभ्यधावन्नगान्नैकानुत्पाट्य कुशमुद्भटम् ॥ २३ ॥
मूलम्
तदा कपिपतिः कोपात्सुग्रीवो रक्षको महान्
अभ्यधावन्नगान्नैकानुत्पाट्य कुशमुद्भटम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
कुशः सर्वान्प्रचिच्छेद लीलया प्रहसन्नगान्
पुनरप्यागतान्वृक्षांश्चिच्छेद तरसा बली ॥ २४ ॥
मूलम्
कुशः सर्वान्प्रचिच्छेद लीलया प्रहसन्नगान्
पुनरप्यागतान्वृक्षांश्चिच्छेद तरसा बली ॥ २४ ॥
विश्वास-प्रस्तुतिः
अनेकबाणव्यथितः सुग्रीवः समराङ्गणे
जग्राह पर्वतं घोरं कुशमस्तकमध्यतः ॥ २५ ॥
मूलम्
अनेकबाणव्यथितः सुग्रीवः समराङ्गणे
जग्राह पर्वतं घोरं कुशमस्तकमध्यतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
कुशस्तं नगमायान्तं वीक्ष्य बाणैरनेकधा
निष्पिपेष चकाराशु महारुद्राङ्गयोग्यताम् ॥ २६ ॥
मूलम्
कुशस्तं नगमायान्तं वीक्ष्य बाणैरनेकधा
निष्पिपेष चकाराशु महारुद्राङ्गयोग्यताम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम्
जयाशाप्रतिनिर्वृत्तो बभूव समराङ्गणे ॥ २७ ॥
मूलम्
सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम्
जयाशाप्रतिनिर्वृत्तो बभूव समराङ्गणे ॥ २७ ॥
विश्वास-प्रस्तुतिः
रणमध्ये दुराक्रान्तं कुशं लाङ्गूलताडकम्
अत्यमर्षीरुषाक्रान्तस्तं हन्तुं नगमाददे ॥ २८ ॥
मूलम्
रणमध्ये दुराक्रान्तं कुशं लाङ्गूलताडकम्
अत्यमर्षीरुषाक्रान्तस्तं हन्तुं नगमाददे ॥ २८ ॥
विश्वास-प्रस्तुतिः
आत्मानं हन्तुमुद्युक्तं वीक्ष्य सुग्रीवमादरात्
ताडयामास बहुभिः सायकैः शितपर्वभिः ॥ २९ ॥
मूलम्
आत्मानं हन्तुमुद्युक्तं वीक्ष्य सुग्रीवमादरात्
ताडयामास बहुभिः सायकैः शितपर्वभिः ॥ २९ ॥
विश्वास-प्रस्तुतिः
स ताडितो बहुविधैः शरैः पीडासमन्वितः
कुशं हन्तुं समारब्धो ययौ शालं समाददे ॥ ३० ॥
मूलम्
स ताडितो बहुविधैः शरैः पीडासमन्वितः
कुशं हन्तुं समारब्धो ययौ शालं समाददे ॥ ३० ॥
विश्वास-प्रस्तुतिः
तदापि च कुशो वीरो वारुणास्त्रं समाददे
बबन्ध तं च पाशेन दृढेन स लवाग्रजः ॥ ३१ ॥
मूलम्
तदापि च कुशो वीरो वारुणास्त्रं समाददे
बबन्ध तं च पाशेन दृढेन स लवाग्रजः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना
पपात रणमध्ये वै महावीरैरलङ्कृते ॥ ३२ ॥
मूलम्
स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना
पपात रणमध्ये वै महावीरैरलङ्कृते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
सुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः
जयमाप लवभ्राता महावीरशिरोमणिः ॥ ३३ ॥
मूलम्
सुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः
जयमाप लवभ्राता महावीरशिरोमणिः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तावल्लवो भटाञ्जित्वा पुष्कलं चाङ्गदं तथा
प्रतापाग्र्यं वीरमणिं तथान्यानपि भूभुजः ॥ ३४ ॥
मूलम्
तावल्लवो भटाञ्जित्वा पुष्कलं चाङ्गदं तथा
प्रतापाग्र्यं वीरमणिं तथान्यानपि भूभुजः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
जयं प्राप्य रणे वीरो लवो भ्रातरमागमत्
सङ्ग्रामे जयकर्तारं वैरिकोटिनिपातकम् ॥ ३५ ॥
मूलम्
जयं प्राप्य रणे वीरो लवो भ्रातरमागमत्
सङ्ग्रामे जयकर्तारं वैरिकोटिनिपातकम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
परस्परं प्रहृषितौ परिरम्भं प्रकुर्वतः
जयं प्राप्तौ तदा वार्तां मुने चक्रतुरुन्मदौ ॥ ३६ ॥
मूलम्
परस्परं प्रहृषितौ परिरम्भं प्रकुर्वतः
जयं प्राप्तौ तदा वार्तां मुने चक्रतुरुन्मदौ ॥ ३६ ॥
विश्वास-प्रस्तुतिः
लव उवाच
भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः
इदानीं वीररणकं शोधयावः सुशोभितम् ॥ ३७ ॥
मूलम्
लव उवाच
भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः
इदानीं वीररणकं शोधयावः सुशोभितम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा त्वरितं वीरो जग्मतुस्तौ कुशीलवौ
राज्ञो मौलिमणिं चित्रं जग्राह कनकाचितम् ॥ ३८ ॥
मूलम्
इत्युक्त्वा त्वरितं वीरो जग्मतुस्तौ कुशीलवौ
राज्ञो मौलिमणिं चित्रं जग्राह कनकाचितम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम्
अङ्गदे च महानर्घ्ये शत्रुघ्नस्यापरस्य च ॥ ३९ ॥
मूलम्
पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम्
अङ्गदे च महानर्घ्ये शत्रुघ्नस्यापरस्य च ॥ ३९ ॥
विश्वास-प्रस्तुतिः
गृहीत्वा शस्त्रसङ्घातं हनूमन्तं कपीश्वरम्
सुग्रीवं सविधे गत्वा उभावपि बबन्धतुः ॥ ४० ॥
मूलम्
गृहीत्वा शस्त्रसङ्घातं हनूमन्तं कपीश्वरम्
सुग्रीवं सविधे गत्वा उभावपि बबन्धतुः ॥ ४० ॥
विश्वास-प्रस्तुतिः
पुच्छे वायुसुतस्यायं गृहीत्वा तु कुशानुजः
भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमन्दिरम् ॥ ४१ ॥
मूलम्
पुच्छे वायुसुतस्यायं गृहीत्वा तु कुशानुजः
भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमन्दिरम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहम्
क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च ॥ ४२ ॥
मूलम्
आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहम्
क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च ॥ ४२ ॥
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा ततो वाक्यमुवाच च कुशो लवम्
अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम् ॥ ४३ ॥
मूलम्
एतच्छ्रुत्वा ततो वाक्यमुवाच च कुशो लवम्
अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरौ
पुच्छयोर्बलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति ॥ ४४ ॥
मूलम्
इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरौ
पुच्छयोर्बलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति ॥ ४४ ॥
विश्वास-प्रस्तुतिः
स्वाश्रमाय प्रगच्छन्तौ वीक्ष्य तौ कपिसत्तमौ
कम्पमानौ जगदतुरन्योन्यं भीतया गिरा ॥ ४५ ॥
मूलम्
स्वाश्रमाय प्रगच्छन्तौ वीक्ष्य तौ कपिसत्तमौ
कम्पमानौ जगदतुरन्योन्यं भीतया गिरा ॥ ४५ ॥
विश्वास-प्रस्तुतिः
हनूमान्कपिराजानं प्रत्युवाच भयार्द्रधीः
एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति ॥ ४६ ॥
मूलम्
हनूमान्कपिराजानं प्रत्युवाच भयार्द्रधीः
एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति ॥ ४६ ॥
विश्वास-प्रस्तुतिः
मया पूर्वं कृतं कर्म जानकीं प्रतिगच्छता
तत्र मे जानकी देवी सम्मुखाभून्मनोहरा ॥ ४७ ॥
मूलम्
मया पूर्वं कृतं कर्म जानकीं प्रतिगच्छता
तत्र मे जानकी देवी सम्मुखाभून्मनोहरा ॥ ४७ ॥
विश्वास-प्रस्तुतिः
सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा
तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति ॥ ४८ ॥
मूलम्
सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा
तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति ॥ ४८ ॥
विश्वास-प्रस्तुतिः
मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति
महद्दुःखं चापतितं स रामः किं करिष्यति ॥ ४९ ॥
मूलम्
मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति
महद्दुःखं चापतितं स रामः किं करिष्यति ॥ ४९ ॥
विश्वास-प्रस्तुतिः
सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे
नेष्यते यदि मामेवं निधनं तु भविष्यति ॥ ५० ॥
मूलम्
सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे
नेष्यते यदि मामेवं निधनं तु भविष्यति ॥ ५० ॥
विश्वास-प्रस्तुतिः
एवं कथयतोरेव ह्यन्योन्यं भयभीतयोः
कुशो लवश्च भवनं मातुः प्रापतुरोजसा ॥ ५१ ॥
मूलम्
एवं कथयतोरेव ह्यन्योन्यं भयभीतयोः
कुशो लवश्च भवनं मातुः प्रापतुरोजसा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तावायातौ समीक्ष्यैव जहर्ष जननी तयोः
अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ ॥ ५२ ॥
मूलम्
तावायातौ समीक्ष्यैव जहर्ष जननी तयोः
अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ ॥ ५२ ॥
विश्वास-प्रस्तुतिः
ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी
हनूमन्तं च सुग्रीवं सर्ववीरं कपीश्वरम् ॥ ५३ ॥
मूलम्
ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी
हनूमन्तं च सुग्रीवं सर्ववीरं कपीश्वरम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
जहास पाशबद्धौ तौ वीक्षमाणा वराङ्गना
उवाच च विमोक्षार्थं वदन्ती वचनं वरम् ॥ ५४ ॥
मूलम्
जहास पाशबद्धौ तौ वीक्षमाणा वराङ्गना
उवाच च विमोक्षार्थं वदन्ती वचनं वरम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
पुत्रौ प्रमुञ्चतं कीशौ महावीरौ महाबलौ
ईक्षन्तौ मां यदि स्फीतौ प्राणत्यागं करिष्यतः ॥ ५५ ॥
मूलम्
पुत्रौ प्रमुञ्चतं कीशौ महावीरौ महाबलौ
ईक्षन्तौ मां यदि स्फीतौ प्राणत्यागं करिष्यतः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
अयं वै हनुमान्वीरो यो ददाह दनोः पुरीम्
अयमप्यृक्षराजो हि सर्ववानरभूमिपः ॥ ५६ ॥
मूलम्
अयं वै हनुमान्वीरो यो ददाह दनोः पुरीम्
अयमप्यृक्षराजो हि सर्ववानरभूमिपः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
किमर्थं विधृतौ कुत्र किं वा कृतमनादरात्
पुच्छे युवाभ्यां विधृतौ स महान्विस्मयोऽस्ति मे ॥ ५७ ॥
मूलम्
किमर्थं विधृतौ कुत्र किं वा कृतमनादरात्
पुच्छे युवाभ्यां विधृतौ स महान्विस्मयोऽस्ति मे ॥ ५७ ॥
विश्वास-प्रस्तुतिः
इति मातुर्वचः श्लक्ष्णं वीक्ष्यतां पुत्रकौ तदा
ऊचतुर्विनयश्रेष्ठौ महाबलसमन्वितौ ॥ ५८ ॥
मूलम्
इति मातुर्वचः श्लक्ष्णं वीक्ष्यतां पुत्रकौ तदा
ऊचतुर्विनयश्रेष्ठौ महाबलसमन्वितौ ॥ ५८ ॥
विश्वास-प्रस्तुतिः
मातः कश्चन भूपालो रामो दाशरथिर्बली
तेन मुक्तो हयः स्वर्णभालपत्रः सुशोभितः ॥ ५९ ॥
मूलम्
मातः कश्चन भूपालो रामो दाशरथिर्बली
तेन मुक्तो हयः स्वर्णभालपत्रः सुशोभितः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तत्रैवं लिखितं मातरेकवीराप्रसूर्मम
ये क्षत्रियास्ते गृह्णन्तु नोचेत्पादतलार्चकाः ॥ ६० ॥
मूलम्
तत्रैवं लिखितं मातरेकवीराप्रसूर्मम
ये क्षत्रियास्ते गृह्णन्तु नोचेत्पादतलार्चकाः ॥ ६० ॥
विश्वास-प्रस्तुतिः
तदा मया विचारो वै कृतः स्वान्ते पतिव्रते
भवती क्षत्रिया किं न वीरसूः किं न वा भवेत् ॥ ६१ ॥
मूलम्
तदा मया विचारो वै कृतः स्वान्ते पतिव्रते
भवती क्षत्रिया किं न वीरसूः किं न वा भवेत् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
धार्ष्ट्यं तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया बलात्
जितं कुशेन वीरेण सैन्यं तत्पातितं रणे ॥ ६२ ॥
मूलम्
धार्ष्ट्यं तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया बलात्
जितं कुशेन वीरेण सैन्यं तत्पातितं रणे ॥ ६२ ॥
विश्वास-प्रस्तुतिः
मुकुटोऽयं भूमिपतेर्जानीहि पतिदेवते
अयमप्यन्यवीरस्य पुष्कलस्य महात्मनः ॥ ६३ ॥
मूलम्
मुकुटोऽयं भूमिपतेर्जानीहि पतिदेवते
अयमप्यन्यवीरस्य पुष्कलस्य महात्मनः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
जानीहि मुकुटं त्वन्यं मणिमुक्ताविराजितम्
अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः ॥ ६४ ॥
मूलम्
जानीहि मुकुटं त्वन्यं मणिमुक्ताविराजितम्
अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
आरोहणाय मद्भ्रातुर्जानीहि बलिनो वरे
इमौ कीशौ मया रन्तुमानीतौ बलिनां वरौ ॥ ६५ ॥
मूलम्
आरोहणाय मद्भ्रातुर्जानीहि बलिनो वरे
इमौ कीशौ मया रन्तुमानीतौ बलिनां वरौ ॥ ६५ ॥
विश्वास-प्रस्तुतिः
कौतुकार्थं तवैवैतौ सङ्ग्रामे युद्धकारकौ
इति वाक्यं समाकर्ण्य जानकी पतिदेवता ॥ ६६ ॥
मूलम्
कौतुकार्थं तवैवैतौ सङ्ग्रामे युद्धकारकौ
इति वाक्यं समाकर्ण्य जानकी पतिदेवता ॥ ६६ ॥
विश्वास-प्रस्तुतिः
जगाद पुत्रौ तौ वीरौ मोचयेथां पुनः पुनः
सीतोवाच
युवाभ्यामनयः सृष्टो हृतो रामहयो महान् ॥ ६७ ॥
मूलम्
जगाद पुत्रौ तौ वीरौ मोचयेथां पुनः पुनः
सीतोवाच
युवाभ्यामनयः सृष्टो हृतो रामहयो महान् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
अनेके पातिता वीरा इमौ बद्धौ कपीश्वरौ
पितुस्तव हयो वीरो यागार्थं मोचितोऽमुना ॥ ६८ ॥
मूलम्
अनेके पातिता वीरा इमौ बद्धौ कपीश्वरौ
पितुस्तव हयो वीरो यागार्थं मोचितोऽमुना ॥ ६८ ॥
विश्वास-प्रस्तुतिः
तस्यापि हृतवन्तौ किं वाजिनं मखसत्तमे
मुञ्चतं प्लवगावेतौ मुञ्चतं वाजिनां वरम् ॥ ६९ ॥
मूलम्
तस्यापि हृतवन्तौ किं वाजिनं मखसत्तमे
मुञ्चतं प्लवगावेतौ मुञ्चतं वाजिनां वरम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
क्षाम्यतां भूपतेर्भ्राता शत्रुघ्नः परकोपनः
जनन्यास्तद्वचः श्रुत्वा ऊचतुस्तां बलान्वितौ ॥ ७० ॥
मूलम्
क्षाम्यतां भूपतेर्भ्राता शत्रुघ्नः परकोपनः
जनन्यास्तद्वचः श्रुत्वा ऊचतुस्तां बलान्वितौ ॥ ७० ॥
विश्वास-प्रस्तुतिः
क्षात्रधर्मेण तं भूपं जितवन्तौ बलान्वितम्
नास्माकमनयोर्भावि क्षात्रधर्मेण युध्यताम् ॥ ७१ ॥
मूलम्
क्षात्रधर्मेण तं भूपं जितवन्तौ बलान्वितम्
नास्माकमनयोर्भावि क्षात्रधर्मेण युध्यताम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः ॥ ७२ ॥
मूलम्
वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
कण्वस्याश्रमकेवाहं धृत्वा यागक्रियोचितम्
तस्मात्सुतः स्वपित्रापि युध्येद्भ्रात्रापि चानुजः ॥ ७३ ॥
मूलम्
कण्वस्याश्रमकेवाहं धृत्वा यागक्रियोचितम्
तस्मात्सुतः स्वपित्रापि युध्येद्भ्रात्रापि चानुजः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
गुरुणा शिष्य एवापि तस्मान्नो पापसम्भवः
त्वदाज्ञातो ऽधुना चावां दास्यावो हयमुत्तमम् ॥ ७४ ॥
मूलम्
गुरुणा शिष्य एवापि तस्मान्नो पापसम्भवः
त्वदाज्ञातो ऽधुना चावां दास्यावो हयमुत्तमम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
मोक्ष्यावः कीशावेतौ हि करिष्यावो वचस्तव
इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ ॥ ७५ ॥
मूलम्
मोक्ष्यावः कीशावेतौ हि करिष्यावो वचस्तव
इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ ॥ ७५ ॥
विश्वास-प्रस्तुतिः
अमुञ्चतां हयं चापि हयमेधक्रियोचितम्
सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यं निपातितम् ॥ ७६ ॥
मूलम्
अमुञ्चतां हयं चापि हयमेधक्रियोचितम्
सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यं निपातितम् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
श्रीरामं मनसा ध्यात्वा भानुमैक्षत साक्षिणम्
यद्यहं मनसा वाचा कर्मणा रघुनायकम् ॥ ७७ ॥
मूलम्
श्रीरामं मनसा ध्यात्वा भानुमैक्षत साक्षिणम्
यद्यहं मनसा वाचा कर्मणा रघुनायकम् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
भजामि नान्यं मनसा तर्हि जीवेदयं नृपः
सैन्यं चापि महत्सर्वं यन्नाशितमिदं बलात् ॥ ७८ ॥
मूलम्
भजामि नान्यं मनसा तर्हि जीवेदयं नृपः
सैन्यं चापि महत्सर्वं यन्नाशितमिदं बलात् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
पुत्राभ्यां तत्तु जीवेत मत्सत्याज्जगताम्पते
इति यावद्वचो ब्रूते जानकीपतिदेवता ॥ ७९ ॥
मूलम्
पुत्राभ्यां तत्तु जीवेत मत्सत्याज्जगताम्पते
इति यावद्वचो ब्रूते जानकीपतिदेवता ॥ ७९ ॥
विश्वास-प्रस्तुतिः
तावद्बलं च तत्सर्वं जीवितं रणमूर्द्धनि ॥ ८० ॥
मूलम्
तावद्बलं च तत्सर्वं जीवितं रणमूर्द्धनि ॥ ८० ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सैन्यजीवनन्नाम चतुःषष्टितमोऽध्यायः ६४