०६३

शेष उवाच

विश्वास-प्रस्तुतिः

लवं विमूर्च्छितं दृष्ट्वा बलिवैरिविदारणम्
शत्रुघ्नो जयमापेदे रणमूर्ध्नि महाबलः ॥ १ ॥

मूलम्

लवं विमूर्च्छितं दृष्ट्वा बलिवैरिविदारणम्
शत्रुघ्नो जयमापेदे रणमूर्ध्नि महाबलः ॥ १ ॥

विश्वास-प्रस्तुतिः

लवं बालं रथे स्थाप्य शिरस्त्राणाद्यलङ्कृतम्
रामप्रतिनिधिं मूर्त्या ततो गन्तुमियेष सः ॥ २ ॥

मूलम्

लवं बालं रथे स्थाप्य शिरस्त्राणाद्यलङ्कृतम्
रामप्रतिनिधिं मूर्त्या ततो गन्तुमियेष सः ॥ २ ॥

विश्वास-प्रस्तुतिः

स्वमित्रं शत्रुणा ग्रस्तमिति दुःखसमन्विताः
बालामात्रेऽस्य सीतायै त्वरिताः सन्न्यवेदयन् ॥ ३ ॥

मूलम्

स्वमित्रं शत्रुणा ग्रस्तमिति दुःखसमन्विताः
बालामात्रेऽस्य सीतायै त्वरिताः सन्न्यवेदयन् ॥ ३ ॥

विश्वास-प्रस्तुतिः

बाला ऊचुः
मातर्जानकि ते पुत्रो बलाद्वाहमपाहरत्
कस्यचिद्भूपवर्यस्य बलयुक्तस्य मानिनः ॥ ४ ॥

मूलम्

बाला ऊचुः
मातर्जानकि ते पुत्रो बलाद्वाहमपाहरत्
कस्यचिद्भूपवर्यस्य बलयुक्तस्य मानिनः ॥ ४ ॥

विश्वास-प्रस्तुतिः

ततो युद्धमभूद्घोरं तस्य सैन्येन जानकि
तदा वीरेण पुत्रेण तव सर्वं निपातितम् ॥ ५ ॥

मूलम्

ततो युद्धमभूद्घोरं तस्य सैन्येन जानकि
तदा वीरेण पुत्रेण तव सर्वं निपातितम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

पश्चादपि जयं प्राप्तः सुतस्तव मनोहरः
तं भूपं मूर्छितं कृत्वा जयमाप रणाङ्गणे ॥ ६ ॥

मूलम्

पश्चादपि जयं प्राप्तः सुतस्तव मनोहरः
तं भूपं मूर्छितं कृत्वा जयमाप रणाङ्गणे ॥ ६ ॥

विश्वास-प्रस्तुतिः

ततो मूर्च्छां विहायैष राजा परमदारुणः
सङ्कुप्य पातयामास तव पुत्रं रणाङ्गणे ॥ ७ ॥

मूलम्

ततो मूर्च्छां विहायैष राजा परमदारुणः
सङ्कुप्य पातयामास तव पुत्रं रणाङ्गणे ॥ ७ ॥

विश्वास-प्रस्तुतिः

अस्माभिर्वारितः पूर्वं मा गृहाण हयोत्तमम्
अस्मान्सर्वांश्च धिक्कृत्य ब्राह्मणान्वेदपारगान् ॥ ८ ॥

मूलम्

अस्माभिर्वारितः पूर्वं मा गृहाण हयोत्तमम्
अस्मान्सर्वांश्च धिक्कृत्य ब्राह्मणान्वेदपारगान् ॥ ८ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं शिशूनां सा समाकर्ण्य सुदारुणम्
पपात भूतलोपस्थे दुःखयुक्ता रुरोद ह ॥ ९ ॥

मूलम्

इति वाक्यं शिशूनां सा समाकर्ण्य सुदारुणम्
पपात भूतलोपस्थे दुःखयुक्ता रुरोद ह ॥ ९ ॥

विश्वास-प्रस्तुतिः

सीतोवाच
कथं नृपो दयाहीनो बालेन सह युध्यति
अधर्मकृतदुर्बुद्धिर्यो मद्बालं न्यपातयत् ॥ १० ॥

मूलम्

सीतोवाच
कथं नृपो दयाहीनो बालेन सह युध्यति
अधर्मकृतदुर्बुद्धिर्यो मद्बालं न्यपातयत् ॥ १० ॥

विश्वास-प्रस्तुतिः

लव वीरभवान्कुत्र वर्ततेऽति बलान्वितः
कथं त्वं निष्कृपस्याहो राज्ञोऽहार्षीद्धयोत्तमम् ॥ ११ ॥

मूलम्

लव वीरभवान्कुत्र वर्ततेऽति बलान्वितः
कथं त्वं निष्कृपस्याहो राज्ञोऽहार्षीद्धयोत्तमम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

त्वं बालस्ते दुराक्रान्ताः सर्वशस्त्रविशारदाः
रथस्था विरथस्त्वं वै कथं युद्धं समं भवेत् ॥ १२ ॥

मूलम्

त्वं बालस्ते दुराक्रान्ताः सर्वशस्त्रविशारदाः
रथस्था विरथस्त्वं वै कथं युद्धं समं भवेत् ॥ १२ ॥

विश्वास-प्रस्तुतिः

ताताहं तु त्वया सार्द्धं रामत्यागासुखं जहौ
इदानीं रहिता युष्मत्कथं जीवामि कानने ॥ १३ ॥

मूलम्

ताताहं तु त्वया सार्द्धं रामत्यागासुखं जहौ
इदानीं रहिता युष्मत्कथं जीवामि कानने ॥ १३ ॥

विश्वास-प्रस्तुतिः

एहि मां मुञ्च यज्ञाश्वं गच्छत्वेष महीपतिः
मद्दुःखं नाभिजानासि मम दुःखप्रमार्जकः ॥ १४ ॥

मूलम्

एहि मां मुञ्च यज्ञाश्वं गच्छत्वेष महीपतिः
मद्दुःखं नाभिजानासि मम दुःखप्रमार्जकः ॥ १४ ॥

विश्वास-प्रस्तुतिः

कुशो यद्यभविष्यत्स रणे वीरशिरोमणिः
अमोचयिष्यदधुना भवन्तं भूपपार्श्वतः ॥ १५ ॥

मूलम्

कुशो यद्यभविष्यत्स रणे वीरशिरोमणिः
अमोचयिष्यदधुना भवन्तं भूपपार्श्वतः ॥ १५ ॥

विश्वास-प्रस्तुतिः

सोऽपि मद्दैवतो नास्ति समीपे किं करोम्यतः
दैवमेव ममाप्यत्र कारणं दुःखसम्भवे ॥ १६ ॥

मूलम्

सोऽपि मद्दैवतो नास्ति समीपे किं करोम्यतः
दैवमेव ममाप्यत्र कारणं दुःखसम्भवे ॥ १६ ॥

विश्वास-प्रस्तुतिः

एवमादि बहुश्रीमत्येषा वै विललाप ह
पादाङ्गुष्ठेन लिखती भूमिं नेत्रद्वयाश्रुभिः ॥ १७ ॥

मूलम्

एवमादि बहुश्रीमत्येषा वै विललाप ह
पादाङ्गुष्ठेन लिखती भूमिं नेत्रद्वयाश्रुभिः ॥ १७ ॥

विश्वास-प्रस्तुतिः

बालान्प्रति जगादासौ पृथुकः स च भूपतिः
कथं मत्सुतमापात्य रणे कुत्र गमिष्यति ॥ १८ ॥

मूलम्

बालान्प्रति जगादासौ पृथुकः स च भूपतिः
कथं मत्सुतमापात्य रणे कुत्र गमिष्यति ॥ १८ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं वदत्येषा जानकी पतिदेवता
तावत्कुशस्तु सम्प्राप्त उज्जयिन्या महर्षिभिः ॥ १९ ॥

मूलम्

इति वाक्यं वदत्येषा जानकी पतिदेवता
तावत्कुशस्तु सम्प्राप्त उज्जयिन्या महर्षिभिः ॥ १९ ॥

विश्वास-प्रस्तुतिः

माघासितचतुर्दश्यां महाकालं समर्च्य च
प्राप्य भूरिवरांस्तस्मादागमन्मातृसन्निधौ ॥ २० ॥

मूलम्

माघासितचतुर्दश्यां महाकालं समर्च्य च
प्राप्य भूरिवरांस्तस्मादागमन्मातृसन्निधौ ॥ २० ॥

विश्वास-प्रस्तुतिः

जानकीं विह्वलां दृष्ट्वा नेत्रोद्भूताश्रु विक्लवाम्
शोकविह्वलदीनाङ्गीं बभाषे यावदुत्सुकः ॥ २१ ॥

मूलम्

जानकीं विह्वलां दृष्ट्वा नेत्रोद्भूताश्रु विक्लवाम्
शोकविह्वलदीनाङ्गीं बभाषे यावदुत्सुकः ॥ २१ ॥

विश्वास-प्रस्तुतिः

तदा स्वबाहुरवदत्स्फुरद्युद्धाभिशंसनः
हृदये चरणोत्साहो बभूवातिरथस्य हि ॥ २२ ॥

मूलम्

तदा स्वबाहुरवदत्स्फुरद्युद्धाभिशंसनः
हृदये चरणोत्साहो बभूवातिरथस्य हि ॥ २२ ॥

विश्वास-प्रस्तुतिः

स प्रत्युवाच जननीं दीनगद्गदभाषिणीम्
मातस्तव गतं दुःखं मयि पुत्र उपस्थिते ॥ २३ ॥

मूलम्

स प्रत्युवाच जननीं दीनगद्गदभाषिणीम्
मातस्तव गतं दुःखं मयि पुत्र उपस्थिते ॥ २३ ॥

विश्वास-प्रस्तुतिः

मयि जीवति ते नेत्रादश्रूणि भुवि नो पतन्
प्रसूमुवाचाश्रुखिन्नां दीनगद्गदभाषिणीम् ॥ २४ ॥

मूलम्

मयि जीवति ते नेत्रादश्रूणि भुवि नो पतन्
प्रसूमुवाचाश्रुखिन्नां दीनगद्गदभाषिणीम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

कुशो दुःखमितः सद्यो दुःखितां धीरमानसः
मम भ्राता लवः कुत्र वर्तते वैरिमर्दनः ॥ २५ ॥

मूलम्

कुशो दुःखमितः सद्यो दुःखितां धीरमानसः
मम भ्राता लवः कुत्र वर्तते वैरिमर्दनः ॥ २५ ॥

विश्वास-प्रस्तुतिः

सदा मामागतं ज्ञात्वा प्रहर्षन्सन्निधावियात्
न दृश्यते कथं वीरः कुत्र रन्तुं गतो बली ॥ २६ ॥

मूलम्

सदा मामागतं ज्ञात्वा प्रहर्षन्सन्निधावियात्
न दृश्यते कथं वीरः कुत्र रन्तुं गतो बली ॥ २६ ॥

विश्वास-प्रस्तुतिः

केन वा सह बालत्वाद्गतो मां वै निरीक्षितुम्
किं त्वं रोदिषि मे मातर्लवः कुत्र स वर्तते ॥ २७ ॥

मूलम्

केन वा सह बालत्वाद्गतो मां वै निरीक्षितुम्
किं त्वं रोदिषि मे मातर्लवः कुत्र स वर्तते ॥ २७ ॥

विश्वास-प्रस्तुतिः

तन्मे कथय सर्वं यत्तव दुःखस्य कारणम्
तच्छ्रुत्वा पुत्रवाक्यं सा दुःखिता कुशमब्रवीत् ॥ २८ ॥

मूलम्

तन्मे कथय सर्वं यत्तव दुःखस्य कारणम्
तच्छ्रुत्वा पुत्रवाक्यं सा दुःखिता कुशमब्रवीत् ॥ २८ ॥

विश्वास-प्रस्तुतिः

लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा
बबन्ध बालको मेत्र हयं यागक्रियोचितम् ॥ २९ ॥

मूलम्

लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा
बबन्ध बालको मेत्र हयं यागक्रियोचितम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

तद्रक्षकान्बहूञ्जिग्ये एकोऽनेकान्रिपून्बली
राजा तं मूर्च्छितं कृत्वा बबन्ध रणमूर्धनि ॥ ३० ॥

मूलम्

तद्रक्षकान्बहूञ्जिग्ये एकोऽनेकान्रिपून्बली
राजा तं मूर्च्छितं कृत्वा बबन्ध रणमूर्धनि ॥ ३० ॥

विश्वास-प्रस्तुतिः

बालका इति मामूचुः सहगन्तार एव हि
ततोऽहं दुःखिता जाता निशम्य लवमाधृतम् ॥ ३१ ॥

मूलम्

बालका इति मामूचुः सहगन्तार एव हि
ततोऽहं दुःखिता जाता निशम्य लवमाधृतम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

त्वं मोचय बलात्तस्मात्काले प्राप्तो नृपोत्तमात्
निशम्य मातुर्वचनं कुशः कोपसमन्वितः
जगाद तां दशन्नोष्ठं दन्तैर्दन्तान्विनिष्पिषन् ॥ ३२ ॥

मूलम्

त्वं मोचय बलात्तस्मात्काले प्राप्तो नृपोत्तमात्
निशम्य मातुर्वचनं कुशः कोपसमन्वितः
जगाद तां दशन्नोष्ठं दन्तैर्दन्तान्विनिष्पिषन् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

कुश उवाच
मातर्जानीहि तं मुक्तं लवं पाशस्य बन्धनात्
इदानीं हन्मि तं बाणैः समग्रबलवाहनम् ॥ ३३ ॥

मूलम्

कुश उवाच
मातर्जानीहि तं मुक्तं लवं पाशस्य बन्धनात्
इदानीं हन्मि तं बाणैः समग्रबलवाहनम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

यदि देवोऽमरो वापि यदि शर्वः समागतः
तथापि मोचये तस्माद्बाणैर्निशितपर्वभिः ॥ ३४ ॥

मूलम्

यदि देवोऽमरो वापि यदि शर्वः समागतः
तथापि मोचये तस्माद्बाणैर्निशितपर्वभिः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

मा रोदिषि मातरिह वीराणां रणमूर्छितम्
कीर्तयेऽत्र भवत्येव पलायनमकीर्तये ॥ ३५ ॥

मूलम्

मा रोदिषि मातरिह वीराणां रणमूर्छितम्
कीर्तयेऽत्र भवत्येव पलायनमकीर्तये ॥ ३५ ॥

विश्वास-प्रस्तुतिः

देहि मे कवचं दिव्यं धनुर्गुणसमन्वितम्
शिरस्त्राणं च मे मातः करवालं तथाशितम् ॥ ३६ ॥

मूलम्

देहि मे कवचं दिव्यं धनुर्गुणसमन्वितम्
शिरस्त्राणं च मे मातः करवालं तथाशितम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

इदानीं यामि समरे पातयामि बलं महत्
मोचयामि भ्रातरं स्वं रणमध्याद्विमूर्छितम् ॥ ३७ ॥

मूलम्

इदानीं यामि समरे पातयामि बलं महत्
मोचयामि भ्रातरं स्वं रणमध्याद्विमूर्छितम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

न मोचयाम्यद्य पुत्रं तव मातर्महारणात्
तदा तौ मे भवत्पादौ संरुष्टौ भवतां क्षितौ ॥ ३८ ॥

मूलम्

न मोचयाम्यद्य पुत्रं तव मातर्महारणात्
तदा तौ मे भवत्पादौ संरुष्टौ भवतां क्षितौ ॥ ३८ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इति वाक्येन सन्तुष्टा जानकी शुभलक्षणा
सर्वं प्रादादस्त्रवृन्दं जयाशीर्भिर्नियुज्यतम् ॥ ३९ ॥

मूलम्

शेष उवाच
इति वाक्येन सन्तुष्टा जानकी शुभलक्षणा
सर्वं प्रादादस्त्रवृन्दं जयाशीर्भिर्नियुज्यतम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

प्रयाहि पुत्र सङ्ग्रामं लवं मोचय मूर्च्छितम्
इत्याज्ञप्तः कुशः सङ्ख्ये कवची कुण्डली बली ॥ ४० ॥

मूलम्

प्रयाहि पुत्र सङ्ग्रामं लवं मोचय मूर्च्छितम्
इत्याज्ञप्तः कुशः सङ्ख्ये कवची कुण्डली बली ॥ ४० ॥

विश्वास-प्रस्तुतिः

मुकुटी करवाली च चर्मधारी धनुर्धरः
अक्षयाविषुधी कृत्वा स्कन्धयोः सिंहवीर्ययोः ॥ ४१ ॥

मूलम्

मुकुटी करवाली च चर्मधारी धनुर्धरः
अक्षयाविषुधी कृत्वा स्कन्धयोः सिंहवीर्ययोः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

जगाम तरसा नत्वा मातृपादौ रथाग्रणीः
वेगेन यावद्युद्धाय गच्छति क्षिप्रमाहवे ॥ ४२ ॥

मूलम्

जगाम तरसा नत्वा मातृपादौ रथाग्रणीः
वेगेन यावद्युद्धाय गच्छति क्षिप्रमाहवे ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तावद्ददर्श स्वलवं वैरिवृन्दनिपातकम्
आयान्तं तं कुशं वीरा ददृशुः सुमहाभटाः ॥ ४३ ॥

मूलम्

तावद्ददर्श स्वलवं वैरिवृन्दनिपातकम्
आयान्तं तं कुशं वीरा ददृशुः सुमहाभटाः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

कृतान्तमिव संहर्तुं सर्वं विश्वमुपस्थितम्
लवो महाबलं दृष्ट्वा कुशं भ्रातरमागतम् ॥ ४४ ॥

मूलम्

कृतान्तमिव संहर्तुं सर्वं विश्वमुपस्थितम्
लवो महाबलं दृष्ट्वा कुशं भ्रातरमागतम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

अत्यन्तं वह्निवद्युद्धे दिदीपे वायुना समम्
रथादुन्मुच्य चात्मानं युद्धाय स विनिर्गतः ॥ ४५ ॥

मूलम्

अत्यन्तं वह्निवद्युद्धे दिदीपे वायुना समम्
रथादुन्मुच्य चात्मानं युद्धाय स विनिर्गतः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

कुशः सर्वान्रणस्थान्वै वीरान्पूर्वदिशि क्षिपत्
पश्चिमायां दिशि लवः कोपात्सर्वान्समैरयत् ॥ ४६ ॥

मूलम्

कुशः सर्वान्रणस्थान्वै वीरान्पूर्वदिशि क्षिपत्
पश्चिमायां दिशि लवः कोपात्सर्वान्समैरयत् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

कुशबाणव्यथाव्याप्ता लवसायकपीडिताः
सैन्ये जना मुने सर्वे उत्कल्लोलाम्बुधिभ्रमाः ४७ उत्कल
कुशेन च लवेनाथ शरव्रातैः प्रपीडितम्
न शर्म लेभे सकलं सैन्यं वीरप्रपूरितम् ॥ ४८ ॥

मूलम्

कुशबाणव्यथाव्याप्ता लवसायकपीडिताः
सैन्ये जना मुने सर्वे उत्कल्लोलाम्बुधिभ्रमाः ४७ उत्कल
कुशेन च लवेनाथ शरव्रातैः प्रपीडितम्
न शर्म लेभे सकलं सैन्यं वीरप्रपूरितम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

इतस्ततः प्रभग्नं तद्बलं त्रस्तं पुनः पुनः
न कुत्रचिद्रणे स्थित्वा युद्धमैच्छद्बलान्वितः ॥ ४९ ॥

मूलम्

इतस्ततः प्रभग्नं तद्बलं त्रस्तं पुनः पुनः
न कुत्रचिद्रणे स्थित्वा युद्धमैच्छद्बलान्वितः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्समये राजा शत्रुघ्नः परतापनः
कुशं वीरं ययौ योद्धुं तादृशं लवसन्निभम् ॥ ५० ॥

मूलम्

एतस्मिन्समये राजा शत्रुघ्नः परतापनः
कुशं वीरं ययौ योद्धुं तादृशं लवसन्निभम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

कुशं दृष्ट्वा बलाक्रान्तं राममूर्तिसमप्रभम्
रथे तिष्ठन्हेममये जगाद परवीरहा ॥ ५१ ॥

मूलम्

कुशं दृष्ट्वा बलाक्रान्तं राममूर्तिसमप्रभम्
रथे तिष्ठन्हेममये जगाद परवीरहा ॥ ५१ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्न उवाच
कोऽसि त्वं सन्निभो भ्रात्रा लवेन सुमहाबलः
किं नामासि महावीर कस्ते तातः क्व ते प्रसूः ॥ ५२ ॥

मूलम्

शत्रुघ्न उवाच
कोऽसि त्वं सन्निभो भ्रात्रा लवेन सुमहाबलः
किं नामासि महावीर कस्ते तातः क्व ते प्रसूः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

कथं वने द्विजैर्जुष्टे तिष्ठसि त्वं नरर्षभ
सर्वं शंस यथायुध्ये त्वया सह महाबल ॥ ५३ ॥

मूलम्

कथं वने द्विजैर्जुष्टे तिष्ठसि त्वं नरर्षभ
सर्वं शंस यथायुध्ये त्वया सह महाबल ॥ ५३ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं समाकर्ण्य कुशः प्रोवाच भूमिपम्
मेघगम्भीरया वाचा नादयन्रणमण्डलम् ॥ ५४ ॥

मूलम्

इति वाक्यं समाकर्ण्य कुशः प्रोवाच भूमिपम्
मेघगम्भीरया वाचा नादयन्रणमण्डलम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

केवलं सुषुवे सीता पतिव्रतपरायणा
वने वसावो वाल्मीकेश्चरणार्चनतत्परौ ॥ ५५ ॥

मूलम्

केवलं सुषुवे सीता पतिव्रतपरायणा
वने वसावो वाल्मीकेश्चरणार्चनतत्परौ ॥ ५५ ॥

विश्वास-प्रस्तुतिः

मातृसेवासमुद्युक्तौ सर्वविद्याविशारदौ
कुशो लव इति प्रख्यामागतौ भूपतेऽनघ ॥ ५६ ॥

मूलम्

मातृसेवासमुद्युक्तौ सर्वविद्याविशारदौ
कुशो लव इति प्रख्यामागतौ भूपतेऽनघ ॥ ५६ ॥

विश्वास-प्रस्तुतिः

कस्त्वं वीरो रणश्लाघी किमर्थं हयसत्तमः
मुक्तोऽस्ति समरे त्वद्य जेतासि बलसंयुतः ॥ ५७ ॥

मूलम्

कस्त्वं वीरो रणश्लाघी किमर्थं हयसत्तमः
मुक्तोऽस्ति समरे त्वद्य जेतासि बलसंयुतः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

युध्यस्व त्वं मया सार्द्धं यदि वीरोऽसि भूमिप
इदानीं पातयिष्यामि भवन्तं रणमूर्धनि ॥ ५८ ॥

मूलम्

युध्यस्व त्वं मया सार्द्धं यदि वीरोऽसि भूमिप
इदानीं पातयिष्यामि भवन्तं रणमूर्धनि ॥ ५८ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नस्तं सुतं ज्ञात्वा सीताया रामसम्भवम्
विसिष्माय स्वयं चित्ते कोपाद्धनुरुपाददत् ॥ ५९ ॥

मूलम्

शत्रुघ्नस्तं सुतं ज्ञात्वा सीताया रामसम्भवम्
विसिष्माय स्वयं चित्ते कोपाद्धनुरुपाददत् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तमात्तधनुषं दृष्ट्वा कुशः कोपसमन्वितः
विस्फारयामास धनुः स्वीयं सुदृढमुत्तमम् ॥ ६० ॥

मूलम्

तमात्तधनुषं दृष्ट्वा कुशः कोपसमन्वितः
विस्फारयामास धनुः स्वीयं सुदृढमुत्तमम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

मुमोच बाणान्निशिताञ्छत्रुघ्नः सर्वशस्त्रवित्
तांश्चिच्छेद कुशः सर्वांल्लीलया प्रहसन्रणे ॥ ६१ ॥

मूलम्

मुमोच बाणान्निशिताञ्छत्रुघ्नः सर्वशस्त्रवित्
तांश्चिच्छेद कुशः सर्वांल्लीलया प्रहसन्रणे ॥ ६१ ॥

विश्वास-प्रस्तुतिः

बाणाश्च शतसाहस्राः कुशस्य च नृपस्य च
भुवनं व्याप्नुवन्सर्वं तच्चित्रमभवन्मुने ॥ ६२ ॥

मूलम्

बाणाश्च शतसाहस्राः कुशस्य च नृपस्य च
भुवनं व्याप्नुवन्सर्वं तच्चित्रमभवन्मुने ॥ ६२ ॥

विश्वास-प्रस्तुतिः

अग्न्यस्त्रेण कुशः सर्वान्ददाह तरसा बली
शमयामास तं भूपः पर्जन्यास्त्रेण वीर्यवान् ॥ ६३ ॥

मूलम्

अग्न्यस्त्रेण कुशः सर्वान्ददाह तरसा बली
शमयामास तं भूपः पर्जन्यास्त्रेण वीर्यवान् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

शमयामास तं भूपो वायव्येनातिविक्रमः
तदा वायुरभूत्तीव्रः सर्वतो रणमण्डले
पर्वतास्त्रेण तं वायुं क्षोभयन्तं समावृणोत् ॥ ६४ ॥

मूलम्

शमयामास तं भूपो वायव्येनातिविक्रमः
तदा वायुरभूत्तीव्रः सर्वतो रणमण्डले
पर्वतास्त्रेण तं वायुं क्षोभयन्तं समावृणोत् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

वज्रास्त्रेण नृपः सङ्ख्ये चिच्छेद सनगोपलान्
तदा नारायणास्त्रं स मुमोच कुश उद्भटः
नारायणं तदा भूपं नाशकत्परिबाधितुम् ॥ ६५ ॥

मूलम्

वज्रास्त्रेण नृपः सङ्ख्ये चिच्छेद सनगोपलान्
तदा नारायणास्त्रं स मुमोच कुश उद्भटः
नारायणं तदा भूपं नाशकत्परिबाधितुम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

तदा प्रकुपितोऽत्यतं कुशः कोपपरायणः
उवाच भूपं शत्रुघ्नं महाबलपराक्रमम् ॥ ६६ ॥

मूलम्

तदा प्रकुपितोऽत्यतं कुशः कोपपरायणः
उवाच भूपं शत्रुघ्नं महाबलपराक्रमम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

जानामि त्वां महावीरं सङ्ग्रामे जयकारिणम्
यत्त्वां नारायणास्त्रं मे न बबाधे भयानकम् ॥ ६७ ॥

मूलम्

जानामि त्वां महावीरं सङ्ग्रामे जयकारिणम्
यत्त्वां नारायणास्त्रं मे न बबाधे भयानकम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

इदानीं पातयाम्यद्य भूमौ त्वां नृपते शरैः
त्रिभिश्चेन्नकरोम्येतत्प्रतिज्ञां तर्हि मे शृणु ॥ ६८ ॥

मूलम्

इदानीं पातयाम्यद्य भूमौ त्वां नृपते शरैः
त्रिभिश्चेन्नकरोम्येतत्प्रतिज्ञां तर्हि मे शृणु ॥ ६८ ॥

विश्वास-प्रस्तुतिः

यो मनुष्यवपुः प्राप्य दुर्लभं पुण्यकोटिभिः
तन्नाद्रियेत सम्मोहात्तस्य मेस्त्वत्र पातकम् ॥ ६९ ॥

मूलम्

यो मनुष्यवपुः प्राप्य दुर्लभं पुण्यकोटिभिः
तन्नाद्रियेत सम्मोहात्तस्य मेस्त्वत्र पातकम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

सावधानो भवानत्र भवतु प्रधनाङ्गणे
पातयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने ॥ ७० ॥

मूलम्

सावधानो भवानत्र भवतु प्रधनाङ्गणे
पातयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने ॥ ७० ॥

विश्वास-प्रस्तुतिः

शरं संरोपयामास घोरं कालानलप्रभम्
लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महत् ॥ ७१ ॥

मूलम्

शरं संरोपयामास घोरं कालानलप्रभम्
लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महत् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

तं सन्धितं शरं दृष्ट्वा शत्रुघ्नः कोपमूर्च्छितः
मुमोच बाणान्निशितान्कुशत्वग्भेदकारकान् ॥ ७२ ॥

मूलम्

तं सन्धितं शरं दृष्ट्वा शत्रुघ्नः कोपमूर्च्छितः
मुमोच बाणान्निशितान्कुशत्वग्भेदकारकान् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

स बाणो हृदयं तस्य भेत्तुं तत्प्रचचाल वै
घोररूपो वह्निसमआशीविषवदुच्छ्वसन् ॥ ७३ ॥

मूलम्

स बाणो हृदयं तस्य भेत्तुं तत्प्रचचाल वै
घोररूपो वह्निसमआशीविषवदुच्छ्वसन् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

स बाणो नृपवर्येण रामं स्मृत्वाशुलक्षितः
चिच्छेद कुशमुक्तं स सायकं शितपर्वकम् ॥ ७४ ॥

मूलम्

स बाणो नृपवर्येण रामं स्मृत्वाशुलक्षितः
चिच्छेद कुशमुक्तं स सायकं शितपर्वकम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

तदात्यन्तं प्रकुपितः कुशो बाणस्य कृन्तनात्
अपरं सायकं चापे दधार शितपर्वकम् ॥ ७५ ॥

मूलम्

तदात्यन्तं प्रकुपितः कुशो बाणस्य कृन्तनात्
अपरं सायकं चापे दधार शितपर्वकम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

स यावत्तदुरो भेत्तुं करोति च बलोद्धुरः
तं तावदच्छिनत्तस्य शरं कालानलप्रभम् ॥ ७६ ॥

मूलम्

स यावत्तदुरो भेत्तुं करोति च बलोद्धुरः
तं तावदच्छिनत्तस्य शरं कालानलप्रभम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः
तृतीयं चापके स्वीये दधार शरमद्भुतम् ॥ ७७ ॥

मूलम्

तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः
तृतीयं चापके स्वीये दधार शरमद्भुतम् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नस्तमपि क्षिप्रं च्छेत्तुं बाणं समाददे
तावद्विद्धः शरेणासौ पपात धरणीतले ॥ ७८ ॥

मूलम्

शत्रुघ्नस्तमपि क्षिप्रं च्छेत्तुं बाणं समाददे
तावद्विद्धः शरेणासौ पपात धरणीतले ॥ ७८ ॥

विश्वास-प्रस्तुतिः

हाहाकारो महानासीच्छत्रुघ्ने विनिपातिते
जयमापकुशस्तत्र स्वबाहुबलदर्पितः ॥ ७९ ॥

मूलम्

हाहाकारो महानासीच्छत्रुघ्ने विनिपातिते
जयमापकुशस्तत्र स्वबाहुबलदर्पितः ॥ ७९ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
शत्रुघ्नमूर्च्छने कुशजयोनाम त्रिषष्टितमोऽध्यायः ६३